श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता

श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता

श्रीसुब्रह्मण्यसहस्रनामालिः सिद्धनागार्जुनतन्त्रान्तर्गता ॥ ॐ श्रीगणेशाय नमः । बिल्वैर्वा चम्पकाद्यौर्वा योऽर्चयेद्गुहमादरात् । एतन्नामसहस्रेण शिवयोगी भवेदयम् । अणिमाद्यष्ठसिद्धिश्च लभते निष्प्रयत्नतः । योऽर्चयेच्छतवर्षाणि कृत्तिकासु विशेषतः ॥ स इन्द्रपदमाप्नोति शिवसायुज्यमृच्छति । सङ्कल्पः । ॐ अस्य श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यसहस्रनाम्स्तोत्रस्य, श्रीदक्षिणामूर्तिः ॠषिः, अनुष्टुप्छन्दः, श्रीवल्लीदेवसेनासमेतश्रीसुब्रह्मण्यो देवता, श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यप्रसादसिद्यर्थे सुब्रह्मण्यचरणारविन्दयोः सुब्रह्मण्यसहस्रनामार्चनां करिष्ये ॥ अथ सहस्रनामार्चनारम्भः । ॐ अखण्डसच्चिदानन्दाय नमः । ॐ अखिलजीववत्सलाय नमः । ॐ अखिलवस्तुविस्ताराय नमः । ॐ अखिलतेजःस्वरूपिणे नमः । ॐ अखिलात्मकाय नमः । ॐ अखिलवेदप्रदात्रे नमः । ॐ अखिलाण्डकोटिब्रह्माण्डनायकाय नमः । ॐ अखिलेशाय नमः । ॐ अग्रगण्याय नमः । ॐ अग्रभूम्ने नमः । १० ॐ अगणितगुणाय नमः । ॐ अगणितमहिम्ने नमः । ॐ अघौघसन्निवर्तिने नमः । ॐ अचिन्त्यमहिम्ने नमः । ॐ अचलाय नमः । ॐ अच्युताय नमः । ॐ अजाय नमः । ॐ अजातशत्रवे नमः । ॐ अजरसे नमः । ॐ अज्ञानतिमिरान्धानाञ्चक्षुरुन्मीलनक्षमाय नमः । २० ॐ अजन्मस्थितिनाशनाय नमः । ॐ अणिमादिविभूषिताय नमः । ॐ अत्युन्नतद्धुनिज्वालामायावलयनिवर्तकाय नमः । ॐ अत्युल्बणमहासर्पतप्तभक्तसुरक्षकाय नमः । ॐ अतिसौम्याय नमः । ॐ अतिसुलभाय नमः । ॐ अन्नदानसदानिष्ठाय नमः । ॐ अदृश्यदृश्यसञ्चारिणे नमः । ॐ अदृष्टपूर्वदर्शयित्रे नमः । ॐ अद्वैतवस्तुबोधकाय नमः । ३० ॐ अद्वैतानन्दवर्षकाय नमः । ॐ अद्वैतानन्दशक्तये नमः । ॐ अधिष्ठानाय नमः । ॐ अधोक्षजाय नमः । ॐ अधर्मोरुतरुच्छेत्रे नमः । ॐ अधियज्ञाय नमः । ॐ अधिभूताय नमः । ॐ अधिदैवाय नमः । ॐ अध्यक्षाय नमः । ॐ अनघाय नमः । ४० ॐ अद्भुतचारित्राय नमः । ॐ अनन्तनाम्ने नमः । ॐ अनन्तगुणभूषणाय नमः । ॐ अनन्तमूर्तये नमः । ॐ अनन्ताय नमः । ॐ अनन्तशक्तिसंयुताय नमः । ॐ अनन्ताश्चर्यवीर्याय नमः । ॐ अनन्तकल्याणगुणाय नमः । ॐ अनवरतयोगनिष्ठाय नमः । ॐ अनाथपरिरक्षकाय नमः । ५० ॐ अणिमादिसंसेव्याय नमः । ॐ अनामयपदप्रदाय नमः । ॐ अनादिमत्परब्रह्मणे नमः । ॐ अनादिगुरवे नमः । ॐ अनाहतदिवाकराय नमः । ॐ अनिर्देश्यवपुषे नमः । ॐ अनिमेषरक्षितप्रजाय नमः । ॐ अनुग्रहार्थमूर्तये नमः । ॐ अनेकदिव्यमूर्तये नमः । ॐ अनेकाद्भुतदर्शनाय नमः । ६० ॐ अनेकजन्मनां पापं स्मृतिमात्रेण हारकाय नमः । ॐ अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय नमः । ॐ अन्तर्बहिश्च सर्वत्र व्याप्ताखिलचराचराय नमः । ॐ अन्तर्हृदयाकाशाय नमः । ॐ अन्तकालेऽभिरक्षकाय नमः । ॐ अन्तर्यामिणे नमः । ॐ अन्तरात्मने नमः । ॐ अन्नवस्त्रेप्सितप्रदाय नमः । ॐ अपराजितशक्तये नमः । ॐ अपरिग्रहभूषिताय नमः । ७० ॐ अपवर्गप्रदात्रे नमः । ॐ अपवर्गमयाय नमः । ॐ अपावृतकृपागाराय नमः । ॐ अपारज्ञानशक्तिमते नमः । ॐ अपार्थिवात्मदेहस्थाय नमः । ॐ अपाम्पुष्पनिबोधकाय नमः । ॐ अप्रपञ्चाय नमः । ॐ अप्रमत्ताय नमः । ॐ अप्रमेयगुणाकराय नमः । ॐ अप्रार्थितेष्टदात्रे नमः । ८० ॐ अप्राकृतपराक्रमाय नमः । ॐ अभयं सर्वभूतेभ्यो ददामीति सदा व्रतिने नमः । ॐ अभिमानातिदूराय नमः । ॐ अभिषेकचमत्कृतये नमः । ॐ अभीष्टवरवर्षिणे नमः । ॐ अभीक्ष्णन्दिव्यशक्तिभृते नमः । ॐ अभेदानन्दसन्दात्रे नमः । ॐ अमर्त्याय नमः । ॐ अमृतवाक्पतये नमः । ॐ अरविन्ददलाक्षाय नमः । ९० ॐ अमितपराक्रमाय नमः । ॐ अरिष्टवर्गनाशिने नमः । ॐ अरिष्टघ्नाय नमः । ॐ अर्हसत्तमाय नमः । ॐ अलभ्यलाभसन्दात्रे नमः । ॐ अल्पदानसुतोषिताय नमः । ॐ अवतारितसर्वेशाय नमः । ॐ अलम्बुद्ध्या स्वलङ्कृताय नमः । ॐ अवधूताखिलोपाधये नमः । ॐ अवलम्ब्यपदाम्बुजाय नमः । १०० ॐ अविशिष्टविशिष्टाय