भिक्षुकोपनिषत् ६३

भिक्षुकोपनिषत् ६३

भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा । तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः । कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ट - प्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा - यज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ ग्रासान्भैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते । अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति । अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह - तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन - गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति भिक्षुकोपनिषत्समाप्ता ॥
% Text title            : bhikshukopanishhat
% File name             : bhikshuk.itx
% itxtitle              : bhikShukopaniShat
% engtitle              : bhikShukopaniShat.h || 63 ||
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : religious, philosophy
% Transliterated by     : Roopa and Shrirang Nene (roopashri at hotmail.com)
% Proofread by          : Roopa and Shrirang Nene (roopashri at hotmail.com)
% Latest update         : October 18, 1999
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org