श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तुतिः
श्रीकार्तिकेयक्षेत्रे - (तिरुच्चेन्दूरपरनामके)
महेशाननाब्जार्कमर्धेन्दुफालं महाविघ्नवाराशिकुम्भप्रभूतम् ।
महेन्द्रादिसेव्यं प्रणम्रान्तरङ्गं महापापदाहं महेभास्यमीडे ॥ १॥
अपस्मारमुख्यान्क्षणाद्रोगवर्यान् हरन्तं नतानां निजाङ्घ्रिप्रणामात् ।
भजे सूनुमाद्यस्य वैद्यस्य शम्भोरबोधामयस्य प्रशान्त्यर्थमारात् ॥ २॥
अवज्ञाय खेलां चरन्तं कुमारं महेशं प्रणन्तुं विधिः सम्भ्रमेण ।
गतोऽन्तः पुनर्निष्क्रमन्येन कारागृहं प्रापितस्तं भजे तारकारिम् ॥ ३॥
कथं चन्द्रतुल्यं मुखं ते वदामः कलङ्केन हीनं तथा कृष्णपक्षे ।
क्षयेनापि नम्रान्तरध्वान्तभेदात्ततस्तद्विशिष्टं गुहेशानसूनो ॥ ४॥
कदाहं निरीहो हृदम्भोजमध्ये पयोजाभये कुक्कुटं शक्तिवर्यम् ।
करैः सन्दधानं सदा वीक्षमाणो मुदं पारशून्यां भजे कार्तिकेय ॥ ५॥
विवेकं विरक्तिं शमादेश्च षट्कं मुमुक्षां च सम्प्राप्य कृत्वा विचारम् ।
दृढं बोधमाप्स्ये कदा वेदशीर्षैः कृपां कुर्वनाथे मयीशानसूनो ॥ ६॥
जनन्याः प्रसूतेः स्थलं वासभूमिः पितुश्चेति शैलं न जह्यां कदापि ।
इतीवानतालेः प्रबोधाय शैले वसन्तं सदा पार्वतीपुत्रमीडे ॥ ७॥
जनानां शयानं सदा हृद्बिले तं भुजङ्गं मनःसंज्ञमारान्निहन्तुम् ।
मयूरं भुजगस्य भोक्तारमास्ते समारुह्य नित्यं भवाञ्छम्भुसूनो ॥ ८॥
नतानामभीष्टानि दातुं विचित्राण्यलं शक्तिरस्तीति सम्बोधनाय ।
अजस्रं वहन्तं करे शक्तिमीडे पराशक्तिपुत्रं कृपावारिराशिम् ॥ ९॥
निवार्याशु रोगान्समस्तान्त्यभक्तान् कृपापाङ्गलेशैः सदा पालयन्तम् ।
सदारं सवाहं सभृत्यं सशिष्यं सदा भावये षण्मुखं हृत्सरोजे ॥ १०॥
पुरा तारकं सिंहवक्त्रं च शूरं जघानाजिमध्ये सुराणां कृते यः ।
महेशात्मजं ह्यौरसं भक्तवश्यं पुलिन्दात्मजास्वान्तचोरं भजेऽहम् ॥ ११॥
महेशस्य पञ्चाननस्याम्बिकाया मुखानां प्रमोदं निजास्ये क्षणाद्यः ।
प्रदातुं षडास्यो बभूवैकदा तं गुहं गन्धशैलाधिवासं भजेऽहम् ॥ १२॥
मुखेनाब्जमिन्दुं स्मितेन म्रदिम्ना करस्य प्रवालं गतेनेभराजम् ।
हसन्तं हरिन्नाथसंसेविताङ्घ्रिं सदा मानसे कुर्महे कार्तिकेयम् ॥ १३॥
यमाहुर्जनाः प्राकृता देहमात्रं हृषीकाणि केचिज्जगुश्चित्तमन्ये ।
तमात्मानमानन्दसच्चित्त्बरूपं सदा भावये पार्वतीप्रेमपात्रम् ॥ १४॥
यमिच्छन्ति वेत्तुं मखैर्वेदपाठैस्तथा दानतश्चोपवासैश्च विप्राः ।
तमत्यन्तगूढं मयूराधिरूढं भजे नीलकण्ठस्य पुत्रं पवित्रम् ॥ १५॥
विबोधाख्यमुद्रायुतस्यात्मयोनेर्वियोगो न मे जातु भूयादितीव ।
समुद्रस्य तीरे निवासं सदा यः करोत्यादरात्तं गुहं संश्रयेऽहम् ॥ १६॥
सुरारिष्वजस्रं शराणां प्रमोक्षं विधातुं शराणां वने यो बभूव ।
सुरारात्यमित्रं पुरारातिपुत्रं सुरेन्द्रात्मजाप्राणकान्तं भजे तम् ॥ १७॥
विधातुं स्तुतिं ते विधीन्द्रेशमुख्या न शक्ताः किमत्रास्ति सामर्थ्यमस्य ।
तथाप्यादराच्चित्तचाञ्चल्यतो वा कृतं मत्प्रयत्नं सहस्वेशसूनो ॥ १८॥
भुजङ्गाख्यवृत्तेन क्लृप्तां स्तुतिं ये पठन्त्यादराच्छ्रद्धया शुद्धचित्ताः ।
सुपुत्रायुरारोग्यविद्यावतस्तान् कुरुष्वेशसूनो मया प्रार्थितस्त्वम् ॥ १९॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीसुग्रह्मण्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran