श्रीसुब्रह्मण्य मातृकामालिका सहस्रनामस्तोत्रम्
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
ऋषय ऊचुः -
सर्वशास्त्रार्थतत्त्वज्ञ सर्वमोक्षार्थसाधक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि साम्प्रतम् ॥ १॥
ज्ञानदानेन संसारसागरादुद्धरस्व नः ।
कलौ कलुषचित्ता ये नराः पापरताः सदा ।
केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ॥ २॥
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ।
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ॥ ३॥
श्रीसूत उवाच -
शऋणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः ।
तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ॥ ४॥
स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ।
तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ॥ ५॥
ऋषय ऊचुः -
सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।
यदाह भगवान्ब्रह्मा नारदाय महात्मने ॥ ६॥
श्रीसूत उवाच -
दिव्यसिह्मासनारूढं सर्वदेवैरभिष्टुतम् ।
साष्टाङ्गं प्रणिपत्येदं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ ७॥
नारद उवाच -
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य तु यत्स्तोत्रं परमं पापनाशनम् ॥ ८॥
तात त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे ।
उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥ ९॥
ब्रह्मोवाच -
शऋणु वक्ष्यामि देवर्षे स्तवराजमितं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ १०॥
सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि पुण्यानि दुःखरोगहराणि च ।
तानि नामानि वक्ष्यामि कृपया त्वयि नारद ॥ ११॥
जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ।
इहामुत्र परं भोगं लभते नात्र संशयः ॥ १२॥
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् ।
सन्देहो नात्र कर्तव्यः शऋणु मे निश्चितं वचः ॥ १३॥
ॐ अस्य श्रीसुब्रह्मण्यसहस्रनाममातृकामालिकास्तोत्रमहामन्त्रस्य
ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता ।
शरजन्माक्षर इति बीजम् । शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय
इति कीलकम् । क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम् ।
षण्मुख इति ध्यानम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे
जपे विनियोगः । करन्यासः -
ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय
हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय
षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय
तर्जनीभ्यां नमः ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय
षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः ।
ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय
कुमाराय सुब्रह्मण्याय अनामिकाभ्यां नमः ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय
नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय
कनिष्ठिकाभ्यां नमः ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने
शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः -
ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय
हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय
षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय
षडक्षराय स्वामिनाथाय शिखायै वषट् ।
ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय
कुमाराय सुब्रह्मण्याय कवचाय हुम् ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय
नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय
वौषट् ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने
शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥
ॐ भूर्भुवस्सुवरों इति दिग्बन्दः ॥
ध्यानं -
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ।
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं
काञ्चीकङ्कणकिङ्किणीरवयुतं शऋङ्गारसारोदयम् ॥
षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ।
ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् ।
वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥
पञ्चपूजा -
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
ॐ अचिन्त्यशक्तिरनघो ह्यक्षोभ्यः त्वपराजितः ।
अनाथवत्सलोऽमोघः त्वशोको ह्यजरोऽभयः ॥ १॥
अत्युदारो ह्यघहरः त्वग्रगण्योऽद्रिजासुतः ।
अनन्तमहिमाऽपारोऽनन्तसौख्योऽन्नदोऽव्ययः ॥ २॥
अनुत्तमोऽक्षयोऽनादिरप्रमेयोऽक्षरोऽच्युतः ।
अकल्मषोऽभिरामोऽग्रधुर्यः त्वमितविक्रमः ॥ ३॥
अतुलश्चामृतोऽघोरो ह्यनन्तोऽनन्तविक्रमः ।
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ॥ ४॥
अरिन्दमोऽखिलाधारो ह्यणिमादिगुणाग्रणीः ।
अचञ्चलोऽमरस्तुत्योऽह्यकलङ्कः त्वमिताशनः ॥ ५॥
अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ।
अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ॥ ६॥
आपद्विनाशनश्चार्य आढ्य आगमसंस्तुतः ।
आर्तसंरक्षणश्चाद्य आनन्दी आर्यसेवितः ॥ ७॥
आश्रितेष्टार्थवरद आनन्दार्थफलप्रदः ।
आश्चर्यरूपश्चानन्द आपन्नार्तिविनाशनः ॥ ८॥
आराधितपदद्वन्द्व आगमार्थविशारदः ।
आनन्दसुन्दराकार आब्रह्मस्तम्भरूपकः ॥ ९॥
आधारषट्कनिलय आदिमध्यान्तवर्जितः ।
आब्रह्मकीटजनक आखण्डलसुधादिपः ॥ १०॥
इभवक्त्रानुजोऽपीष्ट इभासुरहरात्मजः ।
इतिहाससुसंस्तुत्य इन्द्रभोगफलप्रदः ॥ ११॥
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ।
इहामुत्रेष्टफलद इष्टदः त्विन्द्रवन्दितः ॥ १२॥
ईडनीयः त्वीशपुत्र ईप्सितार्थप्रदायकः ।
ईतिभीतिहरः त्वीड्य ईषणात्रयवर्जितः ॥ १३॥
ईश्वरार्पितवेदार्थ ईश्वरप्रियनन्दनः ।
ईश्वराङ्कविहारी चेशिता चेश्वररूपघृत् ॥ १४॥
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ।
उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ॥ १५॥
उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ।
उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ॥ १६॥
उरुप्रभावश्चोदीर्ण उमासूनुरुदारधीः ।
उदग्रवैभवोदग्रबुद्धिदोग्रहेतिमान् ॥ १७॥
ऊर्ध्वरेतस्सुतश्चोर्ध्वगतिदश्चोर्मिपालकः ।
ऊर्जितश्चोर्ध्वगश्चोर्ध्व ऊर्ध्वलोकैकनायकः ॥ १८॥
ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः ।
ऊरिकृतधनुर्बाण ऊर्मिषट्कविनाशनः ॥ १९॥
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ।
ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शकः ॥ २०॥
ऋतम्भर ऋजुप्रीत ऋषभो ऋद्धिश्च ऋक् ।
ऋग्वेदादिस्वरूपश्च ऋद्धात्मा ऋषिपूजितः ॥ २१॥
ऋलेखवत्त्रिनाड्यन्तस्सुषुम्नानाडिमध्यगः ।
