श्रीसुब्रह्मण्यकवचम् २
॥ श्रीरस्तु॥
॥ ॐ नमस्सुब्रह्मण्याय ॥
॥ अथ सुब्रह्मण्य कवचम् ॥
अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य
अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्री सुब्रह्मण्यो देवता,
सं बीजं, स्वाहा शक्तिः, सः कीलकं,
श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः,
इक्षु धनुर्धराय तर्जनीभ्यां नमः,
शरवणभवाय मध्यमाभ्यां नमः,
शिखिवाहनाय अनामिकाभ्यां नमः,
शक्तिहस्ताय कनिष्ठिकाभ्यां नमः,
सकलदुरित मोचनाय करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।
॥ ध्यानम् ॥
कनककुण्डलमण्डितषण्मुखं वनजराजित लोचनम् ।
निशित शस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥
लमित्यादिभिः पञ्चपूजा ॥
अगस्त्य उवाच ॥
स्कन्दस्य कवचं दिव्यं नाना रक्षाकरं परम् ।
पुरा पिनाकिना प्रोक्तं ब्रह्मणोऽनन्तशक्तये ॥ १॥
तदहं सम्प्रवक्ष्यामि भद्रं ते शृणु नारद ।
अस्ति गुह्यं महापुण्यं सर्वप्राणि प्रियङ्करम् ॥ २॥
जपमात्रेण पापघ्नं सर्वकामफलप्रदम् ।
मन्त्रप्राणमिदं ज्ञेयं सर्वविद्यादिकारकम् ॥ ३॥
स्कन्दस्य कवचं दिव्यं पठनाद्व्याधिनाशनम् ।
पिशाच घोरभूतानां स्मरणादेव शान्तिदम् ॥ ४॥
पठितं स्कन्दकवचं श्रद्धयानन्यचेतसा ।
तेषां दारिद्र्यदुरितं न कदाचिद्भविष्यति ॥ ५॥
भूयस्साम्राज्य संसिद्धिरन्ते कैवल्यमक्षयम् ।
दीर्घायुष्यं भवेत्तस्य स्कन्दे भक्तिश्च जायते ॥ ६॥
शिखां रक्षेत्कुमारस्तु कार्तिकेयश्शिरोऽवतु ।
ललाटं पार्वतीसूनुः विशाको भ्रूयुगं मम ॥ ७॥
लोचने क्रौञ्चभेदी च नासिकां शिखिवाहनः ।
कर्णद्वयं शक्तिधरः कर्णमूलं षडाननः ॥ ८॥
गण्डयुग्मं महासेनः कपोलौ तारकान्तकः ।
ओष्ठद्वयञ्च सेनानीः रसनां शिखिवाहनः ॥ ९॥
तालू कलानिधिः पातु दन्ताञ्च देवशिखामणिः।
गाङ्गेयश्चुबुकं पातु मुखं पातु शरोद्भवः ॥ १०॥
हनू हरसुतः पातु कण्ठं कारुण्य-वारिधिः ।
स्कन्धावुमासुतः पातु बाहुलेयो भुज-द्वयम् ॥ ११॥
बाहू भवेद्भवः पातु स्तनौ पातु महोरगः ।
मध्यं जगद्विभुः पातु नाभिं द्वादश-लोचनः ॥१२ ॥
कटिं द्विषड्भुजः पातु गुह्यं गङ्गासुतोऽवतु ।
जघनं जाह्नवीसूनुः पृष्ठभागं परन्तपः ॥ १३॥
ऊरू रक्षेदुमापुत्रः जानुयुग्मं जगद्धरः ।
जङ्घे पातु जगत्पूज्यः गुल्फौ पातु महाबलः ॥ १४॥
पादौ पातु परंज्योतिः सर्वाङ्गं कुक्कुटद्ध्वजः ।
ऊर्ध्वं पातु महोदारः अधस्तात्पातु शाङ्करिः ॥ १५॥
पार्श्वयोः पातु शत्रुघ्नः सर्वदा पातु शाश्वतः ।
प्रातः पातु परं ब्रह्म मद्ध्याह्ने युद्धकौशलः ॥ १६॥
अपराह्ने गुहः पातु रात्रौ दैत्यान्तकोऽवतु ।
त्रिसन्ध्यन्तु त्रिकालज्ञः अन्तस्थं पात्वरिन्दमः ॥ १७॥
बहिस्थितं पातु खढ्गी निषण्णं कृत्तिकासुतः ।
व्रजन्तं प्रथमाधीशः तिष्ठन्तं पातु पाशभृत् ॥ १८॥
शयने पातु मां शूरः मार्गे मां पातु शूरजित् ।
उग्रारण्ये वज्रधरः सदा रक्षतु मां वटुः ॥ १९॥
सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् ।
मन्त्राणां परमं मन्त्रं रहस्यं सर्वदेहिनाम् ॥ २०॥
सर्वरोगप्रशमनं सर्वव्याधि विनाशनम् ।
सर्वपुण्य प्रदं दिव्यं सुभगैश्वर्य वर्धनम् ॥ २१॥
सर्वत्र शुभदं नित्यं यः पठेद्वज्रपञ्जरम् ।
सुब्रह्मण्यस्सुसम्प्रीतो वाञ्छितार्थान् प्रयच्छति ॥ २२॥
देहान्ते मुक्तिमाप्नोति स्कन्दवर्मानुभावतः ॥
॥ इति स्कान्दे अगस्त्य नारद संवादे शिवप्रोक्तं
सुब्रह्मण्य कवचं सम्पूर्णम् ॥
Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in