श्रीसुब्रह्मण्यपञ्चरत्नम् २
षडाननं चन्दनलेपिताङ्गं
महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्य सूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १॥
जाज्वल्यमानं सुरवृन्दवन्द्यं
कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २॥
द्विषड्भुजं द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३॥
सुरारि घोराहवशोभमानं
सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४॥
इष्टार्थसिद्धिप्रदमीशपुत्रं
मिष्टान्नदं भूसुर कामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५॥
यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्ट-
मन्ते स गच्छति मुदा गुहसाम्यमेव ॥
॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं समाप्तम् ॥
Encoded and proofread by Sunder Hattangasi