बृहदारण्यकोपनिषत् सस्वरा
References : Titus Texts : Jost Gippert.
shuklayajurveda White Yajur-Veda
Text: BAUp BrihadAraNyakaupaniShad
MAdhyandina-Recension / KANva-Recension (M or K, or both MK)
ch : Chapter. p : Paragraph
On the basis of the editions by
Albrecht Weber,
The Shatapatha-Brahmana in the Madhyandina-shAkhA (SBM)
with extracts from the commentaries of SAyaNa, HarisvAmin and DvivedAnga,
Berlin 1849 / Repr. Varanasi 1964 (Chowkhamba Sanskrit Ser., 96)
and
Willem Caland,
The Shatapatha BrAhmaNa in the KANvIya Recension, (SBK)
rev. ed. by Raghu Vira, Lahore 1926 / repr. Delhi 1983
ch1
ch1 = SBM 10.6.4.1 = SBK16.3.1.1-2
pMK1
उषा॒ वा॒ अ॒श्वस्य मे॒ध्यस्य शि॒रः, सू॒र्यश्च॒क्षुः वा॒तः प्राणो॒,
व्या॒त्तमग्नि॒र्वैश्वानरः॒, संवत्सर॒ आत्मा॒श्वस्य मे॒ध्यस्य द्यौ॒ष्पृष्ठ॒म्
अन्त॒रिक्षमुद॒रं, पृथिवी॒ पाजस्यं॒, दि॒शः पार्श्वे॒, अवान्तरदि॒शः प॒र्शव,
ऋत॒वो॒ऽङ्गानि, मा॒साश्चार्धमासा॒श्च प॒र्वाणि अहोरात्रा॒णि प्रतिष्ठा॒,
न॒क्षत्राण्य॒स्थीनि, न॒भो माꣳसा॒नि ऊ॒वध्यꣳ सि॒कताः, सि॒न्धवो गु॒दा,
य॒कृच्च क्लोमा॒नश्च प॒र्वता, ओ॒षधयश्च व॒नस्प॒तयश्च लो॒मानि
उद्य॒न्पूर्वार्धो॒, निम्लो॒चङ्जघनार्धो॒, य॒द्विजृम्भते, त॒द्वि॒द्योतते,
य॒द्विधूनुते॒, त॒त्स्तनयति, य॒न्मे॒हति, त॒द्वर्षति, वा॒गेवा॒स्य वा॒क् ।
pMK2
अ॒हर्वा॒ अ॒श्वं पुर॒स्तान्महिमा॒न्वजायत, त॒स्य पू॒र्वे समुद्रे॒ यो॒नी;
रा॒त्रिरेनं पश्चा॒न्महिमा॒न्वजायत, त॒स्या॒परे समुद्रे॒ यो॒निः एतौ॒ वा॒ अ॒श्वं
महिमा॒नावभि॒तः स॒म्बभूवतुः । ह॒यो भूत्वा॒ देवा॒न॒वहद् वाजी॒ गन्धर्वा॒न्
अर्वा॒सुरान् अ॒श्वो मनुष्या॒न्त् । समुद्र॒ एवा॒स्य ब॒न्धुः, समुद्रो॒ यो॒निः ।
ch2 = SBM 10.6.5.1-3 = SBK16.3.2.1-7
pMK1
नै॒वे॒ह॒ किं॒ चना॒ग्र आसीन् ।
मृत्यु॒नैवे॒द॒मा॒वृतमासीदशनाय॒याशनाया॒ हि॒ मृत्युः॒ ।
त॒न्म॒नोऽकुरुतात्मन्वी॒ स्यामि॒ति । सो॒ऽर्चन्नचरत् । त॒स्या॒र्चत
आ॒पोऽजायन्ता॒र्चते वै॒ मे क॒मभूदि॒ति । त॒देवा॒र्क्य॒स्यार्कत्व॒म् । क॒ꣳ
ह वा॒ अस्मै भवति, य॒ एव॒मेत॒दर्क्य॒स्यार्कत्वं॒ वे॒द ।
pMK2
आ॒पो वा॒ अर्कः॒ । त॒द्य॒दपा॒ꣳ श॒र आ॒सीत् त॒त्स॒महन्यत, सा॒
पृथिव्य॒भवत् । त॒स्यामश्राम्यत् । त॒स्य श्रान्त॒स्य तप्त॒स्य ते॒जो र॒सो
नि॒रवर्तताग्निः॒ ।
pMK3
स॒ त्रेधा॒त्मा॒नं व्य॒कुरुतादित्यं॒ तृती॒यं, वायुं॒ तृती॒यꣳ । स॒ एष॒
प्राण॒स्त्रेधाविहितः॒ । त॒स्य प्रा॒ची दि॒क्षि॒रोऽसौ॒ चासौ॒ चेर्मा॒उ अ॒थास्य
प्रती॒ची दि॒क्पु॒च्छम् असौ॒ चासौ॒ च सक्थ्यौ॒; द॒क्षिणा चो॒दीची च पार्श्वे॒,
द्यौ॒ष्पृष्ठ॒म् अन्त॒रिक्षमुद॒रम् इय॒मु॒रः, स॒ एषो॒ऽप्सु॒ प्र॒तिष्ठितो ।
य॒त्र क्व॒ चै॒ति, त॒देव॒ प्र॒तितिष्ठत्येवं॒ विद्वा॒न् ।
pMK4
सो॒ऽकामयतः द्विती॒यो म आत्मा॒ जायेते॒ति । स॒ म॒नसा वा॒चं मिथुन॒ꣳ
स॒मभवदशनायां॒ मृत्युः॒ । त॒द्य॒द्रे॒त आ॒सीत् स॒ संवत्सरो॒ऽभवन् । न॒
ह पुरा॒ त॒तः संवत्सर॒ आस । त॒मेता॒वन्तं काल॒मबिभर्या॒वान्त्संवत्सरः॒ ।
त॒मेता॒वतः काल॒स्य पर॒स्तादसृजत । तं॒ जात॒मभिव्या॒ददात्; स॒ भा॒णकरोत्
सै॒व॒ वा॒गभवत् ।
pMK5
स॒ ऐक्षतः य॒दि वा॒ इम॒मभिमꣳस्ये॒, क॒नीयो॒ऽन्नं करिष्य इ॒ति । स॒ त॒या
वाचा॒ ते॒नात्म॒नेद॒ꣳ स॒र्वमसृजत, य॒दिदं॒ कि॒ङ्च॒र्चो य॒जूꣳषि
सा॒मानि
छ॒न्दाꣳसि यज्ञा॒न्प्रजां॒ पशू॒न्त् ।
स॒ य॒द्-यदेवा॒सृजत, त॒त्-तद॒त्तुमध्रियत । स॒र्वं वा॒ अत्ती॒ति,
त॒द॒दितेरदितित्व॒ꣳ । स॒र्वस्यात्ता॒ भवति, स॒र्वमस्या॒न्नं भवति, य॒
एव॒मेत॒द॒दितेरदितित्वं॒ वे॒द ।
pMK6
सो॒ऽकामयतः भू॒यसा यज्ञे॒न भू॒यो यजेये॒ति । सो॒ऽश्राम्यत् स॒ त॒पोऽतप्यत ।
त॒स्य श्रान्त॒स्य तप्त॒स्य य॒शो वीर्य॒मु॒दक्रामत् । प्राणा॒ वै॒ य॒शो वीर्य॒म् ।
त॒त्प्राणे॒षू॒त्क्रान्तेषु श॒रीरꣳ श्व॒यितुमध्रियत; त॒स्य श॒रीर एव॒ म॒न
आसीत् ।
pMK7
सो॒ऽकामयतः मे॒ध्यं म इद॒ꣳ स्यादात्मन्व्य॒ने॒न स्यामि॒ति । त॒तो॒ऽश्वः
स॒मभवद् । य॒द॒श्वत् त॒न्मे॒ध्यमभूदि॒ति । त॒देवा॒श्वमेध॒स्याश्वमेधत्व॒म् ।
एष॒ ह वा॒ अश्वमेधं॒ वेद, य॒ एनमेवं॒ वे॒द ।
pM8/k7
त॒म॒नवरुध्येवामन्यत । त॒ꣳ संवत्सर॒स्य पर॒स्तादात्म॒न आ॒लभत,
पशू॒न्देव॒ताभ्यः प्र॒त्यौहत् । त॒स्मात्सर्वदेवत्यं॒ प्रो॒क्षितं प्राजापत्य॒मा॒लभन्त ।
एष॒ वा॒ अश्वमेधो॒ य॒ एष॒ त॒पति; त॒स्य संवत्सर॒ आत्मा॒य॒मग्नि॒रर्कः॒
त॒स्येमे॒ लोका॒ आत्मा॒नः । ता॒वेता॒वर्काश्वमेधौ॒, सो॒ पु॒नरे॒कैव॒ देव॒ता
भवति, मृत्यु॒रेवा॒प पुनर्मृत्युं॒ जयति, नै॒नं मृत्यु॒राप्नोति, मृत्यु॒रस्यात्मा॒
भवति स॒र्वमा॒युरेति एता॒सां देव॒तानामे॒को भवति, य॒ एवं॒ वे॒द ।
ch3 = SBM 14.4.1.1-33 = SBK16.3.3.1-23
pMK1
द्वया॒ ह प्राजापत्या॒, देवा॒श्चा॒सुराश्च । त॒तः कानीयसा॒
एव॒ देवा॒, ज्यायसा॒ अ॒सुराः । त॒ एषु॒ लोके॒ष्वस्पर्धन्त ।
pMK2
ते॒ ह देवा॒ ऊचुः ह॒न्ता॒सुरान्यज्ञ॒ उद्गीथे॒नात्य॒यामे॒ति ।
pM3/k2
ते॒ ह वा॒चमूचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्यो वा॒गु॒दगायद् । यो॒
वाचि॒ भो॒गस्तं॒ देवे॒भ्य आ॒गायद् य॒त्कल्या॒णं व॒दति त॒दात्म॒ने । ते॒ऽविदुः
अने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त् । स॒ यः॒ स॒
पाप्मा॒ य॒देवे॒द॒म॒प्रतिरूपं व॒दति, स॒ एव॒ स॒ पाप्मा॒ ।
pM4/k3
अ॒थ ह प्राण॒मूचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्यः प्राण॒ उ॒दगायद् ।
यः॒ प्राणे॒ भो॒गस्तं॒ देवे॒भ्य आ॒गायद् य॒त्कल्या॒णं जि॒घ्रति त॒दात्म॒ने ।
ते॒ऽविदुरने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त् ।
स॒ यः॒ स॒ पाप्मा॒ य॒देवे॒द॒म॒प्रतिरूपं जि॒घ्रति, स॒ एव॒ स॒ पाप्मा॒ ।
pM5/k4
अ॒थ ह च॒क्षुरूचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्यश्च॒क्षुरु॒दगायद् ।
य॒श्च॒क्षुषि भो॒गस्तं॒ देवे॒भ्य आ॒गायद् य॒त्कल्या॒णं प॒श्यति त॒दात्म॒ने ।
ते॒ऽविदुरने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त् ।
स॒ यः॒ स॒ पाप्मा॒ य॒देवे॒द॒म॒प्रतिरूपं प॒श्यति, स॒ एव॒ स॒ पाप्मा॒ ।
pM6/k5
अ॒थ ह श्रो॒त्रमूचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्यः श्रो॒त्रमु॒दगायद् ।
यः॒ श्रो॒त्रे भो॒गस्तं॒ देवे॒भ्य आ॒गायद् य॒त्कल्या॒णꣳ शृणो॒ति त॒दात्म॒ने ।
ते॒ऽविदुरने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त् ।
स॒ यः॒ स॒ पाप्मा॒ य॒देवे॒द॒म॒प्रतिरूपꣳ शृणो॒ति, स॒ एव॒ स॒ पाप्मा॒ ।
pM7/k5
अ॒थ ह म॒न ऊचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्यो म॒न उ॒दगायद् । यो॒
म॒नसि भो॒गस्तं॒ देवे॒भ्य आ॒गायद् य॒त्कल्या॒णꣳ सङ्कल्प॒यति त॒दात्म॒ने ।
ते॒ऽविदुरने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य पाप्म॒नाविध्यन्त् ।
स॒ यः॒ स॒ पाप्मा॒ य॒देवे॒द॒म॒प्रतिरूपꣳ सङ्कल्प॒यति, स॒ एव॒ स॒
पाप्मै॒व॒मु ख॒ल्वेता॒
देव॒ताः पाप्म॒भिरु॒पासृजन्न्
एव॒मेनाः पाप्म॒नाविध्यन् ।
pM8/k7
अ॒थ हेम॒मासन्यं॒ प्राण॒मूचुः त्वं॒ न उ॒द्गाये॒ति । त॒थे॒ति । ते॒भ्य एष॒
प्राण॒ उ॒दगायत् । ते॒ऽविदुरने॒न वै॒ न उद्गात्रा॒त्येष्यन्ती॒ति । त॒मभिद्रु॒त्य
पाप्म॒नाविव्यत्सन्त् । स॒ य॒था॒श्मानमृत्वा॒ लोष्टो॒
विध्व॒ꣳसेतैव॒ꣳ हैव॒ विध्व॒ꣳसमाना वि॒ष्वङ्चो वि॒नेशुः ।
त॒तो देवा॒ अ॒भवन् प॒रा॒सुरा । भ॒वत्यात्म॒ना, प॒रास्य द्विष॒न्भ्रा॒तृव्यो
भवति, य॒ एवं॒ वे॒द ।
pM9/k8
ते॒ होचुः क्व॒ नु सो॒ऽभूद् यो॒ न इत्थ॒म॒सक्ते॒ति । अय॒मास्ये॒ऽन्त॒रि॒ति,
सो॒ऽया॒स्य; आङ्गिरसो॒, अङ्गानाꣳ हि॒ र॒सः ।
pM10/k9
सा॒ वा॒ एषा॒ देव॒ता दू॒र्ना॒म, दूर॒ꣳ ह्य॒स्या मृत्युः॒ । दूर॒ꣳ ह वा॒
अस्मा॒न्मृत्यु॒र्भवति, य॒ एवं॒ वे॒द ।
pM11/k10
सा॒ वा॒ एषा॒ देव॒तैता॒सां देव॒तानां पाप्मा॒नं मृत्यु॒मपह॒त्य, य॒त्रासां॒
दिशा॒म॒न्तः त॒द्गमयां॒ चकार, त॒दासां पाप्म॒नो विन्य॒दधात् । त॒स्मान्न॒
ज॒नमियान् ना॒न्तमियान् ने॒त्पाप्मा॒नं मृत्यु॒मन्ववा॒यानी॒ति ।
pM12/k11
सा॒ वा॒ एषा॒ देव॒तैता॒सां देव॒तानां
पाप्मा॒नं मृत्यु॒मपह॒त्या॒थैना मृत्यु॒म॒त्यवहत् ।
pM13/k12
सा॒ वै॒ वा॒चमेव॒ प्रथमा॒म॒त्यवहत् । सा॒ यदा॒ मृत्यु॒मत्य॒मुच्यत,
सो॒ऽग्नि॒रभवत्; सो॒ऽय॒मग्निः॒ प॒रेण मृत्यु॒म॒तिक्रान्तो दीप्यते ।
pM14/k13
अ॒थ प्राण॒म॒त्यवहत् । स॒ यदा॒ मृत्यु॒मत्य॒मुच्यत, स॒ वायु॒रभवत्;
सो॒ऽयं॒ वायुः॒ प॒रेण मृत्यु॒म॒तिक्रान्तः पवते ।
pM15/k14
अ॒थ च॒क्षुर॒त्यवहत् । त॒द्यदा॒ मृत्यु॒मत्य॒मुच्यत, स॒ आदित्यो॒ऽभवत्;
सो॒ऽसा॒वादित्यः॒ प॒रेण मृत्यु॒म॒तिक्रान्तस्तपति ।
pM16/k15
अ॒थ श्रो॒त्रम॒त्यवहत् । त॒द्यदा॒ मृत्यु॒मत्य॒मुच्यत, ता॒ दि॒शोऽभवन्; ता॒
इमा॒ दि॒शः प॒रेण मृत्यु॒म॒तिक्रान्ताः ।
pM17/k16
अ॒थ म॒नो॒ऽत्यवहत् । त॒द्यदा॒ मृत्यु॒म॒त्यमुच्यत, स॒ चन्द्र॒मा अभवत्;
सो॒ऽसौ॒ चन्द्रः॒ प॒रेण मृत्यु॒म॒तिक्रान्तो भाति । एव॒ꣳ ह वा॒ एनमेषा॒
देव॒ता मृत्यु॒म॒तिवहति, य॒ एवं॒ वे॒द ।
pM18/k17
अ॒थात्म॒नेऽन्ना॒द्यमा॒गायद् । य॒द्धि॒ कि॒ङ्चा॒न्नमद्य॒ते, अने॒नैव॒ त॒दद्य॒त;
इह॒ प्र॒तितिष्ठति ।
pM19/k18
ते॒ देवा॒ अब्रुवन्न् एता॒वद्वा॒ इद॒ꣳ स॒र्वं य॒द॒न्नं, त॒दात्म॒न आ॒गासीर॒नु
नोऽस्मि॒न्न॒न्न आ॒भजस्वे॒ति । ते॒ वै॒ माभिसं॒विशते॒ति । त॒थे॒ति । त॒ꣳ
समन्तं॒ परिण्य॒विशन्त । त॒स्माद्य॒दने॒ना॒न्नम॒त्ति, ते॒नैता॒स्तृप्यन्ति ।
एव॒ꣳ ह वा॒ एनꣳ स्वा॒ अभिसं॒विशन्ति, भ॒र्ता स्वा॒नाꣳ श्रे॒ष्ठः पुरएता॒
भवत्यन्नादो॒ऽधिपतिः य॒ एवं॒ वे॒द ।
pM20/k18
य॒ उ हैवंवि॒दꣳ स्वे॒षु प्रतिप्रति॒र्बु॒भूषति, न॒ हैवा॒लं भार्ये॒भ्यो
भवति अ॒थ य॒ एवै॒त॒म॒नुभवति, यो॒ वैत॒म॒नु भार्या॒न्बु॒भूर्षति, स॒
हैवा॒लं भार्ये॒भ्यो भवति ।
pM21/k19
सो॒ऽया॒स्य आङ्गिरसो॒, अङ्गानाꣳ हि॒ र॒सः । प्राणो॒ वा॒ अ॒ङ्गानाꣳ र॒सः ।
प्राणो॒ हि॒ वा॒ अ॒ङ्गानाꣳ र॒सः त॒स्माद्य॒स्मात्क॒स्माच्चा॒ङ्गात्प्राण॒ उत्क्रा॒मति,
त॒देव॒ त॒च्छुष्यति एष॒ हि॒ वा॒ अ॒ङ्गानाꣳ र॒सः ।
pM22/k20
एष॒ उ एव॒ बृहस्प॒तिः वा॒ग्वै॒ बृहती॒, त॒स्या एष॒ प॒तिः त॒स्मादु
बृहस्प॒तिः ।
pM23/k21
एष॒ उ एव॒ ब्र॒ह्मणस्प॒तिः वा॒ग्वै॒ ब्र॒ह्म, त॒स्या एष॒ प॒तिः त॒स्मादु
ब्र॒ह्मणस्प॒तिः ।
pM24/k22
एष॒ उ एव॒ सा॒म; वा॒ग्वै॒ सा॒मैष॒ सा॒ चा॒मश्चे॒ति, त॒त्सा॒म्नः
सामत्व॒म् । य॒द्वेव॒ समः॒ प्लु॒षिणा, समो॒ मश॒केन, समो॒ नागे॒न, सम॒
एभि॒स्त्रिभि॒र्लोकैः॒, समो॒ऽने॒न स॒र्वेण, त॒स्माद्वेव॒ सा॒माश्नुते॒ सा॒म्नः
सा॒युज्यꣳ सलोक॒तां, य॒ एव॒मेत॒त्सा॒म वे॒द ।
pM25/k23
एष॒ उ वा॒ उद्गीथः॒ । प्राणो॒ वा॒ उ॒त् प्राणे॒न ही॒द॒ꣳ स॒र्वमु॒त्तब्धम् ।
वा॒गेव॒ गी॒थो॒च्च गी॒था चे॒ति, स॒ उद्गीथः॒ ।
pM26/k24
त॒द्धा॒पि ब्रह्मदत्त॒श्चैकितानेयो॒ रा॒जानं भक्ष॒यन्नुवाचायं॒ त्य॒स्य रा॒जा
मूर्धा॒नं वि॒पातयताद् य॒दितो॒ऽया॒स्य आङ्गिरसो॒ऽन्ये॒नोद॒गायदि॒ति । वाचा॒
च ह्ये॒व॒ स॒ प्राणे॒न चोद॒गायदि॒ति ।
pM27/k25
त॒स्य हैत॒स्य सा॒म्नो यः॒ स्वं॒ वे॒द, भ॒वति हास्य स्व॒म् । त॒स्य वै॒
स्व॒र एव॒ स्व॒म् । त॒स्मादा॒र्त्विज्यं करिष्य॒न्वाचि॒ स्व॒रमिच्छेत, त॒या वाचा॒
स्व॒रसम्पन्नया॒र्त्विज्यं कुर्यात् । त॒स्माद्यज्ञे॒ स्व॒रवन्तं दि॒दृक्षन्त एवा॒थो
य॒स्य स्वं॒ भ॒वति ।
भ॒वति हास्य स्वं॒, य॒ एव॒मेत॒त्सा॒म्नः स्वं॒ वे॒द ।
pM28/k26
त॒स्य हैत॒स्य सा॒म्नो यः॒ सुव॒र्णं वे॒द, भ॒वति हास्य सुव॒र्णम् । त॒स्य वै॒
स्व॒र एव॒ सुव॒र्णम् । भ॒वति हास्य सुव॒र्णं, य॒ एव॒मेत॒त्सा॒म्नः सुव॒र्णं
वे॒द ।
pM29/k27
त॒स्य हैत॒स्य सा॒म्नो यः॒ प्रतिष्ठां॒ वे॒द, प्र॒ति ह तिष्ठति । त॒स्य वै॒
वा॒गेव॒ प्रतिष्ठा॒, वाचि॒ हि॒ ख॒ल्वेष॒ एत॒त्प्राणः॒ प्र॒तिष्ठितो गीय॒ते॒,
अन्न इ॒त्यु है॒क आहुः ।
pM30/k28
अ॒था॒तः प॒वमानानामेवा॒भ्यारोहः॒ । स॒ वै॒ ख॒लु प्रस्तोता॒ सा॒म प्र॒स्तौति ।
स॒ य॒त्र प्रस्तुया॒त् त॒देता॒नि जपेद॒सतो मा स॒द्गमय त॒मसो मा ज्यो॒तिर्गमय,
मृत्यो॒र्मामृतं गमये॒ति ।
pM31/k28
स॒ य॒दा॒हा॒सतो मा स॒द्गमये॒ति, मृत्यु॒र्वा॒ अ॒सत् स॒दमृतम् मृत्यो॒र्मामृतं
गमयामृतं मा कुर्वि॒त्येवै॒त॒दाह ।
pM32/k28
त॒मसो मा ज्यो॒तिर्गमये॒ति, मृत्यु॒र्वै॒ त॒मो, ज्यो॒तिरमृतम् मृत्यो॒र्मामृतं
गमयामृतं मा कुर्वि॒त्येवै॒त॒दाह । मृत्यो॒र्मामृतं गमये॒ति, ना॒त्र
तिरो॒हितमिवास्ति ।
pM33/k28
अ॒थ या॒नी॒तराणि स्तोत्रा॒णि, ते॒ष्वात्म॒नेऽन्ना॒द्यमा॒गायेत्; त॒स्मादु ते॒षु
व॒रं वृणीत, यं॒ का॒मं काम॒येत, त॒ꣳ । स॒ एष॒ एवंवि॒दुद्गाता॒त्म॒ने
वा य॒जमानाय
वा यं॒ का॒मं काम॒यते,
त॒मा॒गायति । त॒द्धैत॒ल् लोकजि॒देव॒, न॒ हैवा॒लोक्य॒ताया आशा॒स्ति, य॒
एव॒मेत॒त्सा॒म वे॒द ।
ch4 = SBM 14.4.2.1-31 = SBK16.3.4.1-17
pMK1
आत्मै॒वे॒द॒म॒ग्र आसीत्पु॒रुषविधः । सो॒ऽनुवी॒क्ष्य
ना॒न्य॒दात्म॒नोऽपश्यत् । सो॒ऽह॒मस्मी॒त्य॒ग्रे व्या॒हरत् । त॒तोऽहन्ना॒माभवत् ।
त॒स्माद॒प्येत॒र्ह्या॒मन्त्रितोरह॒मय॒मि॒त्येवा॒ग्र उक्त्वा॒थान्य॒न्ना॒म
प्र॒ब्रूते य॒दस्य भ॒वति ।
pM2/k1
स॒ य॒त्पू॒र्वोऽस्मात्स॒र्वस्मात्स॒र्वान्पाप्म॒न औ॒षत् त॒स्मात्पु॒रुष । ओ॒षति ह
वै॒ स॒ तं॒, यो॒ऽस्मात्पू॒र्वो बु॒भूषति, य॒ एवं॒ वे॒द ।
pM3/k2
सो॒ऽबिभेत्; त॒स्मादेकाकी॒ बिभेति । स॒ हाय॒मीक्षां॒ चक्रेः य॒न्म॒दन्य॒न्ना॒स्ति,
क॒स्मान्नु॒ बिभेमी॒ति । त॒त एवा॒स्य भयं॒ वी॒याय । क॒स्माद्ध्य॒भेष्यद्
द्विती॒याद्वै॒ भयं॒ भवति ।
pM4/k3
स॒ वै॒ नै॒व॒ रेमे; त॒स्मादेकाकी॒ न॒ रमते । स॒ द्विती॒यमैच्छत् । स॒
हैता॒वानास य॒था स्त्रीपुमा॒ꣳसौ सम्प॒रिष्वक्तौ ।
pM5/k3
स॒ इम॒मेवा॒त्मा॒नं द्वेधा॒पातयत्; त॒तः प॒तिश्च प॒त्नी चाभवताम् ।
त॒स्मादिद॒मर्धबृगल॒मिव स्व इ॒ति ह स्माह या॒ज्ञवल्क्यः । त॒स्मादय॒माकाशः॒
स्त्रिया॒ पूर्य॒त एव॒ । ता॒ꣳ स॒मभवत् त॒तो मनुष्या॒ अजायन्त ।
pM6/k4
सो॒ हेय॒मीक्षां॒ चक्रेः कथं॒ नु॒ मात्म॒न एव॒ जनयित्वा॒ स॒म्भवति । ह॒न्त
तिरो॒ऽसानी॒ति ।
pM7/k4
सा॒ गौ॒र॒भवद् वृषभ॒ इ॒तरस्; ताꣳ स॒मेवा॒भवत् त॒तो गा॒वोऽजायन्त ।
pM8/k4
व॒डवे॒तरा॒भवदश्ववृष॒ इ॒तरो; गर्दभी॒तरा, गर्दभ॒ इ॒तरस्; ता॒ꣳ
स॒मेवा॒भवत् त॒त ए॒कशफमजायत ।
pM9/k4
अजे॒तरा॒भवद् बस्त॒ इ॒तरो; अवि॒रि॒तरा, मेष॒ इ॒तरस्; ता॒ꣳ स॒मेवा॒भवत्
त॒तोऽजाव॒योऽजायन्तैव॒मेव॒ य॒दिदं॒ कि॒ङ्च मिथुन॒मा॒
पिपी॒लिकाभ्यः
त॒त्स॒र्वमसृजत ।
pM10/k5
सो॒ऽवेदहं॒ वा॒व॒ सृष्टिरस्मि अह॒ꣳ ही॒द॒ꣳ स॒र्वम॒सृक्षी॒ति ।
त॒तः सृष्टिरभवत् । सृष्ट्याꣳ हास्यैत॒स्यां भवति, य॒ एवं॒ वे॒द ।
pM11/k6
अ॒थे॒त्यभ्य॒मन्थत् । स॒ मु॒खाच्च यो॒नेर्ह॒स्ताभ्यां चाग्नि॒मसृजत ।
त॒स्मादेत॒दुभ॒यमलो॒मकमन्तरतो॒, अलो॒मका हि॒ यो॒निरन्तरतः॒ ।
pM12/k6
त॒द्य॒दिद॒माहुरमुं॒ यजामुं॒ यजे॒त्ये॒कैकं देव॒म् एत॒स्यैव॒ सा॒ वि॒सृष्टिः
एष॒ उ ह्ये॒व॒ स॒र्वे देवा॒ ।
pM13/k6
अ॒थ य॒त्कि॒ङ्चेद॒मार्द्रं॒, त॒द्रे॒तसोऽसृजत; त॒दु सो॒म । एता॒वद्वा॒
इद॒ꣳ स॒र्वम॒न्नं चैवा॒न्नाद॒श्च; सो॒म एवा॒न्नम् अग्नि॒रन्नादः॒ ।
pM14/k6
सै॒षा॒ ब्र॒ह्मणो॒ऽतिसृष्टिः य॒च्छ्रे॒यसो देवा॒न॒सृजता॒थ य॒न्म॒र्त्यः
स॒न्नमृतानसृजत,
त॒स्माद॒तिसृष्टिर॒तिसृष्ट्याꣳ हास्यैत॒स्यां भवति, य॒ एवं॒ वे॒द ।
pM15/k7
त॒द्धेदं॒ त॒र्ह्य॒व्याकृतमासीत् । त॒न्नामरूपा॒भ्यामेव॒ व्या॒क्रियतासौ॒
ना॒माय॒मिद॒ꣳरूप इ॒ति । त॒दिद॒म॒प्येत॒र्हि नामरूपा॒भ्यामेव॒
व्या॒क्रियत असौ॒ ना॒माय॒मिद॒ꣳरूप इ॒ति ।
pM16/k7
स॒ एष॒ इह॒ प्र॒विष्ट आ॒ नखाग्रे॒भ्यो । य॒था क्षुरः॒ क्षुरधाने॒ऽवहितः
स्या॒द् विश्वम्भरो॒ वा विश्वम्भरकुलाये॒, तं॒ न॒ प॒श्यन्ति अ॒कृत्स्नो हि॒ सः॒;
pM17/k7
प्राण॒न्नेव॒ प्राणो॒ ना॒म भ॒वति, व॒दन्वा॒क् प॒श्यंश्च॒क्षुः,
शृण्व॒ञ्च्रो॒त्रं, मन्वानो॒ म॒नः । ता॒न्यस्यैता॒नि कर्मनामा॒न्येव॒ । स॒
यो॒ऽत ए॒कैकमुपा॒स्ते, न॒ स॒ वेदा॒कृत्स्नो ह्ये॒षो॒ऽत ए॒कैकेन भ॒वति ।
pM18/k7
आत्मे॒त्येवो॒पासीता॒त्र ह्ये॒ते॒ स॒र्व ए॒कं भ॒वन्ति । त॒देत॒त्पदनी॒यमस्य
स॒र्वस्य
य॒दय॒मात्मा॒ने॒न ह्ये॒त॒त्स॒र्वं वे॒द ।
य॒था ह वै॒ पदे॒नानुविन्दे॒देवं॒ कीर्ति॒ꣳ श्लो॒कं विन्दते, य॒ एवं॒ वे॒द ।
pM19/k8
त॒देत॒त्प्रे॒यः पुत्रा॒त् प्रे॒यो वित्ता॒त् प्रे॒योऽन्य॒स्मात्स॒र्वस्माद॒न्तरतरं,
य॒दय॒मात्मा॒ । स॒ यो॒ऽन्य॒मात्म॒नः प्रियं॒ ब्रुवाणं॒ ब्रूया॒त् प्रिय॒ꣳ
रोत्स्यती॒तीश्वरो॒ ह त॒थैव॒ स्याद् । आत्मा॒नमेव॒ प्रिय॒मु॒पासीत । स॒ य॒
आत्मा॒नमेव॒ प्रिय॒मुपा॒स्ते, न॒ हास्य प्रियं॒ प्रमा॒युकं भवति ।
pM20/k9
त॒दाहुः य॒द्ब्रह्मविद्य॒या स॒र्वं भविष्य॒न्तो मनुष्या॒ म॒न्यन्ते, कि॒मु
त॒द्ब्र॒ह्मावेद् य॒स्मात्त॒त्स॒र्वम॒भवदि॒ति ।
pM21/k10
ब्र॒ह्म वा॒ इद॒म॒ग्र आसीत् । त॒दात्मा॒नमेवा॒वेदहं॒ ब्र॒ह्मास्मी॒ति;
त॒स्मात्त॒त्स॒र्वमभवत् । त॒द्यो॒-यो देवा॒नां प्रत्य॒बुध्यत, स॒ एव॒ त॒द॒भवत्
त॒थ॒र्षीनां, त॒था मनुष्या॒णाम् ।
pM22/k10
त॒द्धैत॒त्प॒श्यन्नृषिर्वाम॒देवः प्र॒तिपेदेरहं॒ म॒नुरभवꣳ
सू॒र्यश्चे॒ति । त॒दिद॒म॒प्येत॒र्हि य॒ एवं॒ वे॒दाहं॒ ब्र॒ह्मास्मी॒ति, स॒
इद॒ꣳ स॒र्वं भवति, त॒स्य ह न॒ देवा॒श्चना॒भूत्या ईशत, आत्मा॒ ह्ये॒षा॒ꣳ
स॒ भ॒वति । अ॒थ यो॒ऽन्यां॒ देव॒तामुपा॒स्तेरन्यो॒ऽसा॒उ अन्यो॒ऽह॒मस्मी॒ति,
न॒ स॒ वेद । य॒था पशु॒रेव॒ꣳ स॒ देवा॒नाम् । य॒था ह वै॒ बह॒वः
पश॒वो मनुष्यं॒ भुङ्ज्युः॒ एव॒मे॒कैकः पु॒रुषो देवा॒न्भुनक्ति । ए॒कस्मिन्नेव॒
पशा॒वादीय॒माने॒ऽप्रियं भवति, कि॒मु बहु॒षु; त॒स्मादेषां त॒न्न॒ प्रियं॒
य॒देत॒न्मनुष्या॒ विद्युः॒ ।
pM23/k11
ब्र॒ह्म वा॒ इद॒म॒ग्र आसीदे॒कमेव॒ । त॒दे॒कꣳ स॒न्न॒ व्य॒भवत् । त॒च्छ्रे॒यो
रूप॒म॒त्यसृजत क्षत्रं॒, या॒न्येता॒नि देवत्रा॒ क्षत्रा॒णी॒न्द्रो व॒रुणः सो॒मो
रुद्रः॒ पर्ज॒न्यो यमो॒ मृत्यु॒री॒शान इ॒ति ।
त॒स्मात्क्षत्रा॒त्प॒रं ना॒स्ति; त॒स्माद्! ब्राह्मणः॒ क्षत्रि॒यं अध॒स्तादु॒पास्ते
राजसू॒ये । क्षत्र॒ एव॒ त॒द्य॒शो दधाति, सै॒षा॒ क्षत्र॒स्य यो॒निर्य॒द्ब्र॒ह्म ।
त॒स्माद्य॒द्य॒पि रा॒जा परम॒तां ग॒च्छति, ब्र॒ह्मैवा॒न्तत॒ उपनि॒श्रयति स्वां॒
यो॒निम् । य॒ उ एनꣳ हिन॒स्ति, स्वा॒ꣳ स॒ यो॒निमृच्छति । स॒ पा॒पीयान्भवति,
य॒था श्रे॒याꣳसꣳ हिꣳसित्वा॒ ।
pM24/k12
स॒ नै॒व॒ व्य॒भवत् । स॒ वि॒शमसृजत, या॒न्येता॒नि देवजाता॒नि गणश॒
आख्याय॒न्ते, व॒सवो रुद्रा॒ आदित्या॒ वि॒श्वे देवा॒ मरु॒त इ॒ति ।
pM25/k13
स॒ नै॒व॒ व्य॒भवत् । स॒ शौ॒द्रं व॒र्णमसृजत पूष॒णम् । इयं॒ वै॒
पूषे॒य॒ꣳ ही॒द॒ꣳ स॒र्वं
पु॒ष्यति य॒दिदं॒ कि॒ङ्च ।
pM26/k14
स॒ नै॒व॒ व्य॒भवत् । त॒च्छ्रे॒यो रूप॒म॒त्यसृजत ध॒र्मम् ।
त॒देत॒त्क्षत्र॒स्य क्षत्रं॒ य॒द्ध॒र्मः । त॒स्माद्ध॒र्मात्प॒रं ना॒स्ति । अ॒थो
अ॒बलीयान्ब॒लीयाꣳसमा॒शꣳसते
ध॒र्मेण य॒था रा॒ज्ञैव॒म् ।
यो॒ वै॒ स॒ ध॒र्मः, सत्यं॒ वै॒ त॒त् । त॒स्मात्सत्यं॒ व॒दन्तमाहुः ध॒र्मं
वदती॒ति, ध॒र्मं वा व॒दन्तꣳ: सत्यं॒ वदती॒ति एत॒द्ध्ये॒वै॒त॒दुभ॒यं
भ॒वति ।
pM27/k15
त॒देत॒द्ब्र॒ह्म क्षत्रं॒ वि॒ट् शूद्रः॒ । त॒दग्नि॒नैव॒ देवे॒षु ब्र॒ह्मा॒भवद्
ब्राह्मणो॒ मनुष्ये॒षु, क्षत्रि॒येण क्षत्रि॒यो, वै॒श्येन वै॒श्यः, शूद्रे॒ण शूद्रः॒ ।
त॒स्मादग्ना॒वेव॒ देवे॒षु लोक॒मिच्छन्ते, ब्राह्मणे॒ मनुष्ये॒षु एता॒भ्याꣳ हि॒
रूपा॒भ्यां ब्र॒ह्मा॒भवत् ।
pM28/k15
अ॒थ यो॒ ह वा॒ अस्मा॒ल् लोका॒त्स्वं॒ लोक॒म॒दृष्ट्वा प्रै॒ति, स॒ एनम॒विदितो
न॒ भुनक्ति; य॒था वे॒दो वा॒ननूक्तोऽन्य॒द्वा क॒र्मा॒कृतम् । य॒दि ह वा॒
अ॒प्य॒नेवंविन्महत्पु॒ण्यं क॒र्म करो॒ति, त॒द्धास्यान्ततः॒ क्षी॒यत एवा॒त्मा॒नमेव॒
लोक॒मु॒पासीत । स॒ य॒ आत्मा॒नमेव॒ लोक॒मुपा॒स्ते, न॒ हास्य क॒र्म क्षीयते ।
अस्मा॒द्ध्ये॒वा॒त्म॒नो य॒द्-यत्काम॒यते, त॒त्-तत्सृजते ।
pM29/k16
अ॒थो अयं॒ वा॒ आत्मा॒ स॒र्वेषां भूता॒नां लोकः॒; स॒ य॒ज् जुहो॒ति, य॒द्य॒जते
ते॒न देवा॒नां लोको॒; अथ य॒दनुब्रूते॒, ते॒न॒र्षीणाम्; अ॒थ य॒त्प्रजा॒मिच्छ॒ते,
य॒त्पितृभ्यो निपृणा॒ति, ते॒न पित्ऱ्णा॒म्; अ॒थ य॒न्मनुष्या॒न्वास॒यते,
य॒देभ्यो॒ऽशनं द॒दाति, ते॒न मनुष्या॒णाम्; अ॒थ य॒त्पशु॒भ्यस्तृणोदकं॒
विन्द॒ति, ते॒न पशूनां॒; य॒दस्य गृहे॒षु श्वा॒पदा व॒याꣳस्या॒
पिपी॒लिकाभ्य उपजी॒वन्ति,
ते॒न ते॒षां लोको॒ । य॒था ह वै॒ स्वा॒य लोका॒या॒रिष्टिमिच्छे॒देव॒ꣳ
हैवंवि॒दे सर्वदा॒ स॒र्वाणि भूता॒न्य॒रिष्टिमिच्छन्ति । त॒द्वा॒ एत॒द्विदितं॒
मीमाꣳसित॒म् ।
pM30/k17
आत्मै॒वे॒द॒म॒ग्र आसीदे॒क एव॒ । सो॒ऽकामयतः जाया॒ मे स्याद॒थ प्र॒जायेया॒थ
वित्तं॒ मे स्याद॒थ क॒र्म कुर्वीये॒ति । एता॒वान्वै॒ का॒मो ने॒च्छ॒ꣳश्चना॒तो
भू॒यो विन्देत् । त॒स्माद॒प्येत॒र्ह्येकाकी॒ कामयतेः जाया॒ मे स्याद॒थ प्र॒जायेया॒थ
वित्तं॒ मे स्याद॒थ क॒र्म कुर्वीये॒ति । स॒ या॒वद॒प्येतेषामे॒कैकं न॒ प्राप्नो॒ति
अ॒कृत्स्न एव॒ ता॒वन्मन्यते । त॒स्यो कृत्स्न॒ता ।
pM31/k17
म॒न एवा॒स्यात्मा॒; वा॒ग्जाया॒; प्राणः॒ प्रजा॒; च॒क्षुर्मानुषं॒ वित्तं॒, च॒क्षुषा
हि॒ त॒द्विन्द॒ति; श्रो॒त्रं दै॒वं, श्रो॒त्रेण हि॒ त॒च्छृणो॒ति आत्मै॒वा॒स्य