ऋकृत्स्वप्नाद्यजाग्रान्तमध्यो ह्यॄतम्भरात्मकः ॥ २२॥
ऌलितोद्धारको ऌब्धजनदूरो ऌनामकः ।
ऌप्ताचारमनोदूरो ऌप्तदुःखो ऌळत्प्रभः ॥ २३॥
ॡनमायासुरो ॡनसंसाराख्यमहावनः ।
एणाङ्कधरसत्पुत्र एक एनौघनाशनः ॥ २४॥
एकाग्रध्यानशीलश्चाप्योकान्तध्यानपूजितः ।
ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ॥ २५॥
ऐशानपदसन्दायी चैन्द्रदिक्पालजाधिपः ।
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ २६॥
ओङ्काररूपीचौङ्कार ओङ्कारार्थविशारदः ।
औदार्यशीलश्चौमेय औग्र औन्नत्यदायकः ॥ २७॥
औदार्यः त्वौषधकर औषधञ्चौषधाकरः ।
अंशुमानंशुमालीड्य अम्बिकातनयोऽन्नदः ॥ २८॥
अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ।
अस्तमायः त्वर्पणारर्हः त्वस्पष्टोऽस्तोकपुण्यदः ॥ २९॥
अस्तामित्रोऽस्तरूपश्चाप्यस्खलद्गतिदायकः ।
कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ॥ ३०॥
कामदः कारणं काम्यः कमनीयः कृपाकरः ।
काञ्चनाभः कान्तियुक्तः कामः कामप्रदः कविः ॥ ३१॥
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ।
कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ॥ ३२॥
कृशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ।
कामरूपः कल्पतरुः कान्तः कामितदायकः ॥ ३३॥
कल्याणकृत्क्लेशनाशः कृपाळूः करुणाकरः ।
कलूषघ्नः क्रियाशक्तः कठोरः कवची कृती ॥ ३४॥
कोमलाङ्गः कुहूप्रीतः कुत्सितघ्नः कलाधरः ।
ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ॥ ३५॥
ख्यातिप्रदः खेचरेशः ख्यातैनाः खेचरस्तुतः ।
खरतापहरः खस्थः खेचरः खेचराश्रयः ॥ ३६॥
खण्डेन्दुमौलितनयः खेलाखेचरपालकः ।
खस्थप्रियः खण्डिताद्यः खेचरीजनपूजितः ॥ ३७॥
खेटाद्यायुधसम्पन्नः खर्वेतरपदप्रदः ।
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ ३८॥
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ।
गतिप्रदो गुणनिधिर्गम्भीरो गिरिजात्मजः ॥ ३९॥
गूढरूपो गदहरो ग्रहाधीशो गणाग्रणीः ।
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्द्धनः ॥ ४०॥
गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणोत्तरः ।
गद्यपद्यप्रियो गण्यो गोस्तुतो गगनेचरः ॥ ४१॥
गणनीयचरित्रश्च गतक्लेशो गुहाश्रयः ।
घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ ४२॥
घण्टानादप्रियो घोषो घोराघौघविनाशनः ।
घनप्रियो घनानन्दो घृणावान् घृष्टिपातकः ॥ ४३॥
घृणर्घृणाकरो घोरो घोरदैत्यप्रहारकः ।
घटितैश्वर्यसन्दोहो घनर्द्धिर्घनविक्रमः ॥ ४४॥
घृणिमण्डलरूपश्च घनसम्पत्प्रदो घनः ।
ङकारस्वरणस्सर्वरन्ध्रस्थत्रिपुटीप्रभः ॥ ४५॥
ङणद्घण्टारवान्तस्थो ङणारावततिप्रियः ।
ङकाराकारकद्वन्द्वसर्वसन्ध्याप्तचिन्मयः ॥ ४६॥
चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः ।
चिन्मयश्चित्स्वरूपश्च चिदानन्दः चिरन्तनः ॥ ४७॥
चित्रकेलिः चित्रतरः चिन्तनीयः चमत्कृतिः ।
चोरघ्नः चतुरः चारुः चामीकरविभूषणः ॥ ४८॥
चन्द्रार्ककोटिसदृशः चन्द्रमौलितनूद्भवः ।
चेटीभूतप्रपञ्चश्च चण्डश्चण्डोरुविक्रमः ॥ ४९॥
छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ।
छेदीकृतमहाक्लेशः छेत्रीकृतमहायशाः ॥ ५०॥
छेदिताशेषसन्तापः छुरितानीकसागरः ।
छेदिताशेषदैत्यौघः छातैनाश्छिन्नसंशयः ॥ ५१॥
छन्दोमयश्छन्दगामी छिन्नपाशः छविच्छदः ।
छेदिताशेषसंसारः छव्यग्नीन्दुविलोचनः ॥ ५२॥
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः ।
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ ५३॥
जयी जितेन्द्रियो जेता जरामरणवर्जितः ।
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ ५४॥
जगत्वन्द्यो जगच्छ्रेष्ठो जितक्लेशो जगद्विभुः ।
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ॥ ५५॥
जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः ।
जगदानन्दजनको जनजाड्यापहारकः ॥ ५६॥
जपाकुसुमसङ्काशो जनलोचनशोभनः ।
जनेश्वरो जगद्भव्यो जनजन्मनिबर्हणः ॥ ५७॥
जयदो जन्तुतापघ्नो जितदैत्यमहापथः ।
जितमायो जितक्रोधो जितसङ्गो जनप्रियः ॥ ५८॥
झञ्झानिलमहावेगो झटिताशेषपातकः ।
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसुप्रियः ॥ ५९॥
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ।
ज्ञानोपदेशकर्ता च ज्ञानदो ज्ञानदेशिकः ॥ ६०॥
टङ्कारनृत्तविभवष्टङ्कवज्रध्वजाङ्कितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ६१॥
ठकारमध्यनिलयष्ठवर्णाकारमण्डलः ।
ठपदान्तश्श्रूयमाणानादरूपष्ठकारकः ॥ ६२॥
डम्बरप्रभवो डम्भो डमड्डमरुकप्रियः ।
डामरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ ६३॥
ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः ।
ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥ ६४॥
णकारबिन्दुद्वन्द्वैक्यज्ञानेनाश्चर्यकारकः ।
णबिन्दुत्रयवन्मद्यबिन्द्वाश्लिष्टाद्विवल्लिकः ॥ ६५॥
तत्त्वज्ञः तत्त्वगः तीवव्रः तपोरूपः तपोमयः ।
त्रयीमयः त्रिकालज्ञः स्त्रिमूर्तिः त्रिगुणात्मकः ॥ ६६॥
त्रिदशेशः तारकारिः तापघ्नः तापसप्रियः ।
तुष्टिदः तुष्टिकृत्तीक्ष्णः तपोरूपः त्रिकालवित् ॥ ६७॥
स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तवप्रियः ।
तारेशपूजितः तथ्यः तुम्बुरूनारदार्चितः ॥ ६८॥
स्थिरः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ।
स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ॥ ६९॥
दान्तो दयापरो दाता दुरितघ्नो दुरासदः ।
दर्शनीयो दयासारो देवदेवो दयानिधिः ॥ ७०॥
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ।
दुर्धरो दानशूरश्च द्वादशाक्षो द्विषड्भुजः ॥ ७१॥
द्विषट्कर्णो द्विषण्णेत्रो दीनसन्तापनाशनः ।
दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ॥ ७२॥
दीर्घपृष्ठो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ।
दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ॥ ७३॥
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमङ्गलः ।
दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः ॥ ७४॥
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ।
दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ॥ ७५॥
धुरन्धरो धर्मपरो धनदो धृतिवर्धनः ।
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ॥ ७६॥
धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ।
धर्महेतुर्धर्मगुरुर्धर्मकृद्धर्मविद् ध्रुवः ॥ ७७॥
धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ।
धरीत्रीमण्डालाध्यक्षो धनधान्यविवर्धनः ॥ ७८॥
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः ।
निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ ७९॥
निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः ।