नमः । ॐ अवाक्पाणिपादोरुकाय नमः । ॐ अवाप्तसर्वकामाय नमः । ॐ अवाङ्मनसगोचराय नमः । ॐ अविच्छिन्नाग्निहोत्राय नमः । ॐ अविच्छिन्नसुखप्रदाय नमः । ॐ अवेक्षितदिगन्तस्य प्रजापालनतत्पराय नमः । ॐ अव्याजकरुणासिन्धवे नमः । ॐ अव्याहृतोपदेशकाय नमः । ॐ अव्याहतेष्टसञ्चारिणे नमः । ११० ॐ अव्याहतसुखप्रदाय नमः । ॐ अशक्यशक्यकर्त्रे नमः । ॐ अघपाशादिशुद्धिकृते नमः । ॐ अशेषभूतहृत्स्थास्नवे नमः । variation split ॐ अशेषभूतहृदे नमः । ॐ स्थास्नवे नमः । ॐ अशोकमोहश‍ृङ्खलाय नमः । ॐ अष्टैश्वर्यप्रदाय नमः । ॐ अष्टसिद्धिप्रदाय नमः । ॐ असङ्गयोगयुक्तात्मने नमः । ॐ असङ्गदृढशस्त्रभृते नमः । ॐ अहम्भावतमोहन्त्रे नमः । १२० ॐ अहं ब्रह्मास्मितत्त्वकाय नमः । ॐ अहं त्वं च त्वमेवाहमिति तत्त्वप्रबोधकाय नमः । ॐ अहेतुककृपासिन्धवे नमः । ॐ अहिंसानिरताय नमः । ॐ अक्षीणसौहृद्याय नमः । ॐ अक्षय्याय नमः । ॐ अक्षयशुभप्रदाय नमः । ॐ अक्षरादिककूटस्थोत्तमपुरुषोत्तमाय नमः । ॐ आखुवाहनमूर्तये नमः । ॐ आगमाद्यन्तसंनुताय नमः । १३० ॐ आगमातीतसद्भावाय नमः । ॐ आचार्यपरमाय नमः । ॐ आत्मानुभवसन्तुष्टाय नमः । ॐ आत्मविद्याविशारदाय नमः । ॐ आत्मानन्दप्रकाशाय नमः । ॐ आत्मैकसर्वदृशे नमः । ॐ आत्मैकसर्वभूतात्मने नमः । ॐ आत्मारामाय नमः । ॐ आत्मवते नमः । ॐ आदित्यमध्यवर्तिने नमः । १४० ॐ आदिमध्यान्तवर्जिताय नमः । ॐ आनन्दपरमानन्दाय नमः । ॐ आनन्दैकप्रदायकाय नमः । ॐ आनाकमाहृताज्ञाय नमः । ॐ आनतावननिर्वृतये नमः । ॐ आपदां अपहर्त्रे नमः । ॐ आपद्बन्धवे नमः । ॐ आनन्ददाय नमः । ॐ आयुरारोग्यदात्रे नमः । ॐ आर्तत्राणपरायणाय नमः । १५० ॐ आरोपणापवादैश्च मायायोगवियोगकृते नमः । ॐ आविष्कृततिरोभूतबहुरूपविडम्बनाय नमः । ॐ आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकाय नमः । ॐ आशापाशविमुक्ताय नमः । ॐ आशापाशविमोचकाय नमः । ॐ इच्छाधीनजगत्सर्वाय नमः । ॐ इच्छाधीनवपुषे नमः । ॐ इष्टेप्सितदात्रे नमः । ॐ इच्छाभोगनिवर्तकाय नमः । ॐ इच्छोक्तदुःखसञ्छेत्रे नमः । १६० ॐ इन्द्रियानादिदर्पघ्ने नमः । ॐ इन्दिरारमणवत्सलाय नमः । ॐ इन्दीवरदलज्योतिर्लोचनालङ्कृताननाय नमः । ॐ इन्दुशीतलपक्षिणे नमः । ॐ इन्दुवत्प्रियदर्शनाय नमः । ॐ इष्टापूर्तशतैर्वीताय नमः । ॐ इष्टदैवस्वरूपधृते नमः । ॐ ईशासक्तमनोबुद्धये नमः । ॐ ईप्सितार्थफलप्रदाय नमः । ॐ ईशाराधनतत्पराय नमः । १७० ॐ ईशिताखिलदेवाय नमः । ॐ ईशावास्यार्थसूचकाय नमः । ॐ ईक्षणसृष्टाण्डकोटये नमः । ॐ ईप्सितार्थवपुषे नमः । ॐ ईदृगित्यविनिर्देश्याय नमः । ॐ उच्चारणहृदे भक्तहृदन्त उपदेशकाय नमः । ॐ उत्तमप्रेममार्गिणे नमः । ॐ उत्तरोद्धारकर्मकृते नमः । ॐ उदासीनवदासीनाय नमः । ॐ उद्धरामीत्युदीरकाय नमः । १८० ॐ उपद्रवनिवारिणे नमः । ॐ उपांशुजपबोधकाय नमः । ॐ उमेशरमेशयुक्तात्मने नमः । ॐ ऊर्जितभक्तिदायकाय नमः । ॐ ऊर्जितवाक्यप्रदात्रे नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वमूलमधःशाखमश्वत्थं भस्मसात्कराय नमः । ॐ ऊर्ध्वगतिविधात्रे नमः । ॐ ऋतम्पाप्रकृतिदात्रे नमः । ??? ॐ ऋणक्लिष्टधनप्रदाय नमः । १९० ॐ ऋणानुबद्धजन्तूनां ऋणमुक्त्यै फलप्रदाय नमः । ॐ एकाकिने नमः । ॐ एकभक्तये नमः । ॐ एकवाक्कायमानसाय नमः । ॐ एकाय नमः । ॐ एकाक्षराधाराय नमः । ॐ एकाक्षरपरायणाय नमः । ॐ एकाकारधीराय नमः । ॐ एकवीराय नमः । ॐ एकानेकस्वरूपधृते नमः । २०० ॐ एकानेकाक्षराकृताय नमः । ॐ एतत्तदित्यनिर्देश्याय नमः । ॐ एकानन्दचिदाकृतये नमः । ॐ एवमित्यागमाबोध्याय नमः । ॐ एकभक्तिमदर्चिताय नमः । ॐ एकाक्षरपरज्ञानिने नमः । ॐ एकात्मसर्वलोकधृते नमः । ॐ एकविद्याहृदग्राय नमः । ॐ एनःकूटविनाशिने नमः । ॐ एकभोगाय नमः । २१० ॐ एकैश्वर्यप्रदाय नमः । ॐ एकानेकजगदीश्वराय नमः । ॐ एकवीरादिसंसेव्याय नमः । ॐ एकप्रभवशालिने नमः । ॐ ऐक्यानन्दगतद्वन्द्वाय नमः । ॐ ऐक्यानन्दविधायकाय नमः । ॐ ऐक्यकृते नमः । ॐ ऐक्यभूतात्मने नमः । ॐ ऐहिकामुष्मिकप्रदायिने नमः । ॐ ओङ्काराधिपाय