क॒र्मात्म॒ना हि॒ क॒र्म करो॒ति । स॒ एष॒ पा॒ङ्क्तो यज्ञः॒, पा॒ङ्क्तः पशुः॒,
पा॒ङ्क्तः पु॒रुषः, पा॒ङ्क्तमिद॒ꣳ स॒र्वं य॒दिदं॒ कि॒ङ्च । त॒दिद॒ꣳ
स॒र्वमाप्नोति, य॒ एवं॒ वे॒द ।
ch5 = SBM 14.4.3.1-34= SBK16.3.5.1-23
pMK1
य॒त्सप्ता॒न्नानि मेध॒या त॒पसा॒जनयत्पितै॒- -कमस्य साधारणं॒,
द्वे॒ देवा॒नभाजयत् । त्री॒ण्यात्म॒नेऽकुरुत, पशु॒भ्य ए॒कं प्रा॒यच्छत्;
त॒स्मिन्त्स॒र्वं प्र॒तिष्ठितं, य॒च्च प्रा॒णिति य॒च्च न॒ । क॒स्मात्ता॒नि न॒
क्षीयन्ते, अद्य॒मानानि सर्वदा॒ । यो॒ वै॒ ता॒म॒क्षितिं वे॒द, सो॒ऽन्नमत्ति प्र॒तीकेन,
स॒ देवा॒न॒पिगच्छति, स॒ ऊ॒ऋजमु॒पजीवती॒ति श्लो॒काः ।
pMK2
य॒त्सप्ता॒न्नानि मेध॒या त॒पसा॒जनयत्पिते॒ति, मेध॒या हि॒
त॒पसा॒जनयत्पितै॒कमस्य
साधारण॒मि॒तीद॒मेवा॒स्य त॒त्साधारण॒म॒न्नं,
य॒दिद॒मद्य॒ते । स॒ य॒ एत॒दुपा॒स्ते, न॒ स॒ पाप्म॒नो व्या॒वर्तते; मिश्र॒ꣳ
ह्ये॒त॒त् ।
pM3/k2
द्वे॒ देवा॒नभाजयदि॒ति, हुतं॒ च प्र॒हुतं च; त॒स्माद्देवे॒भ्यो जु॒ह्वति च प्र॒
च जुह्वति । अ॒थो आहुः दर्शपूर्णमासा॒वि॒ति । त॒स्मान्ने॒ष्टिया॒जुकः स्यात् ।
pM4/k2
पशु॒भ्य ए॒कं प्रा॒यच्छदि॒ति, त॒त्प॒यः; प॒यो ह्ये॒वा॒ग्रे मनुष्या॒श्च
पश॒वश्चोपजी॒वन्ति । त॒स्मात्कुमारं॒ जातं॒ घृतं॒ वैवा॒ग्रे प्रतिलेह॒यन्ति,
स्त॒नं वा॒नुधापयन्ति;
pM5/k2
अ॒थ वत्सं॒ जात॒माहुर॒तृणाद इ॒ति । त॒स्मिन्त्स॒र्वं प्र॒तिष्ठितं, य॒च्च
प्रा॒णिति य॒च्च ने॒ति, प॒यसि ही॒द॒ꣳ स॒र्वं प्र॒तिष्ठितं, य॒च्च प्रा॒णिति
य॒च्च न॒ ।
pM6/k2
त॒द्य॒दिद॒माहुः॒ संवत्सरं॒ प॒यसा जु॒ह्वद॒प पुनर्मृत्युं॒ जयती॒ति, न॒
त॒था विद्याद् । य॒द॒हरेव॒ जुहो॒ति, त॒द॒हः पुनर्मृत्यु॒म॒पजयत्येवं॒
विद्वा॒न्त्; स॒र्वꣳ हि॒ देवे॒भ्योऽन्ना॒द्यं प्रय॒च्छति । क॒स्मात्ता॒नि न॒
क्षीयन्तेऽद्य॒मानानि स॒र्वदे॒ति ।
pM7/k2
पु॒रुषो वा॒ अ॒क्षितिः, स॒ ही॒द॒म॒न्नं पु॒नः-पुनर्जन॒यते । यो॒ वै॒
ता॒म॒क्षितिं वे॒दे॒ति, पु॒रुषो वा॒ अ॒क्षितिः । स॒ ही॒द॒म॒न्नं धिया॒-धिया
जन॒यते क॒र्मभिः य॒द्धैत॒न्न॒ कुर्या॒त् क्षी॒येत ह । सो॒ऽन्नमत्ति प्र॒तीकेने॒ति,
मु॒खं प्र॒तीकं, मु॒खेने॒त्येत॒त् । स॒ देवा॒न॒पिगच्छति, स॒ ऊ॒र्जमु॒पजीवती॒ति
प्रशꣳसा॒ ।
pM8/k3
त्री॒ण्यात्म॒नेऽकुरुते॒तिः म॒नो वा॒चं प्राणं॒; ता॒न्यात्म॒नेऽकुरुतान्य॒त्रमना
अभूवं, ना॒दर्शम्; अन्य॒त्रमना अभूवं, ना॒श्रौषमि॒तिः म॒नसा ह्ये॒व॒ प॒श्यति,
म॒नसा शृणो॒ति ।
pM9/k3
का॒मः सङ्कल्पो॒ विचिकित्सा॒ श्रद्धा॒श्रद्धा
धृतिर॒धृतिर्ह्री॒र्धी॒र्भी॒रि॒त्येत॒त्स॒र्वं म॒न एव॒ ।
त॒स्माद॒पि पृष्ठ॒त उ॒पस्पृष्टो म॒नसा वि॒जानाति ।
pM10/k3
यः॒ क॒श्च श॒ब्दो, वा॒गेव॒ सै॒षा॒ ह्य॒न्तं आ॒यत्तैषा॒ हि॒ न॒ ।
प्राणो॒ऽपानो॒ व्यान॒ उदानः॒ समानो॒ऽन॒
इ॒त्येत॒त्स॒र्वं प्राण॒ एवै॒तन्म॒यो वा॒ अय॒मात्माः॒
वाङ्म॒यो, मनोम॒यः, प्राणम॒यः ।
pM11/k4
त्र॒यो लोका॒ एत॒ एवः॒ वा॒गेवा॒यं॒ लोको॒, म॒नोऽन्तरिक्षलोकः॒, प्राणो॒ऽसौ॒
लोकः॒ ।
pM12/k5
त्र॒यो वे॒दा एत॒ एवः॒ वा॒गेव॒र्ग्वेदो॒, म॒नो यजुर्वेदः॒, प्राणः॒ सामवेदः॒ ।
pM13/k6
pMK1
देवा॒ पित॒रो मनुष्या॒ एत॒ एवः॒ वा॒गेव॒
देवा॒, म॒नः पित॒रः, प्राणो॒ मानुष्याः॒ ।
pM14/k7
पिता॒ माता॒ प्रजै॒त॒ एवः॒ म॒न एव॒ पिता॒, वा॒ङ् माता॒, प्राणः॒ प्रजा॒ ।
pM15/k8
वि॒ज्ञातं विजिज्ञा॒स्यम॒विज्ञातमेत॒ एवः॒ य॒त्कि॒ङ्च वि॒ज्ञातं वाच॒स्त॒द्रूप॒म्
वा॒ग्घि॒ वि॒ज्ञाता, वा॒गेनं त॒द्भूत्वा॒वति ।
pM16/k9
य॒त्कि॒ङ्च विजिज्ञा॒स्यं म॒नसस्त॒द्रूप॒म् म॒नो हि॒ विजिज्ञा॒स्यं, म॒न एनं
त॒द्भूत्वा॒वति ।
pM17/k10
य॒त्कि॒ङ्चा॒विज्ञातं प्राण॒स्य त॒द्रूप॒म् प्राणो॒ ह्य॒विज्ञातः, प्राण॒ एनं
त॒द्भूत्वा॒वति ।
pM18/k11
त॒स्यै वाचः॒ पृथिवी॒ श॒रीरं, ज्यो॒ती रूप॒मय॒मग्निः॒ । त॒द्या॒वत्येव॒
वा॒क् ता॒वती पृथिवी॒, ता॒वानय॒मग्निः॒ ।
pM19/k12
अ॒थैत॒स्य म॒नसो द्यौः॒ श॒रीरं, ज्यो॒ती रूप॒मसा॒वादित्यः॒ । त॒द्या॒वदेव॒
म॒नस्ता॒वती द्यौः॒ ता॒वानसा॒वादित्यः॒ । तौ॒ मिथुन॒ꣳ स॒मैताम् । त॒तः
प्राणो॒ऽजायत । स॒ इ॒न्द्रः, स॒ एषो॒ऽसपत्नो॒ । द्विती॒यो वै॒ सप॒त्नो । ना॒स्य
सप॒त्नो भवति, य॒ एवं॒ वे॒द ।
pM20/k13
अ॒थैत॒स्य प्राण॒स्या॒पः श॒रीरं, ज्यो॒ती रूप॒मसौ॒ चन्द्रः॒ । त॒द्या॒वानेव॒
प्राणः॒ ता॒वत्य आ॒पः ता॒वानसौ॒ चन्द्रः॒ ।
pM21/k13
त॒ एते॒ स॒र्व एव॒ समाः॒, स॒र्वेऽनन्ताः॒ । स॒ यो॒ हैता॒न॒न्तवत उपा॒स्ते॒,
अन्तवन्तꣳ स॒ लोकं॒ जयति अ॒थ यो॒ हैता॒ननन्ता॒नुपा॒स्ते, अनन्त॒ꣳ स॒
लोकं॒ जयति ।
pM22/k14
स॒ एष॒ संवत्सरः॒ प्रजा॒पतिष्षो॒डशकलः । त॒स्य रा॒त्रय एव॒ प॒ङ्चदश
कला॒; ध्रुवै॒वा॒स्य षोडशी॒ कला॒ । स॒ रा॒त्रिभिरेवा॒ च पूर्यते॒, अप
च क्षीयते । सो॒ऽमावास्या॒ꣳ रा॒त्रिमेत॒या षोडश्या॒ कल॒या स॒र्वमिदं॒
प्राणभृदनुप्रवि॒श्य, त॒तः प्रात॒र्जायते । त॒स्मादेता॒ꣳ रा॒त्रिं प्राणभृतः
प्राणं॒ न॒ वि॒च्छिन्द्याद॒पि कृकलास॒स्यैत॒स्या एव॒ देव॒ताया अ॒पचित्यै ।
pM23/k15
यो॒ वै॒ स॒ संवत्सरः॒ प्रजा॒पतिष्षो॒डशकालो, अय॒मेव॒ स॒
यो॒ऽय॒मेवंवि॒त्पु॒रुषः । त॒स्य वित्त॒मेव॒ प॒ङ्चदश कलाः॒ आत्मै॒वा॒स्य
षोडशी॒ कला॒ । स॒ वित्ते॒नैवा॒ च पूर्यते॒, अप च क्षीयते । त॒देत॒न्न॒भ्यं
य॒दय॒मात्मा॒, प्रधि॒र्वित्त॒म् । त॒स्माद्य॒दि अ॒पि सर्वज्यानिं॒ जी॒यत, आत्म॒ना
चे॒ज् जी॒वति, प्रधि॒नागादि॒त्याहुः ।
pM24/k16
अ॒थ त्र॒यो वा॒व॒ लोकाः॒ मनुष्यलोकः॒, पितृलोको॒, देवलोक॒ इ॒ति । सो॒ऽयं॒
मनुष्यलोकः॒ पुत्रे॒णैव॒ ज॒य्यो, ना॒न्ये॒न क॒र्मणा; क॒र्मणा पितृलोको॒; विद्य॒या
देवलोको॒ । देवलोको॒ वै॒ लोका॒नाꣳ श्रे॒ष्ठस्; त॒स्माद्विद्यां॒ प्र॒शꣳसन्ति ।
pM25/k17
अ॒था॒तः सम्प्र॒त्तिः । यदा॒ प्रैष्य॒न्म॒न्यते॒, अथ पुत्र॒माहः त्वं॒ ब्र॒ह्म,
त्वं॒ यज्ञः॒ त्वं॒ लोक॒ इ॒ति । स॒ पुत्रः॒ प्र॒त्याहाहं॒ ब्र॒ह्माहं॒ यज्ञो॒,
अह॒म्लोक॒ इ॒ति ।
pM26/k17
य॒द्वै॒ कि॒ङ्चा॒नूक्तं, त॒स्य स॒र्वस्य ब्र॒ह्मे॒त्येक॒ता । ये॒ वै॒ के॒च
यज्ञाः॒ ते॒षाꣳ स॒र्वेषां यज्ञ॒ इ॒त्येक॒ता । ये॒ वै॒ के॒च लोकाः॒
ते॒षाꣳ स॒र्वेषां लोक॒ इ॒त्येक॒तैता॒वद्वा॒ इद॒ꣳ स॒र्वम् एत॒न्मा
स॒र्वꣳ स॒न्नय॒मितो॒ भुनजदि॒ति । त॒स्मात्पुत्र॒म॒नुशिष्टं लोक्य॒माहुः
त॒स्मादेनम॒नुशासति । स॒ यदै॒वंवि॒दस्मा॒ल् लोका॒त्प्रै॒ति अ॒थैभि॒रेव॒
प्राणैः॒ सह॒ पुत्र॒मा॒विशति । स॒ य॒द्यने॒न कि॒ङ्चिदक्ष्णया॒ कृतं॒ भ॒वति,
त॒स्मादेनꣳ स॒र्वस्मात्पुत्रो॒ मुङ्चति । त॒स्मात्पुत्रो॒ ना॒म । स॒ पुत्रे॒णैवा॒स्मिल्
लोके॒ प्र॒तितिष्ठति अ॒थैनमेते॒ देवाः॒ प्राणा॒ अमृता आ॒विशन्ति ।
pM27/k18
पृथिव्यै॒ चैनमग्ने॒श्च दै॒वी वा॒गा॒विशति । सा॒ वै॒ दै॒वी वा॒ग्य॒या,
य॒द्-यदेव॒ व॒दति, त॒त्-तद्भवति ।
pM28/k19
दिव॒श्चैनमादित्या॒च्च दै॒वं म॒न आ॒विशति । त॒द्वै॒
दै॒वं म॒नो ये॒नानन्द्ये॒व॒ भ॒वति अ॒थो न॒ शोचति ।
pM29/k20
अद्भ्य॒श्चैनं चन्द्र॒मसश्च दै॒वः प्राण॒ आ॒विशति । स॒ वै॒ दै॒वः प्राणो॒
यः॒ सञ्च॒रꣳश्चा॒सञ्चरꣳश्च न॒ व्य॒थते॒, अथो न॒ रि॒ष्यति । स॒
एष॒ एवंवि॒त्स॒र्वेषां भूता॒नामात्मा॒ भवति । य॒थैषा॒ देव॒तैव॒ꣳ स॒ ।
य॒थैतां॒ देव॒ताꣳ स॒र्वाणि भूता॒न्य॒वन्ति एव॒ꣳ हैवंवि॒दꣳ स॒र्वाणि
भूता॒न्यवन्ति । य॒दु कि॒ङ्चेमाः॒ प्रजाः॒ शो॒चन्ति अमै॒वा॒सां त॒द्भवति,
पु॒ण्यमेवा॒मुं॒ गच्छति, न॒ ह वै॒ देवा॒न्पापं॒ गच्छति ।
pM30/k21
अ॒था॒तो व्रतमीमाꣳसा॒ । प्रजा॒पतिर्ह क॒र्माणि ससृजे । ता॒नि
सृष्टा॒न्यन्यो॒ऽन्ये॒नास्पर्धन्तः वदिष्या॒म्येवा॒ह॒मि॒ति वा॒ग्दध्रे;
द्रक्ष्या॒म्यह॒मि॒ति च॒क्षुः; श्रोष्या॒म्यह॒मि॒ति श्रो॒त्रम्; एव॒मन्या॒नि क॒र्माणि
यथाकर्म॒म् ।
pM31/k21
ता॒नि मृत्युः॒ श्र॒मो भूत्वो॒पयेमे, ता॒न्याप्नोत्; ता॒न्याप्त्वा॒ मृत्यु॒र॒वारुन्द्ध ।
त॒स्माच्छ्रा॒म्यत्येव॒ वा॒क् श्रा॒म्यति च॒क्षुः, श्रा॒म्यति श्रो॒त्रम् । अ॒थेम॒मेव॒
ना॒प्नोद् यो॒ऽयं॒ मध्यमः॒ प्राणः॒ ।
pM32/k21
ता॒नि ज्ञा॒तुं दध्रिरेरयं॒ वै॒ नः श्रे॒ष्ठो यः॒ सञ्च॒रंश्चा॒सञ्चरंश्च
न॒ व्य॒थते॒, अथो न॒ रि॒ष्यति । ह॒न्तास्यैव॒ स॒र्वे रूपं॒ भ॒वामे॒ति ।
त॒ एत॒स्यैव॒ स॒र्वे रूप॒मभवन्ः । त॒स्मादेत॒ एते॒ना॒ख्यायन्ते प्राणा॒ इ॒ति ।
ते॒न ह वा॒व॒ त॒त्कु॒लमा॒चक्षते, य॒स्मिन्कु॒ले भ॒वति य॒ एवं॒ वे॒द । य॒
उ हैवंवि॒दा स्प॒र्धते
Kadd अनुशुष्यति
अनुशु॒ष्य हैवा॒न्ततो॒ म्रियत । इ॒त्यध्यात्म॒म् ।
pM33/k22
अ॒थाधिदेवत॒म् ज्वलिष्या॒म्येवा॒ह॒मि॒त्यग्नि॒र्दध्रे; तप्स्या॒म्यह॒मि॒त्यादित्यो॒;
भास्या॒म्यह॒मि॒ति चन्द्र॒मा; एव॒मन्या॒ देव॒ता यथादेवत॒ꣳ । स॒ य॒थैषां॒
प्राणा॒नां मध्यमः॒ प्राण॒, एव॒मेता॒सां देव॒तानां वायुः॒ । म्लो॒चन्ति ह्य॒न्या॒
देव॒ता, न॒ वायुः॒ । सै॒षा॒नस्तमिता देव॒ता य॒द्वायुः॒ ।
pM34/k23
अ॒थैष॒ श्लो॒को भवतिः य॒तश्चोदे॒ति सू॒र्यो॒, अस्तं य॒त्र च ग॒च्छती॒ति
प्राणा॒द्वा॒ एष॒ उ॒देति, प्राणे॒ऽस्तमेति तं॒ देवा॒श्चक्रिरे ध॒र्मꣳ, स॒
एवा॒द्य॒, स॒ उ श्व॒ इ॒ति । य॒द्वा॒ एते॒ऽमु॒र्ह्य॒ध्रियन्त, त॒देवा॒प्यद्य॒
कुर्वन्ति । त॒स्मादे॒कमेव॒ व्रतं॒ चरेत् । प्रा॒ण्याच्चैवा॒पान्या॒च्चः ने॒न्मा पाप्मा॒
मृत्यु॒राप्नवदि॒ति । य॒द्यु च॒रेत् स॒मापिपयिषेत् । ते॒नो एत॒स्यै देव॒तायै
सा॒युज्यꣳ सलोक॒तां जयति, य॒ एवं॒ वे॒द ।
ch6 = SBM 14.4.4.1-4= SBK16.3.6.1-3
pMK1
त्र॒यं वा॒ इदं॒, ना॒म रूपं॒ क॒र्म । ते॒षां ना॒म्नां
वा॒गि॒त्येत॒देषामुक्थ॒म् अ॒तो हि॒ स॒र्वाणि ना॒मान्युत्ति॒ष्ठन्ति । एत॒देषा॒ꣳ
सा॒मैत॒द्धि॒ स॒र्वैर्ना॒मभिः सम॒म् । एत॒देषां ब्र॒ह्मैत॒द्धि॒ स॒र्वाणि
ना॒मानि बिभ॒र्ति ।
pMK2
अ॒थ रूपा॒णां च॒क्षुरि॒त्येत॒देषामुक्थ॒म् अ॒तो हि॒ स॒र्वाणि रूपा॒ण्युत्ति॒ष्ठन्ति ।
एत॒देषाꣳ सा॒मैत॒द्धि॒ स॒र्वै रूपैः॒ सम॒म् । एत॒देषां ब्र॒ह्मैत॒द्धि॒
स॒र्वाणि रूपा॒णि बिभ॒र्ति ।
pMK3
अ॒थ क॒र्मणामात्मे॒त्येत॒देषामुक्थ॒म् अ॒तो हि॒ स॒र्वाणि क॒र्माण्युत्ति॒ष्ठन्ति ।
एत॒देषाꣳ सा॒मैत॒द्धि॒ स॒र्वैः क॒र्मभिः सम॒म् । एत॒देषां ब्र॒ह्मैत॒द्धि॒
स॒र्वाणि क॒र्माणि बिभ॒र्ति । त॒देत॒त्त्रय॒ꣳ स॒दे॒कमय॒मात्मा॒त्मो॒ ए॒कः
स॒न्नेत॒त्त्रय॒म् । त॒देत॒दमृतꣳ सत्ये॒न छन्न॒म् । प्राणो॒ वा॒ अमृतं,
नामरूपे॒ सत्यं॒; ता॒भ्यामयं॒ प्राण॒श्छन्नः॒ ।
ch2 = SBM 14.5.1-9= SBK16.4.1-9
ch1
pMK1
डृप्तबालाकि॒र्हानूचानो॒ गा॒र्ग्य आस । स॒ होवाचा॒जातशत्रुं
का॒श्यम् ब्र॒ह्म ते ब्रवाणी॒ति । स॒ होवाचा॒जातशत्रुः सह॒स्रमेत॒स्यां वाचि॒
दद्मोः जनको॒, जनक॒ इ॒ति वै॒ ज॒ना धावन्ती॒ति ।
pMK2
स॒ होवाच गा॒र्ग्योः य॒ एवा॒सा॒वादित्ये॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास इ॒ति ।
स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । अतिष्ठाः॒ स॒र्वेषां भूता॒नां
मूर्धा॒ रा॒जे॒ति वा॒
अह॒मेत॒मु॒पास इ॒ति ।
स॒ य॒ एत॒मेव॒मुपा॒स्ते, अतिष्ठाः॒ स॒र्वेषां भूता॒नां मूर्धा॒ रा॒जा भवति ।
pMK3
स॒ होवाच गा॒र्ग्योः य॒ एवा॒सौ॒ चन्द्रे॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । बृह॒न्पा॒ण्डरवासाः
सो॒मो रा॒जे॒ति वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते॒, अहर्-अहर्ह
सुतः॒ प्र॒सुतो भवति, ना॒स्या॒न्नं क्षीयते ।
pMK4
स॒ होवाच गा॒र्ग्योः य॒ एवा॒यं॒ विद्यु॒ति पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास इ॒ति ।
स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठाः । तेजस्वी॒ति वा॒ अह॒मेत॒मु॒पास
इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, तेजस्वी॒ ह भवति, तेजस्वि॒नी हास्य प्रजा॒ भवति ।
pMK5
स॒ होवाच गा॒र्ग्योः य॒ एवा॒य॒माकाशे॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास इ॒ति ।
स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठाः । पूर्ण॒म॒प्रवर्ती॒ति वा॒
अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, पूर्य॒ते प्रज॒या पशु॒भिः
ना॒स्यास्मा॒ल् लोका॒त्प्रजो॒द्वर्तते ।
pMK6
स॒ होवाच गा॒र्ग्योः य॒ एवा॒यं॒ वायौ॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास इ॒ति ।
स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । इ॒न्द्रो वैकुण्ठो॒ऽपराजिता
से॒ने॒ति वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते,
जिष्णु॒र्हा॒पराजिष्णुर्भवत्यन्यतस्त्यजायी॒ ।
pMK7
स॒ होवाच गा॒र्ग्योः य॒ एवा॒य॒मग्नौ॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । विषास॒हिरि॒ति
वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, विषास॒हिर्ह भवति,
विषास॒हिर्हास्य प्रजा॒ भवति ।
pMK8
स॒ होवाच गा॒र्ग्योः य॒ एवा॒य॒मप्सु॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठाः । प्रतिरूप॒ इ॒ति
वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, प्र॒तिरूपꣳ
हैवै॒नमु॒पगच्छति, ना॒प्रतिरूपम् अ॒थो प्र॒तिरुपोऽस्माज् जायते ।
pMK9
स॒ होवाच गा॒र्ग्योः य॒ एवा॒य॒मादर्शे॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । रोचिष्णु॒रि॒ति
वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, रोचिष्णु॒र्ह भवति,
रोचिष्णु॒र्हास्य प्रजा॒ भवति अ॒थो यैः॒ सन्निग॒च्छति, स॒र्वाꣳस्ता॒न॒तिरोचते ।
pM10/k11
स॒ होवाच गा॒र्ग्योः य॒ एवा॒यं॒ दिक्षु॒ पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । द्विती॒योऽनपग॒ इ॒ति
वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, द्विती॒यवान्ह भवति,
ना॒स्माद्गण॒श्छिद्यते ।
pM11/k10
स॒ होवाच गा॒र्ग्योः य॒ एवा॒यं॒ य॒न्तं पश्चा॒च्श॒ब्दोऽनूदे॒ति एत॒मेवा॒हं॒
ब्र॒ह्मो॒पास इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । असु॒रि॒ति
वा॒ अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, स॒र्वꣳ हैवा॒स्मि॒ꣳल्
लोक॒ आ॒युरेति, नै॒नं पुरा॒ काला॒त्प्राणो॒ जहाति ।
pMK12
स॒ होवाच गा॒र्ग्योः य॒ एवा॒यं॒ छायाम॒यः पु॒रुष, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास
इ॒ति । स॒ होवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । मृत्यु॒रि॒ति वा॒
अह॒मेत॒मु॒पास इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्ते, स॒र्वꣳ हैवा॒स्मि॒ꣳल्
लोक॒ आ॒युरेति, नै॒नं पुरा॒ काला॒न्मृत्यु॒रा॒गच्छति ।
pMK13
स॒ होवाच गा॒र्ग्योः य॒ एवा॒य॒मात्म॒नि पु॒रुषो, एत॒मेवा॒हं॒ ब्र॒ह्मो॒पास इ॒ति ।
स॒ ह उवाचा॒जातशत्रुः मा॒ मैत॒स्मिन्त्सं॒वदिष्ठा । अत्मन्वी॒ति वा॒ अह॒मेत॒मु॒पास
इ॒ति । स॒ य॒ एत॒मेव॒मुपा॒स्त, आत्मन्वी॒ ह भवति आत्मन्वि॒नी हास्य प्रजा॒ भवति ।
स॒ ह तूष्णी॒मास गा॒र्ग्यः ।
pMK14
स॒ ! होवाचा॒जातशत्रुः एता॒वन्न्व्३ इ॒ति । एता॒वद्धी॒ति । नै॒ता॒वता विदितं॒
भवती॒ति । स॒ होवाच गा॒र्ग्यः उ॒प त्वायानी॒ति ।
pMK15
स॒ होवाचा॒जातशत्रुः प्र॒तिलोमं वै॒ त॒द्य॒द्ब्राह्मणः॒ क्षत्रि॒यमुपेया॒द्
ब्र॒ह्म मे वक्ष्यती॒ति । व्ये॒व॒ त्वा ज्ञपयिष्यामी॒ति । तं॒ पाणा॒वादा॒यो॒त्तस्थौ ।
तौ॒ ह पु॒रुषꣳ सुप्त॒मा॒जग्मतुः । त॒मेतै॒र्ना॒मभिरामन्त्रयां॒ चक्रेः
बृह॒न्पा॒ण्डरवासः, सो॒म राजन्नि॒ति । स॒ नो॒त्तस्थौ । तं॒ पाणि॒नापे॒षं
बोधयां॒ चकार । स॒ हो॒त्तस्थौ ।
pMK16
स॒ होवाचा॒जातशत्रुः य॒त्रैष॒ एत॒त्सुप्तो॒ऽभूद् य॒ एष॒ विज्ञानम॒यः पु॒रुषः,
क्वै॒ष॒ तदा॒भूत् कु॒त एत॒दा॒गादि॒ति । त॒दु ह न॒ मेने गा॒र्ग्यः ।
pMK17
स॒ होवाचा॒जातशत्रुः य॒त्रैष॒ एत॒त्सुप्तो॒ऽभूद् य॒ एष॒ विज्ञानम॒यः पु॒रुषः
त॒देषां॒ प्राणा॒नां विज्ञा॒नेन विज्ना॒नमादा॒य, य॒ एषो॒ऽन्त॒र्हृदय आकाशः॒
त॒स्मिञ्चेते ।
pM18/k17
ता॒नि यदा॒ गृह्णा॒ति अ॒थ हैत॒त्पु॒रुषः स्व॒पिति ना॒म । त॒द्गृहीत॒ एव॒
प्राणो॒ भवति, गृहीता॒ वा॒ग् गृहीतं॒ च॒क्षुः गृहीत॒ꣳ श्रो॒त्रं, गृहीतं॒
म॒नः ।
pM19/k18
स॒ य॒त्रैत॒त्स्वप्न्य॒या च॒रति, ते॒ हास्य लोकाः॒ । त॒दुते॒व महाराजो॒ भ॒वति
उते॒व महाब्राह्मण॒, उते॒वोच्चावचं॒ नि॒गच्छति ।
pM20/k18
स॒ य॒था महाराजो॒ जा॒नपदान्गृहीत्वा॒ स्वे॒ जनपदे॒ यथाकामं॒
परिव॒र्तेतैव॒मेवै॒ष॒ एत॒त्प्राणा॒न्गृहीत्वा॒ स्वे॒ श॒रीरे यथाकामं॒
प॒रिवर्तते ।
pM21/k19
अ॒थ यदा॒ सु॒षुप्तो भ॒वति, यदा॒ न॒ क॒स्य चन॒ वे॒द, हिता॒ ना॒म नाद्यो॒
द्वा॒सप्ततिः सह॒स्राणि हृदयात्पुरीत॒तमभिप्र॒तिष्ठन्ते ! । ता॒भिः प्रत्यवसृप्य
पुरीत॒ति शेते ।
pM22/k19
स॒
K ॐ
य॒था कुमारो॒
Kadd वा महाराजो
वा महाब्राह्मणो॒ वातिघ्नी॒मानन्द॒स्य गत्वा॒ श॒यीतैव॒मेवै॒ष॒ एत॒च्छेते ।
pM23/k20
स॒ य॒थोर्णवा॒भिस्त॒न्तुनोच्च॒रेद् य॒था अग्नेः॒ क्षुद्रा॒ विष्फुलि॒ङ्गा
व्युच्च॒रन्ति एव॒मेवा॒स्मादात्म॒नः स॒र्वे प्राणाः॒ स॒र्वे लोकाः॒ स॒र्वे देवाः॒
स॒र्वाणि भूता॒नि स॒र्व एत॒ आत्म॒नो
K ॐ सर्व ...
व्यु॒च्चरन्ति । त॒स्योपनिष॒त्सत्य॒स्य सत्य॒मितिः प्राणा॒ वै॒ सत्यं॒, ते॒षामेष॒
सत्य॒म् ।
ch2
pMK1
यो॒ ह वै॒ शि॒शुꣳ सा॒धानꣳ स॒प्रत्याधानꣳ
स॒स्थूणꣳ स॒दामं वे॒द, सप्त॒ ह द्विषतो॒ भ्रा॒तृव्यान॒वरुणद्धि ।
pM2/k1
अयं॒ वा॒व॒ शि॒शुर्यो॒ऽयं॒ मध्यमः॒ प्राण॒स्; त॒स्येद॒मेवा॒धा॒नम् इदं॒
प्रत्याधा॒नं, प्राणः॒ स्थूणा॒न्नं दा॒म ।
pM2/k2
त॒मेताः॒ सप्ता॒क्षितय उ॒पतिष्ठन्तेः
pM3/k2
त॒द्या॒ इमा॒ अक्ष॒ꣳल् लो॒हिन्यो रा॒जयः ता॒भिरेनꣳ ऱुद्रो॒ऽन्वा॒यत्तो॒;
अथ या॒ अक्ष॒न्ना॒पः ता॒भिः पर्ज॒न्यो; या॒ क॒नीनका, त॒यादित्यो॒; य॒च्छुक्लं॒
K क्ऱ्^इष्णं
ते॒नाग्निः॒ य॒च्कृष्णं॒
K शुक्लं
ते॒ने॒न्द्रो॒ । अधरयैनं वर्तन्या॒ पृथिव्य॒न्वा॒यत्ता, द्यौ॒रु॒त्तरया । ना॒स्या॒न्नं
क्षीयते, य॒ एवं॒ वे॒द ।
pM4/k3
त॒देष॒ श्लो॒को भवति अर्वा॒ग्बिलश्चमस॒ ऊर्ध्व॒बुध्नस्; त॒स्मिन्य॒शो नि॒हितं
विश्व॒रूपम् । त॒स्यासत ऋषयः सप्त॒ ती॒रे; वा॒गष्टमी॒ ब्र॒ह्मणा संविदाने॒ति ।
pM5/k3
अर्वा॒ग्बिलश्चमस॒ ऊर्ध्व॒बुध्न इ॒तीदं॒ त॒च्छ॒रीर, एष॒ ह्य॒र्वा॒ग्बिलश्चमस॒
ऊर्ध्व॒बुध्नः । त॒स्मिन्य॒शो नि॒हितं विश्व॒रूपमि॒ति, प्राणा॒ वै॒ य॒शो नि॒हितं
विश्व॒रूपं, प्राणा॒नेत॒दाह । त॒स्यासत ऋषयः सप्त॒ ती॒र इ॒ति, प्राणा॒ वा॒
ऋषयः, प्राणा॒णेत॒दाह । वा॒गष्टमी॒ ब्र॒ह्मणा संविदाने॒ति, वा॒ग्घ्य॒ष्टमी॒
ब्र॒ह्मणा संवित्ते॒ ।
pM6/k4
इमा॒वेव॒ गोतमभरद्वाजा॒उ अय॒मेव॒ गो॒तमो, अयं॒ भ॒रद्वाज । इमा॒वेव॒
विश्वामित्रजमदग्नी॒रय॒मेव॒ विश्वा॒मित्रो, अयं॒ जमद॒ग्निः । इमा॒वेव॒
वसिष्ठकश्यपा॒उ अय॒मेव॒ व॒सिष्ठो, अयं॒ कश्य॒पो । वा॒गेवा॒त्रिः वाचा॒
ह्य॒न्नमद्य॒ते॒, अत्तिर्ह वै॒ ना॒मैत॒द्य॒दत्रिरि॒ति । स॒र्वस्यात्ता॒ भवति,
स॒र्वमस्या॒न्नं भवति, य॒ एवं॒ वे॒द ।
ch3
pMK1
द्वे॒ वा॒व॒ ब्र॒ह्मणो रूपेः॒ मूर्तं॒ चैवा॒मूर्तं च, म॒र्त्यं
चामृतं च, स्थितं॒ च य॒च्च, स॒च्च त्यं॒ च ।
pMK2
त॒देत॒न्मूर्तं॒ य॒दन्य॒द्वायो॒श्चान्त॒रिक्षाच्चैत॒न्म॒र्त्यम् एत॒त्स्थित॒म्
एत॒त्स॒त् ।
pM3/k2
त॒स्यैत॒स्य मूर्त॒स्यैत॒स्य म॒र्त्यस्यैत॒स्य स्थित॒स्यैत॒स्य सत॒ एष॒ र॒सो
य॒ एष॒ त॒पति; सतो॒ ह्ये॒ष॒ र॒सः ।
pM4/k3
अ॒था॒मूर्तं वायु॒श्चान्त॒रिक्षश्चैत॒दमृतम् एत॒द्य॒देत॒त्त्य॒म् ।
pM5/k3
त॒स्यैत॒स्या॒मूर्तस्य, त॒स्यामृतस्यैत॒स्य यत॒, एत॒स्य त्य॒स्यैष॒ र॒सो य॒
एष॒ एत॒स्मिन्म॒ण्डले पु॒रुषस्; त्य॒स्य ह्ये॒ष॒ र॒स । इ॒त्यधिदेवत॒म् ।
pM6/k4
अ॒थाध्यात्म॒म् । इद॒मेव॒ मूर्तं॒ य॒दन्य॒त्प्राणा॒च्च
य॒श्चाय॒मन्त॒रात्म॒न्नाकाशः॒ एत॒न्म॒र्त्यम् एत॒त्स्थित॒म् एत॒त्स॒त् ।
pM7/k4
त॒स्यैत॒स्य मूर्त॒स्य, एत॒स्य म॒र्त्यस्यैत॒स्य स्थित॒स्यैत॒स्य सत॒ एष॒
र॒सो य॒च्च॒क्षुः; सत॒ ह्ये॒ष॒ र॒सः ।
pM8/k5
अ॒था॒मूर्तम् प्राण॒श्च य॒श्चाय॒मन्त॒रात्म॒न्नाकाश॒, एत॒दमृतम् एत॒द्य॒द्
एत॒त्त्य॒म् ।
pM9/k5
त॒स्यैत॒स्या॒मूर्तस्यैत॒स्यामृतस्यैत॒स्य यत॒, एत॒स्य त्य॒स्यैष॒ र॒सो
यो॒ऽयं॒ दक्षिणे॒ऽक्ष॒न्पु॒रुषस्; त्य॒स्य ह्ये॒ष॒ र॒सः ।
pM10/k6
त॒स्य हैत॒स्य पु॒रुषस्य रूपं॒ य॒था माहारजनं॒ वा॒सो, य॒था पाण्ड्वा॒विकं,
य॒थेन्द्रगोपो॒, य॒थाग्न्यर्चिः॒ य॒था पुण्ड॒रीकं, य॒था सकृद्विद्युत्त॒ꣳ ।
सकृद्विद्युत्ते॒व ह वा॒ अस्य श्री॒र्भवति, य॒ एवं॒ वे॒द ।
pM11/k6
अ॒था॒त आदेशः॒ ने॒ति ने॒ति, न॒ ह्ये॒त॒स्मादि॒ति ने॒त्यन्य॒त्प॒रमस्ति । अ॒थ
नामधे॒यꣳ सत्य॒स्य सत्य॒मि॒तिः प्राणा॒ वै॒ सत्यं॒, ते॒षामेष॒ सत्य॒म् ।
ch4
pMK1
मै॒त्रेयी॒ति होवाच या॒ज्ञवल्क्य, उद्यास्य॒न्वा॒
अरेऽह॒मस्मात्स्था॒नादस्मि । ह॒न्त तेऽन॒या कात्यायन्या॒न्तं कर॒वाणी॒ति ।
pMK2
सा॒ होवाच मै॒त्रेयीः य॒न्म इयं॒, भगोः, स॒र्वा पृथिवी॒ वित्ते॒न पूर्णा॒ स्या॒त्
क॒थं ते॒नामृता स्यामि॒ति । ने॒ति होवाच या॒ज्ञवल्क्यो; य॒थैवो॒पकरण॒वतां
जीवितं॒, त॒थैव॒ ते जीवित॒ꣳ स्याद्; अमृतत्व॒स्य तु॒ ना॒शा॒स्ति वित्ते॒ने॒ति ।
pMK3
सा॒ होवाच मै॒त्रेयीः ये॒नाहं॒ ना॒मृता स्यां॒, कि॒महं॒ ते॒न कुर्याम् । य॒देव॒
भ॒गवान्वे॒द, त॒देव॒ मे ब्रूही॒ति ।
pMK4
स॒ होवाच या॒ज्ञवल्क्यः प्रिया॒ वतारे
K बतारे
नः सती॒ प्रियं॒ भाषस । ए॒हि आ॒स्व
K आस्स्व
व्या॒ख्यास्यामि ते । व्याच॒क्षाणस्य तु॒ मे नि॒दिध्यासस्वे॒ति । ब्र॒वितु भ॒गवानि॒ति
K ॐ ब्रवितु ...
