श्रीसुब्रह्मण्यमङ्गळाष्टकम्
शिवयोसूनुजायास्तु श्रितमन्दार शाखिने ।
शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळम् ॥
भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गळम् ॥
शूरपद्मादि दैतेय तमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गळम् ॥
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळम् ॥
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गळम् ॥
मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गळम् ॥
कनकांबरसंशोभि कटये कलिहारिणे ।
कमलापति वन्द्याय कार्तिकेयाय मङ्गळम् ॥
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गळम् ॥
मंगळाष्टकमेतन्ये महासेनस्यमानवाः ।
पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियम् ॥
॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णम् ॥
॥ इतर मङ्गळ श्लोकानि ॥
नित्योत्सवो भवत्येषां नित्यश्रीर्नित्य मङ्गळम् ।
येषां हृदिस्थो भगवान् मङ्गळायतनं गुहः ॥
राजाधिराजवेषाय राजत् कोमळपाणये ।
राजीवचारुनेत्राय सुब्रह्मण्याय मङ्गळम् ॥
॥ इतिः ॥
Encoded and proofread by
Antaratma antaratma at Safe-mail.net