नमः । २२० ॐ ओजस्विने नमः । ॐ ओं नमः । ॐ औषधीकृतभस्मकाय नमः । ॐ ककाररूपाय नमः । ॐ करपतये नमः । ॐ कल्याणरूपाय नमः । ॐ कल्याणगुणसम्पन्नाय नमः । ॐ कल्याणगिरिवासकाय नमः । ॐ कमलाक्षाय नमः । ॐ कल्मषघ्नाय नमः । २३० ॐ करुणामृतसागराय नमः । ॐ कदम्बकुसुमप्रियाय नमः । ॐ कमलाऽऽश्लिष्टपादाब्जाय नमः । ॐ कमलायतलोचनाय नमः । ॐ कन्दर्पदर्पविध्वंसिने नमः । ॐ कमनीयगुणाकराय नमः । ॐ कर्त्रकर्त्रान्यथाकर्त्रे नमः । ॐ कर्मयुक्तोऽप्यकर्मकृते नमः । ॐ कामकृते नमः । ॐ कामनिर्मुक्ताय नमः । २४० ॐ क्रमाक्रमविचक्षणाय नमः । ॐ कर्मबीजक्षयङ्कर्त्रे नमः । ॐ कर्मनिर्मूलनक्षमाय नमः । ॐ कर्मव्याधिव्यपोहिने नमः । ॐ कर्मबन्धविनाशकाय नमः । ॐ कलिमलापहारिणे नमः । ॐ कलौ प्रत्यक्षदैवताय नमः । ॐ कलियुगावताराय नमः । ॐ कलौ गिरिवासाय नमः । ॐ कल्युद्भवभयभञ्जनाय नमः । २५० ॐ कल्याणानन्तनाम्ने नमः । ॐ कल्याणगुणवर्धनाय नमः । ॐ कवितागुणवर्धनाय नमः । ॐ कष्टनाशकरौषधाय नमः । ॐ काकवन्ध्यादोषनिवर्तकाय नमः । ॐ कामजेत्रे नमः । ॐ कामरूपिणे नमः । ॐ कामसङ्कल्पवर्जिताय नमः । ॐ कामितार्थप्रदात्रे नमः । ॐ कामाक्षीतनुजाय नमः । २६० ॐ कामकोटिपूजिताय नमः । ॐ कामादिशत्रुघातकाय नमः । ॐ काम्यकर्मसुसंन्यस्ताय नमः । ॐ कामेश्वरमनःप्रियाय नमः । ॐ कामेश्वरतपःसिद्धाय नमः । ॐ कामेश्वरफलप्रदाय नमः । ॐ कामेश्वरसाक्षात्काराय नमः । ॐ कामेश्वरदर्शिताय नमः । ॐ कामेश्वराह्लादकारिणे नमः । ॐ कालाय नमः । २७० ॐ कालकालाय नमः । ॐ कालातीताय नमः । ॐ कालकृते नमः । ॐ कालिकापूजिताय नमः । ॐ कालकूटाशिने नमः । ॐ कालदर्पदमनाय नमः । ॐ कालकेयविनाशकाय नमः । ॐ कालाग्निसदृशक्रोधाय नमः । ॐ काशिवाससे नमः । काशिवासिने ॐ काश्मीरवासिने नमः । २८० ॐ काव्यलोलाय नमः । ॐ काव्यानामधिष्ठात्रे नमः । ॐ कालानलोग्राय नमः । ॐ कालानलभक्षिणे नमः । ॐ कीर्तिमते नमः । ॐ कीर्तिज्वालाय नमः । ॐ कुष्ठरोगनिवारकाय नमः । ॐ कूटस्थाय नमः । ॐ कृतज्ञाय नमः । ॐ कृपापूर्णाय नमः । २९० ॐ कृपया पालितार्भकाय नमः । ॐ कृष्णरामावताराय नमः । ॐ कृत्तिकासुनवे नमः । ॐ कृत्तिकाय नमः । ॐ कृत्तिवाससे नमः । ॐ केवलात्मानुभूतये नमः । ॐ कैवल्यपदनायकाय नमः । ॐ कोविदाय नमः । ॐ कोमलाङ्गाय नमः । ॐ कोपहन्त्रे नमः । ३०० ॐ क्लिष्टरक्षाधुरीणाय नमः । ॐ क्रोधजिते नमः । ॐ क्लेशवर्जिताय नमः । ॐ क्लेशनाशकाय नमः । ॐ गगनसौक्ष्म्यविस्ताराय नमः । ॐ गम्भीरमधुरस्वराय नमः । ॐ गाङ्गेयाय नमः । ॐ गङ्गातीरवासिने नमः । ॐ गङ्गोत्पत्तिहेतवे नमः । ॐ गानलोलुपाय नमः । ३१० ॐ गगनान्तःस्थाय नमः । ॐ गम्भीरदर्शकाय नमः । ॐ गानकेळीतरङ्गिताय नमः । ॐ गन्धपुष्पाक्षतैःपूज्याय नमः । ॐ गन्धर्वपूजिताय नमः । ॐ गन्धर्ववेदप्रीताय नमः । ॐ गतिविदे नमः । ॐ गतिसूचकाय नमः । ॐ गणेशाय नमः । ॐ गं प्रीताय नमः । ३२० ॐ गकाररूपाय नमः । ॐ गिरीशपुत्राय नमः । ॐ गिरीन्द्रतनयालालिताय नमः । ॐ गर्वमात्सर्यवर्जिताय नमः । ॐ गाननृत्यविनोदाय नमः । ॐ गाणापत्याश्रिताय नमः । ॐ गणपतये नमः । ॐ गणानां आत्मरूपिणे नमः । ॐ गोविन्दाय नमः । ॐ गोपालाय नमः । ३३० ॐ गर्गपूजिताय नमः । ॐ गीताचार्याय नमः । ॐ गीतनृत्तविनोदाय नमः । ॐ गीतामृतवर्षिणे नमः । ॐ गीतार्थभूम्ने नमः । ॐ गीतविद्याद्यधिष्ठात्रे नमः । ॐ गीर्वाण्याश्रिताय नमः । ॐ गीर्वाणपूजिताय नमः । ॐ गुह्यरूपाय नमः । ॐ गुह्याय नमः । ३४० ॐ गुह्यरूपिणे नमः । ॐ गृहेश्वराय नमः । ॐ गृहरूपिणे नमः । ॐ ग्रहास्तनिवारकाय नमः । ॐ गुणातीताय नमः । ॐ गुणात्मने नमः । ॐ गुणदोषविवर्जिताय नमः । ॐ गुप्ताय नमः । ॐ गुहाहिताय नमः । ॐ गूढाय नमः । ३५० ॐ गुप्तसर्वनिबोधकाय नमः । ॐ गुरवे नमः । ॐ गुरुतमाय नमः । ॐ गुरुरूपिणे नमः । ॐ गुरुस्वामिने नमः । ॐ गुरुतुल्याय नमः । ॐ गुरुसन्तोषवर्धिने नमः । ॐ गुरोःपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते नमः । ॐ गृहमेधिपराश्रयाय नमः । ॐ गोपींसत्रात्रे नमः । ३६० ??? ॐ गोपालपूजिताय नमः । ॐ गोष्पदीकृतकष्टाब्धये नमः । ॐ गौतमपूजिताय नमः । ॐ गौरीपतिपूजिताय नमः । ॐ चतुराय नमः । ॐ चारुदर्शनाय नमः । ॐ चारुविक्रमाय नमः । ॐ चण्डाय नमः । ॐ चण्डेश्वराय नमः । ॐ चण्डीशाय नमः । ३७० ॐ चण्डेशाय नमः । ॐ चण्डविक्रमाय नमः । ॐ चराचरपित्रे नमः । ॐ चिन्तामणये नमः । ॐ शरवणलालसाय नमः । ॐ चर्चिताय नमः । ॐ चतुर्भुजाय नमः । ॐ चमत्कारैरसङ्क्लिष्टभक्तिज्ञानविवर्धनाय नमः । ॐ चराचरपरिव्याप्त्रे नमः । ॐ चिन्तामणिद्वीपपतये नमः । ३८० ॐ चित्रातिचित्रचारित्राय नमः । ॐ चिन्मयानन्दाय नमः । ॐ चित्स्वरूपिणे नमः । ॐ छन्दसे नमः । ॐ छन्दोत्पलाय नमः । ॐ छन्दोमयमूर्तये नमः । ॐ छिन्नसंशयाय नमः । ॐ छिन्नसंसारबन्धनाय नमः । ॐ जगत्पित्रे नमः । ॐ जगन्मात्रे नमः । ३९० ॐ जगत्त्रात्रे नमः । ॐ जगद्धात्रे नमः । ॐ जगद्धिताय नमः । ॐ जगत्स्रष्ट्रे नमः । ॐ जगत्साक्षिणे नमः । ॐ जगद्व्यापिने नमः । ॐ जगद्गुरवे नमः । ॐ जगत्प्रभवे नमः । ॐ जगन्नाथाय नमः । ॐ जगदेकदिवाकराय नमः । ४०० ॐ जगन्मोहचमत्काराय नमः । ॐ जगन्नाटकसूत्रधृते नमः । ॐ जगन्मङ्गलकर्त्रे नमः । ॐ जगन्मायेतिबोधकाय नमः । ॐ जन्मबन्धविमोचनाय नमः । ॐ जन्मसाफल्यमन्त्रिताय नमः । ॐ जन्मकर्मविमुक्तिदाय नमः । ॐ जन्मनाशरहस्यविदे नमः । ॐ जप्तेन नाम्ना सन्तुष्टाय नमः । ॐ जपप्रीताय नमः । ४१० ॐ जप्येश्वराय नमः । ॐ जनेश्वराय नमः । ॐ जलेश्वराय नमः । ॐ जातदर्शिने नमः । ॐ जाम्बूनदसमप्रभाय नमः । ॐ जगत्कोविदप्रजाय नमः । ॐ जितद्वैतमहामोषाय नमः । ॐ जितक्रोधाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितकन्दर्पदर्पाय नमः । ४२० ॐ जितात्मने नमः । ॐ जितषड्रिपवे नमः । ॐ जपपराय नमः । ॐ जपाधाराय नमः । ॐ जगदेकस्वरूपिणे नमः । ॐ जगदेकरसाय नमः । ॐ जरामरणवर्जिताय नमः । ॐ जगद्योनये नमः । ॐ जगदीशाय नमः । ॐ जगन्मयाय नमः । ४३० ॐ जीवानां देहसंस्थिताय नमः । ॐ जिवानां मुक्तिदायकाय नमः । ॐ ज्योतिःशास्त्रतत्त्वाय नमः । ॐ ज्योतिर्ज्ञानप्रदाय नमः । ॐ ज्ञानभास्करमूर्तये नमः । ॐ ज्ञातसर्वरहस्याय नमः । ॐ ज्ञातृज्ञेयात्मकाय नमः । ॐ ज्ञानभक्तिप्रदाय नमः । ॐ ज्ञानविज्ञानरूपिणे नमः । ॐ ज्ञानशक्तिमते नमः । ४४० ॐ ज्ञानयोगिने नमः । ॐ ज्ञानाग्निरूपिणे नमः । ॐ ज्ञानैश्वर्यप्रदाय नमः । ॐ ज्ञानात्मकाय नमः । ॐ ज्ञानाय नमः । ॐ ज्ञेयाय नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्योतिषाम्परमज्योतिषे नमः । ॐ ज्योतिर्हीनद्युतिप्रदाय नमः । ॐ तपःसन्दीप्ततेजस्विने नमः । ४५० ॐ तप्तकाञ्चनसंनिभाय नमः । ॐ तत्त्वज्ञानानन्ददर्शिने नमः । ॐ तत्त्वमस्यादिलक्षिताय नमः । ॐ तत्त्वरूपाय नमः । ॐ तत्त्वमूर्तये नमः । ॐ तत्त्वमयाय नमः । ॐ तत्त्वमालाधराय नमः । ॐ तत्त्वसारविशारदाय नमः । ॐ तर्जितान्तकधुराय नमः । ॐ तपसःपराय नमः । ४६० ॐ तारकब्रह्मणे नमः । ॐ तमोरजोविवर्जिताय नमः । ॐ तामरसदलाक्षाय नमः । ॐ तारकारये नमः । ॐ तारकमर्दनाय नमः । ॐ तिलान्नप्रीताय नमः । ॐ तिलकाञ्चिताय नमः । ॐ तिर्यग्जन्तुगतिप्रदाय नमः । ॐ तीर्थाय नमः । ॐ तीव्रतेजसे नमः । ४७० ॐ त्रिकालस्वरूपिणे नमः । ॐ त्रिमूर्त्त्यात्मकाय नमः । ॐ त्रयीवेद्याय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपादाय नमः । ॐ त्रिवर्गनिलयाय नमः । ॐ त्रिष्वुद्भवाय नमः । ॐ त्रयीमयाय नमः । ॐ त्रिलोकेशाय नमः । ॐ त्रिलोकविस्ताराय नमः । ४८० ॐ धृतधनुषे नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रिवर्गमोक्षसन्दात्रे नमः । ॐ त्रिपुण्ड्रविहितस्थितये नमः । ॐ त्रिभुवनानाम्पतये नमः । ॐ त्रिलोकतिमिरापहाय नमः । ॐ त्रैलोक्यमोहनाय नमः । ॐ त्रैलोक्यसुन्दराय नमः । ॐ दण्डधृते नमः । ॐ दण्डनाथाय नमः । ४९० ॐ दण्डिनीमुख्यसेविताय नमः । ॐ दाडिमीकुसुमप्रियाय नमः । ॐ दाडिमीफलासक्ताय नमः । ॐ दम्भदर्पादिदूराय नमः । ॐ दक्षिणामूर्तये नमः । ॐ दक्षिणाप्रपूजिताय नमः । ॐ दयापराय नमः । ॐ दयासिन्धवे नमः । ॐ दत्तात्रेयाय नमः । ॐ दारिद्र्यध्वंसिने