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ८०॥
निरवद्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः ।
नीरजाक्षो निर्जरेशो निस्सङ्गो निगमस्तुतः ॥ ८१॥
निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः ।
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ ८२॥
नेता निधिर्नैकरूपो निराकारो नदीसुतः ।
नानायुधधरो नाथो नानासाम्राज्यदायकः ॥ ८३॥
नागपाशधरो नन्दी नारदादिसुपूजितः ।
नाट्योत्सुको नदीसूनुर्नगारिप्रियदायकः ॥ ८४॥
नक्षत्ररूपी नक्षत्रं नेता नित्योसुको नटः ।
निर्मलो निरहङ्कारो नित्याभीष्टफलप्रदः ॥ ८५॥
पुलिन्दकन्यारमणः पुरुजित्परमप्रियः ।
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ॥ ८६॥
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ।
पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः ॥ ८७॥
परानन्दः परतरः पुण्यकीर्तिः पुरातनः ।
प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ॥ ८८॥
प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ।
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ॥ ८९॥
प्रसन्नः परमश्रेष्ठः पटः परिवृढः परः ।
परमात्मा परब्रह्म परर्द्धिः प्रियदर्शनः ॥ ९०॥
पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ।
पापघ्नः पाशहस्तश्च प्रमत्तासुरशिक्षकः ॥ ९१॥
पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ।
पुष्करः प्रवरः पूर्वः पितृभक्तपुरोगमः ॥ ९२॥
प्राणदः प्राणिजनकः प्रतिष्ठा पावकोद्भवः ।
परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ॥ ९३॥
परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ।
प्रज्ञाकरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ॥ ९४॥
पूतनाजीवहरणजामाता पुर्णविग्रहः ।
फणीश्वरः फणिवरः फणामणिविभूषितः ॥ ९५॥
फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः ।
फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ ९६॥
फणिसङ्घादरापीतनिजवाणीरसामृतः ।
बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बलः ॥ ९७॥
ब्रह्मेशविष्णुरूपश्च बुद्धिर्बुद्धिमतां वरः ।
बालरूपो बृहद्गर्भो ब्रह्मचारी बुधप्रियः ॥ ९८॥
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ।
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ॥ ९९॥
बृहद्भानुतनूद्भूतो बृहद्बाहुर्बिलेशयः ।
बहुबाहुर्बलश्रीमान्बहुदैत्यविनाशकः ॥ १००॥
बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः ।
बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ॥ १०१॥
बद्धतूणीरांसदेशो बद्धपाशविमोचनः ।
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ १०२॥
भक्तिगम्यो भयहरो भावज्ञो भजनप्रियः ।
भुक्तिमुक्तिप्रदो भोगी भगवान्भाग्यवर्धनः ॥ १०३॥
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः ।
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ १०४॥
भावुको भीकरो भीष्मो भावुकेष्टो भवोद्भवः ।
भवतापप्रशमनो भोगवान् भूतभावनः ॥ १०५॥
भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः ।
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ १०६॥
भक्तेष्टदाननिरतो भार्गबाद्यभिवन्दितः ।
महासेनो महोदारो महाशक्तिर्महाद्युतिः ॥ १०७॥
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ।
महाभागो महामायी मेधावी मेखली महान् ॥ १०८॥
मुनिस्तुतो महामान्यो महानन्दो महायशाः ।
महोर्जितो माननिधिर्मनोरथफलप्रदः ॥ १०९॥
महोदयो महापुण्यो महाबलपराक्रमः ।
मानदो मतिदो मानी मुक्तामालाविभूषणः ॥ ११०॥
मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः ।
महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ॥ १११॥
मुदाकरो मुक्तिदाता महाभोगो महोरगः ।
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ॥ ११२॥
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ।
यमिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ॥ ११३॥
यन्ता यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रनायकः ।
यातनारहितो योगी योगीशो योगिनां वरः ॥ ११४॥
योगाराध्यपदद्वन्दो यमाद्यष्टाङ्गसाधकः ।
रमणीयो रम्यरूपो रसज्ञो रसभावुकः ॥ ११५॥
रञ्जनो रञ्जितो रागी रुजारी रुद्रसम्भवः ।
रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ ११६॥
रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः ।
रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥ ११७॥
रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः ।
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ ११८॥
राजद्वेदागमस्तुत्यो रजस्सत्त्वगुणान्वितः ।
रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥ ११९॥
रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः ।
रसवक्त्रधरो रागी रञ्जनीयपदाम्बुजः ॥ १२०॥
लोकैकनाथो लोकेश लालितो लोकनायकः ।
लोकशिक्षो लोकरक्षो लोकलोचनरञ्जितः ॥ १२१॥
लोकचूडामणिर्लोलोलावण्यो लयवर्जितः ।
लोकाध्यक्षो लोकवन्द्यो लोकोत्तरगुणाकरः ॥ १२२॥
लोकबन्धुर्लोकदाता लोकत्रयमहाहितः ।
लोकातीतगुणोपेतो लोकालोकस्वरूपवान् ॥ १२३॥
लास्यप्रियो लास्यदर्शी लताकुसुमपूजितः ।
लब्धमानो लब्धरसो लब्धहर्षो लसत्करः ॥ १२४॥
वरिष्ठो वरदो वन्द्यो विशिष्टो विक्रमी विभुः ।
विबुधाग्रचरो विश्वं विकल्पपरिवर्जितः ॥ १२५॥
विपाशो विगतातङ्को विचित्राङ्गो विरोचनः ।
विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ १२६॥
वर्चस्करो व्यापकश्च विज्ञानी विनयान्वितः ।
विद्वत्तमो विरोधिघ्नो वीरो वीरासनोविधिः ॥ १२७॥
वीतरागो विनीतात्मा वेदगर्भो विराड्वपुः ।
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ १२८॥
वेदवेद्यो विधेयात्मा वीतदोषश्च वसुप्रदः ।
विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ १२९॥
वेदद्विश्वरूपश्च विश्वमुर्तिरर्वरासनः ।
वाग्मी वेदधरो विद्वान्विशाखो विमलो वटुः ॥ १३०॥
वीरचूडामणिर्वीरविजयो विबुधाश्रयः ।
विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ १३१॥
वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी ।
वरशीलो वरगुणो विशोको वज्रधारकः ॥ १३२॥
शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः ।
श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ १३३॥
शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः ।
शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ १३४॥
शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः ।
शूरसंहारदक्षश्च शिष्टाचारप्रपूजितः ॥ १३५॥
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ।
षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ॥ १३६॥
षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः ।
षड्वर्गरूपः षड्ग्रीवः षडरिघ्नः षडाश्रयः ॥ १३७॥
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ।
षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ॥ १३८॥
सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ।
सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ॥ १३९॥
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ॥ १४०॥
सुभुजः सर्ववित्साक्षी सुप्रसादः सनातनः ।
सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ॥ १४१॥
समर्थः सत्कृतः सूक्ष्मः सुमुखः सुखदः सुहृत् ।
सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ॥ १४२॥
सम्भाव्यः सुमनस्सेव्यः सकलागमपारगः ।
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १४३॥
सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः ।
सर्वदेवमयः सत्यः सदामृष्टान्नदायकः ॥ १४४॥
सुधन्वाः सुमतिः सत्यः सर्वविघ्नविनाशनः ।
सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ॥ १४५॥
सुग्रीवः सुचिराः सारः सुराध्यक्षः सुरारिहाः ।
सुविक्रमः सर्ववर्णः सर्पराजः सदाशुचिः ॥ १४६॥
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ।
सर्वलोकैकनाथश्च साम्बाराधनतत्परः ॥ १४७॥
हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।
हस्त्यश्ववाहनो हस्ती हर्षदैत्यहरानुजः ॥ १४८॥
हकाररूपो हंसात्मा हलभृत् हरिपूजितः ।
हविर्हरिद्रावर्णश्च हृताघो हसिताननः ॥ १४९॥
हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः ।
हेलाद्रिविध्वंसकारी हुङ्कारहृतकिल्बिषः ॥ १५०॥
हिमाद्रिजातनूद्भूतो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १५१॥
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो ह्रदोद्भवः ॥ १५२॥
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षेत्रवर्जितः ।
क्षेत्रपालः क्षमाधारः क्षेम्यः क्षेत्रं क्षमाकरः ॥ १५३॥
क्षुत्तृड्घ्नः क्षान्तिदः क्षेमी क्षितिभूषः क्षमाश्रयः ।
क्षालिताघः क्षितिधरः क्षीणसम्रक्षणक्षमः ॥ १५४॥
अङ्गन्यासः -
ॐ शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय
हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः ।
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय
षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा ।
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय
षडक्षराय स्वामिनाथाय शिखायै वषट् ।
ॐ णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय
कुमाराय सुब्रह्मण्याय कवचाय हुम् ।
ॐ भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय
नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय
नेत्रत्रयाय वौषट् ।
ॐ वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने
शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥
ॐ भूर्भुवस्सुवरों इति दिग्विमोकः ॥
ध्यानं -
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् ।
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥
कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् ।
काञ्चीकङ्कणकिङ्किणीरवयुतं शऋङ्गारसारोदयम् ॥
षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतम् ।
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ।
ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् ।
वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥
पञ्चपूजा -
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
फलस्तुति -
नाम्नां सहस्रं स्कन्दस्य वेदभूतधरामितैः ।
श्लोकैरनुष्टुप्छ्न्दोभिर्बद्धं साम्राज्यदायकम् ॥ १५५॥
अकारादिक्षकारान्तनाम्नामेतद्गुहस्य तु ।
योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ १५६॥
इति नामसहस्रं हि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ।
स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ॥ १५७॥
सर्वरोगप्रशमनं सर्वसम्पत्करं शुभम् ।
सर्वदारिद्र्यशमनं सर्वमङ्गलवर्धनम् ॥ १५८॥
सर्ववश्यकरं नॄणां सर्वरक्षाकरं परम् ।
सर्वसिद्धिप्रदं सद्यस्सर्वबन्धविमोचनम् ॥ १५९॥
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ।
स्तवराजमिदं पुण्यं चतुर्वर्गफलप्रदम् ॥ १६०॥
वाक्येनैकेन वक्ष्यामि वाञ्छितार्थन्प्रयच्छति ।
इदं रहस्यं परमं स्तोत्रमेदन्मयोदितम् ।
तस्मात्सर्वार्थसिद्ध्यर्थं नियमेन जपेत्सुधीः ॥ १६१॥
॥ इति श्रीस्कान्दे महापुराणे शङ्करसम्हितायां
शिवरहस्यखण्डे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
श्रीसुब्रह्मण्यमातृकामलिकासहस्रनामस्तोत्रं सम्पूर्णम् ॥
॥ श्री सुब्रह्मण्य मातृकामालिका सहस्रनामावलिः ॥
ॐ अचिन्त्यशक्तये नमः ।
ॐ अनघाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अपराजिताय नमः ।
ॐ अनाथवत्सलाय नमः ।
ॐ अमोघाय नमः ।
ॐ अशोकाय नमः ।
ॐ अजराय नमः ।
ॐ अभयाय नमः ।
ॐ अत्युदाराय नमः । (१०)
ॐ अघहराय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अद्रिजासुताय नमः ।
ॐ अनन्तमहिम्ने नमः ।
ॐ अपाराय नमः ।
ॐ अनन्तसौख्याय नमः ।
ॐ अन्नदाय नमः ।
ॐ अव्ययाय नमः ।
ॐ अनुत्तमाय नमः ।
ॐ अक्षयाय नमः । (२०)
ॐ अनादये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अक्षराय नमः ।
ॐ अच्युताय नमः ।
ॐ अकल्मषाय नमः ।
ॐ अभिरामाय नमः ।
ॐ अग्रधुर्याय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ अतुलाय नमः ।
ॐ अमृताय नमः । (३०)
ॐ अघोराय नमः ।
ॐ अनन्ताय नमः ।
ॐ अनन्तविक्रमाय नमः ।
ॐ अनाथनाथाय नमः ।
ॐ अमलाय नमः ।
ॐ अप्रमत्ताय नमः ।
ॐ अमरप्रभवे नमः ।
ॐ अरिन्दमाय नमः ।
ॐ अखिलाधाराय नमः ।
ॐ अणिमादिगुणाग्रण्ये नमः । (४०)
ॐ अचञ्चलाय नमः ।
ॐ अमरस्तुत्याय नमः ।
ॐ अकलङ्काय नमः ।
ॐ अमिताशनाय नमः ।
ॐ अग्निभुवे नमः ।
ॐ अनवद्याङ्गाय नमः ।
ॐ अद्भुताय नमः ।
ॐ अभीष्टदायकाय नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ अप्रमेयात्मने नमः । (५०)
ॐ अदृश्याय नमः ।
ॐ अव्यक्तलक्षणाय नमः ।
ॐ आपद्विनाशकाय नमः ।
ॐ आर्याय नमः ।
ॐ आढ्याय नमः ।
ॐ आगमसंस्तुताय नमः ।
ॐ आर्तसंरक्षणाय नमः ।
ॐ आद्याय नमः ।
ॐ आनन्दिने नमः ।
ॐ आर्यसेविताय नमः । (६०)
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आनन्दार्थफलप्रदाय नमः ।
ॐ आश्चर्यरूपाय नमः ।
ॐ आनन्दाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ आराधितपदद्वन्द्वाय नमः ।
ॐ आगमार्थविशारदाय नमः ।
ॐ आनन्दसुन्दराकाराय नमः ।
ॐ आब्रह्मस्तम्बरूपकाय नमः ।
ॐ आधारषट्कनिलयाय नमः । (७०)
ॐ आदिमध्यान्तवर्जिताय नमः ।