pMK5
स॒ होवाच या॒ज्ञवल्क्यो
K ॐ
न॒ वा॒ अरे प॒त्युः का॒माय प॒तिः प्रियो॒ भवति आत्म॒नस्तु॒ का॒माय प॒तिः प्रियो॒
भवति । न॒ वा॒ अरे जाया॒यै का॒माय जाया॒ प्रिया॒ भवति आत्म॒नस्तु॒ का॒माय जाया॒
प्रिया॒ भवति । न॒ वा॒ अरे पुत्रा॒णां का॒माय पुत्राः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒
का॒माय पुत्राः॒ प्रिया॒ भवन्ति । न॒ वा॒ अरे वित्त॒स्य का॒माय वित्तं॒ प्रियं॒ भवति
आत्म॒नस्तु॒ का॒माय वित्तं॒ प्रियं॒ भवति । न॒ वा॒ अरे ब्र॒ह्मणः का॒माय ब्र॒ह्म
प्रियं॒ भवति आत्म॒नस्तु॒ का॒माय ब्र॒ह्म प्रियं॒ भवति । न॒ वा॒ अरे क्षत्र॒स्य
का॒माय क्षत्रं॒ प्रियं॒ भवति आत्म॒नस्तु॒ का॒माय क्षत्रं॒ प्रियं॒ भवति ।
न॒ वा॒ अरे लोका॒नां का॒माय लोकाः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒ का॒माय लोकाः॒
प्रिया॒ भवन्ति । न॒ वा॒ अरे देवा॒नां का॒माय देवाः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒
का॒माय देवाः॒ प्रिया॒ भवन्ति । न॒ वा॒ अरे भूता॒नां का॒माय भूता॒नि प्रिया॒णि
भवन्ति आत्म॒नस्तु॒ का॒माय भूता॒नि प्रिया॒णि भवन्ति । न॒ वा॒ अरे स॒र्वस्य
का॒माय स॒र्वं प्रियं॒ भवति आत्म॒नस्तु॒ का॒माय स॒र्वं प्रियं॒ भवति । आत्मा॒
वा॒ अरे द्रष्ट॒व्यः श्रोत॒व्यो मन्त॒व्यो निदिध्यासित॒व्यो । मै॒त्रेयि आत्म॒नो वा॒
अरे द॒र्शनेन श्र॒वणेन मत्या॒ विज्ञा॒नेनेद॒ꣳ स॒र्वं विदित॒म् ।
pMK6
ब्र॒ह्म तं॒ प॒रादाद्यो॒ऽन्य॒त्रात्म॒नो ब्र॒ह्म वे॒द; क्षत्रं॒ तं॒
प॒रादाद्यो॒ऽन्य॒त्रात्म॒नः क्षत्रं॒ वे॒द; लोका॒स्तं॒ प॒रादुर्यो॒ऽन्य॒त्रात्म॒नो
लोका॒न्वे॒द; देवा॒स्तं॒ प॒रादुर्यो॒ऽन्य॒त्रात्म॒नो देवा॒न्वे॒द; भूता॒नि तं॒
प॒रादुर्यो॒ऽन्य॒त्रात्म॒नो भूता॒नि वे॒द; स॒र्वं तं॒ प॒रादाद्यो॒ऽन्य॒त्रात्म॒नः
स॒र्वं वे॒देदं॒ ब्र॒ह्मेदं॒ क्षत्र॒म् इमे॒ लोका॒, इमे॒ देवा॒, इमा॒नि
भूता॒नीद॒ꣳ स॒र्वं, य॒दय॒मात्मा॒ ।
pMK7
स॒ य॒था दुन्दुभे॒र्हन्य॒मानस्य न॒ बा॒ह्याञ्च॒ब्दाञ्छक्नुयाद्ग्र॒हणाय, दुन्दुभे॒स्
तु॒ ग्र॒हणेन दुन्दुभ्याघात॒स्य वा श॒ब्दो गृहीतः॒;
pM8/k9
॒ य॒था वी॒णायै वाद्य॒मानायै न॒ बा॒ह्याञ्च॒ब्दाञ्छक्नुयाद्ग्र॒हणाय, वी॒णायै तु॒
ग्र॒हणेन वीणावाद॒स्य वा श॒ब्दो ग्र्हीतः॒;
pM9/k8
स॒ य॒था शङ्ख॒स्य ध्माय॒मानस्य न॒ बा॒ह्याञ्च॒ब्दाञ्चक्नुयाद्ग्र॒हणाय,
शङ्ख॒स्य तु॒ ग्र॒हणेन शङ्खध्म॒स्य वा श॒ब्दो गृहीतः॒;
pMK10
स॒ य॒थार्द्रैधाग्ने॒रभ्या॒हितस्य
K अभ्याहितात्
पृथग्धूमा॒ विनिश्च॒रन्ति एव॒ वा॒ अरेऽस्य महतो॒ भूत॒स्य नि॒श्वसितम्
K निःश्वसितम्
एत॒द्य॒दृग्वेदो॒ यजुर्वेदः॒ सामवेदो॒ऽथर्वाङ्गिर॒स इतिहासः॒ पुराणं॒ विद्या॒
उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒ननि अस्यै॒वै॒ता॒नि स॒र्वाणि
नि॒श्वसितानि
K निःश्वसितानि
pMK11
स॒ य॒था स॒र्वासामपा॒ꣳ समुद्र॒ एकायन॒म् एव॒ꣳ स॒र्वेषाꣳ स्पर्शा॒नां
त्व॒गेकायन॒म् एव॒ꣳ स॒र्वेषां गन्धा॒नां ना॒सिके एकायन॒म् एव॒ꣳ स॒र्वेषाꣳ
र॒सानां जिह्वै॒कायन॒म् एव॒ꣳ स॒र्वेषाꣳ रूपा॒णां च॒क्षुरेकायन॒म् एव॒ꣳ
स॒र्वेषꣳ श॒ब्दानाꣳ श्रो॒त्रमेकायन॒म्
एव॒ꣳ स॒र्वेषाꣳ सङ्कल्पा॒नां म॒न एकायन॒म्
K वरिअतो ओर्दिनेः
एव॒ꣳ स॒र्वेषां वे॒दानां वा॒गेकायन॒म्
एव॒ꣳ स॒र्वेषां क॒र्मणाꣳ ह॒स्तावेकायन॒म्
एव॒ꣳ स॒र्वेषाम॒ध्वनां पा॒दावेकायन॒म्
एव॒ꣳ स॒र्वेषामानन्दा॒नामुप॒स्थ एकायन॒म्
एव॒ꣳ स॒र्वेषां विसर्गा॒णां पा॒युरेकायन॒म्
एव॒ꣳ स॒र्वासां विद्या॒नाꣳ हृदयमेकायन॒म्
pMK12
स॒ य॒था सैन्धवखिल्य॒ उदके॒ प्रा॒स्त उदक॒मेवा॒नुविली॒येत,
ना॒हास्योद्ग्र॒हणायैव॒
K न हास्योद्ग्रहणायैव
स्याद् य॒तो-यतस्त्वा॒द॒दीत लव॒णमेवै॒वं॒ वा॒ अर इदं॒
मह॒द्भूत॒मनन्त॒मपारं॒ विज्ञानघन॒ एवै॒ते॒भ्यो भूते॒भ्यः समुत्था॒य,
ता॒न्येवा॒नुवि॒नश्यति; न॒ प्रे॒त्य सञ्ज्ञा॒स्ती॒त्यरे ब्रवीमी॒ति होवाच या॒ज्ञवल्क्यः ।
pMK13
सा॒ होवाच मै॒त्रेयि अ॒त्रैव॒ मा भ॒गवानमूमुहद् न॒ प्रे॒त्य सञ्ज्ञा॒स्ती॒ति ।
pM14/k13
स॒ होवाच या॒ज्ञवल्क्यो
K ॐ
न॒ वा॒ अरेऽहं॒ मो॒हं ब्रवीमि अलं॒ वा॒ अर इदं॒ विज्ञा॒नाय ।
pM15/k14
य॒त्र हि॒ द्वैत॒मिव भ॒वति,
K वरिअतो ओर्दिनेः
त॒दि॒तर इ॒तरं जिघ्रति, त॒दि॒तर इ॒तरं पश्यति त॒दि॒तर इ॒तरꣳ शृणोति,
त॒दि॒तर इ॒तरमभि॒वदति, त॒दि॒तर इ॒तरं मनुते, त॒दि॒तर इ॒तरं वि॒जानाति ।
pM16/k14
य॒त्र त्व॒स्य स॒र्वमात्मै॒वा॒भूत्
K variato ordineH
त॒त्के॒न कं॒ पश्येत्
त॒त्के॒न कं॒ जिघ्रेत्
त॒त्के॒न क॒ꣳ शृणुयात्
त॒त्के॒न क॒मभि॒वदेत्
त॒त्के॒न कं॒ मन्वीत,
त॒त्के॒न कं॒ वि॒जानीयाद् ।
ये॒नेद॒ꣳ स॒र्वं विजाना॒ति,
तं॒ के॒न वि॒जानीयाद्
विज्ञाता॒रमरे के॒न वि॒जानीयादि॒ति ।
ch5
pMK1
इयं॒ पृथिवी॒ स॒र्वेषां भूता॒नां म॒धु अस्यै॒ पृथिव्यै॒
स॒र्वाणि भूता॒नि म॒धु; य॒श्चाय॒मस्यां॒ पृथिव्यां॒ तेजोम॒योऽमृतम॒यः
पु॒रुषो, य॒स्चाय॒मध्यात्म॒ꣳ शारीर॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो,
अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम् इदं॒ ब्र॒ह्म, इद॒ꣳ स॒र्वम् ।
pMK2
इमा॒ आ॒पः स॒र्वेषां भूता॒नां म॒धु आसा॒मपा॒ꣳ स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मास्व॒प्सु॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्म॒ꣳ
रैतस॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्म, इद॒ꣳ स॒र्वम् ।
pMK3
अय॒मग्निः॒ स॒र्वेषां भूता॒नां म॒धु अस्याग्नेः॒ स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्नग्नौ॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
वाङ्म॒यस्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्म, इद॒ꣳ स॒र्वम् ।
pM4/k10
अय॒माकाशः॒ स॒र्वेषां भूता॒नां म॒धु अस्याकाश॒स्य स॒र्वाणि भूता॒नि
म॒धु; य॒श्चाय॒मस्मि॒न्नाकाशे॒ तेजोम॒योऽमृतम॒यः पु॒रुषो,
य॒श्चाय॒मध्यात्म॒ꣳ हृद्याकाश॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒
स॒ यो॒ऽय॒मात्मे॒द॒ममृतम् इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pM5/k4
अयं॒ वायुः॒ स॒र्वेषां भूता॒नां म॒धु अस्य वायोः॒ स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्वायौ॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
प्राण॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒दं॒ अमृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pM6/k5
अय॒मादित्यः॒ स॒र्वेषां भूता॒नां म॒धु अस्यादित्य॒स्य स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्नादित्ये॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
चाक्षुष॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK7
अयं॒ चन्द्रः॒ स॒र्वेषां भूता॒नां म॒धु अस्य चन्द्र॒स्य स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्चन्द्रे॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
मानस॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pM8/k6
इमा॒ दि॒शः स॒र्वेषां भूता॒नां म॒धु आसां॒ दिशा॒ꣳ स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मासु॒ दिक्षु॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्म॒ꣳ
श्रौत्रः॒ प्रातिश्रुत्क॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒
यो॒ऽय॒मात्मे॒द॒ममृतम् इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pM9/k8
इयं॒ विद्यु॒त्स॒र्वेषां भूता॒नं म॒धु अस्यै॒ विद्यु॒तः स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्यां॒ विद्यु॒ति तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
तैजस॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pM10/k9
अय॒ꣳ स्तनयित्नुः॒ स॒र्वेषां भुता॒नां म॒धु अस्य स्तनयित्नोः॒ स॒र्वाणि
भूता॒नि म॒धु; य॒श्चाय॒मस्मि॒न्त्स्तनयित्नौ॒ तेजोम॒योऽमृतम॒यः पु॒रुषो,
य॒श्चाय॒मध्यात्म॒ꣳ शाब्दः॒ सौवर॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो,
अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम् इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK11
अयं॒ धर्मः॒ स॒र्वेषां भूता॒नां म॒धु अस्य धर्म॒स्य स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्धर्मे॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
धार्म॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK12
इद॒ꣳ सत्य॒ꣳ स॒र्वेषां भूता॒नां म॒धु अस्य सत्य॒स्य स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्त्सत्ये॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्म॒ꣳ
सात्य॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK13
इदं॒ मानुष॒ꣳ स॒र्वेषां भूता॒नां म॒धु अस्य मानुष॒स्य स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्मानुषे॒ तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मध्यात्मं॒
मानुष॒स्तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम्
इदं॒ ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK14
अय॒मात्मा॒ स॒र्वेषां भूता॒नां म॒धु अस्यात्म॒नः स॒र्वाणि भूता॒नि म॒धु;
य॒श्चाय॒मस्मि॒न्नात्म॒नि तेजोम॒योऽमृतम॒यः पु॒रुषो, य॒श्चाय॒मात्मा॒
तेजोम॒योऽमृतम॒यः पु॒रुषो, अय॒मेव॒ स॒ यो॒ऽय॒मात्मे॒द॒ममृतम् इदं॒
ब्र॒ह्मेद॒ꣳ स॒र्वम् ।
pMK15
स॒ वा॒ अय॒मात्मा॒ स॒र्वेषां अ॒धिपतिः, स॒र्वेषां भूता॒नाꣳ रा॒जा । त॒द्य॒था
रथनाभौ॒ च रथनेमौ॒ चा॒राः स॒र्वे स॒मर्पिता, एव॒मेवा॒स्मि॒न्नात्म॒नि स॒र्वाणि
भूता॒नि स॒र्वे देवाः॒ स॒र्वे लोकाः॒ स॒र्वे प्राणाः॒ स॒र्व एत॒ आत्मा॒नः स॒मर्पिताः ।
pMK16
इदं॒ वै॒ त॒न्म॒धु डध्य॒ङ्ङ् अथर्वणो॒ऽश्वि॒भ्यामुवाच । त॒देत॒दृषिः
प॒श्यन्नवोचत्
lv 1.116.12:
त॒द्वां, नरा, सन॒ये द॒ꣳस उग्र॒म् आवि॒ष्कृणोमि, तन्यतु॒र्न॒ वृष्टिं॒,
डध्य॒ङ् ह य॒न्म॒ध्वथर्वणो॒ वाम् अ॒श्वस्य शीर्ष्णा॒ प्र॒ य॒दीमुवा॒चे॒ति ।
pMK17
इदं॒ वै॒ त॒न्म॒धु डध्य॒ङ्ङ् अथर्वणो॒ऽश्वि॒भ्यामुवाच । त॒देत॒दृषिः
प॒श्यन्नवोचत्
lv 1.117.22:
अथर्वणा॒याश्विना डधीचे॒ऽश्व्यꣳ शि॒रः प्र॒त्यैरयतं; स॒ वां म॒धु प्र॒
वोचदृताय॒न् त्वाष्ट्रं॒ य॒द् दस्राउ अपिकक्ष्यं॒ वामि॒ति ।
pMK18
इदं॒ वै॒ त॒न्म॒धु डध्य॒ङ्ङ् अथर्वणो॒ऽश्वि॒भ्यामुवाच । त॒देत॒दृषिः
प॒श्यन्नवोचत् पु॒रश्चक्रे द्विप॒दः, पु॒रश्चक्रे च॒तुष्पदः; पु॒रः स॒,
पक्षी॒ भुत्वा॒, पु॒रः पु॒रुष आ॒विशदि॒ति । स॒ वा॒ अयं॒ पु॒रुषः स॒र्वासु
पूर्षु॒ पुरिशयो॒; नै॒नेन किं॒ चना॒नावृतं, नै॒नेन किं॒ चना॒संवृतम् ।
pMK19
इदं॒ वै॒ त॒न्म॒धु डध्य॒ङ्ङ् अथर्वणो॒ऽश्वि॒भ्यामुवाच । त॒देत॒दृषिः
प॒श्यन्नवोचत्
lv 6.47.18:
रूप॒ꣳ-रूपं प्र॒तिरूपो बभूव, त॒दस्य रूपं॒ प्रतिच॒क्षणाये॒-
-न्द्रो माया॒भिः पुरुरू॒प ईयते, युक्ता॒ ह्य॒स्य ह॒रयः शता॒ द॒शे॒ति ।
अयं॒ वै॒ ह॒रयो, अयं॒ वै॒ दश च सह॒स्रणि बहू॒नि चानन्ता॒नि च ।
त॒देत॒द्ब्र॒ह्मापूर्व॒मनपर॒मनन्तर॒मबाह्य॒म् अय॒मात्मा॒ ब्र॒ह्म स॒र्वानुभूः ।
इ॒त्यनुशा॒सनम् । [पनुस्तुब्]
pM20
pro m5,20-22 schribitkrishna 6; vide infra
अ॒थ वꣳशः॒ । त॒दिदं॒ वय॒ꣳ
हौ॒र्पणाय्याच्, छौ॒र्पणय्यो गौ॒तमाद् गौ॒तमो व॒त्स्याद् व॒त्स्यो वा॒त्स्याच्च
पाराशर्या॒च्च, पा॒राशर्यः षा॒ङ्क्त्याच्च भा॒रद्वाजाच्च, भा॒रद्वाज
औदावहे॒श्च हा॒ण्डिल्याच्च, हा॒ण्डिल्यो वै॒जवापाच्च गौतमा॒च्च, गौ॒तमो
वै॒जवापायनाच्च वैष्टपुरेया॒च्च, वै॒ष्टपुरेयः हा॒ण्डिल्याच्च ऱौहिणायना॒च्च,
ऱौ॒हिणायनः हौ॒नकाच्चात्रेया॒च्च ऱैभ्या॒च्च, ऱै॒भ्यः पौ॒तिमाष्यायणाच्च
कौण्डिन्यायना॒च्च, कौ॒ण्डिन्यायनः कौ॒ण्डिन्यात् कौ॒ण्डिन्यः कौ॒ण्डिन्यात् कौ॒ण्डिन्यः
कौण्डिन्या॒च्चाग्निवेश्या॒च्च,
pM21
pro m5,20-22 schribitkrishna 6; vide infra
अग्निवेश्यः॒ षौ॒तवात् षौ॒तवः पा॒राशर्यात् पा॒राशर्यः जा॒तुकर्ण्यात् जा॒तुकर्ण्यो
भा॒रद्वाजाद् भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्च गौतमा॒च्च, गौ॒तमो
भा॒रद्वाजाद् भा॒रद्वाजो वैजवापायना॒च्, वै॒जवापायनः कशिकायनेः॒,
कशिकायनि॒र्घृतकौशिका॒द् घृतकौशिकः॒ पा॒राशर्यात् पा॒राशर्यः
पा॒राशर्यात् पा॒राशर्यः जा॒तुकर्ण्यात् जा॒तुकर्ण्यो भा॒रद्वाजाद् भा॒रद्वाजो
भारद्वाजा॒च्चासुरायणा॒च्यस्का॒च्च, असुरायण॒स् ट्रै॒वणेः ट्रै॒वणिराउ॒पजन्धनेः
आउ॒पजन्धनिःअसुरेरसुरिर्भा॒रद्वाजाद् भा॒रद्वाजो अत्रेया॒त्
pM22
pro m5,20-22 schribitkrishna 6; vide infra
अत्रेयो॒ मा॒ण्टेः, मा॒ण्टिर्गौ॒तमाद् गौ॒तमो गौ॒तमाद् गौ॒तमो वा॒त्स्याद् वा॒त्स्यः
हा॒ण्डिल्याच्, छा॒ण्डिल्यः कै॒शोर्यात्का॒प्यात् कै॒शोर्यः का॒प्यः कुमारहरिता॒त्
कुमारहरितो॒ गालवा॒द् गालवो॒ विदर्भीकौण्डिन्या॒द् विदर्भीकौण्डिन्यो॒ बा॒भवाद्वत्सनपा॒द्
बा॒भवः पथः॒ षौ॒भरात् प॒न्थाः षौ॒भरोऽया॒स्यादङ्गिरसा॒दाया॒स्यो
अङ्गिरस॒ऽभुतेस्ट्वा॒ष्ट्रादभुतिः ट्वा॒ष्ट्रो विश्व॒रूपाद्ट्वा॒ष्ट्राद्
विश्व॒रूपस्ट्वा॒ष्ट्रोऽश्वि॒भ्याम् आश्वि॒नौ डधि॒च अथर्वना॒द् डध्य॒ङ्ङ्
अथर्वनो॒ऽथर्वनो डै॒वादथर्वा डै॒व मृत्योः॒ प्राद्ध॒ꣳसनान् मृत्युः॒
प्राद्ध॒ꣳसनः ष॒नगात् ष॒नगः परेष्टि॒णः परेष्टी॒ ब्र॒ह्मनो ब्र॒ह्म
स्व॒यम्भु, ब्र॒ह्मणे न॒मः ।
chk6
schribitkrishna pro m5,20-22; vide supra
pK1
अथ वꣳशः पशुतिमाष्यो गौपवनाद् गौपवनः पशुतिमाष्यात् पशुतिमाष्यो गौपवनाद्
गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः हाण्डिल्यात् हाण्डिल्यः कौशिकाच्च
गौतमाच्च, गौतमो
pK2
अग्निवेश्यादग्निवेश्यः हाण्डिल्याच्चानभिम्लाताच्च, अनभिम्लात अनभिम्लातादनभिम्लात
अनभिम्लातादनभिम्लातो गौतमाद् गौतमः षैतवप्राचीनयोग्याभ्याꣳ, षैतवप्राचीनयोग्यौ
पाराशर्यात् पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च, गौतमो भारद्वाजाद्
भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद् वैजवापायनः कौशिकायनेः, कौशिकायनिर्
pK3
घृतकौशिकाद् घृतकौशिकः प्राशर्यायणात् पारशर्यायणः पाराशर्यात् पाराशर्यो
जातूकर्ण्यात् जातूकर्ण्य असुरायणाच्च यास्काच्च, असुरायणस्ट्रैवणेः, ट्रैवणिरौपजन्धनेः,
औपजन्धनिरसुरेः, असुरिर्भारद्वाजाद् भारद्वाज अत्रेयादत्रेयो माण्टेः, माण्टिर्गौतमाद् गौतमो
वात्स्याद् वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात्
कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
वत्सनपाद्बाभ्रवः पथः षौभरात् पन्थाः षौभरोऽयास्यादङ्गिरसादायास्य अङ्गिरस
अभूतेस्ट्वाष्ट्रादभूतिस्ट्वाष्ट्रो विश्वरूपात्ट्वाष्ट्राद् विश्वरूपस्ट्वाष्ट्रोऽव्शि॒भ्याम्
आश्वि॒नौ डधीच अथर्वणाद् डध्यङ्ङ् अथर्वणोऽथर्वणो डैवादाथर्वा डैवो मृत्योः
प्राध्वꣳसनान् मृत्युः॒ प्राध्वꣳसनः प्रध्वꣳसनात् प्रध्वꣳसन एकर्षेः
एकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेः व्यष्टिः षनारोः, षनारुः षनातनात् षनातनः
षनगात् षनगः परमेष्ठिनः, परमेष्ठी ब्रह्मणो; ब्रह्म स्वयम्भु, ब्रह्मणे नमः ।
[pnormal]
ch3 = SBM 14.6. = SBK16.6.
ch1
pMK1
जनको॒ ह वै॒देहो बहुदक्षिणे॒न यज्ञे॒नेजे । त॒त्र ह
कुरुपङ्चाला॒नां ब्राह्मणा॒ अभिस॒मेता बभूवुः । त॒स्य ह जनक॒स्य वै॒देहस्य
विजिज्ञा॒सा
Ai.gH II 2, paH 142a[Tgrx16]AH +विजिज्ञासा॒
बभूवः
कः॒ स्विदेषां॒ ब्राह्मणा॒नामनूचान॒तम इ॒ति ।
pM2/k1
स॒ ह ग॒वाꣳ सह॒स्रम॒वरुरोध; द॒श-दश पा॒दा ए॒कैकस्याः शृङ्गयोरा॒बद्धा
बभूवुः ।
pM2/k2
ता॒न्होवाचः ब्रा॒ह्मणा भगवन्तो, यो॒ वो ब्र॒ह्मिष्ठः, स॒ एता॒ गा॒ उ॒दजतामि॒ति ।
ते॒ ह ब्राह्मणा॒ न॒ दधृषुः ।
pM3/k2
अ॒थ ह या॒ज्ञवल्क्यः स्व॒मेव॒ ब्रह्मचारि॒णमुवाचैताः॒, सौम्यो॒दज, षामश्रवा३
इ॒ति । ता॒ होदा॒चकार । ते॒ ह ब्राह्मणा॒श्चुक्रुधुः कथं॒ नु॒ नो ब्र॒ह्मिष्ठो
ब्रुवीते॒ति ।
pM4/k2
अ॒थ ह जनक॒स्य वै॒देहस्य हो॒ताश्वलो॒ बभूव । स॒ हैनं पप्रच्छः त्वं॒ नु॒
ख॒लु नो, याज्ञवल्क्य, ब्र॒ह्मिष्ठोऽसी३ इ॒ति । स॒ होवाचः न॒मो वयं॒ ब्र॒ह्मिष्ठाय
कुर्मो; गो॒कामा एव॒ वय॒ꣳ स्म इ॒ति । त॒ꣳ ह त॒त एव॒ प्र॒ष्टुं दध्रे
हो॒ताश्वलः॒
pM5/k3
या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒ꣳ स॒र्वं मृत्यु॒नाप्त॒ꣳ, स॒र्वं
मृत्यु॒नाभि॒पन्नं, के॒न य॒जमानो मृत्यो॒रा॒प्तिम॒तिमुच्यत इ॒ति ।
हो॒त्रर्त्वि॒जाग्नि॒ना वाचा॒; वा॒ग्वै॒ यज्ञ॒स्य हो॒ता । त॒द्ये॒यं॒
वा॒क्सो॒ऽय॒मग्निः॒ स॒ हो॒ता सा॒ मु॒क्तिः सा॒तिमुक्तिः ।
pM6/k4
या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒ꣳ स॒र्वमहोरात्रा॒भ्यामाप्त॒ꣳ,
स॒र्वमहोरात्रा॒भ्यामभि॒पन्नं, के॒न य॒जमानोऽहोरात्र॒योरा॒प्तिम॒तिमुच्यत
इ॒ति । अध्वर्यु॒णर्त्वि॒जा च॒क्षुषादित्ये॒न; च॒क्षुर्वै॒ यज्ञ॒स्याध्वर्युः॒ ।
त॒द्य॒दिदं॒ च॒क्षुः, सो॒ऽसा॒वादित्यः॒; सो॒ऽध्वर्युः॒ सा॒ मु॒क्तिः सा॒तिमुक्तिः ।
pM7/k5
या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒ꣳ स॒र्वं पूर्वपक्षापरपक्षा॒भ्यामाप्त॒ꣳ,
स॒र्वं पूर्वपक्षापरपक्षा॒भ्यामभि॒पन्नं, के॒न य॒जमानः
पूर्वपक्षापरपक्ष॒योरा॒प्तिम॒तिमुच्यत इ॒ति । ब्रह्म॒णर्त्वि॒जा म॒नसा चन्द्रे॒ण;
म॒नो वै॒ यज्ञ॒स्य ब्रह्मा॒ । त॒द्य॒दिदं॒ म॒नः, सो॒ऽसौ॒ चन्द्रः॒ स॒
ब्रह्मा॒ सा॒ मु॒क्तिः सा॒तिमुक्तिः ।
pM8/k6
या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒मन्त॒रिक्षमनारम्बण॒मिव; के॒नाक्रमे॒ण
य॒जमानः स्वर्गं॒ लोक॒मा॒क्रमत इ॒ति । उद्गात्र॒र्त्वि॒जा वयु॒ना प्राणे॒न; प्राणो॒
वै॒ यज्ञ॒स्योद्गाता॒ । त॒द्यो॒ऽयं॒ प्राणः॒ स॒ वायुः॒ स॒ उद्गाता॒ सा॒ मु॒क्तिः
सा॒तिमुक्तिः । इ॒त्य॒तिमोक्षा, अ॒थ सम्प॒दः ।
pM9/k7
या॒ज्ञवल्क्ये॒ति होवाच, क॒तिभिरय॒मद्य॒र्ग्भि॒र्हो॒तास्मि॒न्यज्ञे॒ करिष्यती॒ति ।
तिसृभिरि॒ति । कतमा॒स्ता॒स्ति॒स्र इ॒ति । पुरोनुवाक्या॒ च याज्या॒ च श॒स्यैव॒
तृती॒या । किं॒ ता॒भिर्जयती॒ति । पृथिवीलोक॒मेव॒ पुरोनुवाक्य॒या ज॒यति
अन्तरिक्षलोकं॒ याज्य॒या, द्यौर्लोक॒ꣳ श॒स्यया
pM10/k8
या॒ज्ञवल्क्ये॒ति होवाच, क॒त्यय॒मद्या॒ध्वर्यु॒रस्मि॒न्यज्ञ॒ आ॒हुतीर्होष्यती॒ति ।
तिस्र॒ इ॒ति । कतमा॒स्ता॒स्ति॒स्र इ॒ति । या॒ हुता॒ उज्ज्व॒लन्ति, या॒ हुता॒ अतिने॒दन्ति,
या॒ हुता॒ अधिशे॒रते । किं॒ ता॒भिर्जयती॒ति । या॒ हुता॒ उज्ज्व॒लन्ति, देवलोक॒मेव॒
ता॒भिर्जयतिः दी॒प्यत इव हि॒ देवलोको॒ । या॒ हुता॒ अतिने॒दन्ति, मनुष्यलोक॒म्
K पित्ऱ्^इलोकम्
एव॒ ता॒भिर्जयति अ॒तीव हि॒ मनुष्यलोको॒
K पित्ऱ्^इलोको
या॒ हुता॒ अधिशे॒रते, पितृलोक॒म्
K मनुष्यलोकम्
एव॒ ता॒भिर्जयति अध॒ इव हि॒ पितृलोकः॒
K मनुष्यलोकः॒
pM11/k9
या॒ज्ञवल्क्ये॒ति होवाच, क॒तिभिरय॒मद्य॒ ब्रह्मा॒ यज्ञं॒ दक्षिणतो॒
देव॒ताभिर्गोपायिष्य॒ती॒त्ये॒कये॒ति । कतमा॒ सै॒के॒ति ।
म॒न एवे॒ति । अनन्तं॒ वै॒ म॒नो, अनन्ता॒ वि॒श्वे
देवा॒ । अनन्त॒मेव॒ स॒ ते॒न लोकं॒ जयति ।
K गोपायतीत्ये॒कये॒ति
pM12/k10
या॒ज्ञवल्क्ये॒ति होवाच, क॒त्यय॒मद्यो॒द्गाता॒स्मि॒न्यज्ञे॒ स्तोत्रि॒याः स्तोष्यती॒ति ।
तिस्र॒ इ॒ति । कतमा॒स्ता॒स्ति॒स्र इ॒ति । पुरोनुवाक्या॒ च याज्या॒ च श॒स्यैव॒
तृती॒याधिदेवत॒म् अ॒थाध्यत्मं॒
K ॐ अधिदेवतम्...
कतमा॒स्ता॒ या॒ अध्यात्म॒मि॒ति । प्राण॒ एव॒ पुरोनुवाक्या॒पानो॒ याज्या॒, व्यानः॒
श॒स्या । किं॒ ता॒भिर्जयती॒ति । य॒त्कि॒ङ्चेदं॒ प्राणभृदि॒ति
K प्रो य॒त्...
schribit प्ऱ्^इथिवीलोकमेव पुरोनुवाक्यया जयति
त॒तो ह हो॒ताश्वल॒ उ॒परराम ।
ch2
pMK1
अ॒थ हैनं जारत्कारव॒ आ॒र्तभागः पप्रच्छ । या॒ज्ञवल्क्ये॒ति
होवाच, क॒ति ग्र॒हाः, क॒त्यतिग्रहा॒ इ॒ति । अष्टौ॒ ग्र॒हा, अष्टा॒वतिग्रहा॒ इ॒ति ।
ये॒ ते॒ऽष्टौ॒ ग्र॒हा, अष्टा॒वतिग्रहाः॒, कतमे॒ त॒ इ॒ति ।
pMK2
प्राणो॒ वै॒ ग्र॒हः । सो॒ऽपाने॒नातिग्रहे॒ण
K स गन्धेनातिग्रहेण
गृहीतो॒ । अपाने॒न
K प्राणेन
हि॒ गन्धा॒ङ्जि॒घ्रति ।
pM3/k4
जिह्वा॒ वै॒ ग्र॒हः । स॒ र॒सेनातिग्रहे॒ण गृहीतो॒; जिह्व॒या हि॒ र॒सान्विजाना॒ति ।
pM4/k3
वा॒ग्वै॒ ग्र॒हः । स॒ ना॒म्नातिग्रहे॒ण गृहीतो॒; वाचा॒ हि॒ ना॒मान्यभिव॒दति ।
pMK5
च॒क्षुर्वै॒ ग्र॒हः । स॒ रूपे॒णातिग्रहे॒ण गृहीत॒श्; च॒क्षुषा हि॒ रूपा॒णि
प॒श्यति ।
pMK6
श्रो॒त्रं वै॒ ग्र॒हः । स॒ श॒ब्देनातिग्रहे॒ण गृहीतः॒; श्रो॒त्रेण हि॒
श॒ब्दाञ्चृणो॒ति ।
pMK7
म॒नो वै॒ ग्र॒हः । स॒ का॒मेनातिग्रहे॒ण गृहीतो॒; म॒नसा हि॒ का॒मान्काम॒यते ।
pMK8
ह॒स्तौ वै॒ ग्र॒हः । स॒ क॒र्मणातिग्रहे॒ण गृहीतो॒; ह॒स्ताभ्याꣳ हि॒ क॒र्म
करो॒ति ।
pMK9
त्व॒ग्वै॒ ग्र॒हः । स॒ स्प॒र्शेनातिग्रहे॒ण गृहीत॒स्; त्वचा॒ हि॒ स्प॒र्शान्वेद॒यत ।
इ॒त्यष्टौ॒ ग्र॒हा, अष्टा॒वतिग्रहाः॒ ।
pMK10
या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒ꣳ स॒र्वं मृत्यो॒र॒न्नं, का॒ स्वित्सा॒ देव॒ता,
य॒स्या मृत्यु॒र॒न्नमि॒ति । अग्नि॒र्वै॒ मृत्युः॒, सो॒ऽपा॒म॒न्नम् अ॒प पुनर्मृत्युं॒
जयति ।
pM11/k12
या॒ज्ञवल्क्ये॒ति होवाच, य॒त्रायं॒ पु॒रुषो म्रिय॒ते, कि॒मेनं न॒ जहाती॒ति ।
ना॒मे॒ति अनन्तं॒ वै॒ ना॒मानन्ता॒ वि॒श्वे देवा॒; अनन्त॒मेव॒ स॒ ते॒न लोकं॒
जयति ।
pM12/k11
या॒ज्ञवल्क्ये॒ति होवाच, य॒त्रायं॒ पु॒रुषो म्रिय॒त, उ॒दस्मा॒त्प्राणाः॒ क्रामन्ति
आ॒हो ने॒ति । ने॒ति होवाच या॒ज्ञवल्क्यो॒, अत्रैव॒ सम॒वनीयन्ते, स॒ उ॒च्छ्वयति
आ॒ध्मायति आ॒ध्मातो मृतः॒ शेते ।
pMK13
या॒ज्ञवल्क्ये॒ति होवाच, य॒त्रास्य पु॒रुषस्य मृत॒स्याग्निं॒ वा॒गप्ये॒ति, वा॒तं
प्राण॒श्, च॒क्षुरादित्यं॒, म॒नश्चन्द्रं॒, दि॒शः श्रो॒त्रं, पृथिवी॒ꣳ
श॒रीरम् आकाश॒मात्मौ॒षधीर्लो॒मानि, व॒नस्प॒तीन्के॒शा, अप्सु॒ लो॒हितं च
रे॒तश्च निधी॒यते, क्वा॒यं॒ तदा॒ पु॒रुषो भवती॒ति । आ॒हर, सौम्य, ह॒स्तम् ।
pM14/k13
आ॒र्तभागे॒ति होवाचावा॒म्
K ॐ इति होवाच
एवै॒त॒द्
K एवैतस्य
वेदिष्या॒वो;
न॒ नावेत॒त्सजन॒ इ॒ति । तौ॒ होत्क्र॒म्य मन्त्रयां॒ चक्रतुस्
K चक्राते
तौ॒ ह य॒दूच॒तुः, क॒र्म हैव॒ त॒दूचतुर॒थ ह य॒त्प्रशꣳस॒तुः, क॒र्म
हैव॒ त॒त्प्र॒शꣳसतुः पु॒ण्यो वै॒ पु॒ण्येन क॒र्मणा भवति, पा॒पः पा॒पेने॒ति ।
त॒तो ह जारत्कारव॒ आ॒र्तभाग उ॒परराम ।
ch3
pMK1
अ॒थ हैनं भुज्यु॒र्ला॒ह्यायनिः पप्रच्छ । या॒ज्ञवल्क्ये॒ति
होवाच, मद्रे॒षु च॒रकाः प॒र्यव्रजाम; ते॒ पत॒ङ्चलस्य का॒प्यस्य गृहा॒नै॒म ।
त॒स्यासीद्दुहिता॒ गन्धर्व॒गृहीता; त॒मपृच्छामः को॒ऽसी॒ति । सो॒ऽब्रवीत्
षुधन्वा॒ङ्गिरस॒ इ॒ति । तं॒ यदा॒ लोका॒नाम॒न्तान॒पृच्छामा॒थैत॒द्
K अथैनम्
अब्रूमः क्व॒ पारिक्षिता॒ अभवन्नि॒ति । क्व॒ पारिक्षिता॒ अभवन्नि॒ति ।
K अभवन्त्।
त॒त्
K स
त्वा पृच्छामि, याज्ञवल्क्यः क्व॒ पारिक्षिता॒ अभवन्नि॒ति ।
pMK2
स॒ होवाचोवा॒च वै॒ स॒ त॒दगच्छन्वै॒ ते॒ त॒त्र, य॒त्राश्वमेधयाजि॒नो
ग॒च्छन्ती॒ति । क्व॒ न्व॒श्वमेधयाजि॒नो गच्छन्ती॒ति । द्वा॒त्रिꣳशत वै॒
देवरथाह्न्या॒न्ययं॒ लोक॒स्; त॒ꣳ समन्तं॒ लोकं॒ द्विस्ता॒वत्पृथिवी॒
K समन्तं प्ऱ्^इथिवी द्विस्तावत्
प॒र्येति; ता॒ꣳ
K ताꣳ समन्तं
पृथिवीं॒ द्विस्ता॒वत्समुद्रः॒ प॒र्येति । त॒द्या॒वती क्षुर॒स्य धा॒रा, या॒वद्वा
म॒क्षिकायाः प॒त्त्रं, ता॒वान॒न्तरेणाकाशः॒ । ता॒न्९न्द्रः सुपर्णो॒ भूत्वा॒ वाय॒वे
प्रा॒यच्छत्; ता॒न्वायु॒रात्म॒नि धित्वा॒ त॒त्रागमयद्य॒त्र परिक्षिता॒
K अश्वमेधयाजिनो
अ॒भवन्नि॒ति । एव॒मिव वै॒ स॒ वायु॒मेव॒ प्र॒शशꣳस; त॒स्माद्वायु॒रेव॒
व्य॒ष्टिः वायुः॒ स॒मष्टिः । अ॒प पुनर्मृत्युं॒ जयति, स॒र्वमा॒युरेति
K ॐ सर्वमायुरेति
य॒ एवं॒ वे॒द । त॒तो ह भुज्यु॒र्ला॒ह्यायनिरु॒परराम ।
chM4/k5
pMK1
अ॒थ हैनं कहो॒डः
K कहोलः
कौ॒षीतकेयः पप्रच्छः या॒ज्ञवल्क्ये॒ति होवाच, य॒द्
Kadd एव
साक्षा॒द॒परोक्षाद्ब्र॒ह्म य॒ आत्मा॒ सर्वान्तरः॒ तं॒ मे व्या॒चक्ष्वे॒ति । एष॒
त आत्मा॒ सर्वान्तरः॒ । कतमो॒, याज्ञवल्क्य, सर्वान्तरो॒ । यो॒ऽशनाया॒पिपासे॒
शो॒कं मो॒हं जरां॒ मृत्यु॒मत्ये॒ति । एतं॒ वै॒ त॒मात्मा॒नं विदित्वा॒,
ब्राह्मणाः॒ पुत्रैषणा॒याश्च वित्तैषणा॒याश्च लोकैषणा॒याश्च व्युत्था॒या॒थ
भिक्षाच॒र्यं चरन्ति । या॒ ह्ये॒व॒ पुत्रैषणा॒ सा॒ वित्तैषणा॒, या॒ वित्तैषणा॒
सा॒ लोकैषणो॒भे॒ ह्ये॒ते॒ ए॒षणे एव॒ भ॒वतः । त॒स्माद्पण्डितः॒
K ब्रामणः
पा॒ण्डित्यं निर्वि॒द्य, बा॒ल्येन तिष्ठा॒सेद्; बा॒ल्यं च पा॒ण्डित्यं च निर्वि॒द्या॒थ
मुनि॒रमौनं॒ च मौनं॒ च निर्वि॒द्या॒थ ब्राह्मणः॒ । स॒ ब्राह्मणः॒ के॒न स्याद् ।
ये॒न स्या॒त् ते॒नेदृश एव॒ भवति, य॒ एवं॒ वे॒द
K एवातोऽन्यदार्तं
त॒तो ह कहो॒डः
K कहोलः
कौ॒षीतकेय उ॒परराम ।
chM5/k4
pMK1
अ॒थ हैनमूषस्त॒श्चा॒क्रायणः पप्रच्छ । या॒ज्ञवल्क्ये॒ति होवाच,
य॒त्साक्षा॒द॒परोक्षाद्ब्र॒ह्म य॒ आत्मा॒ सर्वान्तरः॒ तं॒ मे व्या॒चक्ष्वे॒ति । एष॒
त आत्मा॒ सर्वान्तरः॒ । कतमो॒, याज्ञवल्क्य, सर्वान्तरो॒ । यः॒ प्राणे॒न प्रा॒णिति, स॒
त आत्मा॒ सर्वान्तरो॒; यो॒ऽपाने॒नापा॒निति, स॒ त आत्मा॒ सर्वान्तरो॒; यो॒ व्याने॒न
व्य॒निति, स॒ त आत्मा॒ सर्वान्तरो॒; य॒ उदाने॒नोद॒निति, स॒ त आत्मा॒ सर्वान्तरो॒ ।
यः॒ समाने॒न सम॒निति, स॒ त आत्मा॒ सर्वन्तर॒।
K ॐ यः ...
एष॒ त आत्मा॒ सर्वान्तरः॒ ।
pM1/k2
स॒ होवाचोषस्त॒श्चा॒क्रायणोः य॒था वै॒ ब्रूया॒दसौ॒ गौ॒रसा॒व॒श्व इ॒ति
एव॒मेवै॒त॒द्व्य॒पदिष्टं भवति । य॒देव॒ साक्षा॒द॒परोक्षाद्ब्र॒ह्म य॒
आत्मा॒ सर्वान्तरः॒ तं॒ मे व्या॒चक्ष्वे॒ति । एष॒ त आत्मा॒ सर्वान्तरः॒ । कतमो॒,
याज्ञवल्क्य, सर्वान्तरो॒ । न॒ दृष्टेर्द्रष्टा॒रं पश्येः न॒ श्रु॒तेः श्रोता॒रꣳ
शृणुया; न॒ मते॒र्मन्ता॒रं मन्वीथा, न॒ वि॒ज्ञातेर्विज्ञाता॒रं वि॒जानीया । एष॒
त आत्मा॒ सर्वान्तरो॒ । अतोऽन्य॒दा॒र्तम् । त॒तो होषस्त॒श्चा॒क्रायण उ॒परराम ।
ch6
pMK1
अ॒थ हैनं गा॒र्गी वाचक्न॒वी पप्रच्छः या॒ज्ञवल्क्ये॒ति होवाच, य॒दिद॒ꣳ
स॒र्वमप्स्वो॒तं च प्रो॒तं च, क॒स्मिन्नु॒
K नु खल्व्
आ॒प ओ॒ताश्च प्रो॒ताश्चे॒ति । वायौ॒, गार्गी॒ति । क॒स्मिन्नु॒
K नु खलु
वायु॒रो॒तश्च प्रो॒तश्चे॒ति । आकाश॒ एव॒
K अन्तरिक्षलोकेषु
गार्गी॒ति । क॒स्मिन्न्वा॒काश॒
K नु खल्वन्तरिक्षलोका॒
ओ॒तश्च प्रो॒तश्चे॒ति । अन्तरिक्षलोके॒षु
K गन्धर्वलोकेषु
गार्गी॒ति । क॒स्मिन्नु॒ ख॒ल्वन्तरिक्षलोका॒
K गन्धर्वलोका
ओ॒ताश्च प्रो॒ताश्चे॒ति । द्यौर्लोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु द्यौर्लोका॒
ओ॒ताश्च प्रो॒ताश्चे॒त्यदित्यलोके॒षु,
K ॐ द्यौर्लोकेषु ...
गार्गी॒ति । क॒स्मिन्नु॒ ख॒ल्वादित्यलोका॒ ओ॒ताश्च प्रो॒ताश्चे॒ति ।
चन्द्रलोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु चन्द्रलोका॒ ओ॒ताश्च प्रो॒ताश्चे॒ति ।
नक्षत्रलोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु नक्षत्रलोका॒ ओ॒ताश्च प्रो॒ताश्चे॒ति ।
देवलोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु देवलोका॒ ओ॒ताश्च प्रो॒ताश्चे॒ति ।
गन्धर्वलोके॒षु
K इन्द्रलोकेषु
गार्गी॒ति । क॒स्मिन्नु॒ ख॒ल्व् गन्धर्वलोका॒
K इन्द्रलोका
ओ॒ताश्च प्रो॒ताश्चे॒ति । प्रजापतिलोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु प्रजापतिलोका॒
ओ॒ताश्च प्रो॒ताश्चे॒ति । ब्रह्मलोके॒षु, गार्गी॒ति । क॒स्मिन्नु॒ ख॒लु ब्रह्मलोका॒
ओ॒ताश्च प्रो॒ताश्चे॒ति । स॒ होवाचः गा॒र्गि, मा॒तिप्राक्षीः मा॒ ते मूर्धा॒ व्य॒पप्तद्
K विपप्तद्
अनतिप्रश्न्यां॒ वै॒ देव॒ताम॒तिपृच्छसि । गा॒र्गि, मा॒तिप्राक्षीरि॒ति । त॒तो ह
गा॒र्गी वाचक्न॒व्यु॒परराम ।
chM7
K एक्ष् पर्ते अलितेः विदे इन्फ़्र
pMK1
अ॒थैनमूद्दा॒लक आ॒रुणिः पप्रच्छः या॒ज्ञवल्क्ये॒ति
होवाच, मद्रे॒ष्ववसाम पतङ्चल॒स्य का॒प्यस्य गृहे॒षु, यज्ञ॒मधीयानाः॒ ।
त॒स्यासीद्भार्या॒ गन्धर्व॒गृहीता । त॒मपृच्छामः को॒ऽसी॒ति । सो॒ऽब्रवीत्
कब॒न्ध अथर्वण॒ इ॒ति ।
pM2/k1
सो॒ऽब्रवीत्पतङ्चलं॒ का॒प्यं याज्ञिका॒ꣳश्चः वे॒त्थ नु॒ त्वं॒, काप्य,
त॒त्सू॒त्रं य॒स्मिन्नयं॒ च लोकः॒ प॒रश्च लोकः॒ स॒र्वाणि च भूता॒नि
स॒न्दृब्धानि भवन्ती॒ति । सो॒ऽब्रवीत्पतङ्चलः॒ का॒प्योः ना॒हं॒ त॒द् भगवन्
वेदे॒ति ।
pM3/k1
सो॒ऽब्रवीत्पतङ्चलं॒ का॒प्यं याज्ञिका॒ꣳश्चः वे॒त्थ नु॒ त्वं॒, काप्य,
त॒मन्तर्यामि॒णं, य॒ इमं॒ च लोकं॒ प॒रं च लोक॒ꣳ स॒र्वाणि च
भूता॒न्य॒न्तरो यम॒यती॒ति । सो॒ऽब्रवीत्पतङ्चलः॒ का॒प्योः ना॒हं॒ तं॒, भगवन्
वेदे॒ति ।
pM4/k1
सो॒ऽब्रवीत्पतङ्चलं॒ का॒प्यं याज्ञिका॒ꣳश्चः यो॒ वै॒ त॒त् काप्य, सू॒त्रं
विद्या॒त्तं॒ चान्तर्यामि॒णꣳ, स॒ ब्रह्मवि॒त् स॒ लोकवि॒त् स॒ देववि॒त् स॒ वेदवि॒त्
स॒ यज्ञवि॒त्
K ॐ
स॒ भूतवि॒त् स॒ आत्मवि॒त् स॒ सर्ववि॒दि॒ति ते॒भ्योऽब्रवीत् । त॒दहं॒
वेद । त॒च्चे॒त्त्वं॒, याज्ञवल्क्य, सू॒त्रम॒विद्वाꣳस्तं॒ चान्तर्यामि॒णं
ब्रह्मगवी॒रुद॒जसे, मूर्धा॒ ते वि॒पतिष्यती॒ति ।
pM5/k1
वे॒द वा॒ अहं॒, गौतम, त॒त्सू॒त्रं तं॒ चान्तर्यामि॒णमि॒ति । यो॒ वा॒ इदं॒
क॒श्च ब्रूया॒द् वे॒द वेदे॒ति । य॒था वे॒त्थ, त॒था ब्रूही॒ति ।
pM6/k2
K स होवचः
वायु॒र्वै॒, गौतम, त॒त्सू॒त्रं; वायु॒ना वै॒, गौतम, सू॒त्रेणायं॒ च लोकः॒
प॒रश्च लोकः॒ स॒र्वाणि च भूता॒नि स॒न्दृब्धानि भवन्ति । त॒स्माद्वै॒, गौतम,
पु॒रुषं प्रे॒तमाहुः व्य॒स्रꣳसिषतास्या॒ङ्गानी॒ति; वायु॒ना हि॒, गौतम, सू॒त्रेण
स॒म्दृब्धानि भवन्ती॒ति । एव॒मेवै॒त॒द्
K ॐ एव
याज्ञवल्क्यान्तर्यामि॒णं ब्रूही॒ति ।
pM7/k3
यः॒ पृथिव्यां॒ ति॒ष्ठन्पृथिव्या॒ अ॒न्तरो, यं॒ पृथिवी॒ न॒ वे॒द, य॒स्य
पृथिवी॒ श॒रीरं, यः॒ पृथिवी॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM8/k4
यो॒ऽप्सु॒ ति॒ष्ठन्नद्भ्यो॒ऽन्तरो, य॒मा॒पो न॒ विदुः॒ य॒स्या॒पः श॒रीरं,
यो॒ऽपो॒ऽन्तरो यम॒यति स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM9/k5
यो॒ऽग्नौ॒ ति॒ष्ठन्नग्ने॒र॒न्तरो, य॒मग्नि॒र्न॒ वे॒द, य॒स्याग्निः॒ श॒रीरं,
यो॒ऽग्नि॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM10/k6
यो॒ऽन्त॒रिक्षे ति॒ष्ठन्नन्त॒रिक्षाद॒न्तरो, य॒मन्त॒रिक्षं न॒ वे॒द,
य॒स्यान्त॒रिक्षꣳ श॒रीरं, यो॒ऽन्त॒रिक्षम॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM11/k7
यो॒ वायौ॒ ति॒ष्ठन्वायो॒र॒न्तरो, यं॒ वायु॒र्न॒ वे॒द, य॒स्य वायुः॒ श॒रीरं,
यो॒ वायु॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pK8
Kadd
यो दिवि तिष्ठन्दिवोऽन्तरो, यं द्यौर्न वेद, यस्य द्यौः शरीरं, यो दिवमन्तरो यमयति
एष त आत्मान्तर्याम्यमृतः ।
pM12/k9
य॒ आदित्ये॒ ति॒ष्ठन्नादित्या॒द॒न्तरो, य॒मादित्यो॒ न॒ वे॒द, य॒स्यादित्यः॒ श॒रीरं,
य॒ आदित्य॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM13/k11
य॒श्चन्द्रतारके॒ ति॒ष्ठङ्चन्द्रतारका॒द॒न्तरो, यं॒ चन्द्रतारकं॒ न॒ वे॒द,
य॒स्य चन्द्रतारक॒ꣳ श॒रीरं, य॒श्चन्द्रतारक॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pK12
Kadd
य आकाशे तिष्ठन्नाकाशादन्तरो, यमाकाशो न वेद, यस्याकाशः शरीरं, य आकाशमन्तरो
यमयति एष त आत्मान्तर्याम्यमृतः ।
pM14/k10
यो॒ दिक्षु॒ ति॒ष्ठन्दिग्भ्यो॒ऽन्तरो, यं॒ दि॒शो न॒ विदुः॒ य॒स्य दि॒शः श॒रीरं,
यो॒ दिशो॒ऽन्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM15/k om .
यो॒ विद्यु॒ति ति॒ष्ठन्विद्यु॒तो॒ऽन्तरो, यं॒ विद्यु॒न्न॒ वे॒द, य॒स्य
विद्यु॒च्छ॒रीरं, यो॒ विद्यु॒तो॒ऽन्तरो यम॒यति, स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM16/k om .
यो॒ स्तनयित्नौ॒ ति॒ष्ठन्स्तनयित्नो॒र॒न्तरो, य॒ꣳ स्तनयित्नु॒र्न॒ वे॒द, य॒स्य
स्तनयित्नुः॒ श॒रीरं, यो॒ स्तनयित्नो॒र॒न्तरो यम॒यति, स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM17/k om .
यो॒ स॒र्वेषु लोके॒षु ति॒ष्ठन्स॒र्वेभ्यो लोके॒भ्यो॒ऽन्तरो, य॒ꣳ स॒र्वे लोका॒
न॒ विदुः॒ य॒स्य स॒र्वे लोकाः॒ श॒रीरं, यो॒ स॒र्वेभ्यो लोके॒भ्यो॒ऽन्तरो यम॒यति,
स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM18/k om .
यो॒ स॒र्वेषु वे॒देषु ति॒ष्ठन्स॒र्वेभ्यो वे॒देष्व॒न्तरो, य॒ꣳ स॒र्वे वे॒दा न॒
विदुः॒ य॒स्य स॒र्वे वे॒दाः श॒रीरं, यो॒ स॒र्वेभ्यो वे॒देभ्यो॒ऽन्तरो यम॒यति,
स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM19/k om .
यो॒ स॒र्वेषु यज्ञे॒षु ति॒ष्ठन्स॒र्वेभ्यो यज्ञे॒भ्यो॒ऽन्तरो, य॒ꣳ स॒र्वे
यज्ञा॒ न॒ विदुः॒ य॒स्य स॒र्वे यज्ञाः॒ श॒रीरं, यो॒ स॒र्वेभ्यो यज्ञे॒भ्यो॒ऽन्तरो
यम॒यति, स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM20/k15
यः॒ स॒र्वेषु भूते॒षु ति॒ष्ठन्त्स॒र्वेभ्यो भूते॒भ्यो॒ऽन्तरो, य॒ꣳ स॒र्वाणि
भूता॒नि न॒ विदुः॒ य॒स्य स॒र्वाणि भुता॒नि श॒रीरं, यः॒ स॒र्वाणि भूता॒न्य॒न्तरो
यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृत । इ॒त्यु एवा॒धिभूत॒म्
K ॐ उ एव
अ॒थाध्यात्म॒म् ।
pM21/k16
यः॒ प्राणे॒ ति॒ष्ठन्प्राणा॒द॒न्तरो, यं॒ प्राणो॒ न॒ वे॒द, य॒स्य प्राणः॒ श॒रीरं,
यः॒ प्राण॒म॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM22/k17
यो॒ वाचि॒ ति॒ष्ठन्वाचो॒ऽन्तरो, यं॒ वा॒ङ् न॒ वे॒द, य॒स्य वा॒क्ष॒रीरं, यो॒
वा॒चम॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM23/k18
यश्च॒क्षुषि ति॒ष्ठङ्च॒क्षुषो॒ऽन्तरो, यं॒ च॒क्षुर्न॒ वे॒द, य॒स्य च॒क्षुः
श॒रीरं, य॒श्च॒क्षुर॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM24/k19
यः॒ श्रो॒त्रे ति॒ष्ठञ्च्रो॒त्राद॒न्तरो, य॒ꣳ श्रो॒त्रं न॒ वे॒द, य॒स्य
श्रो॒त्रꣳ श॒रीरं, यः॒ श्रो॒त्रम॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM25/k20
यो॒ म॒नसि ति॒ष्ठन्म॒नसो॒ऽन्तरो, यं॒ म॒नो न॒ वे॒द, य॒स्य म॒नः श॒रीरं,
यो॒ म॒नो॒ऽन्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM26/k21
य॒स्त्व॒चि ति॒ष्ठꣳस्त्व॒चो॒ऽन्तरो, यं॒ त्व॒ङ् न॒ वे॒द, य॒स्य
त्व॒क्ष॒रीरं, य॒स्त्व॒चम॒न्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pK22
Kadd
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो, यं विज्ञानं न वेद, यस्य विज्ञानꣳ शरीरं,
यो विज्ञानमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ।
pM27/k14
य॒स्ते॒जसि ति॒ष्ठꣳस्ते॒जसो॒ऽन्तरो, यं॒ ते॒जो न॒ वे॒द, य॒स्य ते॒जः
श॒रीरं, य॒स्ते॒जो॒ऽन्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM28/k13
य॒स्त॒मसि ति॒ष्ठꣳस्त॒मसो॒ऽन्तरो, यं॒ त॒मो न॒ वे॒द, य॒स्य त॒मः
श॒रीरं, य॒स्त॒मो॒ऽन्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM29/k23
यो॒ रे॒तसि ति॒ष्ठꣳ रे॒तसो॒ऽन्तरो, यं॒ रे॒तो न॒ वे॒द, य॒स्य रे॒तः
श॒रीरं, यो॒ रे॒तो॒ऽन्तरो यम॒यति, स॒
K एष
त आत्मा॒न्तर्याम्य॒मृतः ।
pM30/k om .
य॒ आत्म॒नि ति॒ष्ठन्नात्म॒नो॒ऽन्तरो, य॒मात्मा॒ न॒ वे॒द, य॒स्यात्मा॒ श॒रीरं,
य॒ आत्मा॒न्तरो यम॒यति, स॒ त आत्मा॒न्तर्याम्य॒मृतः ।
pM31/k23
अ॒दृष्टो द्रष्टा॒श्रुतः श्रोता॒मतो मन्ता॒विज्ञतो विज्ञाता॒ । ना॒न्यो॒ऽतोऽस्ति
द्रष्टा॒, ना॒न्यो॒ऽतोऽस्ति श्रोता॒, ना॒न्यो॒ऽतोऽस्ति मन्ता॒, ना॒न्यो॒ऽतोऽस्ति
विज्ञातै॒ष॒ त आत्मा॒न्तर्याम्य॒मृतो॒ । अतोऽन्य॒दा॒र्तम् । त॒तो होद्दा॒लक
आ॒रुणिरु॒परराम ।
ch8
pMK1
अ॒थ ह वाचक्न॒व्युवाचः ब्रा॒ह्मणा भगवन्तो, ह॒न्ताह॒मिमं॒ या॒ज्ञवल्क्यं
K ॐ
द्वौ॒ प्रश्नौ॒ प्रक्ष्या॒मि; तौ॒ चे॒न्मे विवक्ष्य॒ति
K ॐ वि
न॒ वै॒
K ॐ
जा॒तु युष्मा॒कमिमं॒ क॒श्चिद्ब्रह्मो॒द्यं जेते॒ति । तौ॒ चे॒द्मे न॒ विवक्ष्य॒ति,
मुर्धा॒स्य वि॒पतिष्यती॒ति
K ॐ तौ ...
पृच्छ, गार्गी॒ति ।
pMK2
सा॒ होवाचाहं॒ वै॒ त्वा, याज्ञवल्क्य !, य॒था का॒श्यो वा वै॒देहो वोग्रपुत्र॒,
उज्ज्यं॒ धनु॒र॒धिज्यं कृत्वा॒, द्वौ॒ बा॒णवन्तौ सपत्नातिव्याधि॒नौ ह॒स्ते
कृत्वो॒पोत्तिष्ठे॒देव॒मेवा॒हं॒ त्वा द्वा॒भ्यां प्रश्ना॒भ्यामुपो॒दस्थाम् । तौ॒
मे ब्रूही॒ति । पृच्छ, गार्गी॒ति ।
pMK3
सा॒ होवाचः य॒दूर्ध्वं॒, याज्ञवल्क्य, दिवो॒, य॒दवा॒क्पृथिव्या॒, य॒दन्तरा॒
द्या॒वापृथिवी॒ इमे॒, य॒द्भूतं॒ च भ॒वच्च भविष्य॒च्चे॒त्याच॒क्षते,
क॒स्मिꣳस्त॒दो॒तं च प्रो॒तं चे॒ति ।
pMK4
स॒ होवाचः य॒दूर्ध्वं॒, गार्गि, दिवो॒, य॒दवा॒क्पृथिव्या॒, य॒दन्तरा॒
द्या॒वापृथिवी॒ इमे॒, य॒द्भूतं॒ च भ॒वच्च भविष्य॒च्चे॒त्याच॒क्षत,
आकाशे॒ त॒दो॒तं च प्रो॒तं चे॒ति ।
pMK5
सा॒ होवचः न॒मस्ते
Kadd अस्तु
याज्ञवल्क्य, यो॒ म एतं॒ व्य॒वोचो॒ । अपरस्मै धार॒यस्वे॒ति । पृच्छ, गार्गी॒ति ।
pMK6
सा॒ होवाचः य॒दूर्ध्वं॒, याज्ञवल्क्य, दिवो॒, य॒दवा॒क्पृथिव्या॒, य॒दन्तरा॒
द्या॒वापृथिवी॒ इमे॒, य॒द्भूतं॒ च भ॒वच्च भविष्य॒च्चे॒त्याच॒क्षते,
क॒स्मिꣳस्त॒दो॒तं च प्रो॒तं चे॒ति ।
pMK7
स॒ होवाचः य॒दूर्ध्वं॒, गार्गि, दिवो॒, य॒दवा॒क्पृथिव्या॒, य॒दन्तरा॒
द्या॒वापृथिवी॒ इमे॒, य॒द्भूतं॒ च भ॒वच्च भविष्य॒च्चे॒त्याच॒क्षत,
आकाश॒ एव॒ त॒दो॒तं च प्रो॒तं चे॒ति । कस्मिन्नु॒ ख॒ल्वाकाश॒ ओ॒तश्च
प्रो॒तश्चे॒ति ।
pMK8
स॒ होवाचैत॒द्वै॒ त॒दक्ष॒रं, गार्गि, ब्राह्मणा॒ अभि॒वदन्ति अ॒स्थूलम॒नणु
अ॒ह्रस्वम॒दीर्घम् अलो॒हितमस्नेह॒म् अच्छाय॒मतमो॒, अवाय्व॒नाकाश॒म् असङ्ग॒म्
अस्पर्श॒म्
K ॐ
अगन्ध॒म् अरस॒म्
K अरसम् अगन्धम्
अचक्षु॒ष्कम् अश्रोत्र॒म् अवा॒ग् अमनो॒, अतेज॒स्कम् अप्राण॒म् अ॒मुखम् अ॒नामा॒गोत्रम्
अज॒रम् अम॒रम् अभ॒यम् अमृतम् अरजो॒, अशब्द॒म् अ॒विवृतम् अ॒संवृतम् अपूर्व॒म्
अनपर॒म् अनन्तर॒म्
K प्रो अनाम ... अनन्तरम्
schribit अमात्रम् अनन्तरम्#
अबाह्यं॒; न॒ त॒दश्नोति
K अश्नाति
कं॒ चन॒
K किं चन
न॒ त॒दश्नोति
K अश्नाति
क॒श्चन॒ ।
pMK9
एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने, गार्गि, द्या॒वापृथिवी॒ वि॒धृते तिष्ठत;
एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने, गार्गि, सूर्यचन्द्रम॒सौ वि॒धृतौ तिष्ठत;
एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने, गार्गि
Kadd निमेषा मुहूर्ता
अहोरात्रा॒णिऽ
Kadd अर्धमासा॒
मा॒सास्ऽ ऋत॒वस्ऽ संवत्सरा॒स्ऽ
Kadd इ॒ति
वि॒धृतास्तिष्ठन्तिऽ
Kadd निमेषा मुहूर्ता
अहोरात्रा॒ण्य्मा॒सा
Kadd अर्धम्सा॒
मा॒सा ऋत॒वः संवत्सरा॒
Kadd इ॒ति
वि॒धृतास्तिष्ठन्ति
एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने,
गार्गि,
प्रा॒च्योऽन्या॒ न॒द्यः स्यन्दन्ते श्वेते॒भ्यः प॒र्वतेभ्यः,
प्रती॒च्योऽन्या॒,
यां॒यां च दि॒शम्
Kadd अन्व्
एत॒स्य वा॒ अक्ष॒रस्य प्रशा॒सने, गार्गि, द॒दतं
K ददतो
मनुष्याः॒ प्र॒शसन्ति, य॒जमानं देवा॒, द॒र्व्यं
K दर्वीं
पित॒रोऽन्वा॒यत्ताः ।
pMK10
यो॒ वा॒ एत॒दक्ष॒रम॒विदित्वा, गार्गि
K गार्गि अविदित्वा
अस्मि॒ꣳल् लोके॒ जुहो॒ति, द॒दाति
K यजते
त॒पस्यतिऽ अ॒पि
K त॒पस्त॒प्यते
बहू॒नि वर्षसहस्रा॒णिऽ अ॒न्तवन्
K अन्तवद्
एव॒ऽ अस्य स॒ लोक॒स्ऽ
K तद्
pro sa loko
भवति
यो॒ वा॒ एत॒दक्ष॒रम॒विदित्वा,
गार्ग्य्
K गार्गि अविदित्वा
अस्मा॒ल् लोका॒त्प्रै॒ति, स॒ कृपणो॒; अथ य॒ एत॒दक्ष॒रं, गार्गि, विदित्वा॒स्मा॒ल्
लोका॒त्प्रै॒ति, स॒ ब्राह्मणः॒ ।
pMK11
त॒द्वा॒ एत॒दक्ष॒रं, गार्गि अ॒दृष्टं द्रष्ट्र॒श्रुतं श्रोत्र॒मतं मन्त्र॒विज्ञातं
विज्ञातृ; ना॒न्य॒द्
Kadd अतो
अस्ति द्रष्टृ, ना॒न्य॒द्
Kadd अतो
अस्ति श्रोतृ, ना॒न्य॒द्
Kadd अतो
अस्ति मन्तृ, ना॒न्य॒द्
Kadd अतो
अस्ति विज्ञात्रे॒त॒द्वै॒ अक्ष॒रं, गार्गि, य॒स्मिन्
K विज्ञत्रेतस्मिन्नु॒ ख॒ल्वक्षरे, गार्ग्य्),
आकाश॒ ओ॒तश्च प्रो॒तश्च ।
pMK12
सा॒ होवाचः ब्रा॒ह्मणा भगवन्तः त॒देव॒ बहु॒ मन्यध्वम्ऽ य॒दस्मा॒न्नमस्कारे॒ण
मुच्या॒ध्वम्ऽ
K मुच्येध्वम्
न॒ वै॒ जा॒तु युष्मा॒कमिम॒म्ऽ क॒श्चिद्ब्रह्मो॒द्यम्ऽ जेता॒ऽ इ॒ति
त॒तो ह वाचक्न॒व्यु॒परराम ।
ch9
pMK1
अ॒थ हैनं विदग्धः॒ हा॒कल्यः पप्रच्छः क॒ति देवा॒, याज्ञवल्क्ये॒ति । स॒
हैत॒यैव॒ निवि॒दा प्र॒तिपेदे, या॒वन्तस्ऽ वैश्वदेव॒स्य निवि॒दिऽ उच्य॒न्ते त्र॒यश्च
त्री॒ च शता॒ त्र॒यस्ऽ च त्री॒ च सह॒स्राऽ इ॒तिऽ ओ॒म् इ॒ति होवाच;
pM2/k1
क॒त्येव॒ देवा॒, याज्ञवल्क्ये॒ति । त्र॒यस्त्रिꣳशदि॒ति । ओ॒मि॒ति होवाच ।
क॒त्येव॒ देवा॒, याज्ञवल्क्ये॒ति । ष॒ड् इ॒ति । ओ॒मि॒ति होवाच । क॒त्येव॒ देवा॒,
याज्ञवल्क्ये॒ति । त्र॒य इ॒ति । ओ॒मि॒ति होवाच । क॒त्येव॒ देवा॒, याज्ञवल्क्ये॒ति ।
द्वा॒वि॒ति । ओ॒मि॒ति होवाच । क॒त्येव॒ देवा॒, याज्ञवल्क्ये॒ति । अ॒ध्यर्ध इ॒ति ।
ओ॒मि॒ति होवाच । क॒त्येव॒ देवा॒, याज्ञवल्क्ये॒ति । ए॒क इ॒ति । ओ॒मि॒ति होवाच ।
कतमे॒ ते॒ त्र॒यश्च त्री॒ च शता॒ त्र॒यश्च त्री॒ च सह॒स्रे॒ति ।
pM3/k2
स॒ होवाचः महिमा॒न एवै॒षामेते॒, त्र॒यस्त्रिंशत्त्वे॒व॒ देवा॒ इ॒ति । कतमे॒
ते॒ त्र॒यस्त्रिꣳशदि॒ति । अष्टौ॒ व॒सव, ए॒कादश ऱुद्रा॒, द्वा॒दशादित्याः॒ त॒
ए॒कत्रिंशद् ९न्द्रश्चैव॒ प्रजा॒पतिश्च त्र॒यस्त्रिंशावि॒ति ।
pM4/k3
कतमे॒ व॒सव इ॒ति । आग्नि॒श्च पृथिवी॒ च वायु॒श्चान्त॒रिक्षं चादित्य॒श्च
ड्यौः॒ च चन्द्र॒माश्च ण॒क्षत्राणि चैते॒ व॒सव; एते॒षु ही॒द॒ꣳ स॒र्वꣳ
व॒सु
K ॐ
हितं॒
Kadd इत्येते॒ ही॒द॒ꣳ स॒र्वं वस॒यन्ते । त॒द्य॒दिद॒ꣳ स॒र्वं वस॒यन्ते
K ॐ एते हीदꣳ ...
त॒स्माद्व॒सव इ॒ति ।
pM5/k4
कतमे॒ ऱुद्रा॒ इ॒ति । द॒शेमे॒ पु॒रुषे प्राणा॒, आत्मै॒कादश॒स्; ते॒
यदा॒स्मा॒न्म॒र्त्याच्छ॒रीराद्
K शरीरान्मर्त्याद्
उत्क्रा॒मन्ति अ॒थ रोदयन्तिः त॒द्य॒द्रोद॒यन्ति, त॒स्माद्ऱुद्रा॒ इ॒ति ।
pM6/k5
कतम॒ अदित्या॒ इ॒ति । द्वा॒दश
Kadd वै
मा॒साः संवत्सर॒स्यैत॒ अदित्या॒; एते॒ ही॒द॒ꣳ स॒र्वमाद॒दाना यन्ति; त॒द्
K ते
य॒दिद॒ꣳ स॒र्वमाद॒दाना य॒न्ति, त॒स्माददित्या॒ इ॒ति ।
pM7/k6
कतम॒ ९न्द्रः, कतमः॒ प्रजा॒पतिरि॒ति । स्तनयित्नु॒रेवे॒न्द्रो, यज्ञः॒ प्रजा॒पतिरि॒ति ।
कतमः॒ स्तनयित्नु॒रि॒ति । अश॒निरि॒ति । कतमो॒ यज्ञ॒ इ॒ति । पश॒व इ॒ति ।
pM8/k7
कतमे॒ ष॒ड् इ॒ति । आग्नि॒श्च पृथिवी॒ च वायु॒श्चान्त॒रिक्षश्चादित्य॒श्च
ड्यौ॒श्चैते॒ ष॒ड् इ॒त्येते॒
K ॐ इत्येते॒
ह्ये॒वे॒द॒ꣳ
K हीदꣳ
स॒र्वं ष॒ड् इ॒ति ।
pM9/k8
कतमे॒ ते॒ त्र॒यो देवा॒ इ॒ती- -म॒ एव॒ त्र॒यो लोका॒, एषु॒ ही॒मे॒ स॒र्वे देवा॒
इ॒ति । कतमौ॒
Kadd तौ
द्वौ॒ देवा॒वि॒ति । अ॒न्नं चैव॒ प्राण॒श्चे॒ति । कतमो॒ऽध्यर्ध इ॒ति । यो॒ऽयं॒
प॒वत इ॒ति ।
pM10/k9
त॒दाहुः य॒दय॒मे॒क एव॒
K एक इवैव
प॒वते॒, अथ कथ॒म॒ध्यर्ध इ॒ति । य॒दस्मिन्निद॒ꣳ स॒र्वमध्या॒र्ध्नोत्
ते॒ना॒ध्यर्ध इ॒ति । कतम॒ ए॒को देव॒ इ॒ति ।
K प्राण इति;
स॒ ब्र॒ह्म त्य॒दि॒त्या॒चक्षते ।
pM11/k10
पृथिव्ये॒व॒ य॒स्याय॒तनं, च॒क्षुर्
K अग्निर्
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒य॒ꣳ शारीरः॒ पु॒रुषः, स॒ एष॒ । व॒दैव॒,
हाकल्य, त॒स्य का॒ देव॒ते॒ति । स्त्रि॒य
K अम्ऱ्^इतम्
इ॒ति होवाच ।
pM14/k11
का॒म एव॒ य॒स्याय॒तनं, च॒क्षुर्
K ह्ऱ्^इदयं
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒सौ॒ चन्द्रे॒
K एवायं काममयः
पु॒रुषः, स॒ एष॒ । व॒दैव॒, हाकल्य, त॒स्य का॒ देव॒ते॒ति । म॒न
K स्त्रिय
इ॒ति होवाच ।
pMK12
रूपा॒ण्येव॒ य॒स्याय॒तनं, च॒क्षुर्लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं
विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ, स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒
अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः परा॒यणं, य॒मा॒त्थ; य॒ एवा॒सा॒वादित्ये॒
पु॒रुषः, स॒ एष॒ । व॒दैव॒, हाकल्य, त॒स्य का॒ देव॒ते॒ति । च॒क्षुर्
K सत्यम्
इ॒ति होवाच ।
pMK13
आकश॒ एव॒ य॒स्याय॒तनं, च॒क्षुर्
K श्रोत्रं
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒य॒म्वायौ॒
K श्रौतः प्रातिश्रुतः
पु॒रुषः, स॒ एष॒ । व॒दैव॒, हाकल्य, त॒स्य का॒ देव॒ते॒ति । प्राण॒
K दिश
इ॒ति होवच ।
pM15/k om .
ते॒ज एव॒ य॒स्याय॒तनं, च॒क्षुर्लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं
विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ, स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒
अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः परा॒यणं, य॒मा॒त्थ; य॒ एवा॒य॒मग्नौ॒
पु॒रुषः, स॒ एष॒ । व॒दैव॒, हाकल्य, त॒स्य का॒ देव॒ते॒ति । वा॒गि॒ति होवाच ।
pM16/k14
त॒म एव॒ य॒स्याय॒तनं, च॒क्षुर्
K ह्ऱ्^इदयं
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒यं॒ छायाम॒यः पु॒रुषः, स॒ एष॒ । व॒दैव॒,
हाकल्य, त॒स्य का॒ देव॒ते॒ति । मृत्यु॒ इ॒ति होवाच ।
pM17/k16
आप॒ एव॒ य॒स्याय॒तनं, च॒क्षुर्
K ह्ऱ्^इदयं
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒यं॒ अप्सु॒ पु॒रुषः, स॒ एष॒ । व॒दैव॒, हाकल्य,
त॒स्य का॒ देव॒ते॒ति । व॒रुण इ॒ति होवाच ।
pM18/k17
रे॒त एव॒ य॒स्याय॒तनं, च॒क्षुर्
K ह्ऱ्^इदयं
लोको॒, म॒नो ज्यो॒तिः यो॒ वै॒ तं॒ पु॒रुषं विद्या॒त्स॒र्वस्यात्म॒नः परा॒यणꣳ,
स॒ वै॒ वेदिता॒ स्याद् याज्ञवल्क्य । वे॒द वा॒ अहं॒ तं॒ पु॒रुषꣳ स॒र्वस्यात्म॒नः
परा॒यणं, य॒मा॒त्थ; य॒ एवा॒यं॒ पुत्रम॒यः पु॒रुषः, स॒ एष॒ । व॒दैव॒,
हाकल्य, त॒स्य का॒ देव॒ते॒ति । प्रजा॒पतिरि॒ति होवाच ।
pM19/k18
हा॒कल्ये॒ति होवाच या॒ज्ञवल्क्यः त्वा॒ꣳ स्विदिमे॒ ब्राह्मणा॒ अङ्गारावक्ष॒यणमक्रता३
इ॒ति ।
pM20/k19
या॒ज्ञवल्क्ये॒ति होवाच हा॒कल्यो, य॒दिदं॒ कुरुपङ्चाला॒नां ब्राह्मना॒नत्य॒वादीः,
किं॒ ब्र॒ह्म विद्वा॒नि॒ति । दि॒शो वेद स॒देवाः स॒प्रतिष्ठा इ॒ति । य॒द्दि॒शो
वे॒त्थ स॒देवाः स॒प्रतिष्ठाः,
pM21/k20
कि॒न्देवतोऽस्यां॒ प्रा॒च्यां दिश्य॒सी॒ति । आदित्य॒देवत इ॒ति । स॒ आदित्यः॒
क॒स्मिन्प्र॒तिष्ठित इ॒ति । च॒क्षुषी॒ति । क॒स्मिन्नु॒ च॒क्षुः प्र॒तिष्ठितं
भवती॒ति
K ॐ भवति
रूपे॒ष्वि॒ति; च॒क्षुषा हि॒ रूपा॒णि प॒श्यति । क॒स्मिन्नु॒ रूपा॒णि प्र॒तिष्ठितानि
भवन्ती॒ति
K ॐ भवन्ति
हृदय इ॒ति होवाच; हृदयेन हि॒ रूपा॒णि जाना॒ति, हृदये ह्ये॒व॒ रूपा॒णि
प्र॒तिष्ठितानि भवन्ती॒ति । एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pM22/k21
कि॒न्देवतोऽस्यां॒ द॒क्षिणायां दिश्य॒सी॒ति । यम॒देवत इ॒ति । स॒ यमः॒
क॒स्मिन्प्र॒तिष्ठित इ॒ति ।
Kadd यज्ञ इति।
द॒क्षिणायामि॒ति ।
क॒स्मिन्नु॒ द॒क्षिणा प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
श्रद्धा॒यामि॒ति; यदा॒ ह्ये॒व॒ श्रद्धत्ते॒, अथ द॒क्षिणां ददाति; श्रद्धा॒याꣳ
ह्ये॒व॒ द॒क्षिणा प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
क॒स्मिन्नु॒ श्रद्धा॒ प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
हृदय इ॒ति होवाच; हृदयेन हि॒ श्रद्धत्ते॒
K श्रद्धां जानाति
हृदये ह्ये॒व॒ श्रद्धा॒ प्रतिष्ठिता ! भवती॒ति । एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pM23/k22
कि॒न्देवतोऽस्यां॒ प्रती॒च्यां दिश्य॒सी॒ति । व॒रुणदेवत इ॒ति । स॒ व॒रुणः
क॒स्मिन्प्र॒तिष्ठित इ॒ति । अप्स्वि॒ति । क॒स्मिन्न्वा॒पः प्र॒तिष्ठिता भवन्ती॒ति
K ॐ भवन्ति
रे॒तसी॒ति । क॒स्मिन्नु॒ रे॒तः प्र॒तिष्ठितं भवती॒ति
K ॐ भवति
हृदय, इ॒ति
Kadd होवाच
त॒स्माद॒पि प्र॒तिरूपं जात॒माहुः हृदयादिव सृप्तो॒, हृदयादिव नि॒र्मित इ॒ति;
हृदये ह्ये॒व॒ रे॒तः प्र॒तिष्ठितं भवती॒ति । एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pM24/k23
कि॒न्देवतोऽस्या॒मुदी॒च्यां दिश्य॒सी॒ति । सो॒मदेवत इ॒ति । स॒ सो॒मः
क॒स्मिन्प्र॒तिष्ठित इ॒ति । दीक्षा॒यामि॒ति । क॒स्मिन्नु॒ दिक्षा॒ प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
सत्य॒ इ॒ति; त॒स्माद॒पि दीक्षित॒माहुः सत्यं॒ वदे॒ति; सत्ये॒ ह्ये॒व॒ दीक्षा॒
प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
क॒स्मिन्नु॒ सत्यं॒ प्र॒तिष्ठितम्भवती॒ति
K ॐ भवति
हृदये इ॒ति
Kadd होवाच
हृदयेन हि॒ सत्यं॒ जाना॒ति; हृदये ह्ये॒व॒ सत्यं॒ प्र॒तिष्ठितं भवती॒ति ।
एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pM25/k24
कि॒न्देवतोऽस्यां॒ ध्रुवा॒यां दिश्य॒सी॒ति । अग्नि॒देवत इ॒ति । सो॒ऽग्निः॒
क॒स्मिन्प्र॒तिष्ठितो भवती॒ति
K ॐ भवति
वाची॒ति । क॒स्मिन्नु॒ वा॒क्प्र॒तिष्ठिता भवती॒ति
K ॐ भवति
म॒नसी॒ति
K ह्ऱ्^इदय इति
क॒स्मिन्नु॒ म॒नस्
K ह्ऱ्^इदयं
प्र॒तिष्ठितं भवती॒ति
K ॐ भवति
pM26/k25
अ॒हल्लिके॒ति होवाच या॒ज्ञवल्क्यो, य॒त्रैत॒दन्य॒त्रास्मन्मन्या॒सै । य॒त्रैत॒द्
K यद्ध्येतद्
अन्य॒त्रास्मत्स्या॒च्, छ्वा॒नो वैनदद्युः व॒याꣳसि वैनद्वि॒मथ्नीरन्नि॒ति ।
pM27/k26
क॒स्मिन्नु॒ त्वं॒ चात्मा॒ च प्र॒तिष्ठितौ ! स्थ इ॒ति । प्राण॒ इ॒ति । क॒स्मिन्नु॒
प्राणः॒ प्र॒तिष्ठित इ॒ति । अपान॒ इ॒ति । क॒स्मिन्न्व॒पानः॒ प्र॒तिष्ठित इ॒ति ।
व्यान॒ इ॒ति । क॒स्मिन्नु॒ व्यानः॒ प्र॒तिष्ठित इ॒ति । उदान॒ इ॒ति । क॒स्मिन्नू॒दानः॒
प्र॒तिष्ठित इ॒ति । समान॒ इ॒ति ।
pM28/k26
स॒ एषः॒ ने॒ति, ने॒त्यात्मा॒गृह्यो, न॒ हि॒ गृह्य॒ते॒; अशीर्यो, न॒ हि॒
शीर्य॒ते॒; असङ्गो॒ऽसितो न॒ सज्य॒ते, न॒ व्य॒थत इ॒त्यसितो न व्यथते,
एता॒न्यष्टा॒वाय॒तनानि अष्टौ॒ लोका॒,
Kadd अष्टौ देवाः
अष्टौ॒ पु॒रुषाः । स॒ य॒स्ता॒न्पु॒रुषान्व्युदु॒ह्य
K निरुह्य
प्रत्यु॒ह्यात्य॒क्रामीत् तं॒ त्वौपनिषदं॒ पु॒रुषं पृच्छामि । तं॒ चे॒न्मे न॒
विवक्ष्य॒सि, मूर्धा॒ ते वि॒पतिष्यती॒ति । त॒ꣳ ह हा॒कल्यस्न॒ मेने
K तꣳ ह न मेने हाकल्यस्
त॒स्य ह मूर्धा॒ वि॒पपात; त॒स्य हा॒प्यन्य॒न्म॒न्यमानाः
परिमोषि॒णो॒ऽस्थिन्य॒पजह्रुः
K अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुःअन्य॒न्मन्यमानाः
pM29/k27
अ॒थ या॒ज्ञवल्क्यो होवाच
K होवाच याज्ञवल्क्यो
ब्रा॒ह्मणा भगवन्तो, यो॒ वः काम॒यते, स॒ मा पृच्छतु, स॒र्वे वा मा पृच्छत; यो॒
वः काम॒यते, तं॒ वः पृच्छामि, स॒र्वान्वा वः पृच्छामी॒ति । ते॒ ह ब्राह्मणा॒ न॒
दधृषुः ।
pM30/k28
ता॒न्हैतैः॒ श्लो॒कैः पप्रच्छः य॒था वृक्षो॒ व॒नस्प॒तिः त॒थैव॒
पु॒रुषोऽमृषाः॒ त॒स्य पर्णा॒नि लो॒मानि
K लोमानि पर्णानि
त्व॒गस्योत्पा॒टिका बहिः॒ ।
pM31/k28
त्वच॒ एवा॒स्य रु॒धिरं प्रस्य॒न्दि त्वच॒ उ॒त्पटस्; त॒स्मात्त॒दा॒तुन्नात्
K आत्ऱ्^इण्णात्
प्रैति, र॒सो वृक्षा॒दिवा॒हतात् ।
pM32/k28
माꣳसा॒न्यस्य श॒कराणि, कि॒नाटꣳ स्ना॒व, त॒त्स्थिर॒म्; अ॒स्थीन्य॒न्तरतो
दा॒रुणि, मज्जा॒ मज्जोपमा॒ कृता॒ ।
pM33/k28
य॒द्वृक्षो॒ वृक्णो॒ रो॒हति मू॒लान्न॒वतरः पु॒नः म॒र्त्यः स्विन्मृत्यु॒ना वृक्णः॒
क॒स्मान्मू॒लात्प्र॒रोहति ।
pMK34/k28
K variato ordineH 3-4 post9-10
रे॒तस इ॒ति मा॒ वोचतः जी॒वतस्त॒त्प्र॒जायते; जात॒ एव॒ न॒ जायते, को॒ न्वे॒नं
जनयेत्पु॒नः धाना॒रुह
Kadd इव
वै॒ वृक्षो॒ अन्य॒तः
K अङ्जसा
प्रे॒त्य स॒म्भवो । य॒त्स॒मूलमुद्वृहे॒युर्
K आव्ऱ्^इहेयुर्
वृक्षं॒, न॒ पु॒नरा॒भवेद्; म॒र्त्यः स्विन्मृत्यु॒ना वृक्णः॒ क॒स्मान्मू॒लात्प्र॒रोहति ।
विज्ञा॒नमानन्दं॒ ब्र॒ह्म, राते॒र्
K रातिर्
दा॒तुः, परा॒यणं ति॒ष्ठमानस्य तद्वि॒द इ॒ति ।
ch4
ch1 = SBM 14.6.10?? = SBK16.6.1??
