श्रीकार्तिकेयाष्टोत्तरशतनामावलिः
ध्यानम् -
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रत्नाङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
ॐ ब्रह्मवादिने नमः । ब्रह्मणे । ब्रह्मब्राह्मणवत्सलाय । ब्रह्मण्याय ।
ब्रह्मदेवाय । ब्रह्मदाय । ब्रह्मसङ्ग्रहाय । पराय । परमाय
तेजसे । मङ्गलानाञ्च मङ्गलाय । अप्रमेयगुणाय । मन्त्राणां
मन्त्रगाय । सावित्रीमयाय देवाय । सर्वत्रैवापराजिताय । मन्त्राय ।
सर्वात्मकाय । देवाय । षडक्षरवतां वराय । गवां पुत्राय ।
सुरारिघ्नाय नमः । २०
ॐ सम्भवाय नमः । भवभावनाय । पिनाकिने । शत्रुघ्ने ।
कूटाय । स्कन्दाय । सुराग्रण्ये । द्वादशाय । भुवे । भुवाय ।
भाविने । भुवःपुत्राय । नमस्कृताय । नागराजाय । सुधर्मात्मने ।
नाकपृष्ठाय । सनातनाय । हेमगर्भाय । महागर्भाय ।
जयाय नमः । ४०
ॐ विजयेश्वराय नमः । कर्त्रे । विधात्रे । नित्याय । अनित्याय ।
अरिमर्दनाय । महासेनाय । महातेजसे । वीरसेनाय । चमूपतये ।
सुरसेनाय । सुराध्यक्षाय । भीमसेनाय । निरामयाय । शौरये ।
यदवे । महातेजसे । वीर्यवते । सत्यविक्रमाय ।
तेजोगर्भाय नमः । ६०
ॐ असुररिपवे नमः । सुरमूर्तये । सुरोर्जिताय । कृतज्ञाय ।
वरदाय । सत्याय । शरण्याय । साधुवत्सलाय । सुव्रताय ।
सूर्यसङ्काशाय । वह्निगर्भाय । रणोत्सुकाय । पिप्पलिने ।
शीघ्रगाय । रौद्रये । गाङ्गेयाय । रिपुदारणाय । कार्तिकेयाय ।
प्रभवे । क्षान्ताय नमः । ८०
ॐ नीलदंष्ट्राय नमः । महामनसे । निग्रहाय । निग्रहाणां नेत्रे ।
दैत्यसूदनाय । प्रग्रहाय । परमानन्दाय । क्रोधघ्नाय ।
तारकोऽच्छिदाय । कुक्कुटिने । बहुलाय । वादिने । कामदाय ।
भूरिवर्धनाय । अमोघाय । अमृतदाय । अग्नये । शत्रुघ्नाय ।
सर्वबोधनाय । अनघाय नमः । १००
ॐ अमराय नमः । श्रीमते । उन्नताय । अग्निसम्भवाय ।
पिशाचराजाय । सूर्याभाय । शिवात्मने । सनातनाय नमः । १०८
इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डान्तर्गते कुमारिकाखण्डे
श्रीकार्तिकेयाष्टोत्तरशतनामावलिः सम्पूर्णा ॥
Encoded and proofread by Karthik Raman