ॐ आब्रह्मकीटजनकाय नमः ।
ॐ आखण्डलसुताधिपाय नमः ।
ॐ इभवक्त्रानुजाय नमः ।
ॐ इष्टाय नमः ।
ॐ इभासुरहरात्मजाय नमः ।
ॐ इतिहाससुसंस्तुत्याय नमः ।
ॐ इन्द्रभोगफलप्रदाय नमः ।
ॐ इष्टापूर्तफलप्राप्तये नमः ।
ॐ इष्टेष्टवरदायकाय नमः । (८०)
ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इष्टदाय नमः ।
ॐ इन्द्रवन्दिताय नमः ।
ॐ ईडनीयाय नमः ।
ॐ ईशपुत्राय नमः ।
ॐ ईप्सितार्थप्रदायकाय नमः ।
ॐ ईतिभीतिहराय नमः ।
ॐ ईड्याय नमः ।
ॐ ईषणात्रयवर्जिताय नमः ।
ॐ ईश्वरार्पितवेदार्थाय नमः । (९०)
ॐ ईश्वरप्रियनन्दनाय नमः ।
ॐ ईश्वराङ्कविहारिणे नमः ।
ॐ ईशित्रे नमः ।
ॐ ईश्वररूपधृते नमः ।
ॐ उदारकीर्तये नमः ।
ॐ उद्योगिने नमः ।
ॐ उत्कृष्टाय नमः ।
ॐ उरुपराक्रमाय नमः ।
ॐ उत्कृष्टशक्तये नमः ।
ॐ उत्साहाय नमः । (१००)
ॐ उदाराय नमः ।
ॐ उत्सवप्रियाय नमः ।
ॐ उज्जृम्भाय नमः ।
ॐ उद्भवाय नमः ।
ॐ उग्राय नमः ।
ॐ उदग्राय नमः ।
ॐ उदग्रलोचनाय नमः ।
ॐ उन्मत्ताय नमः ।
ॐ उग्रशमनाय नमः ।
ॐ उद्वेगघ्नाय नमः । (११०)
ॐ उरगेश्वराय नमः ।
ॐ उरुप्रभावाय नमः ।
ॐ उदीर्णाय नमः ।
ॐ उमासूनवे नमः ।
ॐ उदारधिये नमः ।
ॐ उदग्रवैभवाय नमः ।
ॐ उदग्रबुद्धिदाय नमः ।
ॐ उदग्रहेतिमते नमः ।
ॐ ऊर्ध्वरेतःसुताय नमः ।
ॐ ऊर्ध्वगतिदाय नमः । (१२०)
ॐ ऊर्जपालकाय नमः ।
ॐ ऊर्जिताय नमः ।
ॐ ऊर्ध्वगाय नमः ।
ॐ ऊर्ध्वाय नमः ।
ॐ ऊर्ध्वलोकैकनायकाय नमः ।
ॐ ऊर्जावते नमः ।
ॐ ऊर्जितोदाराय नमः ।
ॐ ऊर्जिताय नमः ।
ॐ ऊर्जितशासनाय नमः ।
ॐ ऊरीकृतधनुर्बाणवे नमः । (१३०)
ॐ ऊर्मिषट्कविनाशनाय नमः ।
ॐ ऋषिदेवगणस्तुत्याय नमः ।
ॐ ऋणत्रयविमोचनाय नमः ।
ॐ ऋजुरूपाय नमः ।
ॐ ऋजुकराय नमः ।
ॐ ऋजुमार्गप्रदर्शनाय नमः ।
ॐ ऋतम्भराय नमः ।
ॐ ऋजुप्रीताय नमः ।
ॐ ऋषभाय नमः ।
ॐ ऋद्धिदाय नमः । (१४०)
ॐ ऋचे नमः ।
ॐ ऋग्वेदादिस्वरूपाय नमः ।
ॐ ऋद्धात्मने नमः ।
ॐ ऋषिपूजिताय नमः ।
ॐ ऋलेखावत्त्रिनाड्यन्तस्सुषुम्नानाडी-मध्यगाय नमः ।
ॐ ऋकृत्स्वप्नाद्यजाग्रान्तमध्याय नमः ।
ॐ ऋतम्भरात्मकाय नमः ।
ॐ ऌलितोद्धारकाय नमः ।
ॐ ऌब्धजनदूराय नमः ।
ॐ ऌनामकाय नमः । (१५०)
ॐ ऌप्ताचारमनोदूराय नमः ।
ॐ ऌप्तदुःखाय नमः ।
ॐ ऌळत्प्रभाय नमः ।
ॐ ॡनमायासुराय नमः ।
ॐ ॡनसंसाराख्यमहावनाय नमः ।
ॐ एणाङ्कधरसत्पुत्राय नमः ।
ॐ एकस्मै नमः ।
ॐ एनौघनाशनाय नमः ।
ॐ एकाग्रध्यानशीलाय नमः ।
ॐ एकान्तध्यानपूजिताय नमः । (१६०)
ॐ ऐश्वर्यदाय नमः ।
ॐ ऐन्द्रभोगिने नमः ।
ॐ ऐतिह्याय नमः ।
ॐ ऐन्द्रवन्दिताय नमः ।
ॐ ऐशानपदसन्दायिने नमः ।
ॐ एन्द्रदिक्पालजाधिपाय नमः ।
ॐ ओजस्विने नमः ।
ॐ ओषधिस्थानाय नमः ।
ॐ ओजोदाय नमः ।
ॐ ओदनप्रदाय नमः । (१७०)
ॐ ओङ्काररूपिणे नमः ।
ॐ ओङ्काराय नमः ।
ॐ ओङ्कारार्थविशारदाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औमेयाय नमः ।
ॐ औग्राय नमः ।
ॐ औन्नत्यदायकाय नमः ।
ॐ औदार्याय नमः ।
ॐ औषधकराय नमः ।
ॐ औषधाय नमः । (१८०)
ॐ औषधाकराय नमः ।
ॐ अंशुमते नमः ।
ॐ अंशुमालीड्याय नमः ।
ॐ अम्बिकातनयाय नमः ।
ॐ अन्नदाय नमः ।
ॐ अन्धकारिसुताय नमः ।
ॐ अन्धत्वहारिणे नमः ।
ॐ अम्बुजलोचनाय नमः ।
ॐ अस्तमायाय नमः ।
ॐ अर्पणार्हाय नमः । (१९०)
ॐ अस्पष्टाय नमः ।
ॐ अस्तोकपुण्यदाय नमः ।
ॐ अस्तामित्राय नमः ।
ॐ अस्तरूपाय नमः ।
ॐ अस्खलद्गतिदायकाय नमः ।
ॐ कार्तिकेयाय नमः ।
ॐ कामरूपाय नमः ।
ॐ कुमाराय नमः ।
ॐ क्रौञ्चदारणाय नमः ।
ॐ कामदाय नमः । (२००)
ॐ कारणाय नमः ।
ॐ काम्याय नमः ।
ॐ कमनीयाय नमः ।
ॐ कृपाकराय नमः ।
ॐ काञ्चनाभाय नमः ।
ॐ कान्तियुक्ताय नमः ।
ॐ कामाय नमः ।
ॐ कामप्रदाय नमः ।
ॐ कवये नमः ।
ॐ कीर्तिकृते नमः । (२१०)
ॐ कुक्कुटधराय नमः ।
ॐ कूटस्थाय नमः ।
ॐ कुवलेक्षणाय नमः ।
ॐ कुङ्कुमाङ्गाय नमः ।
ॐ क्लमहराय नमः ।
ॐ कुशलाय नमः ।
ॐ कुक्कुटध्वजाय नमः ।
ॐ कुशानुसम्भवाय नमः ।
ॐ क्रूराय नमः ।
ॐ क्रूरघ्नाय नमः । (२२०)
ॐ कलितापहृते नमः ।
ॐ कामरूपाय नमः ।
ॐ कल्पतरवे नमः ।
ॐ कान्ताय नमः ।
ॐ कामितदायकाय नमः ।
ॐ कल्याणकृते नमः ।
ॐ क्लेशनाशाय नमः ।
ॐ कृपालवे नमः ।
ॐ करुणाकराय नमः ।
ॐ कळूषघ्नाय नमः । (२३०)
ॐ क्रियाशक्ताय नमः ।
ॐ कठोराय नमः ।
ॐ कवचिने नमः ।
ॐ कृतिने नमः ।
ॐ कोमलाङ्गाय नमः ।
ॐ कुहूप्रीताय नमः ।
ॐ कुत्सितघ्नाय नमः ।
ॐ कलाधराय नमः ।
ॐ ख्याताय नमः ।
ॐ खेटधराय नमः । (२४०)
ॐ खड्गिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ खलनिग्रहाय नमः ।
ॐ ख्यातिप्रदाय नमः ।
ॐ खेचरेशाय नमः ।
ॐ ख्यातैनसे नमः ।
ॐ खेचरस्तुताय नमः ।
ॐ खरतापहराय नमः ।
ॐ खस्थाय नमः ।
ॐ खेचराय नमः । (२५०)
ॐ खेचराश्रयाय नमः ।
ॐ खण्डेन्दुमौलितनयाय नमः ।
ॐ खेलाखेचरपालकाय नमः ।
ॐ खस्थप्रियाय नमः ।
ॐ खण्डिताघाय नमः ।
ॐ खेचरीजनपूजिताय नमः ।
ॐ खेटाद्यायुधसम्पन्नाय नमः ।
ॐ खर्वेतरपदप्रदाय नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ गिरिजापुत्राय नमः । (२६०)
ॐ गणनाथानुजाय नमः ।
ॐ गुहाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गीर्वाणसंसेव्याय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गतिप्रदाय नमः ।
ॐ गुणनिधये नमः ।
ॐ गम्भीराय नमः ।
ॐ गिरिजात्मजाय नमः । (२७०)
ॐ गूढरूपाय नमः ।
ॐ गदहराय नमः ।
ॐ ग्रहाधीशाय नमः ।
ॐ गणाग्रण्ये नमः ।
ॐ गोधराय नमः ।
ॐ गहनाय नमः ।
ॐ गुप्ताय नमः ।
ॐ गर्वघ्नाय नमः ।
ॐ गुणवर्द्धनाय नमः ।
ॐ गुह्याय नमः । (२८०)
ॐ गुणज्ञाय नमः ।
ॐ गीतिज्ञाय नमः ।
ॐ गतातङ्काय नमः ।
ॐ गुणोत्तराय नमः ।
ॐ गद्यपद्यप्रियाय नमः ।
ॐ गुण्याय नमः ।
ॐ गोस्तुताय नमः ।
ॐ गगनेचराय नमः ।
ॐ गणनीयचरित्राय नमः ।
ॐ गतक्लेशाय नमः । (२९०)
ॐ गुहाश्रयाय नमः ।
ॐ घूर्णिताक्षाय नमः ।
ॐ घृणिनिधये नमः ।
ॐ घनगम्भीरघोषणाय नमः ।
ॐ घण्टानादप्रियाय नमः ।
ॐ घोषाय नमः ।
ॐ घोराघौघविनाशनाय नमः ।
ॐ घनप्रियाय नमः ।
ॐ घनानन्दाय नमः ।
ॐ घर्महन्त्रे नमः ।
ॐ घृणावते नमः । (३००)
ॐ घृष्टिपातकाय नमः ।
ॐ घृणये नमः ।
ॐ घृणाकराय नमः ।
ॐ घोराय नमः ।
ॐ घोरदैत्यप्रहारकाय नमः ।
ॐ घटिदैत्यप्रहारकाय नमः ।
ॐ घटीतैश्वर्यसन्दोहाय नमः ।
ॐ घनर्द्धये नमः ।
ॐ घनविक्रमाय नमः ।
ॐ घृणिमण्डलरूपाय नमः ।
ॐ घनसम्पत्प्रदाय नमः । (३१०)
ॐ घनाय नमः ।
ॐ ङकारस्वरणस्सर्वरन्ध्रस्थ-त्रिपुटीप्रभाय नमः ।
ॐ ङणद्घण्टारवान्तस्थाय नमः ।
ॐ ङणारावततिप्रियाय नमः ।
ॐ ङकाराकारकद्वन्द्व-सर्वसन्ध्याप्त-चिन्मयाय नमः ।
ॐ चित्रकृते नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ चञ्चलाय नमः ।
ॐ चपलद्युतये नमः ।
ॐ चिन्मयाय नमः । (३२०)
ॐ चित्स्वरूपाय नमः ।
ॐ चिदानन्दाय नमः ।
ॐ चिरन्तनाय नमः ।
ॐ चित्रकेलये नमः ।
ॐ चित्रतराय नमः ।
ॐ चिन्तनीयाय नमः ।
ॐ चमत्कृतये नमः ।
ॐ चोरघ्नाय नमः ।
ॐ चतुराय नमः ।
ॐ चारवे नमः । (३३०)
ॐ चामीकरविभूषणाय नमः ।