pMK1
जनको॒ ह वै॒देह आसां॒ चक्रे॒ । अथ ह या॒ज्ञवल्क्य आ॒वव्राज । स॒ होवाच जनको॒
वै॒देहो
K तꣳ होवाच
या॒ज्ञवल्क्य, कि॒म॒र्थमचारीः, पशू॒निच्छ॒न॒ण्वन्तानी॒ति । उभ॒यमेव॒,
सꣳराड्, इ॒ति होवाच ।
pM2/k3
Kadd यदेव ते कश्चिदब्रवीत् तच्छ्ऱ्^इणवामेत्य्।
अ॒ब्रवीन्म ऊदङ्कः॒ हौल्वायनः॒
K हौल्बायनः
प्राणो॒ वै॒ ब्र॒ह्मे॒ति । य॒था मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूया॒त् त॒था
त॒च्छौल्वायनो॒
K छौल्बायनो
अब्रवीत् प्राणो॒ वै॒ ब्र॒ह्मे॒ति, अ॒प्राणतो हि॒ कि॒ꣳ स्या॒दि॒ति । अ॒ब्रवीत्तु॒
ते त॒स्याय॒तनं प्रतिष्ठा॒म् । न॒ मेऽब्रवीदि॒ति । एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pMK3
स॒ वै॒ नो ब्रूहि, याज्ञवल्क्य । स॒
K प्राण
एवा॒य॒तनम् आकाशः॒ प्रतिष्ठा॒, प्रिय॒मि॒त्येनदु॒पासीत । का॒ प्रिय॒ता, याज्ञवल्क्य ।
प्राण॒ एव॒, सम्राड्, इ॒ति होवाच; प्राण॒स्य वै॒, सम्राट्, का॒मायायाज्यं॒ याजयति
अप्रतिगृह्य॒स्य प्र॒तिगृह्णाति अ॒पि त॒त्र वधाशङ्गा॒
K वधाशण्^का
भवति, यां॒ दि॒शमे॒ति प्राण॒स्यैव॒, सम्राट्, का॒माय; प्राणो॒ वै॒, सम्राट्, परमं॒
ब्र॒ह्म । नै॒नं प्राणो॒ जहाति, स॒र्वाण्येनं भूता॒न्यभि॒क्षरन्ति ।
pM4/k3
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत, ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
pM5/k2
Kadd यत्ते कश्चिदब्रवीत्तच्छ्ऱ्^इणवामेत्य्।
अ॒ब्रवीन्मे जि॒त्वा हैलिनो॒
K हैलिनिर्
वा॒ग्वै॒ ब्र॒ह्मे॒ति । य॒था मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूया॒त् त॒था
त॒च्छैलिनो॒
K छैलिनिर्
अब्रवीद् वा॒ग्वै॒ ब्र॒ह्मे॒ति अ॒वदतो हि॒ कि॒ꣳ स्या॒दि॒ति । अ॒ब्रवीत्तु॒ ते
त॒स्याय॒तनं प्रतिष्ठा॒म् । न॒ मेऽब्रवीदि॒ति । एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pM6/k2
स॒ वै॒ नो ब्रूहि, याज्ञवल्क्य । वा॒गेवा॒य॒तनम् आकाशः॒ प्रतिष्ठा॒,
प्रज्ञे॒त्येनदु॒पासीत । का॒ प्रज्ञ॒ता, याज्ञवल्क्य । वा॒गेव॒,
सम्राड्, इ॒ति होवाच; वाचा॒ वै॒, सम्राड्, ब॒न्धुः प्र॒ज्ञायत;
ऋग्वेदो॒ यजुर्वेदः॒ सामवेदो॒ऽथर्वाङ्गिर॒स
इतिहासः॒ पुराणं॒ विद्या॒ उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒नानि
Kadd इष्टꣳ
हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि
वाचै॒व॒,
संराट्, प्र॒ज्ञायन्ते; वा॒ग्वै॒, सम्राट्, परमं॒ ब्र॒ह्म; नै॒नं वा॒ग्जहाति,
स॒र्वाण्येनं भूता॒न्यभि॒क्षरन्ति ।
pM7/k2
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत, ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
pM8/k4
Kadd यदेव ते कश्चिदब्रवीत्तच्छ्ऱ्^इणवामेत्य्।
अ॒ब्रवीन्मे बर्कु॒र्वार्ष्ण॒श्: च॒क्षुर्वै॒ ब्र॒ह्मे॒ति । य॒था
मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूया॒त् त॒था त॒द्वार्ष्णो॒ऽब्रवीच्: च॒क्षुर्वै॒
ब्र॒ह्मे॒ति अ॒पश्यतो हि॒ कि॒ꣳ स्या॒दि॒ति । अ॒ब्रवीत्तु॒ ते त॒स्याय॒तनं
प्रतिष्ठा॒म् । न॒ मेऽब्रवीदि॒ति । एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pM9/k4
स॒ वै॒ नो ब्रूहि, याज्ञवल्क्य । च॒क्षुरेवा॒य॒तनम् आकाशः॒ प्रतिष्ठा॒,
सत्य॒मि॒त्येत॒दु॒पासीत । का॒ सत्य॒ता, याज्ञवल्क्य । च॒क्षुरेव॒, सम्राड्, इ॒ति होवाच;
च॒क्षुषा वै॒, सम्राट्, प॒श्यन्तमाहुर॒द्राक्षीरि॒ति । स॒ आहा॒द्राक्षमि॒ति,
त॒त्सत्यं॒ भवति; च॒क्षुर्वै॒, सम्राट्, परमं॒ ब्र॒ह्म; नै॒नञ्च॒क्षुर्जहाति,
स॒र्वाण्येनं भूता॒न्यभि॒क्षरन्ति ।
pM10/k4
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत, ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
pM11/k5
Kadd यदेव ते कश्चिदब्रवीत् तच्छ्ऱ्^इणवामेत्य्।
अ॒ब्रवीन्मे गर्दभी॒विपीतो भा॒रद्वाजः श्रो॒त्रं वै॒ ब्र॒ह्मे॒ति; य॒था
मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूयात् त॒था त॒द्भा॒रद्वाजोऽब्रवीच्: छ्रो॒त्रं वै॒
ब्र॒ह्मे॒ति अ॒शृण्वतो हि॒ कि॒ꣳ स्या॒दि॒ति । अ॒ब्रवीत्तु॒ ते त॒स्याय॒तनं
प्रतिष्ठा॒म् । न॒ मेऽब्रवीदि॒ति । एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pM12/k5
स॒ वै॒ नो ब्रूहि, याज्ञवल्क्य । श्रो॒त्रमेवा॒य॒तनम् आकाशः॒
प्रतिष्ठा॒नन्त॒मि॒त्येनदु॒पासीत । का॒नन्त॒ता, याज्ञवल्क्य ।
दि॒श एव॒, सम्राड्, इ॒ति होवाच; त॒स्माद्वै॒,
सम्राड्,
Kadd अ॒पि
यां॒ का॒ङ्च दि॒शं ग॒च्छति नै॒वा॒स्या अ॒न्तं गच्छति अनन्ता॒ हि॒ दि॒शः,
श्रो॒त्रꣳ हि॒ दि॒शः
K दिशो वै,
सम्राट्,
shrotraꣳ
श्रो॒त्रं वै॒, सम्राट्, परमं॒ ब्र॒ह्म । नै॒नं श्रो॒त्रं जहाति, स॒र्वाण्येनं
भूता॒न्यभि॒क्षरन्ति ।
pM13/k5
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति, होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत, ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
pM14/k6
Kadd यदेव ते कश्चिदब्रवीत्
तच्छ्ऱ्^इणवामेत्य॒ब्रवीन्मे षत्य॒कामो जाबालोः॒ म॒नो वै॒ ब्र॒ह्मे॒ति;
य॒था मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूया॒त् त॒था त॒त्षत्य॒कामो
K जाबालो
अब्रवीद् म॒नो वै॒ ब्र॒ह्मे॒ति अ॒मनसो हि॒ कि॒ꣳ स्या॒दि॒ति । अ॒ब्रवीत्तु॒ ते
त॒स्याय॒तनं प्रतिष्ठा॒म् । न॒ मेऽब्रवीदि॒ति । एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pM15/k6
स॒ वै॒ नो ब्रूहि, याज्ञावल्क्य । म॒न एवा॒य॒तनम् आकाशः॒ प्रतिष्ठा॒नन्द॒
इ॒त्येनदु॒पासीत । का॒नन्द॒ता, याज्ञवल्क्य । म॒न एव॒, सम्राड्,
इ॒ति होवाच; म॒नसा वै॒, सम्राट्, स्त्रि॒यमभि॒हर्यति
K अभिहार्यते
त॒स्यां प्र॒तिरूपः पुत्रो॒ जायते; स॒ आनन्दो॒ । म॒नो वै॒, सम्राट्, परमं॒ ब्र॒ह्म;
नै॒नं म॒नो जहाति, स॒र्वाण्येनं भूता॒न्यभि॒क्षरन्ति ।
pM16/k6
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत, ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
pM17/k7
Kadd यदेव ते कश्चिदब्रवीत्
तच्छ्ऱ्^इणवामेत्य्।
अ॒ब्रवीन्मे विदग्धः॒ हा॒कल्योः हृदयं वै॒ ब्र॒ह्मे॒ति; य॒था
मातृमा॒न्पितृमा॒नाचार्य॒वान्ब्रूया॒त् त॒था त॒च्छा॒कल्योऽब्रवीद्
धृदयं वै॒ ब्र॒ह्मे॒ति अ॒हृदयस्य हि॒ कि॒ꣳ स्या॒दि॒ति ।
अ॒ब्रवीत्तु॒ ते त॒स्याय॒तनं प्रतिष्ठां॒ ! । न॒ मेऽब्रवीदि॒ति ।
एकपा॒द्वा॒ एत॒त् सम्राड्, इ॒ति ।
pM18/k7
स॒ वै॒ नो ब्रूहि, याज्ञवल्क्य । हृदयमेवा॒य॒तनम् आकाशः॒
प्रतिष्ठा॒; स्थिति॒रि॒त्येनदु॒पासीत । का॒ स्थिति॒ता, याज्ञवल्क्य
। हृदयमेव॒, सम्राड्, इ॒ति होवाच; हृदयं वै॒, सम्राट्,
स॒र्वेषां भूता॒नामाय॒तनꣳ; हृदयं वै॒, सम्राट्, स॒र्वेषां
भूता॒नां प्रतिष्ठा॒, हृदये ह्ये॒व॒, सम्राट्, स॒र्वाणि भूता॒नि
प्र॒तिष्ठितानि भवन्ति; हृदयं वै॒, सम्राट्, परमं॒ ब्र॒ह्म;
नै॒नꣳ हृदयं जहाति, स॒र्वाण्य् एनं भूता॒न्यभि॒क्षरन्ति ।
pM19/k7
देवो॒ भूत्वा॒ देवा॒न॒प्येति, य॒ एवं॒ विद्वा॒नेत॒दुपा॒स्ते । हस्त्य्॑षभꣳ
सह॒स्रं ददामी॒ति होवाच जनको॒ वै॒देहः । स॒ होवाच या॒ज्ञवल्क्यः पिता॒
मेऽमन्यत ना॒ननुशिष्य ह॒रेते॒ति । क॒ एव॒ ते कि॒मब्रवीदि॒ति
K ॐ क॒ ...
ch2 = SBM 14.6.11?? = SBK16.6.2??
pMK1
अ॒थ ह जनको॒
K जनको ह
वै॒देहः कूर्चा॒दुपावस॒र्पन्नुवाचः न॒मस्ते
Kadd अस्तु
याज्ञवल्क्या॒नु मा शाधी॒ति । स॒ होवाचः य॒था वै॒, सम्राड्,
महा॒न्तम॒ध्वानमेष्य॒न्र॒थं वा ना॒वं वा समाद॒दीतैव॒मेवै॒ता॒भिरुपनिष॒द्भिः
समा॒हितात्मासि एवं॒ वृन्दारक आढ्यः॒ स॒न्नधीतवे॒द उक्तो॒पनिषत्क इतो॒
विमुच्य॒मानः क्व॒ गमिष्यसी॒ति । ना॒हं॒ त॒द् भगवन् वे॒द य॒त्र गमिष्यामी॒ति ।
अ॒थ वै॒ तेऽहं॒ त॒द्वक्ष्यामि य॒त्र गमिष्यसी॒ति । ब्र॒वीतु भ॒गवानि॒ति ।
pMK2
स॒ होवाच
K ॐ
इ॒न्धो ह वै॒ ना॒मैष॒ यो॒ऽयं॒ दक्षिणे॒ऽक्ष॒न्पु॒रुषस्; तं॒ वा॒
एत॒मि॒न्धꣳ स॒न्तमि॒न्द्र इ॒त्या॒चक्षते परो॒क्षेणैव॒; परो॒क्षप्रिया इव हि॒
देवाः॒ प्रत्य॒क्षद्विषः ।
pMK3
अ॒थैत॒द्वा॒मेऽक्षि॒णि
K ऽक्षन्
पु॒रुषरूपम् एषा॒स्य प॒त्नी विरा॒ट्, त॒योरेष॒ सꣳस्तावो॒ य॒ एषो॒ऽन्त॒र्हृदय
आकाशो॒ । अथैनयोरेत॒द॒न्नं य॒ एषो॒ऽन्त॒र्हृदये लोहित॒पिण्डो॒ ।
अथैनयोरेत॒त्प्रावर॒णं य॒देत॒दन्त॒र्हृदये जालक॒मिवा॒थैनयोरेषा॒ सृतिः
स॒ती
K ॐ
सञ्च॒रणी यै॒षा॒ हृदयादूर्ध्वा॒ नाड्यु॒च्च॒रति ।
pM4/k3
ता॒ वा॒ अस्यैता॒ हिता॒ ना॒म नाड्यो॒ य॒थ के॒शः सहस्रधा॒ भिन्न॒
K यथा केशः
सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्ह्ऱ्^इदये
प्रतिष्ठिता भवन्त्येता॒भिर्वा॒ एत॒म्
K एतद्
आस्र॒वदा॒स्रवति; त॒स्मादेष॒ प्रवि॒विक्ताहारतर इव भवत्यस्मा॒च्छारीरा॒दात्म॒नः ।
pM5/k4
त॒स्य वा॒ एत॒स्य पु॒रुषस्य
K ॐ वा ...
प्रा॒ची दि॒क्प्रा॒ङ्चः प्राणा॒, द॒क्षिणा दि॒ग्द॒क्षिणाः प्राणाः॒, प्रती॒ची
दि॒क्प्रत्य॒ङ्चः प्राणा॒, उ॒दीची दि॒गु॒दङ्चः प्राणा॒, ऊर्ध्वा॒ दि॒गूर्ध्वाः॒ प्राणा॒,
अ॒वाची दि॒ग॒वाङ्चः प्राणाः॒, स॒र्वा दि॒शः स॒र्वे प्राणाः॒ ।
pM6/k4
स॒ एष॒ ने॒ति ने॒त्यात्मा॒गृह्यो न॒ हि॒ गृह्य॒ते॒ऽशीर्यो न॒ हि॒
शीर्य॒ते॒ऽसङ्गो॒ऽसितो न॒ सज्य॒ते न॒ व्य॒थते॒
K ऽसङ्गो न हि सज्यते असितो न व्यथते न रिष्यत्यभयं वै॒,
जनक, प्राप्तो॒ऽसी॒ति होवाच या॒ज्ञवल्क्यः । स॒ होवाच जनको॒
वै॒देहोः न॒मस्ते, याज्ञवल्क्या॒भयं त्वा॒गच्छताद्यो॒ नो, भगवन् अ॒भयं वेद॒यस
Kadd
स होवाच जनको वैदेहोऽभयं त्वागच्छताद् याज्ञवल्क्य, यो नो, भगवन् अभयं वेदयसे;
नमस्तेऽस्तु इमे॒ विदेहा॒ अय॒मह॒मस्मी॒ति ।
ch3 = SBM 14.7.1 = SBK16.6.3
pMK1
जनक॒ꣳ ह वै॒देहं या॒ज्ञवल्क्यो जगामः स॒मेनेन वदिष्य इ॒त्य्ऽ॒थ
K स मेनेः न वदिष्य इत्य्ऽ॒थ
अ॒थ ह य॒ज् जनक॒श्च वै॒देहो या॒ज्ञवल्क्यश्चाग्निहोत्रे॒ समूद॒तुस्
K समूदाते
त॒स्मै ह या॒ज्ञवल्क्यो व॒रं ददौ । स॒ ह कामप्रश्न॒मेव॒ वव्रे । त॒ꣳ हास्मै
ददौ । त॒ꣳ ह सम्रा॒ड् एव॒ पू॒र्वः पप्रच्छ ।
pMK2
या॒ज्ञवल्क्य, कि॒ञ्ज्योतिरयं॒ पु॒रुष इ॒ति । आदित्य॒ज्योतिः, सम्राड्, इ॒ति
होवाचादित्ये॒नैवा॒यं॒ ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒र्येती॒ति ।
एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pMK3
अ॒स्तमित आदित्ये॒, याज्ञवल्क्य, कि॒ञ्ज्योतिरेवा॒यं॒ पु॒रुष इ॒ति । चन्द्र॒ज्योतिः,
सम्राड्, इ॒ति होवाच; चन्द्रे॒णैवा॒यं॒
K चन्द्रमा एवास्य ज्योतिर्भवति चन्द्रमसैवायं
ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒र्येती॒ति । एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pMK4
अ॒स्तमित आदित्ये॒, याज्ञवल्क्य, चन्द्र॒मस्य॒स्तमिते, कि॒ञ्ज्योतिरेवा॒यं॒ पु॒रुष
इ॒ति । अग्नि॒ज्योतिः, सम्राड्, इ॒ति होवाच
K अग्निरेवास्य ज्योतिर्भवत्य्
अग्नि॒नैव॒ ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒र्येती॒ति । एव॒मेवै॒त॒द्
याज्ञवल्क्य ।
pMK5
अ॒स्तमित आदित्ये॒, याज्ञवल्क्य, चन्द्र॒मस्य॒स्तमिते, शान्ते॒ऽग्नौ॒,
कि॒ञ्ज्योतिरेवा॒यं॒ पु॒रुष इ॒ति । वा॒ग्ज्योतिः, सम्राड्, ! इति होवाच
K वागेवास्य ज्योतिर्भवति
वाचै॒वा॒यं॒ ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒र्येति । त॒स्माद्वै॒, सम्राड्,
अ॒पि य॒त्र स्वः॒ पाणि॒र्न॒ विनिर्ज्ञा॒यते॒, अथ य॒त्र वा॒गुच्च॒रति उ॒पैव॒
त॒त्र न्ये॒ती॒ति । एव॒मेवै॒त॒द् याज्ञवल्क्य ।
pMK6
अ॒स्तमित आदित्ये॒, याज्ञवल्क्य, चन्द्र॒मस्य॒स्तमिते, शान्ते॒ऽग्नौ॒, शान्ता॒यां वाचि॒,
कि॒ञ्ज्योतिरेवा॒यं॒ पु॒रुष इ॒ति । आत्म॒ज्योतिः, सम्राड्, इ॒ति होवाच
K आत्मैवास्य ज्योतिर्भवत्य्!
आत्म॒नैवा॒यं॒ ज्यो॒तिषास्ते प॒ल्ययते क॒र्म कुरुते विप॒र्येती॒ति ।
pMK7
कतम॒ आत्मे॒ति । यो॒ऽयं॒ विज्ञानम॒यः पु॒रुषः प्राणे॒षु हृद्य॒न्त॒र्ज्योतिः
K विज्ञानमयः प्राणेषु ह्ऱ्^इद्यन्त॒र्ज्योतिः पुरुषः
स॒ समानः॒ स॒न्नुभौ॒ लोकौ॒ स॒ञ्चरति
K अनुसञ्चरति
ध्या॒यतीव लेला॒यतीव स॒धीः
K स॒ हि
स्व॒प्नो भूत्वे॒मं॒ लोक॒म॒तिक्रामति
Kadd म्ऱ्^इत्यो रूपाणि
pMK8
स॒ वा॒ अयं॒ पु॒रुषो जा॒यमानः श॒रीरमभिसम्प॒द्यमानः पाप्म॒भिः स॒ꣳसृज्यते ।
स॒ उत्क्रा॒मन्म्रिय॒माणः पाप्म॒नो वि॒जहाति
K निजहाति
मृत्यो॒ रूपा॒णि
K ॐ
pMK9
त॒स्य वा॒ एत॒स्य पु॒रुषस्य द्वे॒ एव॒ स्था॒ने भवतः इदं॒ च परलोकस्था॒नं
च; स॒न्ध्यं तृती॒यꣳ स्वप्नस्था॒नं; त॒स्मिन्त्स॒न्ध्ये स्था॒ने ति॒ष्ठनुभे॒
स्था॒ने पश्यतीदं॒ च परलोकस्था॒नं च ।
pM10/k9
अ॒थ यथाक्र॒मोऽयं॒ परलोकस्था॒ने भ॒वति; त॒माक्र॒ममाक्र॒म्योभ॒यान्पाप्म॒न
आनन्दा॒ꣳश्च पश्यति । स॒ य॒त्रायं॒
K ॐ
प्रस्व॒पिति अस्य॒ लोक॒स्य सर्वा॒वतो मा॒त्रामपादा॒य, स्वयं॒ विह॒त्य स्वयं॒ निर्मा॒य
स्वे॒न भासा॒ स्वे॒न ज्यो॒तिषा प्र॒स्वपिति अ॒त्रायं॒ पु॒रुषः स्वय॒ञ्ज्योतिर्भवति ।
pM11/k10
न॒ त॒त्र र॒था न॒ र॒थयोगा न॒ प॒न्थानो भवन्ति अ॒थ र॒थान्र॒थयोगान्पथः॒
सृजते । न॒ त॒त्रानन्दा॒ मु॒दः प्रमु॒दो भवन्ति अ॒थानन्दा॒न्मु॒दः प्रमु॒दः
सृजते । न॒ त॒त्र वेशा॒न्ताः स्र॒वन्त्यः पुष्करि॒ण्यो
K पुष्करिण्यः स्रवन्त्यो
भवन्ति अ॒थ वेशा॒न्तान्स्र॒वन्तीः पुष्करि॒णीः
K पुष्करिणीः स्रवन्तीः
सृजते; स॒ हि॒ कर्ता॒ ।
pM12/k11
त॒द॒प्येते॒ श्लो॒काः
K तदेते श्लोका भवन्ति
स्व॒प्नेन शारीर॒मभिप्रह॒त्या॒- -सुप्तः सुप्ता॒नभि॒चाकशीति शु॒क्रमादा॒य
पु॒नरै॒ति स्था॒नं हिरण्म॒यः पौरुष॒
K पुरुष
एकहꣳसः॒ ।
pM13/k12
प्राणे॒न र॒क्षन्न॒परं
K अवरं
कुलायं॒ बहिः॒ कुलाया॒दमृतश्चरित्वा॒, स॒ ईयतेऽमृतो यत्रकामं॒ हिरण्म॒यः
पौरुष॒
K पुरुष
एकहꣳसः॒ ।
pM14/k13
स्वप्नान्त॒ उच्चावच॒मीय॒मानो रूपा॒णि देवः॒ कुरुते बहू॒न्युते॒व स्त्री॒भिः सह॒
मो॒दमानो ज॒क्षदुते॒वा॒पि भ॒यानि प॒श्यन् ।
pM15/k14
आराम॒मस्य पश्यन्ति न॒ तं॒ क॒श्चन॒ पश्यती॒ति
K पश्यति कश्चनेति
तं॒ ना॒यतं बोधयेदि॒त्याहुः दु॒र्भिषज्यꣳ हास्मै॒ भवति, य॒मेष॒ न॒
प्रतिप॒द्यते ।
pM16/k14
अ॒थो ख॒ल्वाहुः जागरितदेश॒ एवा॒स्यैस॒; या॒नि ह्ये॒व॒ जा॒ग्रत्प॒श्यति ता॒नि
सुप्त॒ इ॒त्य॒त्रायं॒ पु॒रुषः स्वय॒ञ्ज्योतिर्भवती॒ति । एव॒मेवै॒त॒द् या॒ज्ञवल्क्यः
K ॐ इ॒ति ...
सो॒ऽहं॒ भ॒गवते सह॒स्रं ददामि । अ॒त ऊर्ध्वं॒ विमोक्षा॒यैव॒
K ॐ
ब्रूही॒ति ।
pM17/k15
sedchf. infra 40 : K 34
स॒ वा॒ एष॒ एत॒स्मिन्त्स्वप्नान्ते॒
K सम्प्रसादे
रत्वा॒ चरित्वा॒ दृष्ट्वै॒व॒ पु॒ण्यं च पापं॒ च पु॒नः प्रतिन्यायं॒
प्रतियो॒न्या॒द्रवति बुद्धान्ता॒यैव॒
K स्वप्नायैव
स॒ य॒द॒त्र
K तत्र
कि॒ङ्चित्प॒श्यत्य॒नन्वागतस्ते॒न भवति अ॒सङ्गो ह्य॒यं॒ पु॒रुष इ॒ति ।
एव॒मेवै॒त॒द् याज्ञवल्क्य । सो॒ऽहं॒ भ॒गवते सह॒स्रं ददामि । अ॒त ऊर्ध्वं॒
विमोक्षा॒यैव॒ ब्रूही॒ति ।
pK16
Kadd
स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं
प्रतियोन्याद्रवति बुद्धान्तायैव; स यत्तत्र किङ्चित्पश्यत्यनन्वागतस्तेन भवति असङ्गो
ह्ययं पुरुष इति । एवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं
विमोक्षायैव ब्रूहीति ।
pK17
Kadd
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं
प्रतियोन्याद्रवति स्वप्नान्तायैव ।
pMK18
त॒द्य॒था महामत्स्य॒ उभे॒ कू॒ले अनुसञ्च॒रति पू॒र्वं चा॒परं चैव॒मेवा॒यं॒
पु॒रुष एता॒ उभा॒व॒न्तावनुस॒ञ्चरति स्वप्नान्तं॒ च बुद्धान्तं॒ च
pMK19
त॒द्य॒थास्मि॒न्नाकाशे॒ श्येनो॒ वा सुपर्णो॒ वा विपरिप॒त्य रान्तः॒ सꣳह॒त्य
पक्षौ॒ संलया॒यैव॒ ध्रिय॒त, एव॒मेवा॒यं॒ पु॒रुष एत॒स्मा अ॒न्ताय धवति
य॒त्र सुप्तो॒ न॒ कं॒ चन॒ का॒मं काम॒यते न॒ कं॒ चन॒ स्व॒प्नं पश्यति ।
pMK20
ता॒ वा॒ अस्यैता॒ हिता॒ ना॒म नाड्यो॒ य॒था के॒शः सहस्रधा॒ भिन्न॒स्ता॒वताणिम्ना॒
तिष्ठन्ति शुक्ल॒स्य नील॒स्य पिङ्गल॒स्य ह॒रितस्य लो॒हितस्य पूर्णा॒ । अ॒थ
य॒त्रैनं घ्न॒न्तीव जिन॒न्तीव हस्ती॒व विच्छाय॒यति ग॒र्तमिव प॒तति य॒देव॒
जा॒ग्रद्भ॒यं प॒श्यति त॒द॒त्रा॒विद्यया भ॒यं
K ॐ
मन्यते॒ । अथ य॒त्र रा॒जेव देव॒ इवाह॒म्
K देव इव राजेवाहम्
एव॒ इद॒ꣳ स॒र्वं
K सर्वो
अस्मी॒ति मन्यते सो॒ऽस्य परमो॒ लोको॒ ।
अथ सुप्तो॒ न॒ कं॒
चन॒ का॒मं काम॒यते न॒ कं॒ चन॒ स्व॒प्नं पश्यति
K ॐ अथ ...
pMK21
त॒द्वा॒ अस्यैत॒दात्म॒काममाप्त॒काममकामं॒
K एतदतिच्छन्दोऽपहतपाप्माभयꣳ
रूप॒म् । त॒द्य॒था प्रिय॒या स्त्रिया॒ सम्प॒रिष्वक्तो न॒ बा॒ह्यं किं॒ चन॒ वेद
ना॒न्तरमेव॒मेवा॒यं॒
पु॒रुषः शारिर॒ आत्मा॒
K ॐ अम्बो
प्राज्ञ॒नात्म॒ना सम्प॒रिष्वक्तो न॒ बा॒ह्यं किं॒ चन॒ वेद ना॒न्तरम् ।
pM22/k21
त॒द्वा॒ अस्यैत॒द॒तिच्छन्दो॒ऽपहतपाप्माभय॒ꣳ
K एतदाप्तकाममात्मकाममकामं
रूप॒म॒शोकान्तरम्
K षोकान्तरम्
pM22/k22
अ॒त्र पिता॒पिता भवति माता॒माता लोका॒ अ॒लोका देवा॒ अ॒देवा वे॒दा अ॒वेदा
यज्ञो॒ऽयज्ञो॒
K ॐ अम्बो
अत्र स्तेनो॒ऽस्तेनो भवति भ्रूणहा॒भ्रूणहा पौल्कसो॒ऽपौल्कसश्चाण्डालो॒ऽचण्डालः
K चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसो
श्रमणो॒ऽश्रमणस्तापसो॒ऽतापसो॒ऽनन्वागतः पु॒ण्येना॒नन्वागतः पापे॒न; तीर्णो॒
हि॒ तदा॒ स॒र्वाङ्शो॒कान्हृदयस्य भवति ।
pMK23
य॒द्वै॒ त॒न्न॒ प॒श्यति, प॒श्यन्वै॒ त॒द्द्रष्ट॒व्यं
K ॐ
न॒ पश्यतिः न॒ हि॒ द्रष्टु॒र्दृष्टे॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान्; न॒ तु॒
त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं य॒त्प॒श्येत् ।
pMK24
य॒द्वै॒ त॒न्न॒ जि॒घ्रति, जि॒घ्रन्वै॒ त॒द्घ्रात॒व्यं
K ॐ
न॒ जिघ्रति; न॒ हि॒ घ्रातु॒र्घ्राते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒
त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं य॒ज् जि॒घ्रेत् ।
pMK25
य॒द्वै॒ त॒न्न॒ रस॒यति, विजान॒न्वै॒ त॒द्र॒सं
K रसयन्वै तन्
न॒ रसयति; न॒ हि॒ रसयितू॒ र॒साद्
K रसयितेर्
विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं
य॒द्रस॒येत् ।
pMK26
य॒द्वै॒ त॒न्न॒ व॒दति, व॒दन्वै॒ त॒द्वक्त॒व्यं
K ॐ
न॒ वदति; न॒ हि॒ वक्तु॒र्व॒चो
K वक्तेर्
विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं
य॒द्व॒देत् ।
pMK27
य॒द्वै॒ त॒न्न॒ शृणो॒ति, शृण्व॒न्वै॒ त॒च्छ्रोत॒व्यं
K ॐ
न॒ शृणोति; न॒ हि॒ श्रोतुः॒ श्रुते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒
त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं य॒च्छृणुया॒त् ।
pMK28
य॒द्वै॒ त॒न्न॒ मनुते॒, मन्वानो॒ वै॒ त॒न्मन्त॒व्यं
K ॐ
न॒ मनुते; न॒ हि॒ मन्तु॒र्मते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒
त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं य॒न्मन्वीत॒ ।
pMK29
य॒द्वै॒ त॒न्न॒ स्पृश॒ति, स्पृश॒न्वै॒ त॒त्स्प्रष्ट॒व्यं
K ॐ
न॒ स्पृशति; न॒ हि॒ स्प्रष्टुः॒ स्पृष्टे॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒
तु॒ त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं य॒त्स्पृशे॒त् ।
pMK30
य॒द्वै॒ त॒न्न॒ विजाना॒ति, विजान॒न्वै॒ त॒द्विज्ञे॒यं
K ॐ
न॒ वि॒जानाति; न॒ हि॒ विज्ञातु॒र्विज्ञा॒नाद्
K विज्ञातेर्
विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं
य॒द्विजानीया॒त् ।
pK31
Kadd
यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येदन्योऽन्यज्
जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेद् अन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीता
-न्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ।
pM31/k32
सलिल॒ ए॒को द्रष्टा॒द्वैतो भवति एष॒ ब्रह्मलोकः॒, सम्राड्, इ॒ति हैनमुवाचैषा॒स्य
K इति हैनमनुशशास याज्ञवल्क्य। एषा॒स्य
परमा॒ गतिः एषा॒स्य परमा॒ सम्प॒देषो॒ऽस्य परमो॒ लोक॒, एषो॒ऽस्य परम॒
आनन्द॒, एत॒स्यैवा॒नन्द॒स्यान्या॒नि भूता॒नि मा॒त्रामु॒पजीवन्ति ।
pM32
pro m32-42, schribitkrishna 33-36; vide infra
स॒ यो॒ मनूष्या॒णाꣳ राद्धः॒ स॒मृद्धो भ॒वत्यन्ये॒षाम॒धिपतिः
स॒र्वैर्मा॒नुष्यकैः का॒मैः स॒म्पन्नतमः, स॒ मनुष्या॒णां परम॒ आनन्दः॒ ।
pM33
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ मनुष्या॒णामानन्दाः॒, स॒ ए॒कः पित्ऱ्णां॒ जित॒लोकानामानन्दः॒ ।
pM34
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ पित्ऱ्णां॒ जित॒लोकानामानन्दाः॒, स॒ ए॒कः क॒र्मदेवानामानन्दो॒, ये॒
क॒र्मणा देवत्व॒मभिसम्प॒द्यन्ते ।
pM35
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ क॒र्मदेवानामानन्दाः॒, स॒ ए॒क आजा॒नदेवानामानन्दो॒, य॒श्च
[+]+[/+]श्रो॒त्रियोऽवृजिनो॒ऽकामहतः ।
pM36
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शत॒माजा॒नदेवानामानन्दाः॒, स॒ ए॒को देवलोक॒ आनन्दो॒, य॒श्च
[+]+[/+]श्रो॒त्रियोऽवृजिनो॒ऽकामहतः ।
pM37
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ देवलोक॒ आनन्दाः॒, स॒ ए॒को गन्धर्वलोक॒ आनन्दो॒, य॒श्च
[+]+[/+]श्रो॒त्रियोऽवृजिनो॒ऽकामहतः ।
pM38
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ गन्धर्वलोक॒ आनन्दाः॒, स॒ ए॒कः प्रजापतिलोक॒ आनन्दो॒, य॒श्च
[+]+[/+]श्रो॒त्रियोऽवृजिनो॒ऽकामहतः ।
pM39
pro m32-42, schribitkrishna 33-36; vide infra
अ॒थ ये॒ शतं॒ प्रजापतिलोक॒ आनन्दाः॒, स॒ ए॒को ब्रह्मलोक॒ आनन्दो॒, य॒श्च
[+]+[/+]श्रो॒त्रियोऽवृजिनो॒ऽकामहत । एष॒ ब्रह्मलोकः॒, सम्राड् । इ॒ति हैनं
अ॒नुशशासैत॒दमृतꣳ । सो॒ऽहं॒ भ॒गवते सह॒स्रं ददामि । अ॒त ऊर्ध्वं॒
विमोक्षा॒यैव॒ ब्रूही॒ति ।
pM40
pro m32-42, schribitkrishna 33-36; vide infra
स॒ वा॒ एष॒ एत॒स्मिन्त्सम्प्रसा॒दे रत्वा॒ चरित्वा॒ दृष्ट्वै॒व॒ पु॒ण्यं च
पापं॒ च पु॒नः प्रतिन्यायं॒ प्रतियो॒न्या॒द्रवति बुद्धान्ता॒यैव॒; स॒ य॒द॒त्र
कि॒ङ्चित्प॒श्यत्य॒नन्वागतस्ते॒न भवति अ॒सङ्गो ह्य॒यं॒ पु॒रुष इ॒ति ।
एव॒मेवै॒त॒द् याज्ञवल्क्य । सो॒ऽहं॒ भ॒गवते सह॒स्रं ददामि । अ॒त ऊर्ध्वं॒
विमोक्षा॒यैव॒ ब्रूही॒ति ।
pM41
pro m32-42, schribitkrishna 33-36; vide infra
अ॒त्र ह या॒ज्ञवल्क्यो बिभायां॒ चकार । मेधा॒वी रा॒जा स॒र्वेभ्यो मा॒न्तेभ्य
उ॒दरौत्सीदि॒ति । स॒ य॒त्र अणिमा॒नं न्ये॒ति जर॒या वोपत॒पता वाणिमानं॒ निग॒च्छति
य॒थाम्रं॒ वोदु॒म्बरं वा पि॒प्पलं वा ब॒न्धनात्प्रमुच्ये॒तैव॒ एवा॒यं॒ शारिर॒
आत्मै॒भ्यो॒ऽङ्गेभ्यः सप्रमु॒च्य पु॒नः प्रतिन्यायं॒ प्रतियो॒न्या॒द्रवति प्राणा॒यैव॒
।
pM42
pro m32-42, schribitkrishna 33-36; vide infra
त॒द्य॒था॒नः सु॒समाहितमुत्स॒र्जद्याया॒देव॒मेवा॒यं॒ शारीर॒ आत्मा॒
प्राज्ञे॒नात्म॒नान्वा॒रूढ उत्स॒र्जद्याति ।
pK33
K schribit33-36 pro m32-42; vide supra
स यो मनूष्याणाꣳ राद्धः समृद्धो भवत्यन्येषामधिपतिः
सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः, स मनुष्याणां परम आनन्दो ।
अथ ये शतं मनुष्याणामानन्दाः, स एकः पितृणां जितलोकानामानन्दो ।
अथ ये शतं पितृणां जितलोकानामानन्दाः, स एको गन्धर्वलोक आनन्दो ।
अथ ये शतं गन्धर्वलोक आनन्दाः, स एकः कर्मदेवानामानन्दो ये
कर्मणा देवत्वमभिसम्पद्यन्ते । अथ ये शतं कर्मदेवानामानन्दाः,
स एक आजानदेवानामानन्दो, यश्च श्रोत्रियोऽवृजिनोऽकामहतो ।
अथ ये शतमाजानदेवानामानन्दाः, स एकः प्रजापतिलोक आनन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतो । अथ ये शतं प्रजापतिलोक आनन्दाः, स एको
ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो । अथैष एव परम
आनन्द एष ब्रह्मलोकः, सम्राड्, इति होवाच याज्ञवल्क्यः । सोऽहं भगवते
सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति । अत्र ह याज्ञवल्क्यो बिभयां
चकारः मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ।
pK34
K schribit33-36 pro m32-42; vide supra
स वा एष एतस्मिन्त्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं
प्रतियोन्याद्रवति बुद्धान्तायैव ।
pK35
K schribit33-36 pro m32-42; vide supra
तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं
याति यत्रैतदूर्ध्वोच्छ्वासी भवति ।
pK36
K schribit33-36 pro m32-42; vide supra
स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति, तद्यथाम्रं वोदुम्बरं
वा पिप्पलं वा बन्धनात्प्रमुच्यत, एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः
प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ।
pM43/k37
त॒द्य॒था रा॒जानमाय॒न्तमु॒ग्राः प्र॒त्येनसः सूतग्रामण्यो॒ऽन्नैः पा॒नैरवसथैः॒
प्रतिक॒ल्पन्तेरय॒मा॒यात्यय॒मा॒गच्छती॒ति एव॒ꣳ हैवंवि॒दꣳ स॒र्वाणि
भूता॒नि प्र॒तिकल्पन्तः इदं॒ ब्र॒ह्मा॒यातीद॒मा॒गच्छती॒ति ।
pM44/k38
त॒द्य॒था रा॒जानं प्रयियास॒न्तमु॒ग्राः प्र॒त्येनसः सूतग्रामण्य॒ उपसमाय॒न्त्य्
K ऽभिसमायन्त्य्
एव॒म्हैवंवि॒दं
K एवमेवेममात्मानमन्तकाले
स॒र्वे प्राणा॒ उ॒पसमायन्ति
K अभिसमायन्ति
य॒त्रैत॒दूर्ध्वोच्छ्वासी॒ भ॒वति ।
ch4 = SBM 14.7.2 = SBK16.6.4
pMK1
स॒ य॒त्राय॒म्शारिरं॒
K ॐ
आत्मा॒बल्यं नी॒त्य
K न्येत्य
सम्मोह॒मिव न्ये॒ति
अ॒थैनमेते॒ प्राणा॒ अभिसमा॒यन्ति;
स॒ एता॒स्तेजोमात्राः॒ समभ्याद॒दानो हृदयमेवा॒न्व॒वक्रामति ।
pM2/k1
स॒ य॒त्रैष॒ चा॒क्षुषः पु॒रुषः प॒राङ् पर्याव॒र्तते॒, अथा॒रूपज्ञो भवति ।
pM2/k2
एकी॒भवति न॒ पश्यती॒त्याहुः एकी॒भवति न॒ जिघ्रती॒त्याहुः एकी॒भवति न॒
रसयती॒त्याहुः एकी॒भवति न॒ वदती॒त्याहुः एकी॒भवति न॒ शृणोती॒त्याहुः
एकी॒भवति न॒ मनुत इ॒त्याहुः एकी॒भवति न॒ स्पृशती॒त्याहुः एकी॒भवति न॒
वि॒जानाती॒त्याहुः ।
pM3/k2
त॒स्य हैत॒स्य हृदयस्या॒ग्रं प्र॒द्योतते; ते॒न प्रद्योते॒नैष॒ आत्मा॒
नि॒ष्क्रामति, चक्षुष्टो॒ वा मूर्ध्नो॒ वान्ये॒भ्यो वा शरीरदे॒शेभ्यः । त॒मुत्क्रा॒मन्तं
प्राणो॒ऽनू॒त्क्रामति, प्राण॒मनूत्क्रा॒मन्तꣳ स॒र्वे प्राणा॒ अनू॒त्क्रामन्ति । सञ्जा॒नं
एवा॒न्व॒वक्रामति,
स॒ एष॒ ज्ञः॒ स॒विज्ञानो भवति
तं॒ विद्याकर्म॒णी समन्वा॒रभेते पूर्वप्रज्ञा॒ च ।
pM4/k3
त॒द्य॒था तृणजलायुका॒ तृणस्या॒न्तं गत्वा॒त्म॒नं
K गत्वान्यमाक्रममाक्रम्यात्मानम्
उपसꣳह॒रति एव॒मेवा॒य॒म्पु॒रुष इदं॒
K आत्मेदं
श॒रीरं निह॒त्या॒विद्यां गमयित्वा॒त्म॒नं
K गमयित्वान्यमाक्रममाक्रम्यात्मानम्
उपस॒ꣳहरति ।
pM5/k4
त॒द्य॒था पेशस्कारी॒ पे॒शसो मा॒त्रामपादा॒यान्य॒न्
K उपादायान्यन्
न॒वतरं कल्याण॒तरꣳ रूपं॒ तनुत, एव॒मेवा॒य॒म्पु॒रुष
K आत्मा
इदं श॒रीरं निह॒त्या॒विद्यां गमयित्वा॒न्य॒न्न॒वतरं कल्याण॒तरꣳ रूपं॒ तनुते
K कुरुते
पि॒त्र्यं वा गान्धर्वं॒ वा
ब्राह्मं॒ वा प्राजापत्यं॒ वा दै॒वं वान्ये॒भ्यो वा भूते॒भ्यः
K गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानां
pM6/k5
स॒ वा॒ अय॒मात्मा॒ ब्र॒ह्म विज्ञानम॒यो मनोम॒यो वाङ्म॒यः
K ॐ
प्राणम॒यश्चक्षुर्म॒यः श्रोत्रम॒य आकाशम॒यो वायुम॒यस्तेजोम॒य आपोम॒यः
पृथिवीम॒यः क्रोधम॒योऽक्रोधम॒यो हर्षम॒योऽहर्षम॒यः
K ष्रोत्रमयः प्ऱ्^इथिवीमय आपोमयो वायुमय
आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो
धर्मम॒योऽधर्मम॒यः सर्वम॒यः ।
त॒द्यदे॒दम्म॒यो
K तद्यदेतदिदम्मयो
अदोम॒य इ॒ति यथाकारी॒ यथाचारी॒ त॒था भवति । साधुकारी॒ साधु॒र्भवति, पापकारी॒
पापो॒ भवति, पु॒ण्यः पु॒ण्येन क॒र्मणा भवति पापः॒ पापे॒न ।
pM7/k5
अ॒थो ख॒ल्वाहुः कामम॒य एवा॒यं॒ पु॒रुष इ॒ति; स॒ य॒थाकामो भवति, त॒थाक्रतुर्
K तत्क्रतुर्
भवति; य॒थाक्रतुर्
K यत्क्रतुर्
भवति, त॒त्क॒र्म कुरुते॒; य॒त्क॒र्म कुरुते॒ त॒दभिस॒म्पद्यते ।
pM8/k6
त॒देष॒ श्लो॒को भवतिः त॒देव॒ स॒त्त॒त्
K सक्तः
सह॒ क॒र्मणैति लिङ्गं॒ म॒नो य॒त्र नि॒षक्तमस्य प्रा॒प्या॒न्तं क॒र्मणस्त॒स्य
य॒त्कि॒ङ्चेह॒ करो॒त्ययं॒ त॒स्माल् लोका॒त्पु॒नरै॒ति अस्मै॒ लोका॒य क॒र्मण,
इ॒ति नु॒ काम॒यमानो॒; अथाकाम॒यमानो यो॒ऽकामो॒ नि॒ष्काम आत्म॒काम आप्त॒कामो भ॒वति
K आप्तकाम आत्मकामो
न॒ त॒स्माद्
K तस्य
प्राणा॒ उ॒त्क्रामन्ति अ॒त्रैव॒ सम॒वनीयन्ते
K ॐ अत्र ...