नमः । ५०० ॐ दहराकाशभानवे नमः । ॐ दारिद्र्यदुःखमोचकाय नमः । ॐ दामोदरप्रियाय नमः । ॐ दानशौण्डाय नमः । ॐ दान्ताय नमः । ॐ दानमार्गसुलभाय नमः । ॐ दिव्यज्ञानप्रदाय नमः । ॐ दिव्यमङ्गलविग्रहाय नमः । ॐ दीनदयापराय नमः । ॐ दीर्घरक्षिणे नमः । ५१० ॐ दीनवत्सलाय नमः । ॐ दुष्टनिग्रहाय नमः । ॐ दुराधर्षाय नमः । ॐ दुर्भिक्षशमनाय नमः । ॐ दुरदृष्टविनाशिने नमः । ॐ दुःखशोकभवद्वेषमोहाद्यशुभनाशकाय नमः । ॐ दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय नमः । ॐ दुष्टजन्तुपरित्रात्रे नमः । ॐ दृश्यादृश्यज्ञानात्मकाय नमः । ॐ देहातीताय नमः । ५२० ॐ देवपूजिताय नमः । ॐ देवसेनापतये नमः । ॐ देवराजादिपालिताय नमः । ॐ देहमोहप्रभञ्जनाय नमः । ॐ दैवसम्पत्प्रपूर्णाय नमः । ॐ देशोद्धारसहायकृते नमः । ॐ द्वन्द्वमोहविनिर्मुक्ताय नमः । ॐ द्वन्द्वातीताय नमः । ॐ द्वापरान्त्यपालिताय नमः । ॐ द्वेषद्रोहविवर्जिताय नमः । ५३० ॐ द्वैताद्वैतस्वरूपिणे नमः । ॐ धन्याय नमः । ॐ धरणीधराय नमः । ॐ धात्रच्युतपूजिताय नमः । ॐ धनदेन पूजिताय नमः । ॐ धान्यवर्धनाय नमः । ॐ धरणीधरसंनिभाय नमः । ॐ धर्मज्ञाय नमः । ॐ धर्मसेतवे नमः । ॐ धर्मरूपिणे नमः । ५४० ॐ धर्मसाक्षिणे नमः । ॐ धर्माश्रिताय नमः । ॐ धर्मवृत्तये नमः । ॐ धर्माचाराय नमः । ॐ धर्मस्थापनसम्पालाय नमः । ॐ धूम्रलोचननिर्हन्त्रे नमः । ॐ धूमवतीसेविताय नमः । ॐ दुर्वासःपूजिताय नमः । ॐ दूर्वाङ्कुरघनश्यामाय नमः । ॐ धूर्त्ताय नमः । ५५० ॐ ध्यानवस्तुस्वरूपाय नमः । ॐ धृतिमते नमः । ॐ धनञ्जयाय नमः । ॐ धार्मिकसिन्धवे नमः । ॐ नतजनावनाय नमः । ॐ नरलोकपूजिताय नमः । ॐ नरलोकपालिताय नमः । ॐ नरहरिप्रियाय नमः । ॐ नरनारायणात्मकाय नमः । ॐ नष्टदृष्टिप्रदात्रे नमः । ५६० ॐ नरलोकविडम्बनाय नमः । ॐ नागसर्पमयूरेशसमारूढषडाननाय नमः । ॐ नागयज्ञोपवीताय नमः । ॐ नागलोकाधिपतये नमः । ॐ नागराजाय नमः । ॐ नानागमस्थितये नमः । ॐ नानालङ्कारपूजिताय नमः । ॐ नानावैभवशालिने नमः । ॐ नानारूपधारिणे नमः । ॐ नानाविधिसमर्चिताय नमः । ५७० ॐ नारायणाभिषिक्ताय नमः । ॐ नारायणाश्रिताय नमः । ॐ नामरूपवर्जिताय नमः । ॐ निगमागमगोचराय नमः । ॐ नित्यसर्वगतस्थाणवे नमः । ॐ नित्यतृप्ताय नमः । ॐ निराश्रयाय नमः । ॐ निराधाराय नमः । ॐ निखिलेश्वराय नमः । ॐ नित्यानित्यविवेकबोधकाय नमः । ५८० ॐ नित्यान्नदानधर्मिष्ठाय नमः । ॐ नित्यानन्दप्रवाहनाय नमः । ॐ नित्यमङ्गलधाम्ने नमः । ॐ नित्याग्निहोत्रवर्धनाय नमः । ॐ नित्यकर्मनियोक्त्रे नमः । ॐ नित्यसत्त्वस्थिताय नमः । ॐ नित्यगुणप्रतिपाद्याय नमः । ॐ निरन्तराग्निरूपाय नमः । ॐ निःस्पृहाय नमः । ॐ निर्विकल्पाय नमः । ५९० ॐ निरङ्कुशगतागतये नमः । ॐ निर्जिताखिलदैत्यारये नमः । ॐ निर्जितकामनादोषाय नमः । ॐ निराशाय नमः । ॐ निरञ्जनाय नमः । ॐ निर्विकल्पसमाधिदात्रे नमः । ॐ निरपेक्षाय नमः । ॐ निरुपाधये नमः । ॐ निर्गुणाय नमः । ॐ निर्द्वन्द्वाय नमः । ६०० ॐ नित्यसत्त्वस्थाय नमः । ॐ निर्विकाराय नमः । ॐ निश्चलाय नमः । ॐ निरालम्बाय नमः । ॐ निराकाराय नमः । ॐ निवृत्तगुणदोषकाय नमः । ॐ नरसिंहरूपिणे नमः । ॐ नरात्मकाय नमः । ॐ नम्रभक्तपालिने नमः । ॐ नम्रदिक्पतिवन्दिताय नमः । ६१० ॐ नैष्ठिकब्रह्मचारिणे नमः । ॐ नैष्कर्म्यपरिबोधकाय नमः । ॐ नादब्रह्मपरात्पराय नमः । ॐ नादोपासप्रतिष्ठिताय नमः । ॐ नागस्वरसुसन्तुष्टाय नमः । ॐ नयनरञ्जनाय नमः । ॐ न्यायशास्त्राद्यधिष्ठात्रे नमः । ॐ नैयायिकरूपाय नमः । ॐ नामैकसन्तुष्टाय नमः । ॐ नाममात्रजपप्रीताय नमः । ६२० ॐ नामावलीनां कोटीषु वीर्यवैभवशालिने नमः । ॐ नित्यागताय नमः । ॐ नन्दादिपूजिताय नमः । ॐ नित्यप्रकाशाय नमः । ॐ नित्यानन्दधाम्ने नमः । ॐ नित्यबोधाय नमः । ॐ पराय नमः । ॐ परमाणवे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मपूजिताय नमः । ६३० ॐ ब्रह्मगर्वनिवारकाय नमः । ॐ ब्रह्मण्याय नमः । ॐ पतितपावनाय नमः । ॐ पवित्रपादाय नमः । ॐ पदाम्बुजनतावनाय नमः । ॐ परब्रह्मस्वरूपिणे नमः । ॐ परमकरुणालयाय नमः । ॐ परतत्त्वप्रदीपाय नमः । ॐ परतत्त्वात्मरूपिणे नमः । ॐ परमार्थनिवेदकाय नमः । ६४० ॐ परमानन्दनिष्यन्दाय नमः । ॐ परञ्ज्योतिषे नमः । ॐ परात्पराय नमः । ॐ परमेष्ठिने नमः । ॐ परन्धाम्ने नमः । ॐ परमगुह्याय नमः । ॐ परमेश्वराय नमः । ॐ पशुपतये नमः । ॐ परमसद्गुरवे नमः । ॐ परमाचार्याय नमः । ६५० ॐ परमपावनाय नमः । ॐ परमन्त्रविमर्दनाय नमः । ॐ परकर्मनिहन्त्रे नमः । ॐ परयन्त्रनाशकाय नमः । ॐ परमात्मने नमः । ॐ परागतये नमः । ॐ पराशक्त्याश्रिताय नमः । ॐ परप्रतापसंहारिणे नमः । ॐ परम्परानुसम्प्राप्तगुरवे नमः । ॐ पिपीलिकादिब्रह्मान्तपरिरक्षितवैभवाय नमः । ६६० ॐ पैशाचादिनिवर्तकाय नमः । ॐ पुत्रकामेष्टिफलप्रदाय नमः । ॐ पुत्रदाय नमः । ॐ पुनरावृत्तिनाशकाय नमः । ॐ पुनःपुनर्वन्द्याय नमः । ॐ पुण्डरीकायतलोचनाय नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ पुराणमध्यजीवाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुरुषोत्तमप्रियाय नमः । ६७० ॐ पुण्डरीकहस्ताय नमः । ॐ पुण्डरीकपुरवासिने नमः । ॐ पुराणपुरुषाय नमः । ॐ पुरीशाय नमः । ॐ पुरुगर्भाय नमः । ॐ पूर्णरूपाय नमः । ॐ पूजासन्तुष्टमानसाय नमः । ॐ पूर्णाय नमः । ॐ पूर्णप्रज्ञाय नमः । ॐ पूर्णवैराग्यदायिने नमः । ६८० ॐ पूर्णानन्दस्वरूपिणे नमः । ॐ पूर्णकृपानिधये नमः । ॐ पूर्णाचलपूजिताय नमः । ॐ पूर्णचन्द्रनिभाननाय नमः । ॐ पूर्णचन्द्रमध्यवासिने नमः । ॐ पुरुहूताय नमः । ॐ पुरुषसूक्तप्रतिष्ठात्रे नमः । ॐ पूर्णकामाय नमः । ॐ पूर्वजाय नमः । ॐ प्रणमत्पालनोद्युक्ताय नमः । ६९० ॐ प्रणतार्तिहराय नमः । ॐ प्रत्यक्षदेवतामूर्तये नमः । ॐ प्रत्यगात्मनिदर्शनाय नमः । ॐ प्रपन्नपारिजाताय नमः । ॐ प्रसन्नानां परागतये नमः । ॐ प्रमाणातीतचिन्मूर्तये नमः । ॐ प्रमादभीतमृत्युजिते नमः । ॐ प्रसन्नवदनाय नमः । ॐ प्रसादाभिमुखद्युतये नमः । ॐ प्रपञ्चलीलाय नमः । ७०० ॐ प्रपञ्चसूत्रधारिणे नमः । ॐ प्रशस्तवाचकाय नमः । ॐ प्रशान्तात्मने नमः । ॐ प्रवृत्तिरूपिणे नमः । ॐ प्रभापात्राय नमः । ॐ प्रभाविग्रहाय नमः । ॐ प्रियसत्यगुणोदाराय नमः । ॐ प्रेमवेद्याय नमः । ॐ प्रेमवश्याय नमः । ॐ प्रेममार्गैकसाधनाय नमः । ७१० ॐ प्रेमभक्तिसुलभाय नमः । ॐ बहुरूपनिगूढात्मने नमः । ॐ बलभद्राय नमः । ॐ बलदृप्तप्रशमनाय नमः । ॐ बलभीमाय नमः । ॐ बुधसन्तोषदाय नमः । ॐ बुद्धाय नमः । ॐ बुधजनावनाय नमः । ॐ बृहद्बन्धविमोचकाय नमः । ॐ बृहद्भारवहक्षमाय नमः । ७२० ॐ ब्रह्मकुलरक्षिणे नमः । ॐ ब्रह्मकुलप्रियाय नमः । ॐ ब्रह्मचारिव्रतिने नमः । ॐ ब्रह्मानन्दाय नमः । ॐ ब्रह्मण्यशरण्याय नमः । ॐ बृहस्पतिपूजिताय नमः । ॐ ब्रह्मानन्दस्वरूपिणे नमः । ॐ ब्रह्मानन्दलसद्दृष्टये नमः । ॐ ब्रह्मवादिने नमः । ॐ ब्रह्मसङ्कल्पाय नमः । ७३० ॐ ब्रह्मैकपरायणाय नमः । ॐ बृहच्छ्रवसे नमः । ॐ ब्राह्मणपूजिताय नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मभूताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मण्यशरण्याय नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ ब्रह्मवरिष्ठाय नमः । ॐ ब्रह्मपददात्रे नमः । ७४० ॐ बृहच्छरीराय नमः । ॐ बृहन्नयनाय नमः । ॐ बृहदीश्वराय नमः । ॐ बृह्ममुरारिसेविताय नमः । ॐ ब्रह्मभद्रपादुकाय नमः । ॐ भक्तदासाय नमः । ॐ भक्तप्राणरक्षकाय नमः । ॐ भक्तवत्सलाय नमः । ॐ परदैवताय नमः । ॐ भगवत्पुत्राय नमः । ७५० ॐ भयापहाय नमः । ॐ भक्तरक्षणदाक्षिण्याय नमः । ॐ भक्तप्रेमवश्याय नमः । ॐ भक्तात्यन्तहितैषिणे नमः । ॐ भक्ताश्रितदयापराय नमः । ॐ भक्तार्थधृतरूपाय नमः । ॐ भक्तानुकम्पनाय नमः । ॐ भगळासेविताय नमः । ॐ भक्तपरागतये नमः । ॐ भक्तमानसवासिने नमः । ७६० ॐ भक्तादिकल्पाय नमः । ॐ भक्तभवाब्धिपोताय नमः । ॐ भक्तनिधये नमः । ॐ भक्तस्वामिने नमः । ॐ भगवते वासुदेवाय नमः । ॐ भगवते नमः । ॐ भजतां सुहृदे नमः । ॐ भवानीपुत्राय नमः । ॐ भक्तपराधीनाय नमः । ॐ भक्तानुग्रहकारकाय नमः । ७७० ॐ भक्तपापनिहन्त्रे नमः । ॐ भक्ताभयवरप्रदाय नमः । ॐ भक्तावनसमर्थाय नमः । ॐ भक्तावनधुरन्धराय नमः । ॐ भक्तात्यन्तहितौषधाय नमः । ॐ भक्तावनप्रतिज्ञाय नमः । ॐ भजतां इष्टकामदुहे नमः । ॐ भरद्वाजानुग्रहदाय नमः । ॐ भरद्वाजपोषिणे नमः । ॐ भारतीपूजिताय नमः । ७८० ॐ भारतीनाथाचार्याय नमः । ॐ भक्तहृत्पद्मवासिने नमः । ॐ भक्तिमार्गप्रदर्शकाय नमः । ॐ भक्ताशयविहारिणे नमः । ॐ भक्तसर्वमलापहाय नमः । ॐ भक्तबोधैकनिष्ठाय नमः । ॐ भक्तानां सद्गतिप्रदाय नमः । ॐ भक्तानां सर्वनिधये नमः । ॐ भागीरथाय नमः । ॐ भार्गवपूजिताय नमः । ७९० ॐ भार्गवाय नमः । ॐ भृग्वाश्रिताय नमः । ॐ बृहत्साक्षिणे नमः । ॐ भक्तप्रारब्धच्छेदनाय नमः । ॐ भद्रमार्गप्रदर्शिने नमः । ॐ भद्रोपदेशकारिणे नमः । ॐ भद्रमूर्तये नमः । ॐ भद्रश्रवसे नमः । ॐ भद्रकालीसेविताय नमः । ॐ भैरवाश्रितपादाब्जाय नमः । ८०० ॐ भैरवकिङ्कराय नमः । ॐ भैरवशासिताय नमः । ॐ भैरवपूजिताय नमः । ॐ भेरुण्डाश्रिताय नमः । ॐ भग्नशत्रवे नमः । ॐ भजतां मानसनित्याय नमः । ॐ भजनसन्तुष्टाय नमः । ॐ भयहीनाय नमः । ॐ भयत्रात्रे नमः । ॐ भयकृते नमः । ८१० ॐ भयनाशनाय नमः । ॐ भववारिधिपोताय नमः । ॐ भवसन्तुष्टमानसाय नमः । ॐ भवभीतोद्धारणाय नमः । ॐ भवपुत्राय नमः । ॐ भवेश्वराय नमः । ॐ भ्रमराम्बालालिताय नमः । ॐ भ्रमाभीशस्तुत्याय नमः । ॐ भ्रमरकीटन्यायवोधकाय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ८२० ॐ भववैषम्यनाशिने नमः । ॐ भवलुण्ठनकोविदाय नमः । ॐ भस्मदाननिरताय नमः । ॐ भस्मलेपनसन्तुष्टाय नमः । ॐ भस्मसात्कृतभक्तारये नमः । ॐ भण्डासुरवधसन्तुष्टाय नमः । ॐ भारत्यादिसेविताय नमः । ॐ भस्मसात्कृतमन्मथाय नमः । ॐ भस्मकूटसमुत्पन्नभण्डसृष्टिनिपुणाय नमः । ॐ भस्मजाबालप्रतिष्ठात्रे नमः । ८३० ॐ भस्मदग्धाखिलमयाय नमः । ॐ भृङ्गीपूजिताय नमः । ॐ भकारात्सर्वसंहारिणे नमः । ॐ भयानकाय नमः । ॐ भवबोधकाय नमः । ॐ भवदैवताय नमः । ॐ भवचिकित्सनपराय नमः । ॐ भाषाखिलज्ञानप्रदाय नमः । ॐ भाष्यकृते नमः । ॐ भावगम्याय नमः । ८४० ॐ भारसर्वपरिग्रहाय नमः । ॐ भागवतसहायाय नमः । ॐ भावनामात्रसन्तुष्टाय नमः । ॐ भागवतप्रधानाय नमः । ॐ भागवतस्तोमपूजिताय नमः । ॐ भङ्गीकृतमहाशूराय नमः । ॐ भङ्गीकृततारकाय नमः । ॐ भिक्षादानसन्तुष्टाय नमः । ॐ भिक्षवे नमः । ॐ भीमाय नमः । ८५० ॐ भीमपूजिताय नमः । ॐ भीतानां भीतिनाशिने नमः । ॐ भीषणाय नमः । ॐ भीषणभीषणाय नमः । ॐ भीताचारितसूर्याग्निमघवन्मृत्युमारुताय नमः । ॐ भुक्तिमुक्तिप्रदात्रे नमः । ॐ भुजगवेष्टिताय नमः । ॐ भुजगारूढाय नमः । ॐ भुजङ्गरूपाय नमः । ॐ भुजङ्गवक्राय नमः । ८६० ॐ भूभृत्समोपकारिणे नमः । ॐ भूम्ने नमः । ॐ भूतेशाय नमः । ॐ भूतेशाङ्गस्थिताय नमः । ॐ भूतेशपुलकाञ्चिताय नमः । ॐ भूतेशनेत्रसमुत्सुकाय नमः । ॐ भूतेशानुचराय नमः । ॐ भूतेशगुरवे नमः । ॐ भूतेशप्रेरिताय नमः । ॐ भूतानाम्पतये नमः । ८७० ॐ भूतलिङ्गाय नमः । ॐ भूतशरण्यभूताय नमः । ॐ भूतात्मने नमः । ॐ भूतभावनाय नमः । ॐ भूतप्रेतपिशाचादिविमर्दनसुपण्डिताय नमः । ॐ भूतसहस्रपरिवृताय नमः । ॐ भूतडाकिनियाकिन्याद्यासमावृतवैभवाय नमः । ॐ भूतनाटकसूत्रभृते नमः । ॐ भूतकलेवराय नमः । ॐ भृत्यस्य तृप्तिमते नमः । ८८० ॐ भृत्यभारवहाय नमः । ॐ प्रधानार्चिताय नमः । ॐ भोगेश्वराय नमः । ॐ भैषज्यरूपिणे नमः । ॐ भिषजां वराय नमः । ॐ मर्कटसेविताय नमः । ॐ भक्तरामेण पूजिताय नमः । ॐ भक्तार्चितवैभवाय नमः । ॐ भस्मासुरविमोहनाय नमः । ॐ भस्मासुरवैरिसूनवे नमः । ८९० ॐ भगळासन्तुष्टवैभवाय नमः । ॐ मन्त्रौषधस्वरूपाय नमः । ॐ मन्त्राचार्याय नमः । ॐ मन्त्रपूजिताय नमः । ॐ मन्त्रदर्शिने नमः । ॐ मन्त्रदृष्टेन पूजिताय नमः । ॐ मधुमते नमः । ॐ मधुपानसेविताय नमः । ॐ महाभाग्यलक्षिताय नमः । ॐ महातापौघपापानां क्षणमात्रविनाशनाय नमः । ९०० ॐ महाभीतिभञ्जनाय नमः । ॐ महाभैरवपूजिताय नमः । ॐ महाताण्डवपुत्रकाय नमः । ॐ महाताण्डवसमुत्सुकाय नमः । ॐ महावास्यसन्तुष्टाय नमः । ॐ महासेनावतरिणे नमः । ॐ महावीरप्रपूजिताय नमः । ॐ महाशास्त्राश्रिताय नमः । ॐ महदाश्चर्यवैभवाय नमः । ॐ महत्सेनाजनकाय नमः । ९१० ॐ महाधीराय नमः । ॐ महासाम्रज्याभिषिक्ताय नमः । ॐ महाभाग्यप्रदाय नमः । ॐ महापद्ममध्यवर्तिने नमः । ॐ महायन्त्ररूपिणे नमः । ॐ महामन्त्रकुलदैवताय नमः । ॐ महातन्त्रस्वरूपाय नमः । ॐ महाविद्यागुरवे नमः । ॐ महाहङ्कारनाशकाय नमः । ॐ महाचतुष्षष्टिकोटियोगिनीगणसंवृताय नमः । ९२० ॐ महापूजाधुरन्धराय नमः । ॐ महाक्रूरसिंहास्यगर्वसम्भञ्जनप्रभवे नमः । ॐ महाशूरपद्मवधपण्डिताय नमः । ॐ महापण्डिताय नमः । ॐ महानुभावाय नमः । ॐ महातेजस्विने नमः । ॐ महाहाटकनायकाय नमः । ॐ महायोगप्रतिष्ठात्रे नमः । ॐ महायोगेश्वराय नमः । ॐ महाभयनिवर्तकाय नमः । ९३० ॐ महादेवपुत्रकाय नमः । ॐ महालिङ्गाय नमः । ॐ महामेरुनिलयाय नमः । ॐ महर्षिवाक्यबोधकाय नमः । ॐ महात्मने नमः । ॐ महाबलाय नमः । ॐ मातलीश्वराय नमः । ॐ मधुवैरिमुख्यप्रियाय नमः । ॐ मार्गबन्धवे नमः । ॐ मार्गेश्वराय नमः । ९४० ॐ मारुतिपूजिताय नमः । ॐ मारीकालीसमूहानां समावृत्य सुसेविताय नमः । ॐ महाशरभकिङ्कराय नमः । ॐ महादुर्गासेविताय नमः । ॐ मितार्चिष्मते नमः । ॐ मार्जालेश्वरपूजिताय नमः । ॐ मुक्तानं परमायै गतये नमः । ॐ मुक्तसङ्गाय नमः । ॐ मुक्तिदाय नमः । ॐ मुक्तिगोविन्दाय नमः । ९५० ॐ मूर्धाभिषिक्ताय नमः । ॐ मूलेशाय नमः । ॐ मूलमन्त्रविग्रहाय नमः । ॐ मुनये नमः । ॐ मृतसञ्जीविने नमः । ॐ मृत्युभीतिविनाशकाय नमः । ॐ मृत्युञ्जयाय नमः । ॐ मेघश्यामाय नमः । ॐ मेघनाथपूजिताय नमः । ॐ मोहान्धकारनिवर्तकाय नमः । ९६० ॐ मोहिनीरूपसन्तुष्टाय नमः । ॐ मोहजाण्डजकोटये नमः । ॐ मोक्षमार्गप्रदर्शिने नमः । ॐ मौनव्याख्यानमूर्तये नमः । ॐ यज्ञदानतपःफलाय नमः । ॐ यज्ञस्वरूपिणे नमः । ॐ यजमानाय नमः । ॐ यज्ञेश्वराय नमः । ॐ यतये नमः । ॐ यतीनां पूजितश्रेष्ठाय नमः । ९७० ॐ यतीनां परिपालकाय नमः । ॐ यतो वाचो निवर्तन्ते ततोऽनन्तसुनिष्ठिताय नमः । ॐ यत्नरूपाय नमः । ॐ यदुगिरिवासाय नमः । ॐ यदुनाथसेविताय नमः । ॐ यदुराजभक्तिमते नमः । ॐ यथेच्छासूक्ष्मधर्मदर्शिने नमः । ॐ यथेष्ठं दानधर्मकृते नमः । ॐ यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभवे नमः । ॐ यमकिङ्कराणां भयदाय नमः । ९८० ॐ याकिनीसेविताय नमः । ॐ यक्षरक्षःपिशाचानां सांनिध्यादेव नाशकाय नमः । ॐ युगान्तरकल्पिताय नमः । ॐ योगशक्तिरूपिणे नमः । ॐ योगमायासमावृताय नमः । ॐ योगिहृद्ध्यानगम्याय नमः । ॐ योगक्षेमवहाय नमः । ॐ रसाय नमः । ॐ रससारस्वरूपिणे नमः । ॐ रागद्वेषविवर्जिताय नमः । ९९० ॐ राकाचन्द्राननाय नमः । ॐ रामप्रियाय नमः । ॐ रुद्रतुल्यप्रकोपाय नमः । ॐ रोगदारिद्र्यनाशकाय नमः । ॐ ललिताश्रिताय नमः । ॐ लक्ष्मीनारायणाय नमः । ॐ वासुकिपूजिताय नमः । ॐ वासुदेवानुग्रहदाय नमः । ॐ वेदान्तार्थसुनिश्चिताय नमः । ॐ शरणागतवत्सलाय नमः । १००० ॐ शश्वद्दारिद्र्यनिवारकाय नमः । ॐ शान्तात्मने नमः । ॐ शिवरूपाय नमः । ॐ श्रीकण्ठाय नमः । ॐ सत्याय नमः । ॐ सदाशिवाय नमः । ॐ षण्मुखाय नमः । ॐ गुहानन्दगुरवे नमः । १००८ शुभमस्तु । इति सहस्रनामवलिः सम्पूर्णा । योऽर्चयेन्नामभिःस्कन्दं सहस्रैरेभिरन्वहम् । मृत्युञ्जयश्चिरञ्जीवी महेन्द्रसदृशश्च सः ॥ ॐ नमो भगवते षडाननाय । Encoded and proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com PSA Easwaran Psa Easwaran
% Text title            : subrahmaNyasahasranAmAvalI
% File name             : subrahmaNyasahasranAmAvalI.itx
% itxtitle              : subrahmaNyasahasranAmAvaliH (siddhanAgArjunatantrArgatA)
% engtitle              : subrahmaNyasahasranAmAvalI
% Category              : sahasranAmAvalI, subrahmanya, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar, PSA Easwaran
% Latest update         : April 22, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org