ॐ चन्द्रार्ककोटिसदृशाय नमः ।
ॐ चन्द्रमौलितनूद्भवाय नमः ।
ॐ चेटीभूतप्रपञ्चाय नमः ।
ॐ चण्डाय नमः ।
ॐ चण्डोरिविक्रमाय नमः ।
ॐ छादिताङ्गाय नमः ।
ॐ छद्महन्त्रे नमः ।
ॐ छेदिताखिलपातकाय नमः ।
ॐ छेदीकृततमहाक्लेशाय नमः । (३४०)
ॐ छत्रीकृतमहायशसे नमः ।
ॐ छादिताशेषसन्तापाय नमः ।
ॐ छुरितानीकसागराय नमः ।
ॐ छेदिताशेषदैत्यौघाय नमः ।
ॐ छातैनसे नमः ।
ॐ छिन्नसंशयाय नमः ।
ॐ छन्दोमयाय नमः ।
ॐ छन्दगामिने नमः ।
ॐ छिन्नपाशाय नमः ।
ॐ छविच्छदाय नमः । (३५०)
ॐ छेदिताशेषसंसाराय नमः ।
ॐ छव्यग्नीन्दुविलोचनाय नमः ।
ॐ जगद्धिताय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ जगज्ज्येष्ठाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जनकाय नमः ।
ॐ जाह्नवीसूनवे नमः
ॐ जितामित्राय नमः ।
ॐ जगद्गुरवे नमः । (३६०)
ॐ जयिने नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जेत्रे नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगज्जीवाय नमः ।
ॐ जनाश्रयाय नमः ।
ॐ जगद्वन्द्याय नमः ।
ॐ जगच्छ्रेष्ठाय नमः । (३७०)
ॐ जितक्लेशाय नमः ।
ॐ जगद्विभवे नमः ।
ॐ जगत्सेव्याय नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगत्प्रियाय नमः ।
ॐ जम्भारिवन्द्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगदानन्दजनकाय नमः । (३८०)
ॐ जनजाड्यापहारकाय नमः ।
ॐ जपाकुसुमसङ्काशाय नमः ।
ॐ जनलोचनशोभनाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जगद्भव्याय नमः ।
ॐ जनजन्मनिबर्हणाय नमः ।
ॐ जयदाय नमः ।
ॐ जन्तुतापघ्नाय नमः ।
ॐ जितदैत्यमहापथाय नमः ।
ॐ जितमायाय नमः । (३९०)
ॐ जितक्रोधाय नमः ।
ॐ जितसङ्गाय नमः ।
ॐ जनप्रियाय नमः ।
ॐ झञ्झानिलमहावेगाय नमः ।
ॐ झरिताशेषपातकाय नमः ।
ॐ झर्झरीकृतदैत्यौघाय नमः ।
ॐ झल्लरीवाद्यसुप्रियाय नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः । (४००)
ॐ ज्ञानमहानिधये नमः ।
ॐ ज्ञानोपदेशिकर्त्रे नमः ।
ॐ ज्ञानदाय नमः ।
ॐ ज्ञानदेशिकाय नमः ।
ॐ टङ्कारनृत्तविभवाय नमः ।
ॐ टङ्कवज्रध्वजाङ्किताय नमः ।
ॐ टङ्किताखिललोकाय नमः ।
ॐ टङ्कितैनस्तमोरवये नमः ।
ॐ ठकारमध्यनिलयाय नमः ।
ॐ ठवर्णाकारमण्डलाय नमः । (४१०)
ॐ ठपदान्तश्श्रूयमाणनादरूपाय नमः ।
ॐ ठकाराय नमः ।
ॐ डम्बरप्रभवाय नमः ।
ॐ डम्भाय नमः ।
ॐ डमड्डमरुकप्रियाय नमः ।
ॐ डमरोत्कटसन्नादाय नमः ।
ॐ डिम्भरूपस्वरूपकाय नमः ।
ॐ ढक्कानादप्रीतिकराय नमः ।
ॐ ढालितासुरसङ्कुलाय नमः ।
ॐ ढौकितामरसन्दोहाय नमः । (४२०)
ॐ ढुण्ढिविघ्नेश्वरानुजाय नमः ।
ॐ णकारबिन्दुद्वन्द्वैक्य-ज्ञानेनाश्चर्यकारकाय नमः ।
ॐ णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टद्वि-वल्लिकाय नमः ।
ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ त्रयीमयाय नमः ।
ॐ त्रिकालज्ञाय नमः । (४३०)
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिदशेशाय नमः ।
ॐ तारकारये नमः ।
ॐ तापघ्नाय नमः ।
ॐ तापसप्रियाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ तपोरूपाय नमः । (४४०)
ॐ त्रिकालविदे नमः ।
ॐ स्तोत्रे नमः ।
ॐ स्तव्याय नमः ।
ॐ स्तवप्रीताय नमः ।
ॐ स्तुतये नमः ।
ॐ स्तोत्राय नमः ।
ॐ स्तवप्रियाय नमः ।
ॐ तारेशपूजिताय नमः ।
ॐ तथ्याय नमः ।
ॐ तुम्बुरुनारदार्चिताय नमः ।
ॐ स्थिराय नमः । (४५१)
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः ।
ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ स्थूलाय नमः ।
ॐ स्थानदाय नमः ।
ॐ स्थैर्यदाय नमः ।
ॐ स्थिराय नमः । (४६०)
ॐ दान्ताय नमः ।
ॐ दयापराय नमः ।
ॐ दात्रे नमः ।
ॐ दुरितघ्नाय नमः ।
ॐ दुरासदाय नमः ।
ॐ दर्शनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ देवदेवाय नमः ।
ॐ दयानिधये नमः ।
ॐ दुराधर्षाय नमः । (४७०)
ॐ दुर्विगाह्याय नमः ।
ॐ दक्षाय नमः ।
ॐ दर्पणशोभिताय नमः ।
ॐ दुर्धराय नमः ।
ॐ दानशूराय नमः ।
ॐ द्वादशाक्षाय नमः ।
ॐ द्विषड्भुजाय नमः ।
ॐ द्विषट्कर्णाय नमः ।
ॐ द्विषण्णेत्राय नमः ।
ॐ दीनसन्तापनाशनाय नमः ।
ॐ दन्दशूकेश्वराय नमः । (४८१)
ॐ देवाय नमः ।
ॐ दिव्याय नमः ।
ॐ दिव्याकृतये नमः ।
ॐ दमाय नमः ।
ॐ दीर्घपृष्ठाय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ दीर्घदृष्टये नमः ।
ॐ दिवस्पतये नमः ।
ॐ दण्डाय नमः । (४९०)
ॐ दमयित्रे नमः ।
ॐ दर्पाय नमः ।
ॐ देवसिंहाय नमः ।
ॐ दृढव्रताय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दीप्ताय नमः ।
ॐ दुष्प्रेक्ष्याय नमः ।
ॐ दिव्यमङ्गलाय नमः ।
ॐ दुरोदरघ्नाय नमः । (५००)
ॐ दुःखघ्नाय नमः ।
ॐ दुरारिघ्नाय नमः ।
ॐ दिशाम्पतये नमः ।
ॐ दुर्जयाय नमः ।
ॐ देवसेनेशाय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ दुरतिक्रमाय नमः ।
ॐ दम्भाय नमः ।
ॐ दृप्ताय नमः ।
ॐ देवर्षये नमः । (५१०)
ॐ दैवज्ञाय नमः ।
ॐ दैवचिन्तकाय नमः ।
ॐ धुरन्धराय नमः ।
ॐ धर्मपराय नमः ।
ॐ धनदाय नमः ।
ॐ धृतवर्धनाय नमः ।
ॐ धर्मेशाय नमः ।
ॐ धर्मशास्त्रज्ञाय नमः ।
ॐ धन्विने नमः ।
ॐ धर्मपरायणाय नमः । (५२०)
ॐ धनाध्यक्षाय नमः ।
ॐ धनपतये नमः ।
ॐ धृतिमते नमः ।
ॐ धूतकिल्बिषाय नमः ।
ॐ धर्महेतवे नमः ।
ॐ धर्मशूराय नमः ।
ॐ धर्मकृते नमः ।
ॐ धर्मविदे नमः ।
ॐ ध्रुवाय नमः ।
ॐ धात्रे नमः । (५३०)
ॐ धीमते नमः ।
ॐ धर्मचारिणे नमः ।
ॐ धन्याय नमः ।
ॐ धुर्याय नमः ।
ॐ धृतव्रताय नमः ।
ॐ धरित्रीमण्डलाध्यक्षाय नमः ।
ॐ धन्धान्यविवर्धनाय नमः ।
ॐ नित्योत्सवाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निर्लेपाय नमः । (५४०)
ॐ निश्चलात्मकाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निराधाराय नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्मायाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ नित्यानन्दाय नमः । (५५०)
ॐ निरातङ्काय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरामयाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरीहाय नमः ।
ॐ निर्द्वन्द्वाय नमः ।
ॐ निर्मलात्मकाय नमः ।
ॐ नीरजाक्षाय नमः ।
ॐ निर्जरेशाय नमः ।
ॐ निःसङ्गाय नमः । (५६०)
ॐ निगमस्तुताय नमः ।
ॐ निष्कण्टकाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निष्प्रत्यूहाय नमः ।
ॐ निरुद्भवाय नमः ।
ॐ नित्याय नमः ।
ॐ नियतकल्याणाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ नेत्रे नमः । (५७०)
ॐ निधये नमः ।
ॐ नैकरूपाय नमः ।
ॐ निराकाराय नमः ।
ॐ नदीसुताय नमः ।
ॐ नानायुधधराय नमः ।
ॐ नाथाय नमः ।
ॐ नानासाम्राज्यदायकाय नमः ।
ॐ नागपाशधराय नमः ।
ॐ नन्दिने नमः ।
ॐ नारदादिसुपूजिताय नमः । (५८०)
ॐ नाट्योत्सुकाय नमः ।
ॐ नदीसूनवे नमः ।
ॐ नगारिप्रियदायकाय नमः ।
ॐ नक्षत्ररूपिणे नमः ।
ॐ नेत्रे नमः ।