ब्र॒ह्मैव स॒न्ब्र॒ह्मा॒प्येति ।
pM9/k7
त॒देष॒ श्लो॒को भवतिः यदा॒ स॒र्वे प्रमुच्य॒न्ते का॒मा ये॒ऽस्य हृदि॒ श्रिता॒
अ॒थ म॒र्त्योऽमृतो भवत्य॒त्र ब्र॒ह्म स॒मश्नुत इ॒ति ।
pM10/k7
त॒द्य॒थाहिनिर्व्लयनी॒ वल्मी॒के मृता॒ प्र॒त्यस्ता श॒यीतैव॒मेवे॒दं॒ श॒रीरं
शेते॒ । अथाय॒मन॒स्थिकोऽशरी॒रः प्राज्ञ॒ आत्मा॒
K अयमशरीरोऽम्ऱ्^इतः प्राणो
ब्र॒ह्मैव॒ लोक॒
K तेज
एव॒,
सम्राड्,
इ॒ति होवाच या॒ज्ञवल्क्यः
K ॐ इति ...
सो॒ऽहं॒ भ॒गवते सह॒स्रानि ददामी॒ति होवाच जनको॒ वै॒देहः ।
pM11/k8
त॒द॒प्येते॒ श्लो॒का
K तदेते श्लोका भवन्त्य्
अ॒णुः प॒न्था वि॒तरः
K विततः
पुराणो॒; मा॒ꣳ स्पृष्टो॒ऽनुवित्तो म॒यैव॒ ते॒न धी॒रा अ॒पियन्ति ब्रह्मवि॒द
उत्क्र॒म्य स्वर्गं॒ लोक॒मितो॒ वि॒मुक्ताः
K स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः
pM12/k9
त॒स्मिञ्चुक्ल॒मुत॒ नी॒लमाहुः पि॒ङ्गलꣳ ह॒रितं लो॒हितं
चै- -ष॒ प॒न्था ब्र॒ह्मणा हा॒नुवित्तस्ते॒नैति ब्रह्मवि॒त्तैजसः॒ पुण्यकृच्च
K पुण्यक्ऱ्^इत्तैजसश्च
pM13/k10
अन्धं॒ त॒मः प्र॒विशन्ति ये॒ऽसम्भूति॒म्
K ऽविद्याम्
उपा॒सते; त॒तो भू॒य इव ते॒ त॒मो य॒ उ सम्भूत्या॒ꣳ
K विद्यायाꣳ
रताः॒ ।
pM14/k11
असुर्या॒
K अनन्दा
ना॒म ते॒ लोका॒ अन्धे॒न त॒मसा॒वृतास्ता॒ꣳस्ते॒ प्रे॒त्या॒पिगच्छत्य्
abhigachChanty
अ॒विद्वाꣳसोऽबुधा॒ ज॒नाः ।
pM15/k14
त॒देव॒ स॒न्तस्त॒दु भवामो
K इहैव सन्तोऽथ विद्मस्तद्वयं
न॒ चे॒दवेदी
K अवेदिर्
म॒हती वि॒नष्टिर्ये॒ त॒द्विदु॒रमृतास्ते॒ भवन्त्य॒थे॒तरे दुःख॒मेवो॒पयन्ति
K अपियन्ति
pM16/k12
आत्मा॒नं चे॒द्विजानीया॒दय॒मस्मी॒ति पु॒रुषः
कि॒मिच्छ॒न्क॒स्य का॒माय श॒रीरम॒नु स॒ञ्चरेत्
K सञ्ज्वरेत्
pM17/k13
य॒स्या॒नुवित्तः प्र॒तिबुद्ध आत्मा॒- -स्मि॒न्त्सन्देह्ये॒ ग॒हने
प्र॒विष्टः स॒ विश्वकृत् स॒ हि॒ स॒र्वस्य कर्ता॒ त॒स्य लोकः॒, स॒ उ लोक॒ एव॒ ।
pM18/k15
यदै॒त॒मनुप॒श्यति अत्मा॒नं देव॒म॒ङ्जसे॒- -शानं भूतभव्य॒स्य न॒ त॒दा
वि॒चिकित्सति
K ततो वि॒जुगुप्सते
pM19/k17
य॒स्मिन्प॒ङ्च पङ्चजना॒ आकाश॒श्च प्र॒तिष्ठितस्त॒मेव॒
मन्य आत्मा॒नं विद्वा॒न्ब्र॒ह्मामृतोऽमृतम् ।
pM20/k16
य॒स्माद॒र्वाक्संवत्सरो॒ अहोभिः परिव॒र्तते त॒द्देवा॒ ज्यो॒तिषां ज्यो॒तिरा॒युर्ह्य्
उ॒पा॒सते
K होपासते
अमृतम् ।
pM21/k18
प्राण॒स्य प्राण॒मुत॒ च॒क्षुषश्च॒क्षुरुत॒ श्रो॒त्रस्य श्रो॒त्रम॒न्नस्या॒न्नं
म॒नसो ये॒ म॒नो विदुः॒ ते॒ नि॒चिक्युर्ब्र॒ह्म पुराण॒म॒ग्र्यं
K 19
म॒नसैवा॒प्त॒व्यं
K अनुद्रष्टव्यं
ने॒ह॒ ना॒नास्ति किं॒ चन॒ ।
pM22/k19
मृत्योः॒ स॒ मृत्यु॒माप्नोति य॒ इह॒ ना॒नेव प॒श्यति
K 20
म॒नसैवा॒नुद्रष्ट॒व्यं
K एकधैवानुद्रष्टव्यम्
एत॒दप्र॒मयं ध्रुव॒म् ।
pM23/k20
वि॒रजः प॒र आकाशा॒दज॒ आत्मा॒ महा॒न्ध्रुव॒स्
K 21
त॒मेव॒ धी॒रो विज्ञा॒य प्रज्ञां॒ कुर्वीत ब्राह्मणो॒ ना॒नुध्यायाद्बहू॒ञ्च॒ब्दान्
वाचो॒ विग्ला॒पनꣳ हि॒ त॒दि॒ति ।
pM24/k22
स॒ वा॒ अय॒मात्मा॒
K स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु;
य एषोऽन्तर्हृदय आकाशः
तस्मिञ्चेते
स॒र्वस्य व॒शी स॒र्वस्ये॒शानः स॒र्वस्या॒धिपतिः
स॒र्वमिदं॒ प्र॒शास्ति य॒दिदं॒ कि॒ङ्च
K ॐ सर्वम्...
स॒ न॒ साधु॒ना क॒र्मणा भू॒यान्नो॒ एवा॒साधु॒ना क॒नीयान्
Kadd एष सर्वेश्वर
एष॒ भूताधिपति॒र्
Kadd एष भूतपाल
एष॒ लोकेश्वर॒ एश॒ लोकपाल॒
K ॐ अम्बो
स॒ से॒तुर्वि॒धरण एषां॒ लोका॒नाम॒सम्भेदाय ।
pM25/k22
त॒मेतं॒ वेदानुवचने॒न
Kadd ब्राह्मणा
विविदिष॒न्ति, ब्रह्मचर्ये॒न त॒पसा श्रद्ध॒या यज्ञे॒ना॒नाशकेन चैत॒म्
K ब्रह्मचर्येन यज्ञेन दानेन तपसानाशकेनैतम्
एव॒ विदित्वा॒ मुनि॒र्भवति एत॒मेव॒ प्रव्रा॒जिनो लोक॒मीप्स॒न्तः
K इच्छन्तः
प्र॒व्रजन्ति ।
pM26/k22
एत॒द्ध स्म वै॒ त॒त्पू॒र्वे ब्रह्मणा॒ अनुचाना॒
K ॐ अम्बो
विद्वा॒ꣳसः प्रजां॒ न॒ कामयन्तेः किं॒ प्रज॒या करिष्यामो ये॒षां
नोऽय॒मात्मा॒य॒म्लोक॒ इ॒ति । ते॒ ह स्म पुत्रैषणा॒याश्च वित्तैषणा॒याश्च
लोकैषणा॒याश्च व्युत्था॒या॒थ भिक्षाच॒र्यं
चरन्ति;
या॒ ह्ये॒व॒ पुत्रैषणा॒ सा॒ वित्तैषणा॒, या॒ वित्तैषणा॒ सा॒ लोकैषणो॒भे॒
ह्ये॒ते॒ ए॒षणे एव॒ भ॒वतः ।
pM27/k22
स॒ एष॒ ने॒ति ने॒त्यात्मा॒गृह्यो न॒ हि॒ गृह्य॒ते॒, अशीर्यो न॒ हि॒ शीर्य॒ते॒,
असङ्गो॒ऽसितो न॒ सज्य॒ते न॒ व्य॒थते॒
K ऽसण्^गो न हि सज्यते,
.asito na vyathate na riShyaty
अतः [+]+[/+]पाप॒मकरवमि॒त्य॒तः कल्या॒णमकरवमि॒त्युभे॒-उभे
ह्ये॒ष॒
K उभे उ हैवैष
एते॒ त॒रति अमृतः साध्वसाधु॒नी
K ॐ अम्ऱ्^इतः ...
नै॒नं कृता॒कृते तपतः ।
pM28/k23
त॒देत॒दृचा॒भ्यु॒क्तम् एष॒ नि॒त्यो महिमा॒ ब्राह्मण॒स्य न॒ क॒र्मणा वर्धते नो॒
क॒नीयान् । त॒स्यैव॒ स्यात्पदवित्तं॒ विदित्वा॒ न॒ क॒र्मणा लिप्यते
K लिप्यते कर्मणा
पाप॒केने॒ति । त॒स्मादेवंवि॒च्छान्तो॒ दान्त॒ उ॒परतस्तितिक्षुः॒ श्रद्धा॒वित्तो
K समाहितो
भूत्वा॒त्म॒न्येवा॒त्मा॒नं पश्येत्!
K पश्यति
स॒र्वमात्मा॒नं पश्यति,
स॒र्वो।आस्यात्मा॒ भवति स॒र्वस्यात्मा॒ भवति
K ॐ सर्वो ...,
Kadd नैनं पाप्मा तरति
स॒र्वं पाप्मा॒नं तरति, नै॒नं पाप्मा॒ तपति, स॒र्वं
पाप्मा॒नं तपति, विपापो॒ विरजो॒ विजिघत्सो॒ऽपिपसो॒
K OM ambo, add ऽविचिकित्सो
ब्राह्मणो॒ भवति, य॒ एवं॒ वे॒द
K ॐ य ...,
Kadd एष ब्रह्मलोकः
सम्राड्,
एनं प्राप्तोऽसीति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते विदेहान्ददामि माञ्चापि सह दास्यायेति
pMK24
स॒ वा॒ एष॒ महा॒नज॒ आत्मा॒न्नादो॒ वसुदा॒नः । स॒ यो॒ हैव॒मेतं॒
महा॒न्तमज॒मात्मा॒नमन्नादं॒ वसुदा॒नं वे॒द, विन्दते व॒सु
K वसुदानो।
विन्दते वसु,
य एवं वेद
pM30/k25
स॒ वा॒ एष॒ महा॒नज॒ आत्मा॒ज॒रोऽम॒रोऽभ॒योऽमृतो
K ऽम्ऱ्^इतोऽभयो
ब्र॒ह्मा॒भयं वै॒, जनक, प्रा॒प्तोऽसी॒ति होवाच या॒ज्ञवल्क्यः
Kadd
सो॒ऽहं॒ भ॒गवते विदेहा॒न्ददामि माञ्चा॒पि सह॒ दा॒स्याये॒ति
K ॐ सो ...
ch5 = SBM 14.7.3 = SBK16.6.4.
pMK1
अ॒थ ह या॒ज्ञवल्क्यस्य द्वे॒ भार्ये॒ बभूवतुर्मै॒त्रेयी च कात्यायनी॒ च;
त॒योर्ह मै॒त्रेयी ब्रह्मवादि॒नी बभूव, स्त्रीप्रज्ञै॒व॒ त॒र्हि कात्यायनी॒ ।
सो॒ऽन्य॒द्वृत्त॒मुपाकरिष्य॒माण
K अथ ह याज्ञवल्क्योऽन्यद्व्ऱ्^इत्तमुपाकरिष्यन्
pMK2
या॒ज्ञवल्क्योः मै॒त्रेयी॒ति होवाच
K मैत्रेयीति होवाच याज्ञवल्क्यः
प्रव्रजिष्य॒न्वा॒ अरेऽह॒मस्मात्स्था॒नादस्मि । ह॒न्त तेऽन॒या कत्यायन्या॒न्तं
कर॒वाणी॒ति ।
pMK3
सा॒ होवाच मै॒त्रेयीः य॒न्नु॒ म इयं॒, भगोः, स॒र्वा पृथिवी॒ वित्ते॒न
पूर्णा॒ स्या॒त् स्यां॒ न्व॒हं॒ ते॒नामृता॒हो३ ने॒ति । ने॒ति होवाच या॒ज्ञवल्क्यो,
य॒थैवो॒पकरण॒वतां जीवितं॒, त॒थैव॒ ते जीवित॒ꣳ स्यादमृतत्व॒स्य तु॒
ना॒शा॒स्ति वित्ते॒ने॒ति ।
pMK4
सा॒ होवाच मै॒त्रेयीः ये॒नाहं॒ ना॒मृता स्यां॒, कि॒महं॒ ते॒न कुर्याम् । य॒देव॒
भ॒गवान्वे॒द, त॒देव॒ मे ब्रूही॒ति ।
pMK5
स॒ होवाच या॒ज्ञवल्क्यः प्रिया॒
Kadd वै
ख॒लु नो भ॒वती सती॒, प्रिय॒म॒वृतद्
K अव्ऱ्^इधद्
ध॒न्त ख॒लु
K तर्हि
भवति, तेऽहं॒ त॒द्वक्ष्यामि, व्या॒ख्यामि ते; वा॒चं तु॒ मे नि॒दिध्यासस्वे॒ति
Kadd
एतद्व्याख्यास्यामि ते;
व्याचक्षाणस्य तु॒ मे निदिध्यासस्वेति
ब्र॒वितु भ॒गवानि॒ति
K ॐ
pMK6
स॒ होवाच या॒ज्ञवल्क्यो
K ॐ
न॒ वा॒ अरे प॒त्युः का॒माय प॒तिः प्रियो॒ भवति आत्म॒नस्तु॒ का॒माय प॒तिः प्रियो॒
भवति; न॒ वा॒ अरे जाया॒यै का॒माय जाया॒ प्रिया॒ भवति आत्म॒नस्तु॒ का॒माय जाया॒
प्रिया॒ भवति; न॒ वा॒ अरे पुत्रा॒णां का॒माय पुत्राः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒
का॒माय पुत्राः॒ प्रिया॒ भवन्ति; न॒ वा॒ अरे वित्त॒स्य का॒माय वित्तं॒ प्रियं॒ भवति
आत्म॒नस्तु॒ का॒माय वित्तं॒ प्रियं॒ भवति; न॒ वा॒ अरे ब्र॒ह्मणः का॒माय ब्र॒ह्म
प्रियं॒ भवति आत्म॒नस्तु॒ का॒माय ब्र॒ह्म प्रियं॒ भवति; न॒ वा॒ अरे क्षत्र॒स्य
का॒माय क्षत्रं॒ प्रियं॒ भवति आत्म॒नस्तु॒ का॒माय क्षत्रं॒ प्रियं॒ भवति; न॒ वा॒
अरे लोका॒नां का॒माय लोकाः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒ का॒माय लोकाः॒ प्रिया॒ भवन्ति;
न॒ वा॒ अरे देवा॒नां का॒माय देवाः॒ प्रिया॒ भवन्ति आत्म॒नस्तु॒ का॒माय देवाः॒ प्रिया॒
भवन्ति; न॒ वा॒ अरे भूता॒नां का॒माय भूता॒नि प्रिया॒णि भवन्ति आत्म॒नस्तु॒ का॒माय
भूता॒नि प्रिया॒णि भवन्ति; न॒ वा॒ अरे स॒र्वस्य का॒माय स॒र्वं प्रियं॒ भवति
आत्म॒नस्तु॒ का॒माय स॒र्वं प्रियं॒ भवति आत्मा॒ वा॒ अरे द्रष्ट॒व्यः श्रोत॒व्यो
मन्त॒व्यो निदिध्यासित॒व्यो, मै॒त्रेयि आत्म॒नो वा॒ अरे द॒र्शनेन श्र॒वणेन मत्या॒
विज्ञा॒नेनेद॒ꣳ स॒र्वं विदित॒म् ।
pMK7
ब्र॒ह्म तं॒ प॒रादाद् यो॒ऽन्य॒त्रात्म॒नो वे॒दान्वे॒द; वे॒दास्तं॒ प॒रादुः
यो॒ऽन्य॒त्रात्म॒नो वे॒दान्वे॒द; यज्ञा॒स्तं॒ प॒रादुः
यो॒ऽन्य॒त्रात्म॒नो यज्ञा॒न्वे॒द
Kadd
योऽन्यत्रात्मनो ब्रह्म वेद; क्षत्रं तं परादाद् योऽन्यत्रात्मनः क्षत्रं वेद; लोकास्तं
परादुः योऽन्यत्रात्मनो लोकान्वेद; देवास्तं परादुः योऽन्यत्रात्मनो देवान्वेद; वेदास्तं परादुः
योऽन्यत्रात्मनो वेदान्वेद
भूता॒नि तं॒ प॒रादुः यो॒ऽन्य॒त्रात्म॒नो भूता॒नि वे॒द; स॒र्वं तं॒ प॒रादाद्
यो॒ऽन्य॒त्रात्म॒नः स॒र्वं वे॒द; इदं॒ ब्र॒ह्मेदं॒ क्षत्र॒मिमे॒ लोका॒ इमे॒ देवा॒
इमे॒ वे॒दा इमा॒नि भूता॒नीद॒ꣳ स॒र्वं य॒दय॒मात्मा॒ ।
pMK8
स॒ य॒था दुन्दुभे॒र्हन्य॒मानस्य न॒ बा॒ह्याञ्च॒ब्दाञ्चक्नुया॒द्ग्र॒हणाय, दुन्दुभे॒स्
तु॒ ग्र॒हणेन दुन्दुभ्याघात॒स्य वा श॒ब्दो गृहीतः॒ ।
pM9/k10
स॒ य॒था वी॒णायै वाद्य॒मानायै न॒ बा॒ह्याञ्च॒ब्दाञ्चक्नुया॒द्ग्र॒हणाय, वी॒णायै
तु॒ ग्र॒हणेन वीणावाद॒स्य वा श॒ब्दो ग्र्हीतः॒ ।
pM10/k9
स॒ य॒था शङ्ख॒स्य ध्माय॒मानस्य न॒ बा॒ह्याञ्च॒ब्दाञ्चक्नुया॒द्ग्र॒हणाय,
शङ्ख॒स्य तु॒ ग्र॒हणेन शङ्खध्म॒स्य वा श॒ब्दो गृहीतः॒ ।
pMK11
स॒ य॒थार्द्रैधाग्ने॒रभ्या॒हितस्य पृथग्धूमा॒ विनिश्च॒रन्ति एवं॒ वा॒ अरेऽस्य
महतो॒ भूत॒स्य नि॒श्वसितम्
K निःश्वसितम्
एत॒द्य॒दृग्वेदो॒ यजुर्वेदः॒ सामवेदो॒ऽथर्वाङ्गिर॒स इतिहासः॒ पुराणं॒ विद्या॒
उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒ननि दत्त॒म्
K इष्टं
हुत॒माशितं॒ पायित॒मयं॒ च लोकः॒
प॒रश्च लोकः॒ स॒र्वाणि च भूता॒न्यस्यै॒वै॒ता॒नि स॒र्वाणि
नि॒श्वसितानि
K निःश्वसितानि
pMK12
स॒ य॒था स॒र्वासामपा॒ꣳ समुद्र॒ एकायन॒म्
एव॒ꣳ स॒र्वेषाꣳ स्पर्शा॒नां त्व॒गेकायन॒म्
एव॒ꣳ स॒र्वेषां गन्धा॒नां ना॒सिके एकायन॒म्
एव॒ꣳ स॒र्वेषाꣳ र॒सानां जिह्वै॒कायन॒म्
एव॒ꣳ स॒र्वेषाꣳ रूपा॒णां च॒क्षुरेकायन॒म्
एव॒ꣳ स॒र्वेषं श॒ब्दानां श्रो॒त्रमेकायन॒म्
एव॒ꣳ स॒र्वेषाꣳ सङ्कल्पा॒नां म॒न एकायन॒म्
K मन एकायनम्
एव॒ꣳ स॒र्वेषां वे॒दानां हृदयमेकायन॒म्
एव॒ꣳ स॒र्वेषां क॒र्मणाꣳ ह॒स्तावेकायन॒म्
एव॒ꣳ स॒र्वेषाम॒ध्वनां पा॒दावेकायन॒म्
एव॒ꣳ स॒र्वेषामानन्दा॒नामुप॒स्थ एकायन॒म्
एव॒ꣳ स॒र्वेषां विसर्गा॒णां पा॒युरेकायन॒म्
एव॒ꣳ स॒र्वासां विद्या॒नाꣳ वा॒गेकायन॒म्
pMK13
स॒ य॒था सैन्धवघनो॒ऽनन्त॒रो॒ऽबाह्यः॒ कृत्स्नो॒ रसघन॒ एव॒ स्या॒द्
K ॐ
एवं॒ वा॒ अरे इदं॒ मह॒द्भूत॒मनन्त॒मपरं॒
K अरेऽयमात्मानन्तरोऽबाह्यः
कृत्स्नः॒ प्रज्ञानघन॒ एवै॒ते॒भ्यो भूते॒भ्यः समुत्था॒य ता॒निऽ एवा॒नुवि॒नयति;
न॒ प्रे॒त्य सञ्ज्ञा॒स्ती॒त्यरे ब्रविमी॒ति होवाच या॒ज्ञवल्क्यः ।
pMK14
सा॒ होवाच मै॒त्रेयि अ॒त्रैव॒ मा भ॒गवान्मोहान्त॒मा॒पीपदन् न॒ वा॒ अह॒मिमं॒
वि॒जानामी॒तिः न॒ प्रे॒त्य सञ्ज्ञा॒स्ती॒ति
K ॐ न ...
pM15/k14
स॒ होवाच या॒ज्ञवल्क्यो
K ॐ
न॒ वा॒ अरेऽहं॒ मो॒हं ब्रवीमि अविनाशी॒ वा॒ अरेऽय॒मात्मा॒नुच्छित्तिधर्मा,
मात्रासꣳसर्ग॒स्त्व॒स्य भवति
K ॐ मात्राक्ष् ...
pMK16
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ प॒श्यति, प॒श्यन्वै॒ त॒द्द्रष्ट॒व्यं न॒ पश्यति; न॒ हि॒
द्रष्टु॒र्दृष्टे॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒त्प॒श्येत् ।
pMK17
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ जि॒घ्रति, जि॒घ्रन्वै॒ त॒द्घ्रत॒व्यं न॒ जिघ्रति; न॒ हि॒
घ्रातु॒र्घ्राते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒ज् जि॒घ्रेत्
pMK18
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ रस॒यति, विजान॒न्वै॒ त॒द्र॒सं न॒ रसयति; न॒ हि॒
रसयितू॒ र॒साद्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒द्रस॒येत् ।
pMK19
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ व॒दति, व॒दन्वै॒ त॒द्वक्त॒व्यं न॒ वदति; न॒ हि॒ वक्तु॒र्व॒चो
विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति, त॒तोऽन्य॒द्वि॒भक्तं
य॒द्व॒देत् ।
pMK20
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ शृणो॒ति, शृण्व॒न्वै॒ त॒च्छ्रोत॒व्यं न॒ शृणोति; न॒
हि॒ श्रोतुः॒ श्रुते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒च्छृणुया॒त् ।
pMK21
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ मनुते॒, मन्वानो॒ वै॒ त॒न्मन्त॒व्यं न॒ मनुते; न॒ हि॒
मन्तु॒र्मते॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒न्मन्वीत॒ ।
pMK22
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ स्पृश॒ति, स्पृश॒न्वै॒ त॒त्स्प्रष्ट॒व्यं न॒ स्पृशति; न॒
हि॒ स्प्रष्टुः॒ स्पृष्टे॒र्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒त्स्पृशे॒त् ।
pMK23
pro m16-25, K schribit15; vide infra
य॒द्वै॒ त॒न्न॒ विजाना॒ति, विजान॒न्वै॒ त॒द्विज्ञे॒यं न॒ वि॒जानाति; न॒ हि॒
विज्ञातु॒र्विज्ञा॒नाद्विपरिलोपो॒ विद्य॒ते॒ऽविनाशित्वान् न॒ तु॒ त॒द्द्विती॒यमस्ति,
त॒तोऽन्य॒द्वि॒भक्तं य॒द्विजानीया॒त् ।
pM24
pro m16-25, K schribit15; vide infra
य॒त्र वा॒ अन्य॒दिव स्या॒त् त॒त्रऽन्यो॒ऽन्य॒त्पश्येदन्यो॒ऽन्य॒ज्
जिघ्रेदन्यो॒ऽन्य॒द्रसयेदन्यो॒ऽन्य॒द्वदेदन्यो॒ऽन्य॒च्छृणुयाद्
अन्यो॒ऽन्य॒न्मन्वीतान्यो॒ऽन्य॒त्स्पृशेदन्यो॒ऽन्य॒द्वि॒जानीयात् ।
pM25
pro m16-25, K schribit15; vide infra
य॒त्र त्व॒स्य स॒र्वमात्मै॒वा॒भूत् त॒त्के॒न कं॒ पश्येत् त॒त्के॒न कं॒ जिघ्रेत्
त॒त्के॒न क॒ꣳ रसयेत् त॒त्के॒न क॒मभि॒वदेत् त॒त्के॒न कं शृणुयात् त॒त्के॒न
कं॒ मन्वीत, त॒त्के॒न कꣳ स्पृशेत् त॒त्के॒न कं॒ वि॒जानीयाद् । ये॒नेद॒ꣳ
स॒र्वं विजाना॒ति, तं॒ के॒न वि॒जानीयाद् । विज्ञाता॒रमरे के॒न वि॒जानीयादि॒त्य्
उक्ता॒नुशासनासि, मै॒त्रेयि एता॒वदरे ख॒ल्वमृतत्व॒मि॒ति होक्त्वा॒ या॒ज्ञवल्क्यो
प्र॒वव्रज ।
pK15
K schribitpro m24-25; vide supra
यत्र हि द्वैतमिव भवति, तदितर इतरं पश्यति, तदितर इतरं जिघ्रति,
तदितर इतरꣳ रसयति, तदितर इतरमभिवदति, तदितर इतरꣳ
शृणोति, तदितर इतरं मनुते, तदितर इतरꣳ स्पृशति, तदितर इतरं
विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् तत्केन कं जिघ्रेत् तत्केन
कꣳ रसयेत् तत्केन कमभिवदेत् तत्केन कꣳ शृणुयात् तत्केन कं मन्वीत,
तत्केन कꣳ स्पृशेत् तत्केन कं विजानीयाद् । येनेदꣳ सर्वं विजानाति,
तं केन विजानीयात् । स एष नेति नेत्यात्मागृह्यो न हि गृह्यते, अशीर्यो न हि
शीर्यते, असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति । विज्ञातारमरे केन
विजानीयादित्युक्तानुशासनासि, मैत्रेयि एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो
विजहार । [पनुस्तुब्]
pM26
pro m5,26-28, schribitkrishna 6; vide infra
अ॒थ वꣳशः॒ । त॒दिदं॒ वयं॒ हौ॒र्पणाय्याच्, छौ॒र्पणय्यो गौ॒तमाद्
गौ॒तमो व॒त्स्याद् व॒त्स्यो वा॒त्स्याच्च पाराशर्या॒च्च, पाराशर्यः॒ षा॒ङ्कृत्याच्च
भा॒रद्वाजाच्च, भा॒रद्वाज औदावहे॒श्च हा॒ण्डिल्याच्च, हा॒ण्डिल्यो वै॒जवापाच्च
गौतमा॒च्च, गौ॒तमो वै॒जवापायनाच्च वैष्टपुरेया॒च्च, वै॒ष्टपुरेयः
हा॒ण्डिल्याच्च ऱौहिणायना॒च्च, ऱौ॒हिणायनः हौ॒नकाच्च जैवन्तायना॒च्च
ऱैभ्या॒च्च, ऱै॒भ्यः पौ॒तिमाष्यायणाच्च कौण्डिन्यायना॒च्च, कौ॒ण्डिन्यायनः
कौण्डिन्या॒भ्यां, कौ॒ण्डिन्या और्णवाभे॒भ्यः, और्णवाभाः कौण्डिन्या॒त् कौ॒ण्डिन्यः
कौण्डिन्या॒च्चाग्निवेश्या॒च्च,
pM27
pro m5,26-28, schribitkrishna 6; vide infra
अग्निवेश्यः॒ षौ॒तवात् षौ॒तवः पा॒राशर्यात् पा॒राशर्यो जा॒तुकर्ण्यात् जा॒तुकर्ण्यो
भा॒रद्वाजाद् भा॒रद्वाजो भारद्वाजा॒च्चासुरायणा॒च्च गौतमा॒च्च, गौ॒तमो भा॒रद्वाजाद्
भा॒रद्वाजो वलाकाकौशिता॒द् वलाकाकौशितः॒ काषायणा॒त् काषायणः॒ षौ॒करायना॒त्
षौ॒करायन॒स्ट्रै॒वणेः ट्रै॒वणिराउ॒पजन्धनेः आउ॒पजन्धनिर्षायकायना॒त्
षायकायनः॒ कौशिकायनेः॒, कौशिकायनि॒र्घृतकौशिका॒द् घृतकौशिकः॒ पा॒राशर्यात्
पा॒राशर्यः पा॒राशर्यात् पा॒राशर्यः जा॒तुकर्ण्यात् जा॒तुकर्ण्यो भा॒रद्वाजाद् भा॒रद्वाजो
भारद्वाजा॒च्चासुरायणा॒च्यस्का॒च्च, असुरायण॒स्ट्रै॒वणेः ट्रै॒वणिराउ॒पजन्धनेः॒
आउ॒पजन्धनिः॒असुरेरसुरिर्भा॒रद्वाजाद् भा॒रद्वाजो अत्रेया॒त्
pM28
pro m5,26-28 schribitkrishna 6; vide infra
अत्रेयो॒ मा॒ण्टेः, मा॒ण्टिर्गौ॒तमाद् गौ॒तमो गौ॒तमाद् गौ॒तमो वा॒त्स्याद् वा॒त्स्यः
हा॒ण्डिल्याच्, छा॒ण्डिल्यः कै॒शोर्यात्का॒प्यात् कै॒शोर्यः का॒प्यः कुमारहरिता॒त्
कुमारहरितो॒ गालवा॒द् गालवो॒ विदर्भीकौण्डिन्या॒द् विदर्भीकौण्डिन्यो॒ वत्स॒नपातो बा॒भवाद्
वत्स॒नपाद्बा॒भवः पथः॒ षौ॒भरात् प॒न्थाः षौ॒भरोऽया॒स्यादाङ्गिरसा॒द्
आया॒स्योऽङ्गिरस॒ऽभुतेस्ट्वा॒ष्ट्रादा॒भुतिः ट्वा॒ष्ट्रो विश्व॒रूपात्ट्वा॒ष्ट्राद्
विश्व॒रूपस्ट्वा॒ष्ट्रोऽश्वि॒भ्यां, आश्वि॒नौ डधि॒च अथर्वणा॒द् डध्य॒ङ्ङ्
अथर्वणो॒ऽथर्वणो॒ डै॒वादाथर्वा डै॒वोः मृत्योः॒ प्राध्व॒ꣳसनान् मृत्युः॒
प्राध्व॒ꣳसनः प्राध्व॒ꣳसनान् प्राध्व॒ꣳसनः एकर्षेः॒ एकर्षि॒र्विप्र॒जित्तेः
विप्र॒जित्तिर्व्य॒ष्टेः व्य॒ष्टिः षना॒रोः, षना॒रुः षनात॒नात् षनात॒नः ष॒नगात्
ष॒नगः परमेष्टि॒णः, परमेष्टी॒ ब्र॒ह्मणो । ब्र॒ह्म स्वय॒म्भू ब्र॒ह्म न॒मः ।
chk6
schribitpro m5,26-28
pK1
अथ वꣳशः पशुतिमाष्यो गौपवनाद् गौपवनः पशुतिमाष्यात् पशुतिमाष्यो
गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः हाण्डिल्याच्, छाण्डिल्यः
कौशिकाच्च गौतमाच्च, गौतमो
pK2
अग्निवेश्यादग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः षैतवात्
षैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण ऊद्दालकायनादूद्दालकायनो
जाबालायनात् जाबालायनो माध्यन्दिनायनान् माध्यन्दिनायनः षौकरायणात् षौकरायणः
काषायणात् काषायणः षायकायनात् षायकायनः कौशिकायनेः, कौशिकायनिः
pK3
घृतकौशिकाद् घृतकौशिकः प्राशर्यायणात् पारशर्यायणः पाराशर्यात्
पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य असुरायणाच्च यास्काच्च, असुरायणस्ट्रैवणेः
ट्रैवणिरौपजन्धनेः, औपजन्धनिरसुरेः, असुरिर्भारद्वाजाद् भारद्वाज
अत्रेयादत्रेयो माण्टेः, माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद्
वात्स्यः हाण्डिल्याच्, छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात्
कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
वत्सनपाद्बाभ्रवः पथः षौभरात् पन्थाः षौभरोऽयास्यादङ्गिरसादायास्य अङ्गिरस
अभूतेस्ट्वाष्ट्रादभूतिस्ट्वाष्ट्रो विवरूपात्ट्वाष्ट्राद् विश्वरूपस्ट्वाष्ट्रोऽव्शि॒भ्याम्
आश्वि॒नौ डधीच अथर्वणाद् डध्यङ्ङ् अथर्वणोऽथर्वणो डैवादाथर्वा
डैवो मृत्योः प्राध्वꣳसनान् मृत्युः॒ प्राध्वꣳसनः प्रध्वꣳसनात्
प्रध्वꣳसन एकर्षेः, एकर्षिर्विप्रचित्तेः, विप्रचित्तिर्व्यष्टेः, व्यष्टिः
षनारोः, षनारुः षनातनात् षनातनः षनगात् षनगः परमेष्ठिनः, परमेष्ठी
ब्रह्मणो, ब्रह्म स्वयम्भु, ब्रह्मणे नमः । [pnormal]
ch5 = SBM 14.8 = SBK16.7
ch1
पूर्ण॒मदः॒, पूर्ण॒मिदं॒, पूर्णा॒त्पूर्ण॒मु॒दच्यते । पूर्ण॒स्य पूर्ण॒मादा॒य,
पूर्ण॒मेवा॒वशिष्यते । खं॒ ब्र॒ह्म, खं॒ पुराणं॒, वायु॒रं ख॒म् इ॒ति ह स्माह
कौ॒रव्यायणीपु॒त्रो । वे॒दोऽयं॒, ब्राह्मणा॒ विदुः वे॒दैनेन य॒द्वेदित॒व्यम् ।
ch2
pMK1
त्र॒याः प्राजापत्याः॒ प्रजा॒पतौ पित॒रि ब्रह्मच॒र्यमूषुः देवा॒ मनुष्या॒ अ॒सुराः ।
pM2/k1
उषित्वा॒ ब्रह्मच॒र्यं देवा॒ ऊचुः ब्र॒वीतु नो भ॒वानि॒ति । ते॒भ्यो
हैत॒दक्ष॒रमुवाचः द॒ इ॒ति; व्य॒ज्ञासिष्टा३ इ॒ति । व्य॒ज्ञासिष्मे॒ति होचुः
दा॒म्यते॒ति न आत्थे॒ति । ओ॒मि॒ति होवाच, व्य॒ज्ञासिष्टे॒ति ।
pM3/k2
अ॒थ हैनं मनुष्या॒ ऊचुः ब्र॒वीतु नो भ॒वानि॒ति । ते॒भ्यो हैत॒देवा॒क्ष॒रमुवाचः
द इ॒ति; व्य॒ज्ञासिष्टा३ इ॒ति । व्य॒ज्ञासिष्मे॒ति होचुः दत्ते॒ति न आत्थे॒ति । ओ॒मि॒ति
होवाच, व्य॒ज्ञासिष्टे॒ति ।
pM4/k3
अ॒थ हैनम॒सुरा ऊचुः ब्र॒वीतु नो भ॒वानि॒ति । ते॒भ्यो हैत॒देवा॒क्ष॒रमुवाचः
द इ॒ति; व्य॒ज्ञासिष्टा३ इ॒ति । व्य॒ज्ञासिष्मे॒ति होचुः द॒यध्वमि॒ति न आत्थे॒ति ।
ओ॒मि॒ति होवाच, व्य॒ज्ञासिष्टे॒ति । त॒देत॒देवै॒षा॒ दै॒वी वा॒ग॒नुवदति
स्तनयित्नुः॒ ददद इ॒ति; द॒म्यत दत्त॒ द॒यध्वमि॒ति । त॒देत॒त्त्रय॒ꣳ
शिक्षे॒द् दमं॒, दा॒नं, दया॒मि॒ति ।
chM3/k om .
