श्रीसुब्रह्मण्य पञ्चरत्नम्
विमलनिजपदाब्जं वेदवेदान्तवेद्यं
ममकुलगुरुदेहं वाद्यगानप्रमोहम्
रमणसुगुणजालं रङ्गराढ्भासितनेयम् ।
कमलजनुतपादं कार्तिकेयं भजामि ॥ १॥
शिवशरवणजातं शैवयोगप्रभावं
भवहितगुरुनाथं भक्तवृन्दप्रमोदम् ।
नवरसमृदुपादं नादह्रींकाररूपं
कवनमधुरसारं कार्तिकेयं भजामि ॥ २॥
पाकारातिसुतामुखाब्जमधुरं बालेन्दुमौलीश्वरं
लोकानुग्रहकारणं शिवसुतं लोकेशतत्वप्रदम् ।
राकाचन्द्रसमानचारुवदनमम्भोरुहवल्लीश्वरं
ह्रींकारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३॥
महादेवजातं शरवणभवं मन्त्रशरभं
महत्तत्वानन्दं परमलहरीमन्दमधुरम् ।
महादेवातीतं सुखगणयुतं मन्त्रवरदं
गुहं वल्लीनाथं मम हृदि भजे गृद्धगिरिशम् ॥ ४॥
नित्याकारान्निखिलवरद निर्मलं ब्रह्मतत्वं
नित्यन्देवैर्विनुत चरण निर्विकल्पादियोगम् ।
नित्याढ्यान्तं निगमविदित निर्गुणन्देवनित्यं
वन्दे मम गुरुवरनिर्मलं कार्तिकेयम् ॥ ५॥
॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ॥
कार्तिकेयपञ्चकं
Encoded and proofread by antaratma at Safe-mail.net