ॐ नित्योत्सुकाय नमः ।
ॐ नटाय नमः ।
ॐ निर्मलाय नमः ।
ॐ निरहङ्काराय नमः । (५९०)
ॐ नित्याभीष्टफलप्रदाय नमः ।
ॐ पुलिन्दकन्यारमणाय नमः ।
ॐ पुरुजित्परमप्रियाय नमः ।
ॐ प्रत्यक्षमूर्तये नमः ।
ॐ प्रत्यक्षाय नमः ।
ॐ परेशाय नमः ।
ॐ पूर्णपुण्यदाय नमः ।
ॐ पुण्याकराय नमः ।
ॐ पुण्यरूपाय नमः ।
ॐ पुण्याय नमः । (६००)
ॐ पुण्यपरायणाय नमः ।
ॐ पुण्योदयाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ पुण्यकृते नमः ।
ॐ पुण्यवर्धनाय नमः ।
ॐ परानन्दाय नमः ।
ॐ परतराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ प्रसन्नरूपाय नमः । (६१०)
ॐ प्राणेशाय नमः ।
ॐ पन्नगाय नमः ।
ॐ पापनाशनाय नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ पूर्णाय नमः ।
ॐ पार्वतीनन्दनाय नमः ।
ॐ प्रभवे नमः ।
ॐ पूतात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ प्राणाय नमः । (६२०)
ॐ प्रभवाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ परमश्रेष्ठाय नमः ।
ॐ पटवे नमः ।
ॐ परिबृढाय नमः ।
ॐ परस्मै नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परर्द्धये नमः । (६३०)
ॐ प्रियदर्शनाय नमः ।
ॐ पवित्राय नमः ।
ॐ पुष्टिदाय नमः ।
ॐ पूर्तये नमः ।
ॐ पिङ्गलाय नमः ।
ॐ पुष्टिवर्धनाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ पाशहस्ताय नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ पावनाय नमः । (६४०)
ॐ पावकाय नमः ।
ॐ पूज्याय नमः ।
ॐ पूर्णानन्दाय नमः ।
ॐ परात्पराय नमः ।
ॐ पुष्कराय नमः ।
ॐ प्रवराय नमः ।
ॐ पूर्वस्मै नमः ।
ॐ पितृभक्तपुरोगमाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणिजनकाय नमः । (६५०)
ॐ प्रतिष्ठायै नमः ।
ॐ पावकोद्भवाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ परमैश्वर्यकारणाय नमः ।
ॐ परर्द्धिदाय नमः ।
ॐ पुष्टिकराय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः ।
ॐ प्रज्ञापराय नमः ।
ॐ प्रकृष्टार्थाय नमः ।
ॐ पृथवे नमः ।
ॐ पृथुपराक्रमाय नमः ।
ॐ पूतनाजीवहरणजामात्रे नमः ।
ॐ पूर्णविग्रहाय नमः ।
ॐ फणीश्वराय नमः ।
ॐ फणिवराय नमः ।
ॐ फणामणिविभुषिताय नमः ।
ॐ फलदाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फुल्लाम्बुजविलोचनाय नमः । (६७०)
ॐ फडुच्चाटितपापौघाय नमः ।
ॐ फणिलोकविभूषणाय नमः ।
ॐ फणिसङ्घादरापीत-निजवाणीरसामृताय नमः ।
ॐ बाहुलेयाय नमः ।
ॐ बृहद्रूपाय नमः ।
ॐ बलिष्ठाय नमः ।
ॐ बलवते नमः ।
ॐ बलिने नमः ।
ॐ ब्रह्मेशविष्णुरूपाय नमः ।
ॐ बुद्धये नमः । (६८०)
ॐ बुद्धिमतां वराय नमः ।
ॐ बालरूपाय नमः ।
ॐ बृहद्गर्भाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ बुधप्रियाय नमः ।
ॐ बहुश्रुताय नमः ।
ॐ बहुमताय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ बलप्रमथनाय नमः । (६९०)
ॐ ब्रह्मणे नमः ।
ॐ बहुरूपाय नमः ।
ॐ बहुप्रदाय नमः ।
ॐ बृहद्भानुतनूद्भूताय नमः ।
ॐ बृहद्बाहवे नमः ।
ॐ बिलेशयाय नमः ।
ॐ बहुबाहवे नमः ।
ॐ बलश्रीमते नमः ।
ॐ बहुदैत्यविनाशकाय नमः ।
ॐ बिलद्वारान्तरालस्थाय नमः ।
ॐ बृहच्छक्तिधनुर्धराय नमः ।
ॐ बालार्कद्युतिमते नमः ।
ॐ बालाय नमः ।
ॐ बृहद्वक्षसे नमः ।
ॐ बृहद्धनुषे नमः ।
ॐ बद्धतूणीरांसदेशाय नमः ।
ॐ बद्धपाशविमोचनाय नमः ।
ॐ भव्याय नमः ।
ॐ भोगीश्वराय नमः ।
ॐ भाव्याय नमः । (७१०)
ॐ भवनाशाय नमः ।
ॐ भवप्रियाय नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः ।
ॐ भजनप्रियाय नमः ।
ॐ भुक्तिमुक्तिप्रदाय नमः ।
ॐ भोगिने नमः ।
ॐ भगवते नमः ।
ॐ भाग्यवर्धनाय नमः । (७२०)
ॐ भ्राजिष्णवे नमः ।
ॐ भावनाय नमः ।
ॐ भर्त्रे नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः ।
ॐ भोक्त्रे नमः ।
ॐ भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः । (७३०)
ॐ भावुकाय नमः ।
ॐ भीकराय नमः ।
ॐ भीष्माय नमः ।
ॐ भावकेष्टाय नमः ।
ॐ भवोद्भवाय नमः ।
ॐ भवतापप्रशमनाय नमः ।
ॐ भोगवते नमः ।
ॐ भूतभावनाय नमः ।
ॐ भोज्यप्रदाय नमः ।
ॐ भ्रान्तिनाशाय नमः । (७४०)
ॐ भानुमते नमः ।
ॐ भुवनाश्रयाय नमः ।
ॐ भूरिभोगप्रदाय नमः ।
ॐ भद्राय नमः ।
ॐ भजनीयाय नमः ।
ॐ भिषग्वराय नमः ।
ॐ भक्तेष्टदाननिरताय नमः ।
ॐ भार्गवाद्यभिवन्दिताय नमः ।
ॐ महासेनाय नमः ।
ॐ महोदराय नमः । (७५०)
ॐ महाशक्तये नमः ।
ॐ महाद्युतये नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाभोगाय नमः ।
ॐ महामायिने नमः ।
ॐ मेधाविने नमः ।
ॐ मेखलिने नमः । (७६०)
ॐ महते नमः ।
ॐ मुनिस्तुताय नमः ।
ॐ महामान्याय नमः ।
ॐ महानन्दाय नमः ।
ॐ महायशसे नमः ।
ॐ महोर्जिताय नमः ।
ॐ माननिधये नमः ।
ॐ मनोरथफलप्रदाय नमः ।
ॐ महोदयाय नमः ।
ॐ महापुण्याय नमः । (७७०)
ॐ महाबलपराक्रमाय नमः ।
ॐ मानदाय नमः ।
ॐ मतिदाय नमः ।
ॐ मालिने नमः ।
ॐ मुक्तामालाविभूषणाय नमः ।
ॐ मनोहराय नमः ।
ॐ महामुख्याय नमः ।
ॐ महर्द्धये नमः ।
ॐ मूर्तिमते नमः ।
ॐ मुनये नमः । (७८०)
ॐ महोत्तमाय नमः ।
ॐ महोपायाय नमः ।
ॐ मोक्षदाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ मुदाकराय नमः ।
ॐ मुक्तिदात्रे नमः ।
ॐ महाभोगाय नमः ।
ॐ महोरगाय नमः ।
ॐ यशस्कराय नमः ।
ॐ योगयोनये नमः । (७९०)
ॐ योगिष्ठाय नमः ।
ॐ यमिनां वराय नमः ।
ॐ यशस्विने नमः ।
ॐ योगपुरुषाय नमः ।
ॐ योग्याय नमः ।
ॐ योगनिधये नमः ।
ॐ यमिने नमः ।
ॐ यतिसेव्याय नमः ।
ॐ योगयुक्ताय नमः ।
ॐ योगविदे नमः । (८००)
ॐ योगसिद्धिदाय नमः ।
ॐ यन्त्राय नमः ।
ॐ यन्त्रिणे नमः ।
ॐ यन्त्रज्ञाय नमः ।
ॐ यन्त्रवते नमः ।
ॐ यन्त्रनायकाय नमः ।
ॐ यातनारहिताय नमः ।
ॐ योगिने नमः ।
ॐ योगीशाय नमः ।
ॐ योगिनां वराय नमः । (८१०)
ॐ रमणीयाय नमः ।
ॐ रम्यरूपाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ रसभावुकाय नमः ।
ॐ रञ्जनाय नमः ।
ॐ रञ्जिताय नमः ।
ॐ रागिणे नमः ।
ॐ रुजुराये नमः । (८२०)
ॐ रुद्रसम्भवाय नमः ।
ॐ रणप्रियाय नमः ।
ॐ रणोदाराय नमः ।
ॐ रागद्वेषविनाशनाय नमः ।
ॐ रत्नार्चीरुचिराय नमः ।
ॐ रम्याय नमः ।
ॐ रूपलावण्यविग्रहाय नमः ।
ॐ रत्नाङ्गदधराय नमः ।
ॐ रत्नभूषणाय नमः ।
ॐ रमणीयकाय नमः । (८३०)
ॐ रुचिकृते नमः ।
ॐ रोचमानाय नमः ।
ॐ रञ्जिताय नमः ।
ॐ रोगनाशनाय नमः ।
ॐ राजीवाक्षाय नमः ।
ॐ राजराजाय नमः ।
ॐ रक्तमाल्यानुलेपनाय नमः ।
ॐ राजद्वेदागमस्तुत्याय नमः ।
ॐ रजःसत्त्वगुणान्विताय नमः ।
ॐ रजनीशकलारम्याय नमः ।(८४०)
ॐ रत्नकुण्डलमण्डिताय नमः ।
ॐ रत्नसन्मौलिशोभाढ्याय नमः ।
ॐ रणन्मञ्जीरभूषणाय नमः ।
ॐ रसवक्त्रधराय नमः ।
ॐ रागिणे नमः ।
ॐ रञ्जनीयपदाम्बिजाय नमः ।
ॐ लोकैकनाथाय नमः ।
ॐ लोकेशललिताय नमः ।
ॐ लोकनायकाय नमः ।
ॐ लोकशिक्षाय नमः । (८५०)
ॐ लोकरक्षाय नमः ।
ॐ लोकलोचनरञ्जिताय नमः ।
ॐ लोकचूडामणये नमः ।
ॐ लोलाय नमः ।
ॐ लावण्याय नमः ।
ॐ लयवर्जिताय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ लोकवन्द्याय नमः ।
ॐ लोकोत्तरगुणकराय नमः ।
ॐ लोकबन्धवे नमः । (८६०)
ॐ लोकदात्रे नमः ।
ॐ लोकत्रयमहाहिताय नमः ।
ॐ लोकातीतगुणोपेताय नमः ।
ॐ लोकालोकस्वरूपवते नमः ।
ॐ लास्यप्रियाय नमः ।
ॐ लास्यदर्शिने नमः ।
ॐ लताकुसुमपूजिताय नमः ।
ॐ लब्धमानाय नमः ।
ॐ लब्धरसाय नमः ।
ॐ लब्धहर्षाय नमः । (८७०)
ॐ लसत्कराय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः ।
ॐ वन्द्याय नमः ।
ॐ विशिष्टाय नमः ।
ॐ विक्रमिणे नमः ।
ॐ विभवे नमः ।
ॐ विबुधाग्रचराय नमः ।
ॐ विश्वस्मै नमः ।
ॐ विकल्पपरिवर्जिताय नमः ।
ॐ विपाशाय नमः । (८८१)
ॐ विगतातङ्काय नमः ।
ॐ विचित्राङ्गाय नमः ।
ॐ विरोचनाय नमः ।
ॐ विद्याधराय नमः ।
ॐ विशुद्धात्मने नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ विबुधप्रियाय नमः ।
ॐ वचस्कराय नमः ।
ॐ व्यापकाय नमः । (८९०)
ॐ विज्ञानिने नमः ।
ॐ विनयान्विताय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ विरोधिघ्नाय नमः ।
ॐ वीराय नमः ।
ॐ वीरासनाय नमः ।
ॐ विधये नमः ।
ॐ वीतरागाय नमः ।
ॐ विनीतात्मने नमः ।
ॐ वेदगर्भाय नमः । (९००)
ॐ विराड्वपुषे नमः ।
ॐ विश्वदीप्तये नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विजितात्मने नमः ।
ॐ विभावनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ विधेयात्मने नमः ।
ॐ वीतदोषाय नमः ।
ॐ वसुप्रदाय नमः ।
ॐ विश्वकर्मणे नमः । (९१०)
ॐ वीतभयाय नमः ।
ॐ वागीशाय नमः ।
ॐ वासवार्चिताय नमः ।
ॐ वेदविदे नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ वरासनाय नमः ।
ॐ वाग्मिने नमः ।
ॐ वेदधराय नमः ।
ॐ विदुषे नमः । (९२०)
ॐ विशाखाय नमः ।
ॐ विमलाय नमः ।
ॐ वटवे नमः ।
ॐ वीरचूडामणये नमः ।
ॐ वीरविजयाय नमः ।
ॐ विबुधाश्रयाय नमः ।
ॐ विजयिने नमः ।
ॐ विनयिने नमः ।
ॐ वेत्रे नमः ।
ॐ वरीयसे नमः । (९३०)
ॐ विरजसे नमः ।
ॐ वसवे नमः ।
ॐ वीरघ्नाय नमः ।
ॐ विज्वराय नमः ।
ॐ वेद्याय नमः ।
ॐ वेगवते नमः ।
ॐ वीर्यवते नमः ।
ॐ वशिने नमः ।
ॐ वरशीलाय नमः ।
ॐ वरगुणाय नमः । (९४०)
ॐ विशोकाय नमः ।
ॐ वज्रधारकाय नमः ।
ॐ शरजन्मने नमः ।
ॐ शक्तिधराय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ श्रीमते नमः ।
ॐ शिष्टाय नमः ।
ॐ शुचये नमः ।
ॐ शुद्धाय नमः । (९५०)
ॐ शाश्वताय नमः ।
ॐ श्रुतिसागराय नमः ।
ॐ शरण्याय नमः ।
ॐ शुभदाय नमः ।
ॐ शर्मणे नमः ।
ॐ शिष्टेष्टाय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ शान्ताय नमः ।
ॐ शूलधराय नमः ।
ॐ श्रेष्ठाय नमः । (९६०)
ॐ शुद्धात्मने नमः ।
ॐ शङ्कराय नमः ।
ॐ शिवाय नमः ।
ॐ शितिकण्ठात्मजाय नमः ।
ॐ शूराय नमः ।
ॐ शान्तिदाय नमः ।
ॐ शोकनाशनाय नमः ।
ॐ शूरसंहारदक्षाय नमः ।
ॐ शिष्टाचारप्रपूजिताय नमः ।
ॐ षाण्मातुराय नमः । (९७०)
ॐ षण्मुखाय नमः ।
ॐ षड्गुणैश्वर्यसम्युताय नमः ।
ॐ षट्चक्रस्थाय नमः ।
ॐ षडूर्मिघ्नाय नमः ।
ॐ षडङ्गश्रुतिपारगाय नमः ।
ॐ षड्भावरहिताय नमः ।
ॐ षट्काय नमः ।
ॐ षट्शास्त्रस्मृतिपारगाय नमः ।
ॐ षड्वर्गरूपाय नमः ।
ॐ षड्ग्रीवाय नमः । (९८०)
ॐ षडरिघ्नाय नमः ।
ॐ षडाश्रयाय नमः ।
ॐ षट्किरीटधराय श्रीमते नमः ।
ॐ षडाधाराय नमः ।
ॐ षट्क्रमाय नमः ।
ॐ षट्कोणमध्यनिलयाय नमः ।
ॐ षण्डत्वपरिहारकाय नमः ।
ॐ सेनान्ये नमः ।
ॐ सुभगाय नमः ।
ॐ स्कन्दाय नमः । (९९०)
ॐ सुरानन्दाय नमः ।
ॐ सतां गतये नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सुखिने नमः ।
ॐ सुलभाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सौम्याय नमः । (१०००)
ॐ सिद्धेशाय नमः ।
ॐ सिद्धिसाधनाय नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सिद्धाय नमः ।
ॐ साधवे नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सुभुजाय नमः ।
ॐ सर्वविदे नमः ।
ॐ साक्षिणे नमः । (१०१०)
ॐ सुप्रसादाय नमः ।
ॐ सनातनाय नमः ।
ॐ सुधापतये नमः ।
ॐ स्वयञ्ज्योतिषे नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ समर्थाय नमः ।
ॐ सत्कृतये नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सुमुखाय नमः । (१०२०)
ॐ सुखदाय नमः ।
ॐ सुहृदे नमः ।
ॐ सुप्रसन्नाय नमः ।
ॐ सुरश्रेष्ठाय नमः ।
ॐ सुशीलाय नमः ।
ॐ सत्यसाधकाय नमः ।
ॐ सम्भाव्याय नमः ।
ॐ सुमनस्सेव्याय नमः ।
ॐ सकलागमपारगाय नमः ।
ॐ सुव्यक्ताय नमः । (१०३०)
ॐ सच्चिदानन्दाय नमः ।
ॐ सुवीराय नमः ।
ॐ सुजनाश्रयाय नमः ।
ॐ सर्वलक्षणसम्पन्नाय नमः ।
ॐ सत्यधर्मपरायणाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ सत्वाय नमः ।
ॐ सदामृष्टान्नदायकाय नमः ।
ॐ सुधन्वने नमः ।
ॐ सुमतये नमः । (१०४०)
ॐ सत्याय नमः ।
ॐ सर्वविघ्नविनाशनाय नमः ।
ॐ सर्वदुःखप्रशमनाय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सुग्रीवाय नमः ।
ॐ सुशिरसे नमः ।
ॐ साराय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुरारिघ्ने नमः । (१०५०)
ॐ सुविक्रमाय नमः ।
ॐ सर्ववर्णाय नमः ।
ॐ सर्पराजाय नमः ।
ॐ सदाशुचये नमः ।
ॐ सप्तार्चिर्भुवे नमः ।
ॐ सुरवराय नमः ।
ॐ सर्वायुधविशारदाय नमः ।
ॐ सर्वलोकैकनाथाय नमः ।
ॐ साम्बाराधनतत्पराय नमः ।
ॐ हस्तिचर्माम्बरसुताय नमः । (१०६०)
ॐ हस्तिवाहनसेविताय नमः ।
ॐ हस्त्यश्ववाहनाय नमः ।
ॐ हस्तिने नमः ।
ॐ हस्तदैत्यहरानुजाय नमः ।
ॐ हकाररूपिणे नमः ।
ॐ हंसात्मने नमः ।
ॐ हलभृते नमः ।
ॐ हरिपुजिताय नमः ।
ॐ हविषे नमः ।
ॐ हरिद्रावर्णाय नमः । (१०७०)
ॐ हृताघाय नमः ।
ॐ हस्तिताननाय नमः ।
ॐ हेमभूषाय नमः ।
ॐ हरिद्वर्णाय नमः ।
ॐ हृष्टिदाय नमः ।
ॐ हृष्टिवर्धनाय नमः ।
ॐ हेलाद्रिविध्वंसकारिणे नमः ।
ॐ हुङ्कारहृतकिल्बिषाय नमः ।
ॐ हिमाद्रिजातनूद्भवाय नमः ।
ॐ हरिकेशाय नमः । (१०८०)
ॐ हिरण्मयाय नमः ।
ॐ हृद्याय नमः ।
ॐ हृष्टाय नमः ।
ॐ हरिसखाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ हविषे नमः ।
ॐ हिरण्यवर्णाय नमः ।
ॐ हितकृते नमः ।
ॐ हर्षदाय नमः । (१०९०)
ॐ हेमभूषणाय नमः ।
ॐ हरप्रियाय नमः ।
ॐ हितकराय नमः ।
ॐ हतपापाय नमः ।
ॐ हरोद्भवाय नमः ।
ॐ क्षेमदाय नमः ।
ॐ क्षेमकृते नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रवर्जिताय नमः । (११००)
ॐ क्षेत्रपालाय नमः ।
ॐ क्षमाधाराय नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षेत्राय नमः ।
ॐ क्षमाकराय नमः ।
ॐ क्षुत्तृड्घ्नाय नमः ।
ॐ क्षान्तिदाय नमः ।
ॐ क्षेमिने नमः ।
ॐ क्षितिभूषाय नमः ।
ॐ क्षमाश्रयाय नमः । (१११०)
ॐ क्षालिताघाय नमः ।
ॐ क्षितिधराय नमः ।
ॐ क्षीणसंरक्षणक्षमाय नमः । (१११३)
॥ श्रीवल्लीदेवसेनासमेतश्रीप्रसन्नज्ञानशिवसुब्रह्मण्यस्वामिने नमः ॥
श्रीषण्मुख अथवा अधोमुखसहस्रनामस्तोत्रम् एवम् नामावलिः
Prepared by Srikrishnan