वायु॒र॒निलममृतं भ॒स्मन्तꣳ श॒रीरम् । ओ३म् क्र॒तो स्मर, क्लिबे॒ स्मर,
कृत॒ꣳ स्मरा॒- । -ग्ने, न॒य सुप॒था राये॒ अस्मा॒न् वि॒श्वानि, देव, वयु॒नानि
विद्वा॒न् युयोध्य॒स्म॒ज् जुहुराण॒मे॒नो भू॒यिष्ठां ते न॒मःउक्तिं विधेम ।
chM4/k3
एष॒ प्रजा॒पतिर्य॒द्धृदयम् एत॒द्ब्र॒ह्मैत॒त्स॒र्वम् । त॒देत॒त्त्र्य॒क्षरꣳ:
हृदयमि॒ति । हृ इ॒त्ये॒कमक्ष॒रम् अभि॒हरन्त्यस्मै स्वा॒श्चान्ये॒ च, य॒
एवं॒ वे॒द । द॒ इ॒त्ये॒कमक्ष॒रम् द॒दन्त्य्
K ददत्य्
अस्मै स्वा॒श्चान्ये॒ च, य॒ एवं॒ वे॒द । य॒मि॒त्ये॒कमक्ष॒रम् ए॒ति स्वर्गं॒
लोकं॒, य॒ एवं॒ वे॒द ।
chM5/k4
त॒द्वै॒ त॒देत॒देव॒ त॒दास, सत्य॒मेव॒ । स॒ यो॒ ह एव॒म्
K ॐ
एत॒न्मह॒द्यक्षं॒ प्रथमजं॒ वे॒दः सत्यं॒ ब्र॒ह्मे॒ति, ज॒यतीमा॒ꣳल् लोका॒न् ।
जित॒ इ॒न्न्व॒सा॒वसद् य॒ एव॒मेत॒न्मह॒द्यक्षं॒ प्रथमजं॒ वे॒दः सत्यं॒
ब्र॒ह्मे॒ति; सत्य॒ꣳ ह्ये॒व॒ ब्र॒ह्म ।
ch6
pM1/k5,4
आ॒प एवे॒द॒म॒ग्र आसुस्; ता॒ आ॒पः सत्य॒मसृजन्त, सत्यं॒ ब्र॒ह्म, ब्र॒ह्म
प्रजा॒पतिं, प्रजा॒पतिर्देवा॒न् ।
pM2/kch6, p1
ते॒ देवाः॒ सत्य॒मि॒त्य्
K एव!
उ॒पासते त॒देत॒त्त्र्य॒क्षरꣳ: सत्य॒म्
K सतियम्
इ॒ति । स॒ इ॒त्ये॒कमक्ष॒रं; ती॒त्ये॒कमक्ष॒रं, अ॒म्
K यम्
इ॒त्ये॒कमक्ष॒रम् । प्रथमोत्तमे॒ अक्ष॒रे सत्यं॒, मध्यतो॒ऽनृतम्
त॒देत॒द॒नृतम्
Kadd उभयतः
सत्ये॒न प॒रिगृहीतꣳ सत्य॒भूयमेव॒ भवति । नै॒वंविद्वा॒ꣳसम॒नृतꣳ
हिनस्ति ।
pM3/k2
त॒द्य॒त्त॒त्सत्य॒मसौ॒ स॒ आदित्यो॒ । य॒ एष॒ एत॒स्मिन्म॒ण्डले पु॒रुषो
य॒श्चायं॒ दक्षिणे॒ऽक्ष॒न्पु॒रुषः ता॒वेता॒वन्यो॒ऽन्य॒स्मिन्प्र॒तिष्ठितौ;
रश्मि॒भिरेषो॒ऽस्मि॒न्प्र॒तिष्ठितः, प्राणै॒रय॒ममु॒ष्मिन् । स॒
यदो॒त्क्रमिष्य॒न्भ॒वति, शुद्ध॒मेवै॒त॒न्म॒ण्डलं पश्यतिः नै॒नमेते॒ रश्म॒यः
प्रत्या॒यन्ति ।
pM4/k3
य॒ एष॒ एत॒स्मिन्म॒ण्डले पु॒रुषः त॒स्य भू॒रि॒ति शि॒रः ए॒कꣳ शि॒र,
ए॒कमेत॒दक्ष॒रं; भु॒व इ॒ति बाहूः॒ द्वौ॒ बाहू॒, द्वे॒ एते॒ अक्ष॒रे; स्व॒रि॒ति
प्रतिष्ठाः॒ द्वे॒ प्रतिष्ठे॒ द्वे॒ एते॒ अक्ष॒रे । त॒स्योपनिष॒द॒हरि॒ति । ह॒न्ति
पाप्मा॒नं जहाति च, य॒ एवं॒ वे॒द ।
pM5/k4
अ॒थ
K ॐ
यो॒ऽयं॒ दक्षिणे॒ऽक्ष॒न्पु॒रुषः त॒स्य भू॒रि॒ति शि॒रः ए॒कꣳ शि॒र,
ए॒कमेत॒दक्ष॒रं; भु॒व इ॒ति बाहूः॒ द्वौ॒ बाहू॒, द्वे॒ एते॒ अक्ष॒रे; स्व॒रि॒ति
प्रतिष्ठाः॒ द्वे॒ प्रतिष्ठे॒, द्वे॒ एते॒ अक्ष॒रे । त॒स्योपनिष॒दह॒मि॒ति ।
ह॒न्ति पाप्मा॒नं जहाति च, य॒ एवं॒ वे॒द ।
ch7
विद्यु॒द्ब्र॒ह्मे॒त्याहुः । विदा॒नाद्विद्यु॒द्; विद्य॒त्येनं पाप्म॒नो, य॒ एवं॒ वेदः
विद्यु॒द्ब्र॒ह्मे॒ति । विद्यु॒द्ध्ये॒व॒ ब्र॒ह्म ।
chM8/k6
मनोम॒योऽयं॒ पु॒रुषो, भाः॒सत्यः त॒स्मिन्नन्त॒र्हृदये य॒था व्रीहि॒र्वा य॒वो
वैव॒मय॒मन्त॒रात्म॒न्पु॒रुषः
K ॐ एवम्...
स॒ एष॒ स॒र्वस्य व॒शी
K ॐ
स॒र्वस्ये॒शानः, स॒र्वस्या॒धिपतिः; स॒र्वमिदं॒ प्र॒शास्ति य॒दिदं॒ कि॒ङ्च,
य॒ एवं॒ वे॒द
K ॐ
chM9/k8
वा॒चं धेनु॒मु॒पासीत । त॒स्याश्चत्वा॒रः स्त॒नाः स्वाहाकारो॒
वषट्कारो॒ हन्तकारः॒ स्वधा॒कारः । त॒स्यै द्वौ॒ स्त॒नौ देवा॒ उ॒पजीवन्ति,
स्वाहाकारं॒ च वषट्कारं॒ च; हन्तकारं॒ मनुष्याः॒, स्वधा॒कारं पित॒रः । त॒स्याः
प्राण॒ ऋषभो॒, म॒नो वत्सः॒ ।
chM10/k9
अय॒माग्नि॒र्वैश्वानरो॒ यो॒ऽय॒मन्तः॒ पु॒रुषे, ये॒नेद॒म॒न्नं पच्य॒ते
य॒दिद॒मद्य॒ते । त॒स्य एष॒ घो॒षो भवति, य॒मेत॒त्क॒र्णावपिधा॒य शृणो॒ति ।
स॒ यदो॒त्क्रमिष्य॒न्भ॒वति, नै॒नं घो॒षꣳ शृणोति ।
ch11
एत॒द्वै॒ परमं॒ त॒पो य॒द्व्या॒हितस्तप्य॒ते; परम॒ꣳ हैव॒ लोकं॒ जयति,
य॒ एवं॒ वे॒दैत॒द्वै॒ परमं॒ त॒पो यं॒ प्रे॒तम॒रण्यꣳ ह॒रन्ति;
परम॒ꣳ हैव॒ लोकं॒ जयति, य॒ एवं॒ वे॒दैत॒द्वै॒ परमं॒ त॒पो यं॒
प्रे॒तमग्ना॒वभ्याद॒धति; परम॒ꣳ हैव॒ लोकं॒ जयति, य॒ एवं॒ वे॒द ।
chM12/k10
यदा॒ वै॒ पु॒रुषोऽस्मा॒ल् लोका॒त्प्रै॒ति, स॒ वायु॒मा॒गच्छति; त॒स्मै स॒
त॒त्र वि॒जिहीते य॒था रथचक्र॒स्य खं॒; ते॒न स॒ ऊर्ध्व॒ आ॒क्रमते । स॒
आदित्य॒मा॒गच्छति; त॒स्मै स॒ त॒त्र वि॒जिहीते य॒थाड॒म्बरस्य
K अलम्बरस्य
खं॒; ते॒न स॒ ऊर्ध्व॒ आ॒क्रमते । स॒ चन्द्र॒मसमा॒गच्छति; त॒स्मै स॒
त॒त्र वि॒जिहीते य॒था दुन्दुभेः॒ खं॒; ते॒न स॒ ऊर्ध्व॒ आ॒क्रमते । स॒
लोक॒मा॒गच्छत्यशोक॒म॒हिमं; त॒स्मिन्वसति शा॒श्वतीः स॒माः ।
chM13/k12
pMK1
अ॒न्नं ब्र॒ह्मे॒त्ये॒क आहुः । त॒न्न॒ त॒था, पू॒यति वा॒ अ॒न्नमृते॒ प्राणा॒त् ।
प्राणो॒ ब्र॒ह्मे॒त्ये॒क आहुः । त॒न्न॒ त॒था, शु॒ष्यति वै॒ प्रण॒ ऋते॒ऽन्नाद् ।
एते॒ ह त्वे॒व॒ देव॒ते, एकधाभू॒यं भूत्वा॒, परम॒तां गच्छतः ।
pM2/k1
त॒द्ध स्माह प्रातृदः॒ पित॒रम् कि॒ꣳ स्विदेवै॒वंविदु॒षे साधु॒ कुर्यां,
कि॒मेवा॒स्मा असाधु॒ कुर्यामि॒ति । स॒ ह स्माह पाणि॒नाः मा॒, प्रातृद, क॒स्
त्वे॒नयोरेकधाभू॒यं भूत्वा॒ परम॒तां गच्छती॒ति ।
pM3/k1
त॒स्मा उ हैत॒दुवाचः वी॒ति अ॒न्नं वै॒ वि अ॒न्ने ही॒मा॒नि स॒र्वाणि भूता॒नि विष्टा॒नि ।
र॒मि॒ति, प्राणो॒ वै॒ रं॒, प्राणे॒ ही॒मा॒नि स॒र्वाणि भूता॒नि रता॒नि
K रमन्ते
स॒र्वाणि ह वा॒ अस्मिन्भूता॒नि विशन्ति, स॒र्वाणि भूता॒नि रमन्ते, य॒ एवं॒ वे॒द ।
chM14/k13
pMK1
उक्थं॒, प्राणो॒ वा॒ उक्थं॒, प्राणो॒ ही॒द॒ꣳ स॒र्वमुत्थाप॒यति । उ॒द्धास्मा
K धस्माद्
उक्थवि॒द्वीर॒स्तिष्ठति उक्थ॒स्य सा॒युज्यꣳ सलोक॒तां जयति, य॒ एवं॒ वे॒द ।
pMK2
य॒जुः, प्राणो॒ वै॒ य॒जुः, प्राणे॒ ही॒मा॒नि स॒र्वाणि भूता॒नि युज्य॒न्ते । युज्य॒न्ते
हास्मै स॒र्वाणि भूता॒नि श्रै॒ष्ठ्याय, य॒जुषः सा॒युज्यꣳ सलोक॒तां जयति, य॒
एवं॒ वे॒द ।
pMK3
सा॒म, प्राणो॒ वै॒ सा॒म, प्राणे॒ ही॒मा॒नि स॒र्वाणि भूता॒नि सम्य॒ङ्चि । सम्य॒ङ्चि
हास्मै स॒र्वाणि भूता॒नि श्रै॒ष्ठ्याय कल्पन्ते, सा॒म्नः सा॒युज्यꣳ सलोक॒तां जयति,
य॒ एवं॒ वे॒द ।
pMK4
क्षत्रं॒, प्राणो॒ वै॒ क्षत्रं॒, प्राणो॒ हि॒ वै॒ क्षत्र॒म् त्रा॒यते हैनं प्राणः॒
क्षणि॒तोः । प्र॒ क्षत्र॒मात्र॒म्
K अत्रम्
आप्नोति, क्षत्र॒स्य सा॒युज्यꣳ सलोक॒तां जयति, य॒ एवं॒ वे॒द ।
chM15/k14
pMK1
भू॒मिरन्त॒रिक्षं द्यौ॒रि॒त्यष्टा॒व् ! अक्ष॒राणि अष्टा॒क्षरꣳ ह वा॒ ए॒कं
गायत्र्यै॒ पद॒म्; एत॒दु हैवा॒स्या एत॒त् । स॒ या॒वदेषु॒ त्रिषु॒ लोके॒षु,
ता॒वद्ध जयति यो॒ऽस्या एत॒देवं॒ पदं॒ वे॒द ।
pMK2
ऋचो य॒जूषि सा॒मानी॒त्यष्टा॒वक्ष॒राणि अष्टा॒क्षरꣳ ह वा॒ ए॒कं गायत्र्यै॒
पद॒म्; एत॒दु हैवा॒स्या एत॒त् । स॒ या॒वतीयं॒ त्रयी॒ विद्या॒, ता॒वद्ध जयति,
यो॒ऽस्या एत॒देवं॒ पदं॒ वे॒द ।
pMK3
प्राणो॒ऽपानो॒ व्यान॒ इ॒त्यष्टा॒वक्ष॒राणि अष्टा॒क्षरꣳ ह वा॒ ए॒कं गायत्र्यै॒
पद॒म्; एत॒दु हैवा॒स्या एत॒त् । स॒ या॒वदिदं॒ प्राणि॒, ता॒वद्ध जयति, यो॒ऽस्या
एत॒देवं॒ पदं॒ वे॒द ।
pM4/k3
अ॒थास्या एत॒देव॒ तु॒रीयं दर्शतं॒ पदं॒ परो॒रजा य॒ एष॒ त॒पतिः य॒द्वै॒
च॒तुर्थं त॒त्तु॒रीयं; दर्शतं॒ पद॒मि॒ति, ददृश॒ इव ह्ये॒षः॒; परो॒रजा
इ॒ति, स॒र्वमु ह्ये॒वै॒ष॒ रज॒ उप॒र्य्-उपरि त॒पति । एव॒ꣳ हैव॒ श्रिया॒
य॒शसा तपति, यो॒ऽस्या एत॒देवं॒ पदं॒ वे॒द ।
pM5/k4
सै॒षा॒ गायत्र्ये॒त॒स्मिꣳस्तु॒रीये दर्शते॒ पदे॒ परो॒रजसि प्र॒तिष्ठिता;
त॒द्वै॒ त॒त्सत्ये॒ प्र॒तिष्ठिता
K प्रतिष्ठितं
च॒क्षुर्वै॒ सत्यं॒, च॒क्षुर्हि॒ वै॒ सत्य॒म् त॒स्माद्य॒दिदा॒नीं द्वौ॒
विव॒दमानावेया॒तम् अह॒मद्राक्षम्
K अदर्शम्
अह॒मश्रौषमि॒ति, य॒ एव॒
K एवं
ब्रूया॒दह॒मद्राक्षम्
K अदर्शम्
इ॒ति, त॒स्मा एव॒ श्रद्दध्यात्
K श्रद्दध्याम
pM6/k4
त॒द्वै॒ त॒त्सत्यं॒ ब॒ले प्र॒तिष्ठितं; प्राणो॒ वै॒ ब॒लं; त॒त्प्राणे॒
प्र॒तिष्ठितं; त॒स्मादाहुः ब॒लꣳ सत्या॒दो॒जीय इ॒ति । एवं॒ वेषा॒
गायत्र्य॒ध्यात्मं॒ प्र॒तिष्ठिता ।
pM7/k4
सा हैषा॒ ग॒याꣳस्तत्रे; प्राणा॒ वै॒ ग॒यास्; त॒त्प्राणा॒स्तत्रे; त॒द्य॒द्ग॒याꣳस्
तत्रे, त॒स्माद्गायत्री॒ ना॒म । स॒ या॒मेवा॒मूꣳ
Kadd सावित्रीम्
अन्वा॒हैषै॒व॒ सा॒ । स॒ य॒स्मा अन्वा॒ह, त॒स्य प्राणा॒स्त्रायते ।
pM8/k5
ता॒ꣳ ह
Kadd एताम्
ए॒के सावित्री॒मनुष्टु॒भम॒न्वाहुः वा॒गनुष्टु॒ब्; एत॒द्वा॒चम॒नुब्रूम इ॒ति । न॒
त॒था कुर्याद् । गायत्री॒मेवा॒नुब्रूयाद्
K एव सावित्रीम्...
य॒दि ह वा॒ अ॒पि
Kadd एवंवि॒द्
बह्वि॒व प्रतिगृह्णा॒ति, न॒ हैव॒ त॒द्गायत्र्या॒ ए॒कं चन॒ पदं॒ प्र॒ति ।
pM9/k6
स॒ य॒ इमा॒ꣳस्त्रीं॒ल् लोका॒न्पूर्णा॒न्प्रतिगृह्णीया॒त् सो॒ऽस्या एत॒त्प्रथमं॒
पद॒माप्नुयाद्; अ॒थ या॒वतीयं॒ त्रयी॒ विद्या॒, य॒स्ता॒वत्प्रतिगृह्णीया॒त् सो॒ऽस्या
एत॒द्द्विती॒यं पद॒माप्नुयाद्; अ॒थ या॒वदिदं॒ प्राणि॒, य॒स्ता॒वत्प्रतिगृह्णीया॒त्
सो॒ऽस्या एत॒त्तृती॒यं पद॒माप्नुयाद्; अ॒थास्या एत॒देव॒ तुरी॒यं दर्शतं॒ पदं॒,
परो॒रजा य॒ एष॒ त॒पति, नै॒व॒ के॒न चना॒प्यम् कु॒त उ एता॒वत्प्र॒तिगृह्णीयात् ।
pM10/k7
त॒स्या उपस्था॒नम् गा॒यत्रि अस्ये॒कपदी द्विप॒दी त्रिप॒दी च॒तुष्पदि अप॒दसि, न॒
हि॒ प॒द्यसे । न॒मस्ते तुरीया॒य दर्शता॒य पदा॒य परो॒रजसेरसा॒वदो॒ मा॒
प्रा॒पदि॒ति, यं॒ द्विष्या॒द्; असा॒वस्मै का॒मो मा॒ समर्धी॒ति वा, न॒ हैवा॒स्मै स॒
का॒मः स॒मृध्यते य॒स्मा एव॒मुपति॒ष्ठते; अह॒मदः॒ प्रा॒पमि॒ति वा ।
pM11/k8
एत॒द्ध वै॒ त॒ज् जनको॒ वै॒देहो बुढिल॒मा॒श्वतराश्विमुवाचः य॒न्नु॒ हो
त॒द्गायत्रीवि॒द॒ब्रूथा, अ॒थ कथ॒ꣳ हस्ती॒ भूतो॒ वहसी॒ति । मु॒खꣳ
ह्य॒स्याः, सम्राड्, न॒ विदां॒ चकरे॒ति होवाच ।
pM12/k8
त॒स्या आग्नि॒रेव॒ मु॒खं; य॒दि ह वा॒ अ॒पि बह्वि॒वाग्ना॒वभ्याद॒धति, स॒र्वमेव॒
त॒त्स॒न्दहति । एव॒ꣳ हैवै॒वंवि॒द् य॒द्य॒पि बह्वि॒व पापं॒ करो॒ति
K कुरुते
स॒र्वमेव॒ त॒त्सम्प्सा॒य शुद्धः॒ पूतो॒ऽज॒रोऽमृतः स॒म्भवति ।
chk15
Kadd
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं; तत्त्वं, पूषन्न् अपावृणु सत्यधर्माय दृष्टये ।
पूषन्न् एकर्षे, यम, षूर्य, प्राजापत्य, व्यूह रश्मीन् समूह तेजो; यत्ते रूपं कल्याणतमं,
तत्ते पश्यामि । योऽसावसौ पुरुषः, सोऽहमस्मि । वायुरनिलममृतम् अथेदं भस्मान्तꣳ
शरीरम् । क्रतो, स्मर, कृतꣳ स्मर, क्रतो, स्मर, कृतꣳ स्मरा- । -ग्ने, नय
सुपथा रायेऽस्मान् विश्वानि, देव, वयुनानि विद्वान्; युयोध्यस्मज् जुहुराणमेनो, भूयिष्ठां ते
नमःउक्तिं विधेम ।
ch6 = SBM 14.9 = SBK16.8
chM1/k2
pMK1
ह्वेत॒केतुर्ह
k. OM
वा॒ अरुणेयः॒ पञ्चाला॒नां परिष॒दमा॒जगाम । स॒ आ॒जगाम जै॒वलं प्रवा॒हणं
परिचार॒यमाणम् । त॒मुदी॒क्ष्याभ्यु॒वादः कु॒मारा३ इ॒ति । स॒ भो॒र्३ इ॒ति
प्र॒तिशुश्रावा॒- । -नुशिष्टो न्व॒सि पित्रे॒ति । ओ॒मि॒ति होवाच ।
pMK2
वे॒त्थ य॒थेमाः॒ प्रजाः॒ प्रय॒त्यो विप्रतिप॒द्यन्ता३ इ॒ति । ने॒ति होवाच । वे॒त्थ
K वेत्थो
य॒थेमं॒ लोकं॒ पु॒नराप॒द्यन्ता३ इ॒ति । ने॒ति हैवो॒वाच । वे॒त्थ
K वेत्थो
य॒थासौ॒ लोक॒ एवं॒ बहु॒भिः पु॒नः-पुनः प्रय॒द्भिर्न॒ सम्पूर्य॒ता३ इ॒ति ।
ने॒ति हैवो॒वाच ।
pM3/k2
वे॒त्थ
K वेत्थो
य॒तिथ्यामा॒हुत्याꣳ हुता॒यामा॒पः पुरुषवा॒चो भूत्वा॒ समुत्था॒य व॒दन्ती३ इ॒ति ।
ने॒ति हैवो॒वाच । वे॒त्थो देवया॒नस्य वा पथः॒ प्रतिप॒दं पितृया॒णस्य वा,
य॒त्कृत्वा॒ देवया॒नं वा प॒न्थानं प्रतिप॒द्यन्ते पितृया॒णं वा
pM4/k2
अ॒पि हि॒ न ऋषेर्व॒चः श्रुत॒म् द्वे॒ सृती॒ अशृणवं पित्ऱ्णा॒म् अहं॒ देवा॒नामुत॒
म॒र्त्यानां; ता॒भ्यामिदं॒ वि॒श्वमे॒जत्स॒मेति य॒दन्तरा॒ पित॒रं मात॒रं चे॒ति ।
ना॒ह॒म॒त ए॒कं चन॒ वेदे॒ति होवाच ।
pM5/k3
अ॒थ हैनं
K ॐ ह
व॒सत्योपमन्त्रयां॒ चक्रे॒ । अनादृत्य व॒सतिं कुमारः॒ प्र॒दुद्राव । स॒ आ॒जगाम
पित॒रं, त॒ꣳ होवाचे॒ति वा॒व॒ कि॒ल नो भ॒वान्पुरा॒नुशिष्टान॒वोच इ॒ति ।
कथ॒ꣳ, सुमेध इ॒ति । प॒ङ्च मा प्रश्ना॒न्राजन्य॒बन्धुरप्राक्षीत् त॒तो नै॒कं
चन॒ वेदे॒ति होवाच
K ॐ होवाच
कतमे॒ त॒ इ॒ती- -म॒ इ॒ति ह प्र॒तीकान्युदा॒जहार ।
pM6/k4
स॒ होवाचः त॒था नस्त्वं॒, तत, जानीथा य॒था, य॒दहं॒ कि॒ञ्च वे॒द,
स॒र्वमहं॒ त॒त्तु॒भम॒वोचम् । प्रे॒हि तु॒, त॒त्र प्रती॒त्य, ब्रह्मचर्यं॒
वत्स्याव इ॒ति । भ॒वानेव॒ गच्छत्वि॒ति ।
pM7/k4
स॒ आ॒जगाम गौतमो॒ य॒त्र प्रवा॒हणस्य जै॒वलेरा॒स । त॒स्मा आसन॒माहा॒र्योदकं॒
K आह्ऱ्^इत्योदकम्
आहारयां॒ चकारा॒थ हास्मा अर्घं॒
K अर्घ्यं
चकार ।
pM8/k4
त॒ꣳ होवाचः व॒रं भ॒वते
K भगवते
गौतमा॒य दद्म इ॒ति ।
pM8/k5
स॒ होवाचः प्र॒तिज्ञतो म एष॒ व॒रो; यां॒ तु॒ कुमार॒स्या॒न्ते वा॒चम॒भाषथाः
तां॒ मे ब्रूही॒ति ।
pM9/k6
स॒ होवाचः दै॒वेषु वै॒, गौतम, त॒द्व॒रेषु, मा॒नुषाणां ब्रूही॒ति ।
pM10/k7
स॒ होवाचः विज्ञा॒यते हा॒स्ति हि॒रण्यस्या॒पात्तं गोअश्वा॒नां दासी॒नां प्रवारा॒णां
परिधाना॒नां, मा॒ नो भ॒वान्बहो॒रनन्त॒स्यापर्यन्त॒स्याभ्यवदा॒न्यो भूदि॒ति । स॒
वै॒, गौतम, तीर्थे॒नेच्छसा इ॒ति उपै॒म्यहं॒ भ॒वन्तमि॒ति वाचा॒ ह स्मैव॒
पू॒र्व उ॒पयन्ति ।
pM11/k7
स॒ होपायनकीर्ता॒ उवाच
K स उपायनकीर्त्योवास
pM11/k8
त॒था नस्त्वं॒, गौतम, मा॒पराधास्
K अपराधस्
त॒व च पितामहा॒, य॒थेयं॒ विद्ये॒तः॒ पू॒र्वं न॒ क॒स्मिꣳश्चन॒ ब्राह्मन॒
उवा॒स; तां॒ त्व॒हं॒ तु॒भ्यं वक्ष्यामिः को॒ हि॒ त्वैवं॒ ब्रु॒वन्तम॒र्हति
प्रत्या॒ख्यातुमि॒ति ।
pM12/k9
असौ॒ वै॒ लोको॒ऽग्निः॒ गौतम । त॒स्यादित्य॒ एव॒ समि॒द् रश्म॒यो धूमो॒,
अहरर्चि॒श्, चन्द्र॒मा अ॒ङ्गारा
K दिशोऽण्^गारा
न॒क्षत्राणि
K अवान्तरदिशो
विष्फुलि॒ङ्गाः । त॒स्मिन्नेत॒स्मिन्नग्नौ॒ देवाः॒ श्रद्धां॒ जुह्वति; त॒स्या आ॒हुतेः
सो॒मो रा॒जा स॒म्भवति ।
pM13/k10
पर्ज॒न्यो वा॒ अग्निः॒ गौतम । त॒स्य संवत्सर॒ एव॒ समि॒दभ्रा॒णि धूमो॒,
विद्यु॒दर्चि॒रश॒निर॒ङ्गारा, ह्रादु॒नयो विष्फुलि॒ङ्गाः । त॒स्मिन्नेत॒स्मिन्नग्नौ॒
देवाः॒ सो॒मं
Kadd राजानं
जुह्वति; त॒स्या आ॒हुतेर्वृष्टिः॒ स॒म्भवति ।
pM14/k11
अयं॒ वै॒ लोको॒ऽग्निः॒ गौतम । त॒स्य पृथिव्ये॒व॒ समि॒द् वायु॒र्
K अग्निर्?
धूमो॒, रा॒त्रिरर्चिः॒ दिशो॒
K चन्द्रमा
अ॒ङ्गारा, अवन्तरदि॒शो
नक्षत्राणि
विष्फुलि॒ङ्गाः ।
त॒स्मिन्नेत॒स्मिन्नग्नौ॒ देवा॒ वृष्टिं॒ जुह्वति;
त॒स्या आ॒हुतेर॒न्नꣳ स॒म्भवति ।
pM15/k12
पु॒रुषो वा॒ अग्निः॒ गौतम । त॒स्य व्या॒त्तमेव॒ समि॒त् प्राणो॒ धूमो॒, वा॒गर्चि॒श्,
च॒क्षुर॒ङ्गाराः, श्रो॒त्रं विष्फुलि॒ङ्गाः । त॒स्मिन्नेत॒स्मिन्नग्नौ॒ देवा॒ अ॒न्नं
जुह्वति; त॒स्या आ॒हुते रे॒तः स॒म्भवति ।
pM16/k13
यो॒षा वा॒ आग्निः॒ गौतम । त॒स्या उप॒स्थ एव॒ समि॒ल्, लो॒मानि धूमो॒, यो॒निरर्चिः॒
य॒दन्तः॒ करो॒ति, ते॒ऽङ्गारा, अभिन॒न्दा विष्फुलि॒ङ्गाः । त॒स्मिन्नेत॒स्मिन्नग्नौ॒
देवा॒ रे॒तो जुह्वति; त॒स्या आ॒हुतेः पु॒रुषः स॒म्भवति । स॒ जायते
K ॐ
स॒ जीवति या॒वज् जी॒वति अ॒थ यदा॒ म्रिय॒ते॒,
pM16/k14
अथैनमग्न॒ये हरन्ति ।
pM17/k14
त॒स्याग्नि॒रेवा॒ग्नि॒र्भवति, समि॒त्समि॒द् धूमो॒ धूमो॒, अर्चि॒रर्चि॒र॒ङ्गारा
अ॒ङ्गारा, विष्फुलि॒ङ्गा विष्फुलि॒ङ्गाः । त॒स्मिन्नेत॒स्मिन्नग्नौ॒ देवाः॒ पु॒रुषं
जुह्वति; त॒स्या आ॒हुतेः पु॒रुषो भा॒स्वरवर्णः स॒म्भवति ।
pM18/k15
ते॒ य॒ एव॒मेत॒द्विदुः॒ ये॒ चामी॒ अ॒रण्ये श्रद्धा॒ꣳ सत्य॒मुपा॒सते,
ते॒ऽर्चि॒रभिस॒म्भवन्ति अर्चि॒षो॒ऽहर॒ह्न आपूर्यमाणपक्ष॒म्
आपूर्यमाणपक्षा॒द्या॒न्ष॒ण्मा॒सानु॒दङ्ङ् आदित्य॒ ए॒ति, मा॒सेभ्यो देवलोकं॒,
देवलोका॒दादित्य॒म् आदित्या॒द्वै॒द्युतं; ता॒न्वै॒द्युतात्
K वैद्युतान्
पु॒रुषो मानस॒ ए॒त्य ब्रह्मलोका॒न्गमयति; ते॒ ते॒षु ब्रह्मलोके॒षु प॒राः पराव॒तो
वसन्ति । ते॒षां इह॒
K ॐ
न॒ पु॒नरावृत्तिरस्ति
K ॐ
pM19/k16
अ॒थ ये॒ यज्ञे॒न दाने॒न त॒पसा लोकं॒
K लोकाङ्
ज॒यन्ति, ते॒ धूम॒मभिस॒म्भवन्ति, धूमा॒द्रा॒त्रिꣳ, रा॒त्रेरपक्षीयमाणपक्ष॒म्
अपक्षीयमाणपक्षा॒द्या॒न्ष॒ण्मा॒सान्दक्षिणा॒दित्य॒ ए॒ति, मा॒सेभ्यः पितृलोकं॒,
पितृलोका॒च्चन्द्रं॒; ते॒ चन्द्रं॒ प्रा॒प्या॒न्नं भवन्ति; ता॒ꣳस्त॒त्र देवा॒
य॒था सो॒मꣳ रा॒जानम् आ॒प्यायस्व, अ॒पक्षीयस्वे॒ति एव॒मेनाꣳस्त॒त्र भक्षयन्ति ।
ते॒षां यदा॒ त॒त्पर्यवै॒ति अ॒थेम॒मेवा॒काश॒मभिनि॒ष्पद्यन्त, आकाशा॒द्वायुं॒,
वायो॒र्वृष्टिं॒, वृष्टेः॒ पृथिवीं॒; ते॒ पृथिवीं॒ प्राप्या॒न्नं भवन्ति;
Kadd ते पुनः पुरुषाग्नौ हूयन्ते,
ततो योषाग्नौ जायन्ते ।
लोकान्प्रत्युथायिनस्
त॒ एव॒मेवा॒नुप॒रिवर्तन्ते॒ । अथ य॒ एतौ॒ प॒न्थानौ न॒ विदुः॒ ते॒ कीटाः॒,
पत॒ङ्गा, य॒दिदं॒ दन्दशू॒कम् ।
chM2/k1
pMK1
यो॒ ह वै॒ ज्ये॒ष्ठं च श्रे॒ष्ठं च वे॒द, ज्ये॒ष्ठश्च श्रे॒ष्ठश्च स्वा॒नां
भवति । प्राणो॒ वै॒ ज्ये॒ष्ठश्च श्रे॒ष्ठश्च । ज्ये॒ष्ठश्च श्रे॒ष्ठश्च
स्वा॒नां भवति अ॒पि च ये॒षां बु॒भूषति, य॒ एवं॒ वे॒द ।
pMK2
यो॒ ह वै॒ व॒सिष्ठां वे॒द, व॒सिष्ठः स्वा॒नां भवति । वा॒ग्वै॒ व॒सिष्ठा ।
व॒सिष्ठः स्वा॒नां भवति
Kadd अपि च येषां बुभूषति
य॒ एवं॒ वे॒द ।
pMK3
यो॒ ह वै॒ प्रतिष्ठां॒ वे॒द, प्र॒तितिष्ठति समे॒, प्र॒तितिष्ठति दुर्गे॒ ।
च॒क्षुर्वै॒ प्रतिष्ठा॒; च॒क्षुषा हि॒ समे॒ च दुर्गे॒ च प्र॒तितिष्ठति ।
प्र॒तितिष्ठति समे॒, प्र॒तितिष्ठति दुर्गे॒, य॒ एवं॒ वे॒द ।
pMK4
यो॒ ह वै॒ सम्प॒दं वे॒द, स॒ꣳ हास्मै पद्यते, यं॒ का॒मं काम॒यते । श्रो॒त्रं
वै॒ सम्प॒च्; छ्रो॒त्रे ही॒मे॒ स॒र्वे वे॒दा अभिस॒म्पन्नाः । स॒ꣳ हास्मै पद्यते,
यं॒ का॒मं काम॒यते, य॒ एवं॒ वे॒द ।
pMK5
यो॒ ह वा॒ आय॒तनं वे॒दाय॒तनꣳ स्वा॒नां भवति आय॒तनं ज॒नानाम् । म॒नो वा॒
आय॒तनम् । आय॒तनꣳ स्वा॒नां भवति आय॒तनं ज॒नानां, य॒ एवं॒ वे॒द ।
pMK6
यो॒ ह वै॒ प्र॒जातिं वे॒द, प्र॒जायते ह प्रज॒या पशु॒भी । रे॒तो वै॒ प्र॒जातिः ।
प्र॒जायते
Kadd ह
प्रज॒या पशु॒भिः य॒ एवं॒ वे॒द ।
pMK7
ते॒ हेमे॒ प्राणा॒, अहꣳश्रे॒यसे विव॒दमाना, ब्र॒ह्म जग्मुः
Kadd त॒द्धोचुः
को॒ नो व॒सिष्ठ इ॒ति ।
editio una indicha et K add तद्धोवाचः
य॒स्मिन्व उ॒त्क्रान्त इद॒ꣳ श॒रीरं पा॒पियो म॒न्यते,
स॒ वो व॒सिष्ठ इ॒ति ।
pMK8
वा॒ग्घो॒च्चक्राम । सा॒ संवत्सरं॒ प्रो॒ष्याग॒त्योवाचः कथ॒मशकत म॒दृते॒
जी॒वितुमि॒ति । ते॒ होचुः य॒था कडा॒
K कला
अवद॒न्तो वाचा॒, प्राण॒न्तः प्राणे॒न, प॒श्यन्तश्च॒क्षुषा, शृण्व॒न्तः श्रो॒त्रेण,
विद्वा॒ꣳसो म॒नसा, प्रजा॒यमाना रे॒तसैव॒मजीविष्मे॒ति । प्र॒विवेश ह वा॒क् ।
pMK9
च॒क्षुर्हो॒च्चक्राम । त॒त्संवत्सरं॒ प्रो॒ष्याग॒त्योवाचः कथ॒मशकत म॒दृते॒
जी॒वितुमि॒ति । ते॒ होचुः य॒थान्धा॒, अपश्य॒न्तश्च॒क्षुषा, प्राण॒न्तः प्राणे॒न,
व॒दन्तो वाचा॒, शृण्व॒न्तः श्रो॒त्रेण, विद्वा॒ꣳसो म॒नसा, प्रजा॒यमाना
रे॒तसैव॒मजीविष्मे॒ति । प्र॒विवेश ह च॒क्षुः ।
pMK10
श्रो॒त्रꣳ हो॒च्चक्राम । त॒त्संवत्सरं॒ प्रो॒ष्याग॒त्योवाचः कथ॒मशकत
म॒दृते॒ जी॒वितुमि॒ति । ते॒ होचुः य॒था बधिरा॒, अशृण्व॒न्तः श्रो॒त्रेण,
प्राण॒न्तः प्राणे॒न, व॒दन्तो वाचा॒, प॒श्यन्तश्च॒क्षुषा, विद्वा॒ꣳसो म॒नसा,
प्रजा॒यमाना रे॒तसैव॒मजीविष्मे॒ति । प्र॒विवेश ह श्रोत्रम् ।
pMK11
म॒नो हो॒च्चक्राम । त॒त्संवत्सरं॒ प्रो॒ष्याग॒त्योवाचः कथ॒मशकत म॒दृते॒
जी॒वितुमि॒ति । ते॒ होचुः य॒था मुग्धा॒, अविद्वा॒ꣳसो म॒नसा, प्राण॒न्तः प्राणे॒न,
व॒दन्तो वाचा॒, प॒श्यन्तश्च॒क्षुषा, शृण्व॒न्तः श्रो॒त्रेण, प्रजा॒यमाना
रे॒तसैव॒मजीविष्मे॒ति । प्र॒विवेश ह म॒नः ।
pMK12
रे॒तो हो॒च्चक्राम । त॒त्संवत्सरं॒ प्रो॒ष्याग॒त्योवाचः कथ॒मशकत म॒दृते॒
जी॒वितुमि॒ति । ते॒ होचुः य॒था क्लीबा॒, अप्रजा॒यमाना रे॒तासा, प्राण॒न्तः प्राणे॒न,
व॒दन्तो वाचा॒, प॒श्यन्तश्च॒क्षुषा, शृण्व॒न्तः श्रो॒त्रेण, विद्वा॒ꣳसो
म॒नसैव॒मजीविष्मे॒ति । प्र॒विवेश ह रे॒तः ।
pMK13
अ॒थ ह प्राण॒ उत्क्रमिष्य॒न् य॒था महासुहयः॒ सैन्धवः॒
पड्वी॒शशङ्खून्त्संवृहे॒देव॒ꣳ हैवे॒मा॒न्प्राणा॒न्त्सं॒ववर्ह । ते॒ होचुः
मा॒, भगव, उ॒त्क्रमीः न॒ वै॒ शक्ष्यामस्त्व॒दृते॒ जी॒वितुमि॒ति । त॒स्यो मे
बलिं॒ कुरुते॒ति । त॒थे॒ति ।
pMK14
सा॒ ह वा॒गुवाचः य॒द्वा॒ अहं॒ व॒सिष्ठा॒स्मि, त्वं॒ त॒द्व॒सिष्ठोऽसी॒ति ।
च॒क्षुर्
K चक्षुः
infine
य॒द्वा॒ अहं॒ प्रतिष्ठा॒स्मि, त्वं॒ त॒त्प्रतिष्ठो॒ !ऽसी॒ति । श्रो॒त्रं
K श्रोत्रं
infine
य॒द्वा॒ अह॒ꣳ सम्प॒द॒स्मि, त्वं॒ त॒त्सम्प॒दसी॒ति । म॒नो
K मनो
infine
य॒द्वा॒ अह॒माय॒तनम॒स्मि, त्वं॒ त॒दाय॒तनमसी॒ति । रे॒तो
K रेतस्
infine
य॒द्वा॒ अहं॒ प्र॒जातिर॒स्मि, त्वं॒ त॒त्प्र॒जातिरसी॒ति । त॒स्यो मे कि॒म॒न्नं,
किं॒ वा॒स इ॒ति । य॒दिदं॒ कि॒ङ्चा॒ श्वभ्य॒, आ॒ क्रि॒मिभ्य
K क्ऱ्^इमिभ्य
आ॒ कीटपतङ्गे॒भ्यः त॒त्ते॒ऽन्नम्; आ॒पो वा॒स इ॒ति । न॒ ह वा॒ अस्या॒नन्नं जग्धं॒
भवति, ना॒नन्नं प्र॒तिगृहीतं य॒ एव॒मेत॒दन॒स्या॒न्नं वे॒द ।
pM15/k14
त॒द्विद्वा॒ꣳसः श्रो॒त्रिया अशिष्य॒न्त आ॒चामन्ति अशित्वा॒चामन्ति एत॒मेव॒
त॒दन्न॒म॒नग्नं कुर्व॒न्तो मन्यन्ते । त॒स्मादेवंवि॒दशिष्य॒ना॒चमेदशित्वा॒चमेद् ।
एत॒मेव॒ त॒दन॒म॒नग्नं कुरुते
K ॐ तस्माद्...
