श्रीसुब्रह्मण्यमङ्गलाष्टकम्
श्रीमद्गौरिसुतायास्तु श्रितमन्दारशाखिने ।
शिखिवर्य तुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ १॥
भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने
भवानीप्रियपुत्राय रणधीराय मङ्गलम् ॥ २॥
शूरपद्मादि दनुजतमिस्र कुलभानवे
तारकासुरसंहार नर्मशीलाय मङ्गलम् ॥ ३॥
वल्लीवदनराजीव मधुपाय महौजसे ।
उल्लसन्मणिकोटीर भासुरायास्तु मङ्गलम् ॥ ४॥
कोटिकन्दर्पलावण्यनिधये कामदायिने
खेटकादि धनुश्यक्तिधराय शुभमङ्गलम् ॥ ५॥
कनकाम्बरसंराजत्कमनीयाङ्गधारिणे
सनकादि महायोगि संस्तुतायास्तु मङ्गलम् ॥ ६॥
मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।
व्यालरूपाय विगतविकारायास्तु मङ्गलम् ॥ ७॥
शरकाननजाताय शतमन्युस्तुताय च ।
शरदिन्दुमुखायास्तु सुब्रह्मण्याय मङ्गलम् ॥ ८॥
मङ्गलशासनमिदं सुब्रह्मण्यस्य मानवः
यः पठेत्सततं भक्त्यालभते धनसम्पदम् ॥ ९॥
इति श्रीसुब्रमण्यमङ्गलाष्टकं सम्पूर्णम् ।
Proofread by Vani V.