सुब्रह्मण्याराधनम्

सुब्रह्मण्याराधनम्

प्रक्षाळितपाणिपादः देवसेनापते वल्लीदेवीहृत्कञ्जमन्दिर । यावत्पूजां करिष्येऽहं प्रसन्नो भव मे प्रभो ॥ इति सम्प्रार्थ्य आसनं परिकल्प्य, आचम्य, शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ प्राणानायम्य आदौ गणपतिपूजा सङ्कल्पः, तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ करिष्यमाणस्य कर्मणः अविघ्नेन परिसमाप्त्यर्थं आदौ महागणपतिपूजां करिष्ये, तदङ्गं कलशपूजां च करिष्ये, इति सङ्कल्प्य, कलशपूजा- कलशं गन्धपुष्पाक्षतैरभ्यर्च्य, कलशं स्पृशन् कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । सर्वे समुद्राः सरितस्तीर्थानि च नदा ह्रदाः । आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदासिन्धुकावेर्यो जले कुरुत सन्निधिम् ॥ मन्त्रः - आपो वा इदँ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापस्सम्राडापो विराडापस्स्वराडापश्छन्दाँस्यापो ज्योतीँष्यापो यजूँष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ॐ इति जपित्वा कलशोदकेन पूजाद्रव्याणि देवमात्मानञ्च प्रोक्ष्य गणपति पूजा । ``गणानां त्वा गणपतिꣳ हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्श‍ृण्वन्नूतिभिस्सीद सादनम् ।'' महागणपतिं ध्यायामि, अस्मिन् बिम्बे महागणपतिमावाहयामि ॥ महागणपतये नमः आसनं समर्पयामि । पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि । स्नानं समर्पयामि । स्नानानन्तरं आचमनीयं समर्पयामि । वस्त्राणि समर्पयामि । यज्ञोपवीतं समर्पयामि । गन्धान् धारयामि । गन्धोपरि अक्षतान् समर्पयामि । पुष्पैः पूजयामि ॥ ॐ सुमुखाय नमः एकदन्ताय । कपिलाय । गजकर्णकाय । लम्बोदराय । विकटाय । विघ्नराजाय । गणाधिपाय । धूमकेतवे । गणाध्यक्षाय । भालचन्द्राय । गजाननाय । वक्रतुण्डाय । शूर्पकर्णाय । हेरम्बाय । स्कन्दपूर्वजाय । महागणाधिपतये नमः । नानाविधपत्रपुष्पाणि समर्पयामि ॥ धूपमाघ्रापयामि । दीपं दर्शयामि । धूपदीपानन्तरं आचमनीयं समर्पयामि । ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । देव सवितः प्रसुव । सत्यं त्वर्तेन परिषिञ्चामि । अमृतोपस्तरणमसि ॐ प्राणाय स्वाहा, ॐ अपानाय स्वाहा, ॐ व्यानाय स्वाहा, ॐ उदानाय स्वाहा, ॐ समानाय स्वाहा, ॐ ब्रह्मणे स्वाहा, ब्रह्मणि म आत्माऽमृतत्त्वाय । महागणपतये नमः..........निवेदयामि महागणपतये नमः मध्ये मध्ये पानीयं समर्पयामि । महागणपतये नमः ताम्बूलं समर्पयामि । महागणपतये नमः नीराजनं समर्पयामि । वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ महागणपतये नमः मन्त्रपुष्पं समर्पयामि । महागणपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि । सर्वोपचार पूजास्समर्पयामि ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप । पूजितं यन्मया देव परिपूर्णं तदस्तु ते । अनया पूजया श्रीमहागणपतिः प्रीयताम् ॥ सङ्कल्पः-ममोपात्त समस्त दुरित क्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलौ युगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोर्दक्षिणे पाश्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये..... नाम संवत्सरे.....अयने.....ऋतौ.....मासे.....पक्षे .....वासरयुक्तायां.....नक्षत्रयुक्तायां शुभयोग शुभकरणैवं गुण विशेषण विशिष्टायां अस्यां.....शुभतिथौ अस्माकं सकुटुम्बानां श्रीवल्लीदेवसेनासमेतश्रीसुब्रह्मण्यप्रसाद सिद्ध्यर्थं, तत्प्रसादेन श्रीवल्लीदेवसेना समेत श्रीसुब्रह्मण्येश्वर मुद्दिश्य यावच्छक्यं ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥ अप उपस्पृश्य, विघ्नेश्वर मुद्वास्य ॥ प्राणप्रतिष्ठा- ॐ अस्य श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वर प्राण प्रतिष्ठा महामन्त्रस्य - ब्रह्म विष्णु महेश्वरा ऋषयः । ऋग्यजुस्सामाथर्वाणि छन्दांसि । प्राणशक्तिः परा देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वर प्राणप्रतिष्ठार्थे जपे विनियोगः । अथ करन्यासः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्स्वरोमिति दिग्बन्धः । ध्यानम्- रक्ताम्भोधिस्थपोतोल्लसदरुण सरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भव मळिगुणमप्यङ्कुशं पञ्चबाणान् । विभ्राणाऽसृक्कपालं त्रिनयन लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं ह्रौं हंसः सोहं सोहं हंसः अस्य प्राणाः मम प्राणाः श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वरजीवो मम जीवः वाङ्मनश्चक्षुः श्रोत्र जिह्वा घ्राण प्राणापानव्यानोदानसमानैः सह इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा । मन्त्रः- असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृडया नस्स्वस्ति । अमृतं वै प्राणाः अमृतमापः प्राणानेव यथास्थानमुपह्वयते ॥ स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥ आवाहितो भव । स्थापितो भव । सन्निहितो भव । सन्निरुद्धो भव । अवकुण्ठितो भव । सुप्रसन्नो भव । वरदो भव । स्वामिन् प्रसीद प्रसीद ॥ मन्त्रः-आ त्वा वहन्तु हरयस्सचेतसः श्वतैरश्चैस्सह केतुमद्भिः । वाता जितैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वोम् ॥ ॥ इति जपित्वा अक्षतान् पुष्पाणि च देवतोपरि प्रक्षिपेत् ॥ प्राणप्रतिष्ठान्ते किञ्चिन्निवेदनं कुर्यात् ॥ पीठपूजा- गुं गुरुभ्यो नमः । गं गणपतये नमः । आधारशक्त्यै नमः । मूलप्रकृत्यै नमः । आदिकूर्माय नमः । अनन्ताय नमः । पृथिव्यै नमः । श्वेतछत्राय नमः । सितचामराभ्यां नमः । धर्मकन्दाय नमः । ज्ञाननाळाय नमः । वैराग्यकर्णिकाय नमः । ऐश्वर्य पत्राय नमः । योगपीठपद्माय नमः ॥ पीठ शक्तिपूजा- वामायै नमः । ज्येष्ठायै नमः । श्रेष्ठायै नमः । रौद्र्यै नमः । काळ्यै नमः । कलविकरण्यै नमः । बलविकरण्यै नमः । बलायै नमः । बलप्रमथिन्यै नमः । सर्वभूतदमन्यै नमः । मनोन्मन्यै नमः । ॐ नमो भगवते सकल गुणात्मशक्तियुक्ताय अनन्ताय महायोगपीठात्मने नमः ॥ शङ्खपूजा- शङ्खाधारं प्रक्षाळ्य । शङ्खाधाराय नमः इति आधारं निक्षिप्य । शङ्खं प्रक्षाळ्य आधारे विन्यस्य । पाञ्चजन्याय नमः । पर्जन्याय नमः । धवळाय नमः । सुस्वनाय नमः । इत्यक्षतादिभिः शङ्खमभ्यर्च्य । जलेन शङ्खमापूर्य हस्तेन संस्पृश्य शङ्खं चन्द्रार्कदैवत्यं मध्ये वरुणदैवतम् । पृष्ठे प्रजापतिं विद्यादग्रे गङ्गां सरस्वतीम् ॥ शङ्खमूले स्थितो ब्रह्मा शङ्खमध्ये सरस्वती । शङ्खाग्रे सर्वतीर्थानि तस्माच्छाङ्खं प्रपूजये ॥ सुब्रह्मण्यमूलमन्त्रं अष्टवारं जपित्वा बिम्बं पूजाद्रव्याणि आत्मानं च शङ्खतीर्थेन प्रोक्ष्य । गायत्र्या पुनश्शङ्खं पूरयित्वा मूलेन देवतामावाह्य समस्तोपचारान् समर्पयामि इति पूजयेत् ॥ सुब्रह्मण्यपूजाक्रमः ॥ सुब्रह्मण्यमजं शान्तं कुमारं करुणालयम् । किरीटहारकेयूरमणिकुण्डलमण्डितम् ॥ १॥ षण्मुखं द्वादशभुजं शूलाद्यायुधधारिणम् । स्मितवक्त्रं प्रसन्नाभं स्तूयमानं सदा बुधैः ॥ २॥ वल्लीदेवीप्राणनाथं वाञ्छितार्थप्रदायकम् । सिंहासने सुखासीनं सूर्यकोटिसमप्रभम् । देवं वन्दे सदा भक्त्या स्वान्तः करणनिर्मलः ॥ ३॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्यं ध्यायामि ॥ आवाहयामि विश्वेशं स्कन्दं सर्वगुणाकरम् । सर्वदुष्कृतिविध्वंसं साक्षाद्रुद्रस्वरूपिणम् ॥ ४॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वरं आवाहयामि ॥ सुवर्णवज्रमाणिक्यपुष्यरागादिसुन्दरम् । तुभ्यं सिंहासनं दास्ये प्रसीद मम सर्वदा ॥ ५॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः - रत्न खचित सिंहासनं समर्पयामि ॥ भक्तमन्दारपादाब्जं संसारार्णवतारक । पाद्यं गृहाण वरद पापारण्याशुशुक्षणे ॥ ६॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः पाद्यं समर्पयामि ॥ कर्पूरागरुकस्तूरीसुपुष्पैर्मिश्रितोदकम् । अर्घ्यं गृहाण देवेश करुणावरुणालय ॥ ७॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः अर्घ्यं समर्पयामि ॥ तुङ्गभद्रा कृष्णवेणी कावेरी च पिनाकिनी । तासां पानीयमानीय ददाम्याचमनीयकम् ॥ ८॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः आचमनीयम् समर्पयामि ॥ गीर्वाणानीकिनीनाथ प्रणतार्तिप्रभञ्जन । मधुपर्कं गृहाणेदं पाहि मां करुणानिधे ॥ ९॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः मधुपर्कं समर्पयामि ॥ शर्करामधुगोक्षीरफलसारघृतैर्युतम् । पञ्चामृतस्नानमिदं बाहुलेय गृहाण भो ॥ १०॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः पञ्चामृतस्नानं समर्पयामि ॥ (पञ्चामृतमेलन मन्त्राः- (१) पयः = (milk) - ``आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य सङ्ग्थे ।'' (२) दधि = (curd) - ``दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूँषि तारिषत् ।'' (३) आज्यम् = - (ghee) ``शुक्रमसि ज्योतिरसि तेजोंसि देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः ।'' (४) मधु = (honey)- ``मधु वाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ।'' (५) शर्करा = (sugar) - ``स्वादुः पवस्व दिव्याय जिन्वने स्वादुरिन्द्राय सुहवे तु नाम्ने । स्वादुर्मित्राया वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ।'') फलोदकं = (fruit juice) - ``याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वँहसः ।'' गङ्गादिपुण्यतीर्थेभ्यः समाहृत्य सुवासितम् । श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः रं फलोदकेन स्नपयामि ॥ शुद्धोदकस्नानमिदं गृहाण शिखिवाहन ॥ मन्त्रः - आपोहिष्ठा मयो भुवः । ता न ऊर्जे दधातन । महे रणाय चक्षसे । यो वश्शिवतमो रसः । तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरं गमाम वः । यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः शुद्धोदकस्नानं समर्पयामि ॥ एलालवङ्गकस्तूरीकर्पूरादिसुवासितैः । तीर्थैराचम्यतां देव गङ्गाधरसुताव्यय ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः , आचमनीयं समर्पयामि ॥ मन्त्रः- ``अभिवस्त्रा सुवसनान्यर्षाभि धेनोस्सुदुघाः पूयमानाः । अभिचन्द्रा भर्तवे नो हिरण्योऽभ्यश्वान् रथिनो देव सोम ॥'' दुकूलवस्त्रयुगळं मुक्ताजालसमन्वितम् । प्रतिगृह्णीष्व गाङ्गेय भक्तापद्भञ्जनक्षम ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः वस्त्रयुग्मं समर्पयामि ॥ मन्त्रः- ``यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तादायुष्यमग्रियं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥'' राजतं ब्रह्मसूत्रञ्च काञ्चनञ्चोत्तरीयकम् । सुब्रह्मण्य महाभाग गृहाण सुरनायक ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः यज्ञोपवीतं समर्पयामि ॥ नित्याग्निहोत्रसम्भूतं विरजाहोमपावितम् । गृहाण भस्म हे स्वामिन् भक्तानां भूतिदायक ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः धारणार्थं भस्म समर्पयामि ॥ मन्त्रः- ``गन्धद्वारां दुराघर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां त्वामिहोपह्वय श्रियम् ॥'' कस्तूरीकुङ्कुमाद्यैश्च वासितं सहिमोदकम् । गन्धं विलेपनार्थाय गृहाण क्रौञ्चदारण ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः गन्धान् धारयामि ॥ अक्षता धवळा दिव्याश्शालीयास्तण्डुलाश्शुभाः । काञ्चनाक्षतसंयुक्ता गृह्यन्तां शम्भुनन्दन ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः अक्षतान् समर्पयामि ॥ पुन्नागवकुळाशोकनीपपाटलिजानि च । वासन्तिकाबिल्वजाजीपुष्पाणि स्वीकुरु प्रभो ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः नानाविध पुष्पाणि समर्पयामि ॥ अङ्गपूजा ॥ सुरवन्दितपादाय नमः - पादौ पूजयामि । मुकुराकारजानवे नमः - जानुनी पूजयामि । करिराजकरोरवे नमः - ऊरू पूजयामि । रत्नकिङ्किणिकायुक्तकटये नमः - कटिं पूजयामिरम् । गुहाय नमः - गुह्यं पूजयामि । हेरम्बसहोदराय नमः - उदरं पूजयामि । सुनाभये नमः - नाभिं पूजयामि । सुहृदे नमः - हृदयं पूजयामि । विशालवक्षसे नमः - वक्षः पूजयामि । कृत्तिकास्तनन्धयाय नमः - स्तनौ पूजयामि । शत्रुजयोर्जितबाहवे नमः - बाहून् पूजयामि । शक्तिहस्ताय नमः - हस्तान् पूजयामि । पुष्करस्रजे नमः - कण्ठान् पूजयामि । षण्मुखाय नमः - मुखानि पूजयामि । सुनासाय नमः - नासिकाः पूजयामि । द्विषण्णेत्राय नमः - नेत्राणि पूजयामि । हिरण्यकुण्डलाय नमः - कर्णान् पूजयामि । भालनेत्रसुताय नमः - फालानि पूजयामि । वेदशिरोवेद्याय नमः - शिरांसि पूजयामि । सेनापतये नमः - सर्वाण्यङ्गानि पूजयामि । (अष्टोत्तरशतनामार्चनं अष्टोत्तर सहस्रनामार्चनं वल्लीदेवसेनयोरप्यष्टोत्तरशतनामार्चने कुर्यात् ॥) मन्त्रः- धूरसि धूर्व धूर्वन्तं तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ॥'' दशाङ्गं गुग्गुलूपेतं सुगन्धि सुमनोहरम् । कपिलाघृतसंयुक्तं धूपं गृह्णीष्व षण्मुख ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः धूपमाघ्रापयामि ॥ मन्त्रः- ``उद्दीप्यस्व जातवेदोऽपघ्नन्निरृतिं मम । पशूँश्च मह्यमावह जीवनञ्च दिशो दिश । मा नो हिँसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय ॥'' साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण स्कन्द त्वं त्रैलोक्यतिमिरापहम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः दीपं सन्दर्शयामि ॥ मन्त्रः- ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात् । देव सवितः प्रसुव । सत्यं त्वर्तेन परिषिञ्चामि । अमृतोपस्तरणमसि । ॐ प्राणाय स्वाहा । अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा । समानाय स्वाहा । ब्रह्मणे स्वाहा । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः । मधु नक्तमुतोषसि मधुमत्पार्थिवँ रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । मधु मधु मधु । अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ लेह्यं चोष्यञ्च भोज्यञ्च पानीयं षड्रसान्वितम् । भक्ष्यशाकादिसंयुक्तं नैवेद्यं स्कन्द गृह्यताम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः ..... महानैवेद्यं निवेदयामि ॥ पानीयं पावनं श्रेष्ठं गङ्गादिसरिदाहृतम् । दाहोपशमनार्थं त्वं संगृहाण षडानन ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः मध्ये मध्ये पानीयं समर्पयामि । हस्तप्रक्षाळनं समर्पयामि । पादप्रक्षाळनं समर्पयामि । शुद्धाचमनीयं समर्पयामि ॥ पूगीफलसमायुक्तं नागवल्लीदळैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः ताम्बूलं समर्पयामि ॥ मन्त्रः- सोमो वा एतस्य राज्यमादत्ते । यो राजा सन्राज्यो वा सोमेन यजते । देवसुवामेतानि हवीँषि भवन्ति । एतावन्तो वै देवानाँ सवाः । त एवास्मै सवान् प्रयच्छन्ति । त एनं पुनस्सुवन्ते राज्याय । देवसूराजा भवति ॥ देवसेनापते स्कन्द संसारध्वान्तभास्कर । नीराजनमिदं देव गृह्यतां सुरसत्तम ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः नीराजनं समर्पयामि ॥ मन्त्रः - योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ॥ पुष्पाञ्जलिं प्रदास्यामि भक्ताभीष्टप्रदायक । गृहाण वल्लीरमण सुप्रीतेनान्तरात्मना ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः मन्त्रपुष्पं समर्पयामि ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥ षडाननं कुङ्कुमरक्तवर्णं द्विषड्भुजं बालकमम्बिकासुतम् । रुद्रस्य सूनुं सुरसैन्यनाथं गुहं सदाहं शरणं प्रपद्ये ॥ उमाकोमळहस्ताब्ज सम्भावितललाटकम् । हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः प्रदक्षिण नमस्कारान् समर्पयामि ॥ छत्रं समर्पयामि । चामरं समर्पयामि । दर्पणं दर्शयामि । गीतं श्रावयामि । नृत्यं कारयामि । आन्दोळिकामारोपयामि । अश्वमारोपयामि । गजमारोपयामि । समस्तराजोपचार देवोप चारान् समर्पयामि ॥ अर्घ्यदानविधिः- सङ्कल्पः- अद्यपूर्वोक्तैवं गुणविशेषण विशिष्टायामस्यां..... शुभतिथौ श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्येश्वर प्रीत्यर्थं मया आचरितस्य सुब्रह्मण्यपूजनस्य सम्पूर्णफलावाप्त्यर्थं अर्घ्यप्रदानं करिष्ये । पात्रस्थ शर्करामिश्रित क्षीरोदकैः साक्षताञ्जलिरर्घ्यं दद्यात् ॥ श्रीगमद्वल्लीसमायुक्त देवसेनामनोहर । करुणारससम्पूर्ण प्रसन्नार्घ्यं प्रगृह्यताम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः इदमर्घ्यंम्, इदमर्घ्यंम्, इदमर्घ्यंम् ॥ कार्तिकेय महाबाहो कामितार्थप्रदायक । भक्तपालन देवेश प्रसन्नार्घ्यं प्रगृह्यताम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः इदमर्घ्यंम्, इदमर्घ्यंम्, इदमर्घ्यंम् ॥ परब्रह्म सदानन्द पापारण्यदवानल । सुब्रह्मण्य सुखानन्द प्रसन्नार्घ्यं प्रगृह्यताम् ॥ श्रीवल्लीदेवसेनासमेतं श्रीसुब्रह्मण्येश्वराय नमः इदमर्घ्यंम्, इदमर्घ्यंम्, इदमर्घ्यंम् ॥ नीलकण्ठ महाभाग सुब्रह्मण्यस्य वाहन । इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा ॥ मयूराय नमः इदमर्घ्यंम्, इदमर्घ्यंम्, इदमर्घ्यंम् ॥ अनेनार्घ्यप्रदानेन सुब्रह्मण्यस्सुप्रीतस्सुप्रसन्नो वरदो भवतु । पुत्रं देहि यशो देहि सम्पदं देहि शाश्वतीम् । त्वयि भक्तिञ्च मे देहि परत्र च परां गतिम् ॥ आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः । लोकपालास्सर्वदेवाश्चराचरमिदं जगत् । सर्वं त्वमेव ब्रह्मैवमजमक्षरमद्वयम् । अप्रमेयं महाशान्तमचलं निर्विकारकम् । निरालम्बं निराभासं सत्तामात्रस्वरूपकम् । एवं त्वां मेघया बुद्ध्या सदा पश्यन्ति सूरयः ॥ न पश्यन्ति सदा मूढाः सदा दुर्गतिहेतुतः । विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम् । कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च । तत्तदुक्ताः कथास्सम्यङ् नित्यसद्ग्त्यवाप्तये । भक्त्या श्रुत्वा पठित्वा च दृष्ट्वा सम्पूज्य भक्तितः । सर्वान्कामानवाप्नोति भवदाराधनात्खलु । मम पूजां सम्प्रगृह्य सुप्रसन्नो भवानघ ॥ चपलं मन्मथवशममर्यादमसूयकम् । वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो ॥ इति प्रार्थयेत् ॥ इति सुब्रह्मण्याराधनं सम्पूर्णम् । Proofread by Preeti N. Bhandare
% Text title            : subrahmaNyarAdhanam
% File name             : subrahmaNyarAdhanam.itx
% itxtitle              : subrahmaNyarAdhanam
% engtitle              : Subrahmanya Aradhanam
% Category              : subrahmanya, pUjA
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri.  See corresponding stotram
% Indexextra            : (Scan)
% Latest update         : June 26, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org