श्रीसुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः २
ॐ शरवणभवाय नमः । शरवणतेजसे । शरण्याय ।
शरवणविन्दाय । शरवणमदुराय । शर्वमनोहराय ।
शर्वतनयाय । शर्वरीशमुखाय । सर्वात्मने । शतशाश्वताय ।
शतमन्मथविग्रहाय । सत्यवाचे । चतुर्योगाय ।
चतुर्भुजाय । चतुर्वेदाय । सप्तलोकाय । शक्तिरुद्ररूपाय ।
शङ्खपद्मनिधिध्येयाय नमः ॥ (१८)
ॐ रक्तवस्त्राय नमः । रक्तकमलाय । रक्तपिङ्गचूडाय ।
रञ्जिताङ्गाय । रत्नकुण्डलमण्डिताय । रत्नधारिणे । रताकाराय ।
रतिप्रदाय । रम्यमुखाय । रमणीयगात्राय । रविलोचनाय ।
रणमुखवीराय । रसभावकाय । रसवृद्धिमते । रसाधाराय ।
रक्षणकृते । रहस्यज्ञाय । रजोमूर्तये नमः ॥ (३६)
ॐ वक्रतुण्डानुजाय नमः । वकाररूपाय । वकुलपुष्पमालिने ।
वचनप्रियाय । वचनवशीकराय । वचनोभकाराय । वचनामृताय ।
वनचराय । वन्दारुजनवत्सलाय । वरदमहत्सेविताय । वर्षकराय ।
वरेण्याय । वराकृतये । वरदाभयहस्तकाय । वसन्तऋतुपूजिताय ।
वषट्काराय । वषट्कारनिलयाय । वज्ररूपाय नमः ॥ (५४)
ॐ नगहराय नमः । नकाररूपाय । नकारवर्णनिलयाय ।
नगशिरस्थिताय । नटेशपुत्राय । नन्दिवन्दिताय । नवभक्तिस्थिताय ।
नवपञ्चबाणाय । नवमन्त्राय । नवमणिभूषणाय । नवशक्तये ।
नवशङ्खप्रियाय । नवग्रहसुवन्दिताय । नवरत्नवेलायुधाय ।
नवनायकाय । नववीराग्रजाय । नक्षत्रमालिने ।
नमस्कारस्तुतिप्रियाय नमः ॥ (७२)
ॐ भक्तकल्याणदाय नमः । भक्तकल्पतरवे । भक्तकामधेनवे ।
भक्तसंपूर्णफलदाय । भक्तमङ्गलदात्रे । भक्तमानसमन्त्राय ।
भक्तहृदयनिवासाय । भक्तजनदृष्टाय । भक्तवत्सलाय ।
भक्तसुप्रियाय । भक्ताभीष्टफलप्रदाय । भक्तार्तिभञ्जनाय ।
भक्तदर्शनसन्तुष्टाय । भक्तमुक्तिप्रदाय । पङ्कजनेत्राय ।
भयनिग्रहाय । भवरोगहराय । भवलोकेशाय नमः ॥ (९०)
ॐ वल्लीप्रियाय नमः । वल्लीदेवमनोहराय । वकालकाय । वचनत्यागाय ।
वन्दनप्रियाय । वचनोपकाराय । वशीकरणाय । वसुरेतसे ।
वचिध्येयाय । वश्यफलदाय । वरप्रदाय । वर्णरूपाय ।
वरुणाराध्याय । वननायकाय । वरिष्टाय । वंशवृद्धिकराय ।
वायुवेगाय । वस्तुरूपाय नमः ॥ (१०८)
इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः समाप्ता ।
Names are arranged in syllable sequence of the mantra
sharavaNa bhava
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran