श्रीसुब्रह्मण्यमङ्गलस्तोत्रम्
ॐ श्रीगणेशाय नमः
श्रीः ।
मङ्गलं देवदेवाय राजराजाय मङ्गलम् ।
मङ्गलं नाथनाथाय कालकालाय मङ्गलम् ॥ १॥
मङ्गलं कार्तिकेयाय गङ्गापुत्राय मङ्गलम् ।
मङ्गलं जिष्णुजेशाय वल्लीनाथाय मङ्गलम् ॥ २॥
मङ्गलं शम्भुपुत्राय जयन्तीशाय मङ्गलम् ।
मङ्गलं सुकुमाराय सुब्रह्मण्याय मङ्गलम् ॥ ३॥
मङ्गलं तारकजिते गणनाथाय मङ्गलम् ।
मङ्गलं शक्तिहस्ताय वह्निजाताय मङ्गलम् ॥ ४॥
मङ्गलं बाहुलेयाय महासेनाय मङ्गलम् ।
मङ्गलं स्वामिनाथाय मङ्गलं शरजन्मने ॥ ५॥
अष्टनेत्रपुरीशाय षण्मुखायास्तु मङ्गलम् ।
कमलासनवागीशवरदायास्तु मङ्गलम् ॥ ६॥
श्रीगौरीगर्भजाताय श्रीकण्ठतनयाय च ।
श्रीकान्तभागिनेयाय श्रीमत्स्कन्दाय मङ्गलम् ॥ ७॥
श्रीवल्लीरमणायाथ श्रीकुमाराय मङ्गलम् ।
श्रीदेवसेनाकान्ताय श्रीविशाखाय मङ्गलम् ॥ ८॥
मङ्गलं पुण्यरूपाय पुण्यश्लोकाय मङ्गलम् ।
मङ्गलं पुण्ययशसे मङ्गलं पुण्यतेजसे ॥ ९॥
ॐ नमो भगवते सुब्रह्मण्याय नमः ।
इति श्रीसुब्रह्मण्यमङ्गलस्तोत्रं सम्पूर्णम् ।
Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran