श्रीकुमारत्रिशती

श्रीकुमारत्रिशती

शत्रुंजयत्रिशती ॐ अस्य श्रीकुमारत्रिशतीमहामन्त्रस्य मार्कण्डेय ऋषिः । अनुष्टुप्छन्दः । कुमारषण्मुखो देवता । कुमार इति बीजम् । शाख इति शक्तिः । विशाख इति कीलकम् । नेजमेष इत्यर्गलम् । कार्तिकेय इति कवचम् । षण्मुख इति ध्यानम् ॥ ध्यानम् - ध्यायेत् षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत् केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ ध्यायेदीप्सितसिद्धिदं भवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ अरिन्दमः कुमारश्च गुहस्स्कन्दो महाबलः । रुद्रप्रियो महाबाहुराग्नेयश्च महेश्वरः ॥ १ ॥ रुद्रसुतो गणाध्यक्षः उग्रबाहुर्गुहाश्रयः । शरजो वीरहा उग्रो लोहिताक्षः सुलोचनः ॥ २ ॥ मयूरवाहनः श्रेष्ठः शत्रुजिच्छत्रुनाशनः । षष्ठीप्रिय उमापुत्रः कार्तिकेयो भयानकः ॥ ३ ॥ शक्तिपाणिर्महेष्वासो महासेनः सनातनः । सुब्रह्मण्यो विशाखश्च ब्रह्मण्यो ब्राह्मणप्रियः ॥ ४ ॥ नेजमेषो महावीरः शाखो धूर्तो रणप्रियः । चोराचार्यो विहर्ता च स्थविरः सुमनोहरः ॥ ५ ॥ प्रणवो देवसेनेशो दक्षो दर्पणशोभितः । बालरूपो ब्रह्मगर्भो भीमो (५०) भीमपराक्रमः ॥ ६ ॥ श्रीमान् शिष्टः शुचिः शीघ्रः शाश्वतः शिखिवाहनः । बाहुलेयो बृहद्बाहुर्बलिष्ठो बलवान्बली । एकवीरो महामान्यः सुमेधा रोगनाशनः । रक्ताम्बरो महामायी बहुरूपो गणेश्वरः ॥ ८ ॥ इषुहस्तो महाधन्वी क्रौञ्चभिदघनाशकः । भिच्चाघनाशकः (for metre matching) बालग्रहो बृहद्रूपो महाशक्तिर्महाद्युतिः ॥ ९ ॥ उग्रवीर्यो महामन्युः रुचिरो रुद्रसम्भवः । भद्रशाखो महापुण्यो महोत्साहः कलाधरः ॥ १० ॥ नन्दिकेशप्रियो देवो ललितो लोकनायकः । विद्वत्तमो विरोधिघ्नो विशोको वज्रधारकः ॥ ११ ॥ श्रीकरः सुमनाः सूक्ष्मः सुघोषः सुखदः सुहृत् (१००) । वह्निजन्मा हरिद्वर्णः सेनानी रेवतीप्रियः ॥ १२ ॥ रत्नार्ची रञ्जनो वीरो विशिष्टः शुभलक्षणः । अर्कपुष्पार्चितः शुद्धो वृद्धिकागणसेवितः ॥ १३ ॥ कुङ्कुमाङ्गो महावेगः कूटस्थः कुक्कुटध्वजः । स्वाहाप्रियो ग्रहाध्यक्षः पिशाचगणसेवितः ॥ १४ ॥ महोत्तमो महामुख्यः शूरो महिषमर्दनः । वैजयन्ती महावीर्यो देवसिम्हो दृढव्रतः ॥ १५ ॥ रत्नाङ्गदधरो दिव्यो रक्तमाल्यानुलेपनः । दुःसहो दुर्लभो दीप्तो गजारूढो महातपः ॥ १६ ॥ यशस्वी विमलो वाग्मी मुखमण्डी सुसेवितः । कान्तियुक्तो वषट्कारो मेधावी मेखली महान ॥ १७ ॥ नेता नियतकल्याणो धन्यो धुर्यो धृतव्रतः । पवित्रः पुष्टिदः (१५०) पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥ १८ ॥ मनोहरो महाज्योतिः प्रदिष्टो महिषान्तकः । षण्मुखो हरपुत्रश्च मन्त्रगर्भो वसुप्रदः ॥ १९ ॥ वरिष्ठो वरदो वेद्यो विचित्राङ्गो विरोचनः । विबुधाग्रचरो वेत्ता विश्वजित् विश्वपालकः ॥ २० ॥ फलदो मतिदो माली मुक्तामालाविभूषणः । मुनिस्तुतो विशालाक्षो नदीसुतश्च वीर्यवान् ॥ २१ ॥ शक्रप्रियः सुकेशश्च पुण्यकीर्तिरनामयः । वीरबाहुः सुवीर्यश्च स्वामी बालग्रहान्वितः ॥ २२ ॥ रणशूरः सुषेणश्च खट्वाङ्गी खड्गधारकः । रणस्वामी महोपायः श्वेतछत्रः पुरातनः ॥ २३ ॥ दानवारिः कृती कामी शत्रुघ्नो गगनेचरः (२००) । सुलभः सिद्धिदः सौम्यः सर्वज्ञः सर्वतोमुखः ॥ २४ ॥ असिहस्तो विनीतात्मा सुवीरो विश्वतोमुखः । दण्डायुधी महादण्डः सुकुमारो हिरण्मयः ॥ २५ ॥ षाण्मातुरो जितामित्रो जयदः पूतनान्वितः । जनप्रियो महाघोरो जितदैत्यो जयप्रदः ॥ २६ ॥ बालपालो गणाधीशो बालरोगनिवारकः । जयी जितेन्द्रियो जैत्रो जगत्पालो जगत्प्रभुः ॥ २७ ॥ जैत्ररथः प्रशान्तश्च सर्वजिद्दैत्यसूदनः । शोभनः सुमुखः शान्तः कविः सोमो जिताहवः ॥ २८ ॥ मरुत्तमो बृहद्भानुर्बृहत्सेनो बहुप्रदः । सुदृश्यो देवसेनानीः तारकारिर्गुणार्णवः ॥ २९ ॥ मातृगुप्तो महाघोषो भवसूनुः (२५०) कृपाकरः । घोरघुष्यो बृहद्द्युम्नो धनुर्हस्तः सुवर्धनः ॥ ३० ॥ कामप्रदः सुशिप्रश्च बहुकारो महाजवः । गोप्ता त्राता (२६०) धनुर्धारी मातृचक्रनिवासिनः ॥ ३१ ॥ षडश्रिशः षडरषट्को द्वादशाक्षो द्विषड्भुजः । षडक्षरः षडर्चिश्च षडङ्गः षडनीकवत् ॥ ३२ ॥ शर्वः सनत्कुमारश्च सद्योजातो महामुनिः । रक्तवर्णः शिशुश्चण्डो हेमचूडः सुखप्रदः ॥ ३३ ॥ सुहेतिरङ्गनाऽऽश्लिष्टो मातृकागणसेवितः । भूतपतिर्गतातङ्को नीलचूडकवाहनः ॥ ३४ ॥ वचद्भू रुद्रभूश्चैव जगद्भूः ब्रह्मभूः तथा । भुवद्भूर्विश्वभूश्चैव मन्त्रमूर्तिर्महामनुः ॥ वासुदेवप्रियश्चैव प्रह्लादबलसूदनः । क्षेत्रपालो बृहद्भासो बृहद्देवोऽरिञ्जयः (३०१) ॥ ३६ ॥ इति श्रीकुमारत्रिशती समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kumAratrishatI
% File name             : kumAratrishatI.itx
% itxtitle              : kumAratrishatI athavA subrahmaNyatrishati 2 athavA shatrunjayatrishatI
% engtitle              : kumAratrishatI athavA shatrunjayatrishatI
% Category              : shatI, subrahmanya, trishatI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Commments)
% Latest update         : July 14, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org