श्रीसुब्रह्मण्यषोडशनामम्
सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा ।
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥ १॥
प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एवच ।
अग्निभूश्चतृतीयस्यात् बाहुळेयश्चतुर्थकः ॥ २॥
गांगेयः पञ्चमोविद्यात् षष्ठः शरवणोत्भवः ।
सप्तमः कार्तिकेयःस्यात् कुमारस्यादथाष्टकः ॥ ३॥
नवमःषण्मुखश्चैव दशमःकुक्कुटद्वजः ।
एकादशःशक्तिधरो गुहो द्वादश एवच ॥ ४॥
त्रयोदशो ब्रह्मचारी षाण्मातुर चतुर्दशः ।
क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः ॥ ५॥
एतत् षोडशनामानि जपेत् सम्यक्सदादरम् ।
विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥ ६॥
कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् ।
कन्यार्थी लभतेकन्या जयार्थी लभते जयम् ॥ ७॥
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् ।
आयुरारोग्य वश्यश्च धनधान्य सुखावहम् ॥
॥ इति श्री शङ्करसंहितायां शिवरहस्यखण्डे
श्री सुब्रह्मण्यषोडशनामस्तोत्रम् ॥
Encoded and proofread by antaratma at Safe-mail.net