ch3
pMK1
स॒ यः॒ काम॒यतेः मह॒त्प्राप्नुयामि॒ति उदगयन॒ आपूर्यमाणपक्षे॒
K आपूर्यमाणपक्षस्य
पुण्या॒हे, द्वा॒दशाहमुपसद्व्रती॒ भूत्वौ॒दुम्बरे कꣳसे॒ चमसे॒ वा सर्वौषधं॒
फ॒लानी॒ति सम्भृत्य, परिसमु॒ह्य, परिलि॒प्याग्नि॒मुपसमाधा॒यावृताज्यꣳ
K उपसमाधाय, परिस्तीर्याव्ऱ्^इताज्यꣳ
सꣳस्कृत्य, पुꣳसा॒ नक्षत्रे॒ण म॒न्थꣳ सन्नी॒य, जुहोतिः
pM2/k1
या॒वन्तो देवा॒स्त्व॒यि, जातवेदः तिर्य॒ङ्चो घ्न॒न्ति पु॒रुषस्य का॒मान् ते॒भ्योऽहं॒
भागधे॒यं जुहोमि, ते॒ मा तृप्ताः॒
Kadd सर्वैः
का॒मैस्तर्पयन्तु, स्वा॒हा ।
pM3/k1
या॒ तिर॒श्ची निप॒द्यसेरहं॒ विधरणी॒ इ॒ति, तां॒ त्वा घृत॒स्य धा॒रया य॒जे
स॒ꣳराधनीमह॒ꣳ । स्वा॒हा । प्र॒जायते न॒ त्व॒देता॒न्यन्य॒ इ॒ति तृती॒यं
जुहोति।
K ॐ प्र॒जायते ...
pM4/k2
ज्ये॒ष्ठाय स्वा॒हा, श्रे॒ष्ठाय स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति । प्राणा॒य स्वा॒हा, व॒सिष्ठायै स्वा॒हे॒ति अग्नौ॒ हुत्वा॒,
म॒न्थे सꣳस्रव॒म॒वनयति । वाचे॒ स्वा॒हा, प्रतिष्ठा॒यै स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । च॒क्षुषे स्वा॒हा, सम्प॒दे स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । श्रो॒त्राय स्वा॒हाय॒तनाय स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । म॒नसे स्वा॒हा, प्र॒जात्यै स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । रे॒तसे स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति ।
pM5
K 3, variato ordine; vide infra
भूता॒य स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति ।
भविष्य॒ते स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति ।
वि॒श्वाय स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । स॒र्वाय
स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । पृथिव्यै॒
स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । अन्त॒रिक्षाय
स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । दिवे॒ स्वा॒हे॒ति
अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । दिग्भ्यः॒ स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । ब्र॒ह्मणे स्वा॒हे॒ति अग्नौ॒ हुत्वा॒,
म॒न्थे सꣳस्रव॒म॒वनयति । क्षत्रा॒य स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति ।
pM7
K 3, variato ordine; vide infra
भूः॒ स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । भु॒वः स्वा॒हे॒ति
अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । स्वः॒ स्वा॒हे॒ति अग्नौ॒ हुत्वा॒,
म॒न्थे सꣳस्रव॒म॒वनयति । भू॒र्भु॒वः स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति ।
pM8
K 3, variato ordine; vide infra
अग्न॒ये स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । सो॒माय
स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । ते॒जसे स्वा॒हे॒ति
अग्नौ॒ हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । श्रियै॒ स्वा॒हे॒ति अग्नौ॒
हुत्वा॒, म॒न्थे सꣳस्रव॒म॒वनयति । लक्ष्म्यै॒ स्वा॒हे॒ति अग्नौ॒ हुत्वा॒,
म॒न्थे सꣳस्रव॒म॒वनयति । सवित्रे॒ स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति । स॒रस्वत्यै स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति । वि॒श्वेभ्यो देवे॒भ्यः स्वा॒हे॒ति अग्नौ॒ हुत्वा॒,
म॒न्थे सꣳस्रव॒म॒वनयति । प्रजा॒पतये स्वा॒हे॒ति अग्नौ॒ हुत्वा॒, म॒न्थे
सꣳस्रव॒म॒वनयति ।
pK3
K schribitpro m5-8; vide supra
अग्नये स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति । सोमाय स्वाहेति अग्नौ हुत्वा,
मन्थे सꣳस्रवमवनयति । भूः स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति ।
भुवः स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति । स्वः स्वाहेति अग्नौ हुत्वा, मन्थे
सꣳस्रवमवनयति । भूर्भुवः स्वः स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति ।
ब्रह्मणे स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति । क्षत्राय स्वाहेति अग्नौ हुत्वा,
मन्थे सꣳस्रवमवनयति । भूताय स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति ।
भविष्यते स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति । विश्वाय स्वाहेति अग्नौ हुत्वा,
मन्थे सꣳस्रवमवनयति । सर्वाय स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति ।
प्रजापतये स्वाहेति अग्नौ हुत्वा, मन्थे सꣳस्रवमवनयति ।
pM9/k4
अ॒थैनमभि॒मृशतिः भ्र॒म्
K भ्रमद्
असि, ज्वल॒दसि, पूर्ण॒मसि, प्रस्तब्ध॒मसि एकसभ॒मसि, हिङ्कृत॒मसि,
हिङ्क्रियमान॒मसि उद्गीथ॒मसि उद्गीयमान॒मसि, श्रावित॒मसि, प्रत्याश्रावित॒मसि आ॒र्द्रे
सन्दीप्त॒मसि, विभू॒रसि, प्रभू॒रसि, ज्यो॒तिरसि अ॒न्नमसि,
K वरिअतो ओर्दिनेरन्नमसि, ज्योतिरसि
निध॒नमसि, संवर्गो॒ऽसी॒ति ।
pM10/k5
अ॒थैनमु॒द्यच्छति आमो॒ऽस्य्
K आमꣳस्य्
आम॒ꣳ हि॒ ते म॒यि
K महि
स॒ हि॒ रा॒जे॒शानो॒ऽधिपतिः, स॒ माꣳ रा॒जे॒शनो॒ऽधिपतिं करोत्वि॒ति ।
pM11/k6
अ॒थैनमा॒चामतिः त॒त्षवितु॒र्व॒रेण्यं म॒धु वा॒ता ऋतायते॒ म॒धु क्षरन्ति
सि॒न्धवो; मा॒ध्वीर्नः सन्त्वो॒षधीः । भूः॒ स्वा॒हा ।
pM12/k6
भ॒र्गो देव॒स्य धीमहि म॒धु न॒क्तमुतो॒ष॒सो, म॒धुमत्पा॒र्थिवꣳ र॒जो,
म॒धु द्यौ॒रस्तु नः पिता॒ । भु॒वः स्वा॒हा ।
pM13/k6
धियो॒ यो॒ नः प्रचोद॒याद् । म॒धुमान्नो व॒नस्प॒तिः म॒धुमाꣳ२ अस्तु सू॒र्यो,
मा॒ध्वीर्ग॒वो भवन्तु नः । स्वः॒ स्वा॒हे॒ति । स॒र्वां च सावित्री॒म॒न्वाह, स॒र्वाश्च
म॒धुमतीः स॒र्वाश्च व्या॒हृतीर्
K ॐ सर्वाश् ...
अह॒मेवे॒द॒ꣳ स॒र्वं भू॒यासम् । भू॒र्भु॒वः स्वः॒ स्वाहे॒ति । अन्तत॒ आच॒म्य,
प्रक्षा॒ल्य पाणी॒
K पाणी प्रक्षाल्य
जघ॒नेनाग्निं॒ प्रा॒क्षिराः सं॒विशति ।
pM14/k6
प्रात॒रादित्य॒मु॒पतिष्ठतेः दिशा॒मेकपुण्डरीक॒मसि अहं॒ मनुष्या॒णामेकपुण्डरीकं॒
भू॒यासमि॒ति । य॒थेत॒मे॒त्य, जघ॒नेनाग्नि॒मा॒सीनो वꣳशं॒ जपतिः
pM15/k7
त॒ꣳ हैत॒मूद्दा॒लक आ॒रुणिर्वाजसनेया॒य याज्ञवल्क्या॒यान्तेवासि॒न उक्त्वो॒वाचा॒पि
य॒ एनꣳ शु॒ष्के स्थाणौ॒ निषिङ्चे॒द् जा॒येरञ्चा॒खाः, प्ररोहे॒युः प॒लाशानी॒ति ।
pM16/k8
एत॒मु हैव॒ वाजसनेयो॒ या॒ज्नवल्क्यो मधुका॒य पैङ्ग्या॒यान्तेवासि॒न उक्त्वो॒वाचा॒पि
य॒ एनꣳ शु॒ष्के स्थाणौ॒ निषिङ्चे॒द् जा॒येरञ्चा॒खाः, प्ररोहे॒युः प॒लाशानी॒ति ।
pM17/k9
एत॒मु हैव॒ म॒धुकः पै॒ङ्ग्यश्चू॒डाय
K चूलाय
भागवित्त॒येऽन्तेवासि॒न उक्त्वो॒वाचा॒पि य॒ एनꣳ शु॒ष्के स्थाणौ॒ निषिङ्चे॒द्
जा॒येरञ्चा॒खाः, प्ररोहे॒युः प॒लाशानी॒ति ।
pM18/k10
एत॒मु हैव॒ चू॒डो
K चूलो
भा॒गवित्तिर्जानक॒य अयस्थूणा॒यान्तेवासि॒न
K अयःस्थूणायान्तेवासिन
उक्त्वो॒वाचा॒पि य॒ एनꣳ शु॒ष्के स्थाणौ॒ निषिङ्चे॒द्
जा॒येरञ्चा॒खाः,
प्ररोहे॒युः प॒लाशानी॒ति ।
pM19/k11
एत॒मु हैव॒ जा॒नकिरा॒यस्थूणः
K अयःस्थूणः
षत्य॒कामाय जाबाला॒यान्तेवासि॒न उक्त्वो॒वाचा॒पि य॒ एनꣳ शु॒ष्के स्थाणौ॒
निषिङ्चे॒द् जा॒येरञ्चा॒खाः, प्ररोहे॒युः प॒लाशानी॒ति ।
pM20/k12
एत॒मु हैव॒ षत्य॒कामो जाबालो॒ऽन्तेवासि॒भ्य उक्त्वो॒वाचा॒पि य॒ एनꣳ शु॒ष्के
स्थाणौ॒ निषिङ्चे॒द् जा॒येरञ्चा॒खाः, प्ररोहे॒युः प॒लाशानी॒ति । त॒मेतं॒
ना॒पुत्राय वा॒नन्तेवासिने वा ब्रूयात् ।
pM21/k13
चतुरौदुम्बरो॒ भवति औ॒दुम्बरश्चमस॒ औ॒दुम्बरः स्रुव औ॒दुम्बर इध्म॒,
औ॒दुम्बर्या उपमन्थन्यौ॒ ।
pM22/k13
दश ग्राम्या॒णि धान्या॒नि भवन्तिः व्रीहिय॒वास्ति॒लमा॒षा अ॒णुप्रिय॒ङ्गवो गोधू॒माश्च
मसू॒राश्च ख॒ल्वाश्च खल॒कुलाश्च; ता॒न्त्सार्धं॒ पिष्ट्वा॒ दध्ना॒ म॒धुना
घृते॒नो॒पसिङ्चत्य्
K तान्पिष्टान्दधनि मधुनि घ्ऱ्^इत उपसिङ्चत्य्
आ॒ज्यस्य जुहोति ।
ch4
pMK1
एषां॒ वै॒ भूता॒नां पृथिवी॒ र॒सः, पृथिव्या॒ आ॒पो, अपा॒मो॒षधय, ओ॒षधीनां
पुष्पा॒णि, पुष्पा॒णां फ॒लानि, फ॒लानां पु॒रुषः, पु॒रुषस्य रे॒तः ।
pMK2
स॒ ह प्रजा॒पतिरीक्षां॒ चक्रेः ह॒न्तास्मै॒ प्रतिष्ठां॒ कल्प॒यानी॒ति; स॒
स्त्रि॒यꣳ ससृजे । ता॒ꣳ सृष्ट्वा॒ध॒ उ॒पास्तः त॒स्मात्स्त्रि॒यमध॒ उ॒पासीत,
श्री॒र्ह्ये॒शा॒
K ॐ श्रीर्...
स॒ एतं॒ प्रा॒ङ्चं ग्रा॒वाणमात्म॒न एव॒ समु॒दपारयत् ते॒नैनामभ्य॒सृजत ।
pMK3
त॒स्या वे॒दिरुप॒स्थो, लो॒मानि बर्हि॒श्, च॒र्माधिष॒वणे, स॒मिद्धो मध्यत॒स्तौ॒
मुष्कौ॒ । स॒ या॒वान्ह वै॒ वाजपे॒येन य॒जमनस्य लोको॒ भ॒वति, ता॒वानस्य लोको॒
भवति, य॒ एवं॒ विद्वा॒नधो॒पहासं च॒रति; आ॒ स॒
K आसाꣳ
स्त्रीणा॒ꣳ सुकृतं॒ वृङ्क्ते॒ । अथ य॒ इद॒म॒विद्वानधो॒पहासं च॒रति आ॒स्य
स्त्रि॒यः सुकृतं॒ वृङ्जते ।
pMK4
एत॒द्ध स्म वै॒ त॒द्विद्वा॒नूद्दा॒लक आ॒रुनिराहैत॒द्ध स्म वै॒ त॒द्विद्वा॒न्णा॒को
मौ॒द्गल्य आहैत॒द्ध स्म वै॒ त॒द्विद्वा॒न्कुमारहारित॒ आहः बह॒वो म॒र्या ब्राह्मनायना॒
निरिन्द्रिया॒ विसुकृतोऽस्मा॒ल् लोका॒त्प्र॒यन्ति, य॒ इद॒म॒विद्वाꣳसोऽधो॒पहासं
चरन्ती॒ति ।
pM5/k4
बहु॒ वा॒ इद॒ꣳ सुप्त॒स्य वा जा॒ग्रतो वा रे॒तः स्कन्दति ।
pM5/k5
त॒दभि॒मृशेद॒नु वा मन्त्रयेतः य॒न्मेऽद्य॒ रे॒तः पृथिवी॒म॒स्कान्त्सीद्
य॒दो॒षधीर॒प्य॒सरद् य॒दप॒, इद॒महं॒ त॒द्रे॒त आ॒ददे; पु॒नर्मामै॒तु
इन्द्रियं॒, पु॒नस्ते॒जः, पु॒नर्भ॒गः; पु॒नरग्न॒यो धि॒ष्ण्या यथास्थानं॒
कल्पन्तामि॒त्यनामिकाङ्गुष्ठा॒भ्यामादा॒यान्तरे॒ण स्त॒नौ वा भ्रु॒वौ वा नि॒मृज्यात् ।
pMK6
अ॒थ य॒द्युदक॒ आत्मा॒नं प॒श्येत् त॒दभि॒मन्त्रयेतः म॒यि ते॒ज इन्द्रियं॒
य॒शो द्र॒विणꣳ सुकृत॒मि॒ति ।
pM7/k6
श्री॒र्ह वा॒ एषा॒ स्त्रीणां॒ य॒न्मलोद्वा॒साः । त॒स्मान्मलोद्वा॒ससं
यशस्वि॒नीमभिक्र॒म्यो॒पमन्त्रयेत ।
pM7/k7
सा॒ चे॒दस्मै॒ न॒ दद्या॒त् का॒ममेनाम॒पक्रिणीयात्
K अवक्रिणीयात्
सा॒ चे॒दस्मै॒ नै॒व॒ दद्या॒त् का॒ममेनां यष्ट्या॒ वा पाणि॒ना वोपह॒त्या॒तिक्रामेद्
इन्द्रिये॒न ते य॒शसा य॒श आ॒दद, इ॒त्ययशा॒ एव॒ भवति ।
pK8
Kadd
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ।
pM8/k9
स॒ या॒मिच्छे॒त् काम॒येत मे॒ति, त॒स्याम॒र्थं निष्ठा॒प्य !
K निष्ठाय
मु॒खेन मु॒खꣳ सन्धा॒योप॒स्थमस्या अभिमृश्य, जपेद॒ङ्गाद॒ङ्गात्स॒म्भवसि,
हृदयाद॒धिजायसे; स॒ त्व॒मङ्गकषायो॒ऽसि, दि॒ग्धविद्धामिव मादये॒ति
Kadd इमाममूं मयीति
pM9/k10
अ॒थ या॒मिच्छे॒द् न॒ ग॒र्भं दधीते॒ति, त॒स्याम॒र्थं निष्ठा॒प्य
K निष्ठाय
मु॒खेन मु॒खꣳ सन्धा॒याभिप्रा॒ण्या॒पान्यादिन्द्रिये॒ण ते रे॒तसा रे॒त आ॒दद,
इ॒त्यरेता॒ एव॒ भवति ।
pM10/k11
अ॒थ या॒मिच्छे॒द् ग॒र्भं दधीते॒ति, त॒स्याम॒र्थं निष्ठा॒प्य
K निष्ठाय
मु॒खेन मु॒खꣳ सन्धा॒यापा॒न्याभिप्रा॒ण्यादिन्द्रिये॒ण ते रे॒तसा रे॒त आ॒दधामी॒ति;
गर्भि॒ण्येव॒ भवति ।
pM11/k12
aliteH vide infra
अ॒थ य॒स्य जाया॒यै जारः॒ स्या॒त् तं॒ चे॒द्द्विष्या॒दा॒मपात्रेऽग्नि॒मुपसमाधा॒य,
प्रतिलोम॒ꣳ शरबर्हिः॒ स्तीर्त्वा॒, त॒स्मिन्नेताः॒ तिस्रः॒ शर॒भृष्टीः प्रतिलोमाः॒
सर्पि॒षाक्ता॒ जुहुयान् म॒म स॒मिद्धे॒ऽहौषीरशापराकाशौ॒ त आ॒ददे, असा॒वि॒ति
ना॒म गृभ्णाति म॒म स॒मिद्धे॒ऽहौषीः, पुत्रपशू॒ꣳस्त आ॒ददे, असा॒वि॒ति ना॒म
गृब्णाति म॒म स॒मिद्धे॒ऽहौषीः, प्राणापानौ॒ त आ॒ददे, असा॒वि॒ति ना॒म गृब्णाति स॒
वा॒ एष॒ निरिन्द्रियो॒ विसुकृदस्मा॒ल् लोका॒द्प्रै॒ति, य॒मेवंवि॒द्ब्राह्मणः॒ श॒पति ।
त॒स्मादेवंवित्श्रो॒त्रियस्य जाया॒योपहासं॒ ने॒च्छेद्; उत॒ ह्ये॒वंवि॒त्प॒रो भवति ।
pK12
m11 aliteH vide supra
अथ यस्य जायायै जारः स्यात् तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय, प्रतिलोमꣳ
शरबर्हिः स्तीर्त्वा, तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान् मम
समिद्धेऽहौषीः, प्राणापानौ त आददे, असाविति । मम समिद्धेऽहौषीः, पुत्रपशूꣳस्त
आददे, असाविति । मम समिद्धेऽहौषीरशापराकाशौ त आददे असाविति । मम समिद्धेऽहौषीः
इष्टासुकृते त आददे, असाविति । स वा एष निरिन्द्रियो॒ विसुकृतोऽस्माल् लोकाद्प्रैति,
यमेवंविद्ब्राह्मणः शपति । तस्मादेवंवित्श्रो॒त्रियस्य दारेण नोपहासमिच्छेद्; उत ह्य्
एवंवित्परो भवति ।
pM12/k13
अ॒थ य॒स्य जाया॒मार्तवं॒ विन्दे॒त् त्र्यहं॒ कꣳसे॒ न॒ पिबेद॒हतवासा; नै॒नां
वृषलो, न॒ वृषल्यु॒पहन्यात्
K अपहन्यात्
त्रिरात्रान्त॒ आप्लू॒य
K आप्लुत्य
व्रीही॒न॒वघातयेत् ।
pM13/k14
स॒ य॒ इच्छे॒त् पुत्रो॒ मे गौरो॒
K शुक्लो
जायेत, वे॒दम॒नुब्रुवीत, स॒र्वमा॒युरियादि॒ति, क्षीरौ॒दनं पाचयित्वा॒
स॒र्पिष्मन्तमश्नीया॒ताम्; ईश्वरौ॒ ज॒नयितवै॒ ।
pM14/k15
अ॒थ य॒ इच्छे॒त् पुत्रो॒ मे कपिलः॒ पिङ्गलो॒ जायेत, द्वौ॒ वे॒दाव॒नुब्रुवीत,
स॒र्वमा॒युरियादि॒ति, दध्यो॒दनं पाचयित्वा॒ स॒र्पिष्मन्तमश्नीया॒ताम्; ईश्वरौ॒
ज॒नयितवै॒ ।
pM15/k16
अ॒थ य॒ इच्छे॒त् पुत्रो॒ मे श्यामो॒ लोहिताक्षो॒ जायेत, त्री॒न्वे॒दान॒नुब्रुवीत,
स॒र्वमा॒युरियादि॒ति उदौ॒दनं पाचयित्वा॒ स॒र्पिष्मन्तमश्नीया॒ताम्; ईश्वरौ॒
ज॒नयितवै॒ ।
pM16/k17
अ॒थ य॒ इच्छे॒द् दुहिता॒ मे पण्डिता॒ जायेत, स॒र्वमा॒युरियादि॒ति, तिलौ॒दनं
पाचयित्वा॒ स॒र्पिष्मन्तमश्नीया॒ताम्; ईश्वरौ॒ ज॒नयितवै॒ ।
pM17/k18
अ॒थ य॒ इच्छे॒त् पुत्रो॒ मे पण्डितो॒ विजिगीथः॒
K विगीतः
समिति॒ङ्गमः शुश्रू॒षितां वा॒चं भा॒षिता जायेत, स॒र्वान्वे॒दान॒नुब्रुवीत,
स॒र्वमा॒युरियादि॒ति, माꣳसौ॒दनं पाचयित्वा॒ स॒र्पिष्मन्तमश्नीया॒ताम्; ईश्वरौ॒
ज॒नयितवाइ । अ॒उक्ष्णे॒ण
K औक्षेण
वा॒र्षभेण वा ।
pM18/k19
अ॒थाभिप्रात॒रेव॒ स्थालीपाकावृता॒ज्यꣳ चेष्टित्वा॒, स्थालीपाक॒स्योपघा॒तं
जुहोति आग्न॒ये स्वा॒हा॒- -नुमतये स्वा॒हा देवा॒य षवित्रे॒ सत्य॒प्रसवाय स्वा॒हे॒ति,
हुत्वो॒द्धृत्य प्रा॒श्नाति । प्रा॒श्ये॒तरस्याः प्र॒यच्छति । प्रक्षा॒ल्य पाणी॒,
उदपात्रं॒ पूरयित्वा॒, ते॒नैनां त्रि॒रभ्यु॒क्षति उ॒त्तिष्ठा॒तो, विश्वावसौ अन्या॒मिच्छ
प्रफर्व्य॒म्
K प्रपूर्व्याम्
सं॒ जायां॒ प॒त्या सहे॒ति ।
pM19/k20
अ॒थैनामभि॒पद्यते॒रमोऽह॒मस्मि, सा॒ त्व॒ꣳ; सा॒ त्व॒मसि अमो॒ऽह॒ꣳ;
सा॒माह॒मस्मि ऋक्त्वं॒; द्यौ॒रहं॒, पृथिवी॒ त्व॒म् । ता॒वे॒हि सꣳरभा॒वहै,
सह॒ रे॒तो दधा॒वहै पुꣳसे॒ पुत्रा॒य वित्त॒य इ॒ति ।
pM20/k21
अ॒थास्या ऊरू॒ वि॒हापयतिः वि॒जिहीथां द्यावापृथिवी॒ इ॒ति । त॒स्याम॒र्थं निष्ठा॒प्य
K निष्ठाय
मु॒खेन मु॒खꣳ सन्धा॒य, त्रि॒रेनाम॒नुलोमाम॒नुमार्ष्टिः वि॒ष्णुर्यो॒निं कल्पयतु,
ट्व॒ष्टा रूपा॒णि पिंशतु आ॒सिञ्चतु प्रजा॒पतिः धा॒ता ग॒र्भं दधातु ते । ग॒र्भं
धेहि, षिनीवालि; ग॒र्भं धेहि, पृथुष्टुके । ग॒र्भं ते आश्वि॒नौ देवा॒वा॒धत्तां
पुष्करस्र॒जौ ।
pM21/k22
हिरण्य॒नी
K हिरण्मयी
अ॒रणी या॒भ्यां निर्म॒न्थतामाश्वि॒नौ देवौ॒
K ॐ
तं॒ ते ग॒र्भꣳ हवामहे, दशमे॒ मासि॒ सू॒तवे
K सूतये
य॒थाग्नि॒गर्भा पृथिवी॒, य॒था द्यौ॒र्९न्द्रेण गर्भि॒णी, वायुर्दिशां॒ य॒था ग॒र्भ,
एवं॒ ग॒र्भं दधामि ते, असा॒वि॒ति ना॒म गृह्णाति
K ॐ ना॒म ...
pM22/k23
सोष्य॒न्तीम॒द्भिरभ्यु॒क्षतिः य॒था वा॒तः
K वायुः
पुष्करि॒णीꣳ समिङ्ग॒यति सर्व॒त एवा॒ ते ग॒र्भ ए॒जतु, सहा॒वैतु जरा॒युणे॒-
-न्द्रस्यायं॒ व्रजः॒ कृतः॒ सा॒र्गलः स॒परिश्रयस्; त॒म् ईन्द्र, नि॒र्जहि ग॒र्भेण
सा॒वराꣳ सहे॒ति ।
pM23/k24
जाते॒ऽग्नि॒मुपसमाधा॒याङ्क॒ आधा॒य, कꣳसे॒ पृषदाज्य॒ꣳ सन्नी॒य,
पृषदाज्य॒स्योपघा॒तं जुहोति अस्मि॒न्त्सह॒स्रं पुष्यासम् ए॒धमानः स्व॒गृहे
K स्वे ग्ऱ्^इहे
अस्यो॒पसद्यां
K ऽस्यो॒पसन्द्यां
मा॒ छैत्सीत् प्रज॒या च पशु॒भिश्च, स्वा॒हा । म॒यि प्राणा॒ꣳस्त्व॒यि म॒नसा
जुहोमि, स्वा॒हा ।
pMK24
य॒त्क॒र्मणात्य॒रीरिचं, य॒द्वा न्यू॒नमिहा॒करम् आग्नि॒स्त॒त्स्विष्टकृद्विद्वा॒न्त्
स्वि॒ष्टꣳ सु॒हुतं करोतु नः, स्वा॒हे॒ति ।
pM25
pro m25 schribitkrishna 25-26; vide infra
अ॒थास्यायुष्यं॒ करोति द॒क्षिणं क॒र्णमभिनिधा॒यः वा॒ग्वा॒गि॒ति त्रिः॒ । अ॒थास्य
नामधे॒यं करोतिः वे॒दोऽसी॒ति, त॒दस्यैत॒द्गु॒ह्यमेव॒ ना॒म स्याद् । अ॒थ द॒धि
म॒धु घृत॒ꣳ सꣳसृज्या॒नन्तर्हितेन जातरूपे॒ण प्रा॒शयतिः भू॒स्त्व॒यि
दधामि, भु॒वस्त्व॒यि दधामि, स्व॒स्त्व॒यि दधामि; भू॒र्भु॒वः स्वः॒ स॒र्वं
त्व॒यि दधामी॒ति ।
pK25
maliteH vide supra
अथास्य दक्षिणं कर्णमभिनिधायः वाग्वागिति त्रिः । अथ, दधि मधु
घृतꣳ सन्नीयानन्तर्हितेन जातरूपेण प्राशयतिः भूस्ते दधामि,
भुवस्ते दधामि, स्वस्ते दधामि; भूर्भुवः स्वः सर्वं त्वयि दधामीति ।
pK26
k; maliteH vide supra
अथास्य नाम करोतिः वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति ।
pM26
K ॐ
अ॒थैनमभि॒मृषति अ॒श्मा भव परशु॒र्भव हि॒रण्यमस्रुतं॒ भव; आत्मा॒ वै॒
पुत्रना॒मासि । स॒ जी॒व शर॒दः शत॒मि॒ति ।
pM27/k28
अ॒थास्य मात॒रमभि॒मन्त्रयतः ९डासि मैत्रावरुणी॒; वीरे॒ वीर॒मजीजनथाः
K अजीजनत्
सा॒ त्वं॒ वीर॒वती भव, या॒स्मा॒न्वीर॒वतोऽकरदि॒ति ।
pM28/k27
अ॒थैनं मात्रे॒ प्रदा॒य स्त॒नं प्र॒यच्छतिः य॒स्ते स्त॒नः शशयो॒ यो॒
मयोभू॒र्यो॒ रत्नधा॒ वसुवि॒द्यः॒ सुद॒त्रो, ये॒न वि॒श्वा पु॒ष्यसि वा॒र्याणि,
ष॒रस्वति, त॒मिह॒ धा॒तवे क॒रि॒ति ।
pM29/k28
तं॒ वा॒ एत॒माहुर॒तिपिता बता॒भूर॒तिपितामहो बता॒भूः । परमां॒ बत का॒ष्ठां
प्रा॒प श्रिया॒ य॒शसा ब्रह्मवर्चसे॒न, य॒ एवंवि॒दो ब्राह्मण॒स्य पुत्रो॒ जा॒यत
इ॒ति । [पनुस्तुब्]
pM30
pro m4,30-33, K schribit5; vide infra
अ॒थ वꣳश॒स्; त॒दिदं॒ वयं॒ भा॒रद्वाजीपु॒त्राद् भा॒रद्वाजीपु॒त्रो
वा॒त्सीमाण्डवीपु॒त्राद् वा॒त्सीमाण्डवीपु॒त्रः पा॒राशरीपु॒त्राद् पा॒राशरीपु॒त्रो
गा॒र्गीपु॒त्राद् गा॒र्गीपु॒त्रः पा॒रशरीकौण्डिनीपु॒त्रात् पा॒रशरीकौण्डिनीपु॒त्रो
गा॒र्गीपु॒त्राड्, गा॒र्गीपु॒त्रो गा॒र्गीपु॒त्राड्, गा॒र्गीपु॒त्रो बा॒डेयीपु॒त्राद् बा॒डेयीपु॒त्रो
मौ॒षिकीपु॒त्रान् मौ॒षीकिपु॒त्रो हा॒रिकर्णीपु॒त्राद् ढा॒रिकर्णीपु॒त्रो भा॒रद्वाजीपु॒त्राद्
भा॒रद्वाजीपु॒त्रः पै॒ङ्गीपु॒त्रात् पै॒ङ्गीपु॒त्रः
pM31
pro m4,30-33, K schribit5; vide infra
का॒श्यपीबालाक्यामाठरीपु॒त्रात् का॒श्यपीबालाक्यामाठरीपु॒त्रो कौ॒त्सीपु॒त्रात् कौ॒त्सीपु॒त्रो
भौ॒धीपु॒त्राद् भौ॒धीपु॒त्रः हा॒लङ्कायनीपु॒त्राच्, हा॒लङ्कायनीपु॒त्रो
वा॒र्षमणीपु॒त्राद् वा॒र्षमणीपु॒त्रो गौ॒तमीपु॒त्राद् गौ॒तमीपु॒त्रऽत्रेयीपु॒त्राद्
अत्रेयीपु॒त्रो गौ॒तमीपु॒त्राद् गौ॒तमीपु॒त्रो वा॒त्सीपु॒त्राद् वा॒त्सीपु॒त्रो
भा॒रद्वाजीपु॒त्राद् भा॒रद्वाजीपु॒त्रः पा॒राशरीपु॒त्रात् पा॒राशरीपु॒त्रो
वा॒र्कारुणीपु॒त्रात् वा॒र्कारुणीपु॒त्रोऽर्तभागीपु॒त्रात् अर्तभागीपु॒त्रः हौ॒ङ्गीपु॒त्राच्,
छौ॒ङ्गीपु॒त्रः षा॒ङ्कृतिपु॒त्रात् षा॒ङ्कृतिपु॒त्र
pM32
pro m4,30-33, K schribit5; vide infra
अलम्बीपु॒त्रात् अलम्बीपु॒त्रऽलम्बायनीपुत्रात् अलम्बायनीपु॒त्रो जा॒यन्तीपु॒त्रात् जा॒यन्तीपु॒त्रो
मा॒ण्डूकायनीपु॒त्रान् मा॒ण्डूकायनीपु॒त्रो मा॒ण्डूकीपु॒त्रान् मा॒ण्डूकीपु॒त्रः हा॒ण्डिलीपु॒त्रात्
हा॒ण्डिलीपु॒त्रो रा॒थीतरीपु॒त्राद् रा॒थीतरीपु॒त्रो क्रौ॒ङ्चिकीपु॒त्राभ्यां,
क्रौ॒ङ्चिकीपु॒त्रौ वै॒दभृतीपु॒त्राद् वै॒दभृतीपु॒त्रो भा॒लुकीपु॒त्राद्
भा॒लुकीपु॒त्रः प्रा॒चीनयोगीपु॒त्रात् प्रा॒चीनयोगीपु॒त्रः षा॒ञ्जीवीपु॒त्रात्
षा॒ञ्जीवीपु॒त्रः का॒र्शकेयीपु॒त्रात् का॒र्शकेयीपु॒त्रः
pM33
pro m4,30-33, K schribit5; vide infra
प्रा॒श्नीपु॒त्रादसुरिवा॒सिनः प्रा॒श्नीपु॒त्र असुरायना॒दसुरायण॒ असुरेः॒
असुरिः॒ या॒ज्ञवल्क्याद् या॒ज्ञवल्क्य ऊद्दा॒लकादूद्दा॒लको॒ऽरुणादरुण
ओपवेशेः ओपवेशिः कु॒श्रेः, कु॒श्रिर्वाजश्रवसो, वाजश्रवा जीह्वा॒वतो बा॒ध्योगात्
जीह्वा॒वान्बा॒ध्योगो॒ऽसिताद्वा॒र्षगणादसितो वा॒र्षगणो ह॒रितात्क॒श्यपाद् ढ॒रितः
क॒श्यपः हि॒ल्पात्क॒श्यपाच्, छि॒ल्पः क॒श्यपः क॒श्यपान्णै॒ध्रुवेः, क॒श्यपो
णै॒ध्रुविर्वा॒चो, वा॒गाम्भि॒ण्या, आम्भि॒ण्यदित्या॒दादित्या॒नीमा॒नि शुक्ला॒नि
य॒जूꣳषि वाजसनेयेन या॒ज्ञवल्क्येनाख्ययन्ते ।
chk5
schribitkrishna pro m4,30-33
pK1
अथ वꣳशः पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो
गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रः
कात्यायनीपुत्रात् कात्यायनीपुत्रः कौशिकीपुत्रात् कौशिकीपुत्र अलम्बीपुत्राच्च
वैयाघ्रपदीपुत्राच्च, वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च,
कापीपुत्रः
pK2
अत्रेयीपुत्रादत्रेयीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः
पाराशरीपुत्रात् पाराशरीपुत्रो वात्सीपुत्राद् वात्सीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वार्कारुनीपुत्राद् वार्कारुणीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्र
अर्तभागीपुत्रादर्तभागीपुत्रः हौङ्गीपुत्राच्, छौङ्गीपुत्रः षान्कृतीपुत्रात्
षाङृतीपुत्र अलम्बायनीपुत्रादलम्बायनीपुत्र अलम्बीपुत्रादलम्बीपुत्रो
जायन्तीपुत्रात् जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
माण्डूकीपुत्रः हाण्डिलीपुत्राच्, छाण्डिलीपुत्रो राथीतरीपुत्राद् राथीतरीपुत्रो
भालुकीपुत्राद् भालुकीपुत्रः क्रौङ्चिकीपुत्राभ्यां, क्रौङ्चिकीपुत्रौ
वैदभृतीपुत्राद् वैदभृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः
प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः षाङ्जीवीपुत्रात् षाङ्जीवीपुत्रः
प्राश्नीपुत्रादसुरिवासिनः, प्राश्नीपुत्र असुरायणादसुरायण असुरेरासुरिः
pK3
याज्ञवल्क्याद् याज्ञवल्क्य ऊद्दालकादूद्दालकोऽरुणादारुण ऊपवेशेः
ऊपवेशिः कुश्रेः, कुश्रिर्वाजश्रवसो, वाजश्रवा जीह्वावतो बाध्योगात्
जीह्वावान्बाध्योगोऽसिताद्वार्षगणाद् आसितो वार्षगणो हरितात्कश्यपाद् ढरितः
कश्यपः हिल्पात्कश्यपात् हिल्पः कश्यपः कश्यपान्णैध्रुवेः, कश्यपो
णैध्रुविर्वाचो, वागाम्भिण्या, आम्भिण्यदित्याद्; आदित्यानीमानि शुक्लानि यजूꣳषि
वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ।
pK4
षमानमा षाङ्जीवीपुत्रात् षङ्जिवीपुत्रो माण्डूकायनेः माण्डूकायनिर्माण्डव्याद्
माण्डव्यः कौत्सात् कौत्सो माहित्थेः माहित्थिर्वामकक्षायणाद् वामकक्षायणः
हाण्डिल्याच्, छाण्डिल्यो वात्स्याद् वात्स्यः कुश्रेः, कुश्रिर्यज्ञवचसः
राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनः टुरात्कावषेयात् टुरः कावषेयः
प्रजापतेः, प्रजापतिर्ब्रह्मणो; ब्रह्म स्वयम्भु । ब्रह्मणे नमः ।
BrihadAraNyakopaniShad MAdhyandina-Recension / KANva-Recension
edited by Marcos Albino, Erlangen 1996-1997; TITUS version by
Jost Gippert,