श्रीसुब्रह्मण्यमूलमन्त्रस्तवः
ॐ श्रीगणेशाय नमः ।
अथातः सम्प्रवक्ष्यामि मूलमन्त्रस्तवं शिवम् ।
जपतां शृण्वतां नॄणां भक्तिमुक्तिप्रदायकम् ॥ १॥
सर्वशत्रुक्षयकरं सर्वरोगनिवारणम् ।
अष्टैश्वर्यप्रदं नित्यं सर्वलोकैकपावनम् ॥ २॥
शरारण्योद्भवं स्कन्दं शरणागतपालकम् ।
शरणं त्वां प्रपन्नस्य देहि मे विपुलां श्रियम् ॥ ३॥
राजराजसखोद्भूत राजीवायतलोचन ।
रतीशकोटिसौन्दर्य देहि मे विपुलां श्रियम् ॥ ४॥
वलारिप्रमुखैर्वन्द्य वल्लीन्द्राणीसुतापते ।
वरदाश्रितलोकानां देहि मे विपुलां श्रियम् ॥ ५॥
नारदादिमहायोगिसिद्धगन्धर्वसेवित ।
नववीरैः पूजिताङ्घ्रे देहि मे विपुलां श्रियम् ॥ ६॥
भगवन् पार्वतीसूनो स्वामिन्भक्तार्तिभञ्जन ।
भवत्पदाब्जयोर्भक्तिं देहि मे विपुलां श्रियम् ॥ ७॥
वसु धान्यं यशः कीर्तिं अविच्छेदं च सन्ततेः ।
शत्रुनाशनमद्याशु देहि मे विपुलां श्रियम् ॥ ८॥
इदं षडक्षरं स्तोत्रं सुब्रह्मण्यस्य सन्ततम् ।
यः पठेत्तस्य सिद्ध्यन्ति सम्पदश्चिन्तिताधिकाः ॥ ९॥
हृदब्जे भक्तितो नित्यं सुब्रह्मण्यं स्मरन्बुधः ।
यो जपेत्प्रातरुत्थाय सर्वान्कामानवाप्नुयात् ॥ १०॥
इति कुमारतन्त्रार्गतं श्रीसुब्रह्मण्यमूलमन्त्रस्तवः सम्पूर्णः ।
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com,
PSA Easwaran