॥ बृहदारण्यकोपनिषत् ॥

काण्व पाठः । A मधु काण्ड[उपदेश काण्ड] अध्याय I ब्राह्मण i-vi मन्त्राः ८० 1-... अध्याय II ब्राह्मण i-vi मन्त्राः ६६ 1-... B मुनि [yAj~navalkya] काण्ड [उपपत्ति काण्ड] अध्याय III ब्राह्मण i-ix मन्त्राः ९२ 1-... अध्याय IV ब्राह्मण i-vi मन्त्राः ९२ 1-... C खिल काण्ड[उपासना काण्ड] अध्याय V ब्राह्मण i-xv मन्त्राः ३३ 1-... अध्याय VI ब्राह्मण i-v मन्त्राः ७५ 1-... ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदुच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ अथ प्रथमोऽध्यायः । प्रथमं ब्राह्मणम् । मन्त्र १ [I.i.1] उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर् वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः पृष्ठम् अन्तरिक्षमुदरम् पृथिवी पाजस्यम् दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्य् अहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो माꣳसान्य् ऊवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्य् उद्यन्पूर्वार्धो निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥ मन्त्र २ [I.i.2] अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिर् एतौ वा अश्वं महिमानावभितः सम्बभूवतुर् हयो भूत्वा देवानवहद् वाजी गन्धर्वान् अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥ इति प्रथमं ब्राहमणम् ॥ द्वितीयं ब्राह्मणम् । मन्त्र १ [I.I.1] नैवेह किंचनाग्र आसीन् मृत्युनैवेदमावृतमासीदशनाययाऽशनाया हि मृत्युस् तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् । कꣳ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥ मन्त्र २[I.I.2] आपो वा अर्क तद्यदपाꣳ शर आसीत् तत्समहन्यत । सा पृथिव्यभवत् तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥ मन्त्र ३ [I.I.3] स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयम् वायुं तृतीयꣳ । स एष प्राणस्त्रेधा विहितस् तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव अथास्य प्रतीची दिक्पुच्छम् असौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठम् अन्तरिक्षमुदरम् इयमुरः स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥ मन्त्र ४[I.I.4] सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनꣳ समभवदशनाया मृत्युस् तद्यद्रेत आसीत् स संवत्सरोऽभवन् न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभर्यावान्संवत्सरस् तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् स भाणकरोत् सैव वागभवत् ॥ ४ ॥ मन्त्र ५[I.I.5] स ऐक्षत यदि वा इममभिमꣳस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनाऽऽत्मनेदꣳ सर्वमसृजत यदिदं किञ्चर्चो यजूꣳषि सामानि छन्दाꣳसि यज्ञान् प्रजाः पशून् स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदितित्वꣳ । सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥ मन्त्र ६[I.I.6] सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् प्राणा वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीरꣳ श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥ मन्त्र ७[I.I.7] सोऽकामयत मेध्यं म इदꣳ स्याद् आत्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद् यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वम् एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तꣳ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस् तस्येमे लोका आत्मानस् तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा भवत्य् एतासां देवतानामेको भवति ॥ ७ ॥ इति द्वितीयं ब्राह्मणम् ॥ तृतीयं ब्राह्मणम् । मन्त्र १ [I.Ii.1] द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर् हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥ मन्त्र २[I.Ii.1] ते ह वाचमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥ मन्त्र ३[I.Ii.3] अथ ह प्राणमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद् यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥ मन्त्र ४[I.Ii.4] अथ ह चक्षुरूचुस् त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद् यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥ ४ ॥ मन्त्र ५[I.Ii.5] अथ ह श्रोत्रमूचुस् त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद् यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ शृणोति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ शृणोति स एव स पाप्मा ॥ ५ ॥ मन्त्र ६[I.Ii.6] अथ ह मन ऊचुस् त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद् यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ सङ्कल्पयति तदात्मने । ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिस् उपासृजन् एवमेनाः पाप्मनाऽविध्यन् ॥ ६ ॥ मन्त्र ७[I.Ii.7] अथ हेममासन्यं प्राणमूचुस् त्वं न उद्गायेति । तथेति । तेभ्य एष प्राण उदगायत् ते विदुर् अनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वꣳसेतैवꣳ हैव विध्वꣳसमाना विष्वञ्चो विनेशुस् ततो देवा अभवन् पराऽसुराः । भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥ मन्त्र ८[I.Ii.8] ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्य् अयमास्येऽन्तरिति सोऽयास्य आङ्गिरसो ऽङ्गानाꣳ हि रसः ॥ ८ ॥ मन्त्र ९[I.Ii.9] सा वा एषा देवता दूर्नाम दूरꣳ ह्यस्या मृत्युर् दूरꣳ ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ ९ ॥ मन्त्र १०[I.Ii.10] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां दिशामन्तस् तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥ मन्त्र ११[I.Ii.11] सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥ मन्त्र १२[I.Ii.12] स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥ मन्त्र १३[I.Ii.13] अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥ मन्त्र १४[I.Ii.14] अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥ मन्त्र १५[I.Ii.15] अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवꣳस् ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ मन्त्र १६[I.Ii.16] अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्य् एवꣳ ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥ मन्त्र १७[I.Ii.17] अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यते ऽनेनैव तदद्यत इह प्रतितिष्ठति ॥ १७ ॥ मन्त्र १८[I.Ii.18] ते देवा अब्रुवन्न् एतावद्वा इदꣳ सर्वं यदन्नम् तदात्मन आगासीर् अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति । तथेति । तꣳ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्य् एवꣳ ह वा एनꣳ स्वा अभिसंविशन्ति भर्ता स्वानाꣳ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर् य एवं वेद । य उ हैवंविदꣳ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्य् अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥ मन्त्र १९[I.Ii.19] सोऽयास्य आङ्गिरसो ऽङ्गानाꣳ हि रसः । प्राणो वा अङ्गानाꣳ रसः । प्राणो हि वा अङ्गानाꣳ रसस् तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्य् एष हि वा अङ्गानाꣳ रसः ॥ १९ ॥ मन्त्र २०[I.Ii.20] एष उ एव बृहस्पतिर् वाग्वै बृहती तस्या एष पतिस् तस्मादु बृहस्पतिः ॥ २० ॥ मन्त्र २१[I.Ii.21] एष उ एव ब्रह्मणस्पतिर् वाग्वै ब्रह्म तस्या एष पतिस् तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥ मन्त्र २२[I.Ii.22] एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यꣳ सलोकताम् य एवमेतत्साम वेद ॥ २२ ॥ मन्त्र २३[I.Ii.23] एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदꣳ सर्वमुत्तब्धम् । वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥ मन्त्र २४[I.Ii.24] तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥ मन्त्र २५[I.Ii.25] तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति । भवति हास्य स्वम् य एवमेतत्साम्नः स्वं वेद ॥ २५ ॥ मन्त्र २६[I.Ii.26] तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम् य एवमेतत्साम्नः सुवर्णं वेद ॥ २६ ॥ मन्त्र २७[I.Ii.27] तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ऽन्न इत्यु हैक आहुः ॥ २७ ॥ मन्त्र २८[I.Ii.28] अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेद् असतो मा सद् गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा सद्गमयेति मृत्युर्वा असत् सदमृतम् मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतम् मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह । मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्य् अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं कामं कामयेत तꣳ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ २८ ॥ इति तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्राह्मणम् । मन्त्र १ [I.iv.1] आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह वै स तम् योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १ ॥ मन्त्र २[I.iv.2] सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥ मन्त्र ३[I.iv.3] स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमाꣳसौ सम्परिष्वक्तौ । स इममेवाऽऽत्मानं द्वेधाऽपातयत्। ततः पतिश्च पत्नी चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस् तस्मादयमाकाशः स्त्रिया पूर्यत एव । ताꣳ समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥ मन्त्र ४[I.iv.4] सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ इतरस् ताꣳ समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद् अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस् ताꣳ समेवाभवत् तत एकशफमजायत अजेतराऽभवद् वस्त इतरो ऽविरितरा मेष इतरस् ताꣳ समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस् तत्सर्वमसृजत ॥ ४ ॥ मन्त्र ५[I.iv.5] सोऽवेद् अहं वाव सृष्टिरस्म्य् अहꣳ हीदꣳ सर्वमसृक्षीति । ततः सृष्टिरभवत् सृष्ट्याꣳ हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥ मन्त्र ६[I.iv.6] अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतो ऽलोमका हि योनिरन्तरतस् तद्यदिदमाहुर् अमुं यजामुं यजेत्येकैकं देवम् एतस्यैव सा विसृष्टिर् एष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रम् तद्रेतसोऽसृजत तदु सोमः । एतावद्वा इदꣳ सर्वमन्नं चैवान्नादश्च सोम एवान्नम् अग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिर् यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् अतिसृष्ट्याꣳ हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥ मन्त्र ७[I.iv.7] तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदꣳरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदꣳरूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्य् अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्ह्रोत्रम् मन्वानो मनस् तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्य् आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देद् एवं कीर्तिꣳ श्लोकं विन्दते य एवं वेद ॥ ७ ॥ मन्त्र ८[I.iv.8] तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्माद् अन्तरतरम् यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियꣳ रोत्स्यतीतीश्वरो ह तथैव स्याद् आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥ मन्त्र ९[I.iv.9] तदाहुर् यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९ ॥ मन्त्र १०[I.iv.10] ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेद् अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणाम् तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवꣳ सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति इति स इदꣳ सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषाꣳ स भवत्य् अथ योऽन्यां देवतामुपास्ते ऽन्योऽसाव् अन्योऽहमस्मीति न स वेद । यथा पशुरेवꣳ स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर् एवमेकैकः पुरुषो देवान्भुनक्त्य् एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥ मनुष्यास् विद्युर् मन्त्र ११[I.iv.11] ब्रह्म वा इदमग्र आसीदेकमेव । तदेकꣳ सन्न व्यभवत् तच्छ्रेयो रूपमत्यसृजत क्षत्रम् यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनꣳ हिनस्ति स्वाꣳ स योनिमृच्छति । स पापीयान्भवति यथा श्रेयाꣳसꣳ हिꣳसित्वा ॥ ११ ॥ मन्त्र १२[I.iv.12] स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥ मन्त्र १३[I.iv.13] स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणम् इयं वै पूषेयꣳ हीदꣳ सर्वं पुष्यति यदिदं किञ्च ॥ १३ ॥ मन्त्र १४[I.iv.14] स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् । तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस् तस्माद्धर्मात् परं नास्त्य् अथो अबलीयान् बलीयाꣳसमाशꣳसते धर्मेण यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर् धर्मं वदतीति धर्मं वा वदन्तꣳ सत्यं वदतीत्य् एतद्ध्येवैतदुभयं भवति ॥ १४ ॥ मन्त्र १५[I.iv.15] तदेतद्ब्रह्म क्षत्रं विट् शूद्रस् तदग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस् तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्व् एताभ्याꣳ हि रूपाभ्यां ब्रह्माभवद् अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ऽस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥ मन्त्र १६[I.iv.16] अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोको ऽथ यदनुब्रूते तेन ऋषीणाम् अथ यत् पितृभ्यो निपृणाति अथ यत्प्रजामिच्छते तेन पितृणाम् अथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् यदस्य गृहेषु श्वापदा वयाꣳस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद् एवꣳ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमाꣳसितम् ॥ १६ ॥ मन्त्र १७[I.iv.17] आत्मैवेदमग्र आसीद् एक एव । सोऽकामयत जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्यात् अथ कर्म कुर्वीयेत्य् एतावान्वै कामो नेच्छꣳश्चनातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोत्य् अकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तम् चक्षुषा हि तद्विन्दते श्रोत्रं दैवꣳ श्रोत्रेण हि तच्छृणोत्य् आत्मैवास्य कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदꣳ सर्वं यदिदं किञ्च । तदिदꣳ सर्वमाप्नोति य एवं वेद ॥ १७ ॥ इति चतुर्थं ब्राह्मणम् ॥ पञ्चमं ब्राह्मणम् । मन्त्र १[I.v.1] यत्सप्तान्नानि मेधया तपसाऽऽजनयत्पिता । एकमस्य साधारणम् द्वे देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्। तस्मिन्त्सर्वं प्रतिष्ठितम् यच्च प्राणिति यच्च न ॥ कस्मात्तानि न क्षीयन्ते ऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥ मन्त्र २[I.v.1] यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाजनयत् पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नम् यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रꣳ ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वत्य् अथो आहुर् दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्य् अथ वत्सं जातमाहुर् अतृणाद इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदꣳ सर्वं प्रतिष्ठितम् यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद् यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वꣳ हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते । यो वै तामक्षितिं वेदेति पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिर् यद्धैतन्न कुर्यात् क्षीयेत ह । सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकम् मुखेनेत्येतत् स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशꣳसा ॥ २ ॥ मन्त्र ३[I.v.3] त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणम् तान्यात्मनेऽकुरुतान्यत्रमना अभूवम् नादर्शम् अन्यत्रमना अभूवम् नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥ मन्त्र ४[I.v.4] त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥ मन्त्र ५[I.v.5.] त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥ मन्त्र ६[I.v.6] देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः । मन्त्र ७[I.v.7] पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥ मन्त्र ८[.I.v.8] विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपम् वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८ ॥ मन्त्र ९[I.v.9] यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् मनो हि विजिज्ञास्यम् मन एनं तद्भूत्वाऽवति ॥ ९ ॥ मन्त्र १०[I.v.10] यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति ॥ १० ॥ मन्त्र ११[I.v.11] तस्यै वाचः पृथिवी शरीरम् ज्योती रूपमयमग्निस् तद्यावत्येव वाक् तावती पृथिवी तावानयमग्निः ॥ ११ ॥ मन्त्र १२[I.v.12] अथैतस्य मनसो द्यौः शरीरम् ज्योतीरूपमसावादित्यस् तद्यावदेव मनस्तावती द्यौस् तावानसावादित्यस् तौ मिथुनꣳ समैताम् ततः प्राणोऽजायत । स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥ मन्त्र १३[I.v.13] अथैतस्य प्राणस्याऽऽपः शरीरम् ज्योतीरूपमसौ चन्द्रस् तद्यावानेव प्राणस् तावत्य आपस् तावानसौ चन्द्रः । त एते सर्व एव समाः सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्ते ऽन्तवन्तꣳ स लोकं जयत्य् अथ यो हैताननन्तानुपास्ते ऽनन्तꣳ स लोकं जयति ॥ १३ ॥ मन्त्र १४[I.v.14] स एष संवत्सरः प्रजापतिः षोडशकलस् तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवाऽऽ च पूर्यते ऽप च क्षीयते । सोऽमावास्याꣳ रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेताꣳ रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥ अपचित्यै मन्त्र १५[I.v.15] यो वै स संवत्सरः प्रजापतिः षोडशकलो ऽयमेव स योऽयमेवंवित्पुरुषस् तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षोडशी कला । स वित्तेनैवाऽऽ च पूर्यते ऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः ॥ १५ ॥ मन्त्र १६[I.v.16] अथ त्रयो वाव लोकाः मनुष्यलोका पितृलोको देवलोक इति । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानाꣳ श्रेष्ठस् तस्माद्विद्यां प्रशꣳसन्ति ॥ १६ ॥ मन्त्र १७[I.v.17] अथातः सम्प्रत्तिर् यदा प्रैष्यन्मन्यते ऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस् त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो ऽहम् लोक इति । यद्वै किञ्चानूक्तम् तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास् तेषाꣳ सर्वेषां यज्ञ इत्येकता । ये वै केच लोकास् तेषाꣳ सर्वेषां लोक इत्येकतैतावद्वा इदꣳ सर्वम् एतन्मा सर्वꣳ सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस् तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात्प्रैत्य् अथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति तस्मादेनꣳ सर्वस्मात्पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिंॅल्लोके प्रतितिष्ठत्य् अथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥ मन्त्र १८[I.v.18] पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥ मन्त्र १९[I.v.19] दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो येनाऽऽनन्द्येव भवत्य् अथो न शोचति ॥ १९ ॥ मन्त्र २० अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः प्राणो यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथते ऽथो न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा देवतैवꣳ स यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्य् एवꣳ हैवंविदꣳ सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः शोचन्त्य् अमैवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ॥ २० ॥ मन्त्र २१[I.v.21] अथातो व्रतमीमाꣳसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम्। एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत् तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् श्राम्यति चक्षुः श्राम्यति श्रोत्रम् अथेममेव नाऽऽप्नोद् योऽयं मध्यमः प्राणस् तानि ज्ञातुं दध्रिरे ऽयं वै नः श्रेष्ठो यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथते ऽथो न रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपमभवꣳस् तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यत्य् अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१ ॥ मन्त्र २२[I.v.22] अथाधिदैवतम् ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतꣳ । स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर् निम्लोचन्ति ह्यन्या देवता न वायुः । सैषाऽनस्तमिता देवता यद्वायुः ॥ २२ ॥ मन्त्र २३[I.v.23] अथैष श्लोको भवति यतश्चोदेति सूर्यो ऽस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मꣳ, स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नवदिति । यद्यु चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यꣳ सलोकतां जयति ॥ २३ ॥ इति पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्राह्मणम् । मन्त्र १[I.vi.1] त्रयं वा इदम् नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थम् अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाꣳ सामैतद्धि सर्वैर्नामभिः समम् एतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥ मन्त्र २[I.vi.1] अथ रूपाणां चक्षुरित्येतदेषामुक्थम् अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषाꣳ सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥ मन्त्र ३[I.vi.3] अथ कर्मणामात्मेत्येतदेषामुक्थम् अतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्य् एतदेषाꣳ सामैतद्धि सर्वैः कर्मभिः समम् एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयꣳ सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृतꣳ सत्येन छन्नम् । प्राणो वा अमृतम् नामरूपे सत्यम् ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥ इति षष्ठं ब्राह्मणम् ॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥ द्वितीयोऽध्यायः । प्रथमं ब्राह्मणम् मन्त्र १[II.i.1] ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम् ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥ मन्त्र २[II.i.2] स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥ मन्त्र ३[II.i.3] स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते ऽहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥ मन्त्र ४[II.i.4] स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठास् तेजस्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥ मन्त्र ५[II.i.5] स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर् नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥ मन्त्र ६[II.i.6] स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥ मन्त्र ७[II.i.7] स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । विषासहिरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिर्हास्य प्रजा भवति ॥ ७ ॥ मन्त्र ८[II.i.8] स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपꣳ हैवैनमुपगच्छति नाप्रतिरूपम् अथो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥ मन्त्र ९[II.i.9] स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्य् अथो यैः सन्निगच्छति सर्वाꣳस्तानतिरोचते ॥ ९ ॥ मन्त्र १०[II.i.10] स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्य् एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । असुरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १० ॥ मन्त्र ११[II.i.11] स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद् गणश्छिद्यते ॥ ११ ॥ मन्त्र १२[II.i.12] स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२ ॥ मन्त्र १३[II.i.13] स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति । स य एतमेवमुपास्त आत्मन्वी ह भवत्य् आत्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ॥ १३ ॥ मन्त्र १४[II.i.14] स होवाचाजातशत्रुर् एतावन्नू ३ इत्य् एतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥ मन्त्र १५[II.i.15] स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषꣳ सुप्तमाजग्मतुस् तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार । स होत्तस्थौ ॥ १५ ॥ मन्त्र १६[II.i.16] स होवाचाजातशत्रुर् यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६ ॥ मन्त्र १७[II.i.17] स होवाचाजातशत्रुर् यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः पुरुषस् तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस् तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं चक्षुर् गृहीतꣳ श्रोत्रं गृहीतं मनः ॥ १७ ॥ मन्त्र १८[II.i.18] स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास् तदुतेव महाराजो भवत्य् उतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥ गृहीत्वा स्वे शरीरे यथाकामम् परिवर्तते मन्त्र १९[II.i.19] अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥ मन्त्र २०[II.i.20] स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्य् एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥। व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥ इति प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् मन्त्र १[II.I.1] यो ह वै शिशुꣳ साधानꣳ सप्रत्याधानꣳ सस्थूणꣳ सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्य् अयं वाव शिशुर्योऽयं मध्यमः प्राणस् तस्येदमेवाऽऽधानम् इदं प्रत्याधानं प्राणः स्थूणाऽन्नं दाम ॥ १ ॥ मन्त्र २[II.I.2] तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षꣳल्लोहिन्यो राजयस् ताभिरेनꣳ रुद्रोऽन्वायत्तो ऽथ या अक्षन्नापस् ताभिः पर्जन्यो या कनीनका तयाऽऽदित्यो यत्कृष्णं, तेनाग्निर् यच्छुक्लं तेनेन्द्रो ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया । नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥ मन्त्र ३[II.I.3] तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस् तस्मिन्यशो निहितं विश्वरूपम् । तस्याऽऽसत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन्यशो निहितं विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपम् प्राणानेतदाह । तस्याऽऽसत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणाणेतदाह । वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥ मन्त्र ४[II.I.4] इमावेव गोतमभरद्वाजाव् अयमेव गोतमो ऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रो ऽयं जमदग्निर् इमावेव वसिष्ठकश्यपाव् अयमेव वसिष्ठो ऽयं कश्यपो वागेवात्रिर् वाचा ह्यन्नमद्यते ऽत्तिर्ह वै नामैतद्यदत्रिरिति । सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ ॥ इति द्वितीयं ब्राह्मणम् ॥ तृतीयं ब्राह्मणम् । मन्त्र १[II.Ii.1] द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यच्च ॥ १ ॥ मन्त्र २[II.Ii.2] तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यम् एतत्स्थितम् एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥ मन्त्र ३[II.Ii.3] अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतम् एतद्यद् एतत्त्यत् तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस् तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३ ॥ मन्त्र ४[II.Ii.4] अथाध्यात्मम् इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यम् एतत्स्थितम् एतत्सत् तस्यैतस्य मूर्तस्यै तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥ मन्त्र ५[II.Ii.5] अथामूर्तम् प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतम् एतद्यद् एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस् त्यस्य ह्येष रसः ॥ ५ ॥ मन्त्र ६[II.Ii.6] तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकम् यथेन्द्रगोपो यथाऽग्न्यर्चिर् यथा पुण्डरीकम् यथा सकृद्विद्युत्तꣳ । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्य् अथ नामधेयꣳ सत्यस्य सत्यमिति प्राणा वै सत्यम् तेषामेष सत्यम् ॥ ६ ॥ इति तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्राह्मणम् । मन्त्र १[II.iv.1] मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १ ॥ मन्त्र २[II.iv.1] सा होवाच मैत्रेयी यन्नु म इयम् भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितम् तथैव ते जीवितꣳ स्याद् अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ २ ॥ मन्त्र ३[II.iv.3] सा होवाच मैत्रेयी येनाहं नामृता स्याम् किमहं तेन कुर्याम् । यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥ मन्त्र ४[II.iv.4] स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्य् आस्स्व व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥ मन्त्र ५[II.iv.5] स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्य् आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य् आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य् आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य् आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य् आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य् आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य् आत्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य् आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस्तु कामाय सर्वं प्रियं भवत्य् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । मैत्रेय्य् आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम् ॥ ५ ॥ मन्त्र ६[II.iv.6] ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रम् इमे लोका इमे देवा इमानि भूतानीदꣳ सर्वम् यदयमात्मा ॥ ६ ॥ मन्त्र ७[II.iv.7] स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥ मन्त्र ८[II.iv.8] स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥ मन्त्र ९[II.iv.9] स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥ मन्त्र १० स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्य् एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्य् सामवेदस् अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास् उपनिषदस् श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि अस्यैवैतानि निःश्वसितानि ॥ १० ॥ मन्त्र ११[II.iv.11] स यथा सर्वासामपाꣳ समुद्र एकायनम् एवꣳ सर्वेषाꣳ स्पर्शानां त्वगेकायनम् एवꣳ सर्वेषां गन्धानां नासिकैकायनम् एवꣳ सर्वेषाꣳ रसानां जिह्वैकायनम् एवꣳ सर्वेषाꣳ रूपाणां चक्षुरेकायनम् एवꣳ सर्वेषाꣳ शब्दानाꣳ श्रोत्रमेकायनम् एवꣳ सर्वेषाꣳ सङ्कल्पानां मन एकायनम् एवꣳ सर्वासां विद्यानाꣳ हृदयमेकायनम् एवꣳ सर्वेषां कर्मणाꣳ हस्तावेकायनम् एवꣳ सर्वेषामानन्दानामुपस्थ एकायनम् एवꣳ सर्वेषां विसर्गाणां पायुरेकायनम् एवꣳ सर्वेषामध्वनां पादावेकायनम् एवꣳ सर्वेषां वदानां वागेकायनम् ॥ ११ ॥ मन्त्र १२[II.iv.12] स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद् यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद् भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय एतेभ्यस् भूतेभ्यस् समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥ मन्त्र १३[II.iv.13] सा होवाच मैत्रेय्य् अत्रैव मा भगवानमूमुहद् न प्रेत्य सञ्ज्ञाऽस्तीति । स होवाच न वा अरेऽहं मोहं ब्रवीम्य् अलं वा अर इदं विज्ञानाय ॥ १३ ॥ मन्त्र १४[II.iv.14] यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरꣳ शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कꣳ शृणुयात् तत्केन कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदꣳ सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥ इति चतुर्थं ब्राह्मणम् ॥ पञ्चमं ब्राह्मणम् मन्त्र १[II.v.1] इयं पृथिवी सर्वेषां भूतानां मध्व् अस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषः अमृतमयस् पुरुषस् अयमेव स योऽयमात्मेदममृतम् इदं ब्रह्म् एदꣳ सर्वम् ॥ १ ॥ मन्त्र २[II.v.2] इमा आपः सर्वेषां भूतानां मध्व् असामपाꣳ सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः यश्चायमध्यात्मꣳ रैतसस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्म् एदꣳ सर्वम् ॥ २ ॥ मन्त्र ३[II.v.3] अयमग्निः सर्वेषां भूतानां मध्व् अस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्म् एदꣳ सर्वम् ॥ ३ ॥ मन्त्र ४[II.v.4] अयं वायुः सर्वेषां भूतानां मध्व् अस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदं अमृतम्। इदं ब्रह्मेदꣳ सर्वम् ॥ ४ ॥ मन्त्र ५[II.v.5] अयमादित्यः सर्वेषां भूतानां मध्व् अस्याऽऽदित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ५ ॥ मन्त्र ६[II.v.6] इमा दिशः सर्वेषां भूतानां मध्व् आसां दिशाꣳ सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ६ ॥ मन्त्र ७[II.v.7] अयं चन्द्रः सर्वेषां भूतानां मध्व् अस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ७ ॥ मन्त्र ८[II.v.8] इयं विद्युत्सर्वेषां भूतानं मध्व् अस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ८ ॥ मन्त्र ९[II.v.9] अयꣳ स्तनयित्नुः सर्वेषां भूतानां मध्व् अस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ९ ॥ मन्त्र १०[II.v.10] अयमाकाशः सर्वेषां भूतानां मध्व् अस्याऽऽकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ १० ॥ मन्त्र ११[II.v.11] अयं धर्मः सर्वेषां भूतानां मध्व् अस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ ११ ॥ मन्त्र १२[II.v.12] इदꣳ सत्यꣳ सर्वेषां भूतानां मध्व् अस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ सात्यस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ १२ ॥ मन्त्र १३[II.v.13] इदं मानुषꣳ सर्वेषां भूतानां मध्व् अस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ १३ ॥ मन्त्र १४[II.v.14] अयमात्मा सर्वेषां भूतानां मध्व् अस्याऽऽत्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मेदममृतम् इदं ब्रह्मेदꣳ सर्वम् ॥ १४ ॥ मन्त्र १५[II.v.15] स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाꣳ राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥ मन्त्र १६[II.v.16] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । उवाच तदेतदृषिः पश्यन्नवोचत् । तद्वाम् नरा सनये दꣳस उग्रम् आविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६ ॥ मन्त्र १७[II.v.17] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यꣳ शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्राव् अपि कक्ष्यं वामिति ॥ १७ ॥ मन्त्र १८[II.v.18] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किंचनानावृतम् नैनेन किंचनासंवृतम् ॥ १८ ॥ मन्त्र १९[II.v.19] इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूपꣳरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेतिय् अयं वै हरयो ऽयं वै दश च सहस्रणि बहूनि चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥ इति पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्राह्मणम् मन्त्र १[II.vi.1] अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात् पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्याच् छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १ ॥ मन्त्र २[II.vi.2] आग्निवेश्याद् अग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च् आनभिम्लात आनभिम्लाताद् अनभिम्लात अनभिम्लाताद् अनभिम्लातो गौतमाद् गौतमः सैतवप्राचीनयोग्याभ्याꣳ, सैतवप्राचीनयोग्यौ पाराशर्यात् पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद् वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥ मन्त्र ३[II.vi.3] घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च् ऽऽसुरायणस्त्रैवणेस् त्रैवणिरौपजन्धनेर् औपजन्धनिरासुर्र् आसुरिर्भारद्वाजाद् भारद्वाज आत्रेयाद् अत्रेयो माण्टेर् माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो वात्स्याद् वात्स्यः शाण्डिल्याच् छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद् विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसाद् अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद् आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद् विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् अश्विनौ दधीच आथर्वणाद् दध्यङ्ङाथर्वणोऽथर्वणो दैवाद् अथर्वा दैवो मृत्योः प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात् प्रध्वꣳसन एकर्षेः एकर्षिर्विप्रचित्तेर् विप्रचित्तिर्व्यष्टेर् व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३ ॥ इति षष्ठं ब्राह्मणम् ॥ ॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥ अथ तृतीयोध्यायः ॥ प्रथमं ब्राह्मणम् । मन्त्र १ [III.i.1] ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस् तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाꣳ सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥ मन्त्र २ [III.i.2] तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुर् अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्य् अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयꣳ स्म इति । तꣳ ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २ ॥ मन्त्र ३ [III.i.3] याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्युनाऽऽप्तꣳ, सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३ ॥ मन्त्र ४ [III.i.4] याज्ञवल्क्येति होवाच यदिदꣳ सर्वमहोरात्राभ्यामाप्तꣳ, सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्य् अध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस् तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा मुक्तिः साऽतिमुक्तिः ॥ ४ ॥ मन्त्र ५ [III.i.5] याज्ञवल्क्येति होवाच यदिदꣳ सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तꣳ, सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्य् उद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः साऽतिमुक्तिः ॥ ५ ॥ मन्त्र ६ [III.i.6] याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिर् इत्यतिमोक्षा अथ सम्पदः ॥ ६ ॥ मन्त्र ७ [III.i.7] याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृद् इति ॥ ७ ॥ मन्त्र ८ [III.i.8] याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्य् अतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्य् अध इव हि मनुष्यलोकः ॥ ८ ॥ मन्त्र ९ [III.i.9] याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्य् एकयेति । कतमा सैकेति । मन एवेत्य् अनन्तं वै मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥ मन्त्र १० [III.i.10] याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्य् अन्तरिक्षलोकं याज्यया द्युलोकꣳ शस्यया ततो ह होताऽश्वल उपरराम ॥ १० ॥ इति प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् । मन्त्र १[III.I.1] अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इत्य् अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥ मन्त्र २[III.I.2] प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतो ऽपानेन हि गन्धाञ्जिघ्रति ॥ २ ॥ मन्त्र ३[III.I.3] वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३ ॥ मन्त्र ४[III.I.4] जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥ मन्त्र ५[III.I.5] चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश् चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥ मन्त्र ६[III.I.6] श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्शृणोति । मन्त्र ७[III.I.7] मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७ ॥ मन्त्र ८[III.I.8] हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्याꣳ हि कर्म करोति ॥ ८ ॥ मन्त्र ९[II.I.9] त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस् त्वचा हि स्पर्शान्वेदयत । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥ मन्त्र १०[III.I.10] याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्य् अग्निर्वै मृत्युः सोऽपामन्नम् अप पुनर्मृत्युं जयति ॥ १० ॥ मन्त्र ११[III.I.11] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्य् अहो३ नेति नेति होवाच याज्ञवल्क्यो ऽत्रैव समवनीयन्ते स उच्छ्वयत्य् आध्मायति आध्मातो मृतः शेते ॥ ११ ॥ मन्त्र १२[III.I.12] याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति । नामेत्य् अनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२ ॥ मन्त्र १३[III.I.13] याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश् चक्षुरादित्यम् मनश्चन्द्रं दिशः श्रोत्रम् पृथिवीꣳ शरीरम् आकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्य् अहर सौम्य हस्तम् आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुर् अथ ह यत्प्रशꣳसतुः कर्म हैव तत् प्रशꣳसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥इति द्वितीयं राह्मणम् ॥ तृतीयं ब्राह्मणम् । मन्त्र १[III.Ii.1] अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता अभवन्निति ॥ १ ॥ मन्त्र २[III.Ii.2] स होवाचोवाच वै सो ऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिꣳशतं वै देवरथाह्न्यान्ययं लोकस् तꣳ समन्तं पृथिवी द्विस्तावत्पर्येति ताꣳ समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस् तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र अश्वमेधयाजिनोऽभवन्नित्य् एवमिव वै स वायुमेव प्रशशꣳस तस्माद्वायुरेव व्यष्टिर् वायुः समष्टिर् अप पुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥ इति तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्रह्मणम् । मन्त्र १[III.iv.1] अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेत्य् एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥ मन्त्र २[III.iv.2] स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौर् असावश्व इत्य् एवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर् न श्रुतेः श्रोतारꣳ शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरो ऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण उपरराम ॥ २ ॥ इति चतुर्थं ब्राह्मणम् ॥ पञ्चमं ब्राह्मणम् । मन्त्र १[III.v.1] अथ हैनं कहोलः कौषीतकेयः पप्रच्छ पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेत्य् एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्य् एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस् तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्। बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर् अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥ इति पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्राह्मणम् । मन्त्र १[III.vi.1] अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदꣳ सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्य् अन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेत्य् आदित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति । कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि मातिप्राक्षीर् मा ते मूर्धा व्यपप्तद् अनतिप्रश्न्यां वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी वाचक्नव्युपरराम ॥ १ ॥ इति षष्ठं ब्राह्मणम् ॥ सप्तमं ब्राह्मणम् । मन्त्र १[III.vI.1] अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास् तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकाꣳश्च वेत्थ नु त्वम् काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्चः वेत्थ नु त्वम् काप्य तमन्तर्यामिणम् य इमं च लोकं परं च लोकꣳ सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्च यो वै तत् काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद । तच्चेत्त्वम् याज्ञवल्क्य सूत्रमविद्वाꣳस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहम् गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १ ॥ मन्त्र २[III.vI.2] स होवाच वायुर्वै गौतम तत्सूत्रम् वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम पुरुषं प्रेतमाहुर् व्यस्रꣳसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्य् एवमेवैतद् याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २ ॥ मन्त्र ३[III.vI.3] यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ३ ॥ मन्त्र ४[III.vI.4] योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरम् योऽपोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ४ ॥ मन्त्र ५[III.vI.5] योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरम् योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५ ॥ मन्त्र ६[III.vI.6] योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षꣳ शरीरं योऽन्तरिक्षमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ६ ॥ मन्त्र ७[III.vI.7] यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ७ ॥ मन्त्र ८[III.vI.8] यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ८ ॥ मन्त्र ९[III.vI.9] य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः शरीरम् य आदित्यमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ९ ॥ मन्त्र १०[III.vI.10] यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर् यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १० ॥ मन्त्र ११[III.vI.11] यश्चन्द्रतारके तिष्ठꣳचन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकꣳ शरीरं यश्चन्द्रतारकमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ ११ ॥ मन्त्र १२[III.vI.12] य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः शरीरं य आकाशमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १२ ॥ मन्त्र १३[III.vI.13] यस्तमसि तिष्ठꣳस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्य् एष त आत्मान्तर्याम्यमृतः ॥ १३ ॥ मन्त्र १४[III.vI.14] यस्तेजसि तिष्ठꣳस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरम् यस्तेजोऽन्तरो यमयत्य् स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम् अथाधिभूतम् ॥ १४ ॥ मन्त्र १५[III.vI.15] यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यꣳ सर्वाणि भूतानि न विदुर् यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृत इत्यधिभूतम् अथाध्यात्मम् ॥ १५ ॥ मन्त्र १६[III.vI.16] यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १६ ॥ मन्त्र १७[III.vI.17] यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो वाचमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥ मन्त्र १८[III.vI.18] यश्चक्षुषि तिष्ठꣳश्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ १८ ॥ मन्त्र १९[III.vI.19] यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यꣳ श्रोत्रं न वेद यस्य श्रोत्रꣳ शरीरं यः श्रोत्रमन्तरो यमयत्य् स एष त आत्माऽन्तर्याम्यमृतः ॥ १९ ॥ मन्त्र २०[III.vI.20] यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरम् यो मनोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २० ॥ मन्त्र २१[III.vI.21] यस्त्वचि तिष्ठꣳस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २१ ॥ मन्त्र २२[III.vI.22] यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यꣳ विज्ञानं न वेद यस्य विज्ञानꣳ शरीरं यो विज्ञानमन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतः ॥ २२ ॥ मन्त्र २३[III.vI.23] यो रेतसि तिष्ठन् रेतसोऽन्तरो यꣳ रेतो न वेद यस्य रेतः शरीरम् यो रेतोऽन्तरो यमयत्य् एष त आत्माऽन्तर्याम्यमृतो ऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतो ऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥ इति सप्तमं ब्राह्मणम् ॥ अष्टमं ब्राह्मणम् । मन्त्र १[III.vIi.1] अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १ ॥ मन्त्र २[III.vIi.2] सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेद् एवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥ मन्त्र ३[III.vIi.3] सा होवाच यदूर्ध्वम् याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ३ ॥ मन्त्र ४[III.vIi.4] स होवाच यदूर्ध्वम् गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥ मन्त्र ५[III.vIi.5] सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचो ऽपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५ ॥ मन्त्र ६[III.vIi.6] सा होवाच यदूर्ध्वम् याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते आचक्षते कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ६ ॥ मन्त्र ७[III.vIi.7] स होवाच यदूर्ध्वम् गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥ मन्त्र ८[III.vIi.8] स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलमनण्व् अह्रस्वमदीर्घम् अलोहितमस्नेहम् अच्छायमतमो ऽवाय्वनाकाशम् असङ्गम् अचक्षुष्कम् अश्रोत्रम् अवाग् अमनो ऽतेजस्कम् अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यं न तदश्नाति किं चन न तदश्नाति कश्चन । मन्त्र ९[III.vIi.9] एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्य् एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्व् एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशꣳसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥ मन्त्र १०[III.vIi.10] यो वा एतदक्षरं गार्ग्यविदित्वा ऽस्मिꣳल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्य् अन्तवदेवास्य तद्भवति लोको भवति यो वा एतदक्षरम् गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणो ऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥ मन्त्र ११[III.vIi.11] तद्वा एतदक्षरं गार्ग्य् अदृष्टं द्रष्टृश्रुतꣳ श्रोत्त्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्र् एतस्मिन्नु खल्वक्षरे गार्ग्य् आकाश ओतश्च प्रोतश्चेति ॥ ११ ॥ मन्त्र १२[III.vIi.12] सा होवाच ब्राह्मणा भगवन्तस् तदेव बहु मन्येध्वम् यदस्मान्नमस्कारेण मुच्येध्वम् न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥ इत्यष्टमं ब्राह्मणम् ॥ नवमं ब्राह्मणम् मन्त्र १[III.ix.1] अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्य् ओमिति होवाच कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिꣳशदित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इत्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् द्वावित्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् अध्यर्ध इत्य् ओमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य् एक इत्य् ओमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥ मन्त्र २[III.ix.2] स होवाच महिमान एवैषामेते त्रयस्त्रिꣳशत्त्वेव देवा इति कतमे ते त्रयस्त्रिꣳशदित्य् अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास् ते एकत्रिꣳशद् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिꣳशाविति ॥ २ ॥ मन्त्र ३[III.ix.3] कतमे वसव इत्य् अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदं वसु सर्वꣳ हितमिति तस्माद्वसव इति ॥ ३ ॥ मन्त्र ४[III.ix.4] कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस् ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्य् अथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥ मन्त्र ५[III.ix.5] कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते हीदꣳ सर्वमाददाना यन्ति ते यदिदꣳ सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥ मन्त्र ६[III.ix.6] कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरित्य् अशनिरिति । कतमो यज्ञ इति । पशव इति ॥ ६ ॥ मन्त्र ७[III.ix.7] कतमे षडित्य् अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च द्यौश्चैते षड् एते हीदꣳ सर्वं षडिति ॥ ७ ॥ मन्त्र ८[III.ix.8] कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवावित्य् अन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥ ८ ॥ मन्त्र ९[III.ix.9] तदाहुर् यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति । यदस्मिन्निदꣳ सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥ मन्त्र १०[III.ix.10] पृथिव्येव यस्याऽऽयतनम् अग्निर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायꣳ शारीरः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेत्य् अमृतम् इति होवाच ॥ १० ॥ मन्त्र ११[III.ix.11] काम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११ ॥ मन्त्र १२[III.ix.12] रूपाण्येव यस्याऽऽयतनम् चक्षुर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १२ ॥ मन्त्र १३[III.ix.13] आकाश एव यस्याऽऽयतनꣳ श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायꣳ श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३ ॥ मन्त्र १४[III.ix.14] तम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥ मन्त्र १५[III.ix.15] रूपाण्येव यस्याऽऽयतनम् चक्षुर्लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्य् असुरिति होवाच ॥ १५ ॥ मन्त्र १६[III.ix.16] आप एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणम् स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥ मन्त्र १७[III.ix.17] रेत एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणम् यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७ ॥ मन्त्र १८[III.ix.18] शाकल्येति होवाच याज्ञवल्क्यस् त्वाꣳ स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ १८ ॥ मन्त्र १९[III.ix.19] याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ मन्त्र २०[III.ix.20] किन्देवतोऽस्यां प्राच्यां दिश्यसीत्य् आदित्यदेवत इति । स आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति। रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २० ॥ मन्त्र २१[III.ix.21] किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति। दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्ते ऽथ दक्षिणां ददाति श्रद्धायाꣳ ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २१ ॥ मन्त्र २२[III.ix.22] किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इत्य् अप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं जातमाहुर् हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २२ ॥ मन्त्र २३[III.ix.23] किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २३ ॥ मन्त्र २४[III.ix.24] किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्य् अग्निदेवत इति । सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितमिति मन्त्र २५[III.ix.25] अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच् छ्वानो वैनदद्युर् वयाꣳसि वैनद्विमथ्नीरन्निति ॥ २५ ॥ मन्त्र २६[III.ix.26] कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ ‍ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इत्य् अपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्य् उदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते ऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यते ऽसितो न व्यथते न रिष्यत्य् एतान्यष्टावायतनान्य् अष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तꣳ ह न मेने शाकल्यस् तस्य ह मूर्धा विपपात अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुर् अन्यन्मन्यमानाः ॥ २६ ॥ मन्त्र २७[III.ix.27] अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥ मन्त्र २८[III.ix.28] तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस् तथैव पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १ ॥ त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो वृक्षादिवाऽऽहतात् ॥ २ ॥ माꣳसान्यस्य शकराणि किनाटꣳ स्नाव तत्स्थिरम्। अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥ यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४ ॥ रेतस इति मा वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षो ऽञ्जसा प्रेत्य सम्भवः ॥ ५ ॥ यत्समूलमावृहेयुर् वृक्षम् न पुनराभवेत्। मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६ ॥ जात एव न जायते को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् तिष्ठमानस्य तद्विद इति ॥ ७ ॥ ॥ २८ ॥ इति नवमं ब्राह्मणम् ॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥ अथ चतुर्तोऽध्यायः । प्रथमं ब्राह्मणम् मन्त्र १ [IV.i.1] ॐ जनको ह वैदेह आसां चक्रे ऽथ ह याज्ञवल्क्य आवव्राज । तꣳ होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्य् उभयमेव सम्राड् इति होवाच ॥ १ ॥ मन्त्र २[IV.i.2] यत्ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन् मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छैलिरब्रवीद् वाग्वै ब्रह्मेत्य् अवदतो हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । वागेवाऽऽयतनम् आकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राड् इति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टꣳ हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सर्वाणि च भूतानि वाचा एव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ २ ॥ मन्त्र ३[IV.i.3] यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्य् अब्रवीन्म ऊदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छौल्वायनोऽब्रवीत् प्राणो वै ब्रह्मेत्य् अप्राणतो हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । प्राण एवाऽऽयतनम् आकाशः प्रतिष्ठा प्रियमित्येनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्य् अप्रतिगृह्यस्य प्रतिगृह्णात्य् अपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥ मन्त्र ४[IV.i.4] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे बर्कुर्वार्ष्णश् चक्षुर्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत्च् चक्षुर्वै ब्रह्मेत्य् अपश्यतो हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुरेवाऽऽयतनम् आकाशः प्रतिष्ठा सत्यमित्येतदुपासीत । का सत्यता याज्ञवल्क्य । चक्षुरेव सम्राड् इति होवाच चक्षुषा वै सम्राट् पश्यन्तमाहुर् अद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥४ ॥ मन्त्र ५[IV.i.5] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तद्भारद्वाजोऽब्रवीच् छ्रोत्रं वै ब्रह्मेत्य् अशृण्वतो हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवाऽऽयतनम् आकाशः प्रतिष्ठाऽनन्तमित्येनदुपासीत । काऽनन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच तस्माद्वै सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छत्य् sN k add. अपि याम् काञ्च दिशम् गच्छति न एव अस्यास् अन्तम् गच्छति अनन्ता हि दिशो दिशो वै सम्राट् श्रोत्रꣳश्रोत्रं वै सम्राट् परमं ब्रह्म । नैनꣳ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥ मन्त्र ६[IV.i.6] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तज्जाबालो अब्रवीन् मनो वै ब्रह्मेत्य् अमनसो हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । मन एवाऽऽयतनम् आकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत । काऽऽनन्दता याज्ञवल्क्य । मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो । मनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥ मन्त्र ७[IV.i.7] यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्य् अब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा तच्छाकल्योऽब्रवीद् धृदयं वै ब्रह्मेत्य् अहृदयस्य हि किꣳ स्यादित्य् अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां ‍ । न मेऽब्रवीदित्य् एकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवाऽऽयतनम् आकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का स्थितिता याज्ञवल्क्य । हृदयमेव सम्राड् इति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनꣳ हृदयं वै सम्राट्, सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनꣳ हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥ इति प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् । मन्त्र १[IV.I.1] जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति । स होवाच यथा वै सम्राण् महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्य् असि एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीत्य् अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥ मन्त्र २[IV.I.2] इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस् तं वा एतमिन्धꣳ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥ मन्त्र ३[IV.I.3] अथैतद्वामेऽक्षणि पुरुषरूपम् एषाऽस्य पत्नी विराट् तयोरेष सꣳस्तावो य एषोऽन्तर्हृदय आकाशो ऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डो ऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्य् एवम् अस्य एतास् हितास् नाम नाड्यस् अन्तर्हृदये प्रतिष्ठितास् भवन्ति एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥ मन्त्र ४[IV.I.4] तस्य प्राची दिक्प्राञ्चः प्राणाः दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणाः ऊर्ध्वा दिगूर्ध्वाः प्राणाः अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्य् व्यथते असङ्गस् न हि सज्यते असितस् न व्यथते न रिष्यति अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद् याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे नमस्तेऽस्त्व् इमे विदेहा अयमहमस्मि ॥ ४ ॥ इति द्वितीयं ब्राह्मणम् ॥ तृतीयं ब्राह्मणम् । मन्त्र १[IV.Ii.1] जनकꣳ ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इति स मेने न वदिष्य इत्य् अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नमेव वव्रे । तꣳ हास्मै ददौ । तꣳ ह सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥ मन्त्र २[IV.Ii.2] याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इत्य् आदित्यज्योतिः सम्राड् इति होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ २ ॥ मन्त्र ३[IV.Ii.3] अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ३ ॥ मन्त्र ४[IV.Ii.4] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष इत्य् अग्निरेवास्य ज्योतिर्भवत्य् अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ४ ॥ मन्त्र ५[IV.Ii.5] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किञ्ज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्माद्वै सम्राड् अपि यत्र स्वः पाणिर्न विनिर्ज्ञायते ऽथ यत्र वागुच्चरत्य् उपैव तत्र न्येतीत्य् एवमेवैतद् याज्ञवल्क्य ॥ ५ ॥ मन्त्र ६[IV.Ii.6] अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किञ्ज्योतिरेवायं पुरुष इत्य् आत्मैवास्य ज्योतिर्भवत्य् आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥ मन्त्र ७[IV.Ii.7] कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः पुरुषस् स समानः सन्नुभौ लोकावनुसञ्चरति । ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥ मन्त्र ८[IV.Ii.8] स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः सꣳसृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥ मन्त्र ९[IV.Ii.9] तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयꣳ स्वप्नस्थानम् तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन आनन्दाꣳश्च पश्यति । पश्यति स यत्र प्रस्वपित्य् अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्य् अत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९ ॥ मन्त्र १०[IV.Ii.10] न तत्र रथा न रथयोगा न पन्थानो भवन्त्य् अथ रथान्रथयोगान्पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो भवन्त्य् अथाऽऽनन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्य् अथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता ॥ १० ॥ मन्त्र ११[IV.Ii.11] तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्या सुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानꣳ हिरण्मयः पुरुष एकहꣳसः ॥ ११ ॥ मन्त्र १२[IV.Ii.12] प्राणेन रक्षन्नपरं कुलायम् बहिष्कुलायादमृतश्चरित्वा स ईयतेऽमृतो यत्रकामꣳ हिरण्मयः पुरुष एकहꣳसः ॥ १२ ॥ मन्त्र १३[IV.Ii.13] स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥ मन्त्र १४[IV.Ii.14] आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नाऽऽयतं बोधयेदित्याहुः । दुर्भिषज्यꣳ हास्मै भवति यमेष न प्रतिपद्यते ॥ १४ ॥ अथो खल्वाहुर् जागरितदेश एवास्यैष यानि ह्येव जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥ मन्त्र १५[IV.Ii.15] स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य् असङ्गो ह्ययं पुरुष इत्य् एवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥ मन्त्र १६[IV.Ii.16] स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव आद्रवति बुद्धान्ताय एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य् असङ्गो ह्ययं पुरुष इत्य् एवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥ मन्त्र १७[IV.Ii.17] स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥ आद्रवति स्वप्नान्ताय एव मन्त्र १८[IV.Ii.18] तद्यथा महामत्स्य उभे कूलेऽनुसञ्चरति पूर्वं चापरं चैवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥ १८ ॥ अन्तौ अनुसञ्चरति स्वप्नान्तम् च बुद्धान्तम् च मन्त्र १९[IV.Ii.19] तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः सꣳहत्य पक्षौ संलयायैव ध्रियत ध्रियते एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ १९ ॥ स्वप्नम् पश्यति मन्त्र २०[IV.Ii.20] ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा । नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णास् अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ऽथ यत्र देव इव राजेवाहमेवेदꣳ सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः ॥ २० ॥ मन्त्र २१[IV.Ii.21] तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयꣳ रूपम् । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरमेवमेवायं पुरुषः प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरम् । सम्परिष्वक्तस् न बाह्यम् किम् चन वेद न अन्तरम् तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् ॥ २१ ॥ मन्त्र २२[IV.Ii.22] अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचण्डालः पौल्कसोऽपौल्कसो श्रमणोऽश्रमण स्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन अश्रमणस् तापसस् अतापसस् अनन्वागतस् पुण्येन अनन्वागतस् पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२ ॥ मन्त्र २३[IV.Ii.23] यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३ ॥ मन्त्र २४[IV.Ii.24] यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४ ॥ मन्त्र २५[IV.Ii.25] यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५ ॥ मन्त्र २६[IV.Ii.26] यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥ मन्त्र २७[IV.Ii.27] यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७ ॥ मन्त्र २८[IV.Ii.28] यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥ मन्त्र २९[IV.Ii.29] यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥ मन्त्र ३०[IV.Ii.30] यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥ मन्त्र ३१[IV.Ii.31] यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येद् अन्योऽन्यज्जिघ्रेद् अन्योऽन्यद्रसयेद् अन्योऽन्यद्वदेद् अन्योऽन्यच्छृणुयाद् अन्योऽन्यन्मन्वीता न्योऽन्यत्स्पृशेद् अन्योऽन्यद्विजानीयात् ॥ ३१ ॥ मन्त्र ३२[IV.Ii.32] सलिल एको द्रष्टाद्वैतो भवत्य् एष ब्रह्मलोकः सम्राड् इति हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिर् एषास्य परमा सम्पद् एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥ मन्त्र ३३[IV.Ii.33] स यो मनूष्याणाꣳ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषाम् सम्पन्नतमस् स मनुष्याणां परम आनन्दो ऽथ ये शतं मनुष्याणामानन्दाः स एकः पितृणां जितलोकानामानन्दो ऽथ ये शतं पितृणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दो ऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो ऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो ऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददाम्य् अत ऊर्ध्वं विमोक्षायैव ब्रूहीत्य् अत्र ह याज्ञवल्क्यो बिभयांचकारः मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥ मन्त्र ३४[IV.Ii.34] स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥ मन्त्र ३५[IV.Ii.35] तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायꣳ शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥ उत्सर्जम् याति यत्र एतद् ऊर्ध्वोच्छ्वासी भवति मन्त्र ३६[IV.Ii.36] स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥ प्राणाय एव मन्त्र ३७[IV.Ii.37] तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीत्य् एवꣳ हैवंविदꣳ सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्माऽऽयातीदमागच्छतीति ॥ ३७ ॥ मन्त्र ३८[IV.Ii.38] तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्त्य् एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८ ॥ इति तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्राह्मणम् । मन्त्र १[IV.iv.1] स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्य् अथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवति ॥ १ ॥ मन्त्र २[IV.iv.2] एकीभवति न पश्यतीत्याहुर् एकीभवति न जिघ्रतीत्याहुर् एकीभवति न रसयतीत्याहुर् एकीभवति न वदतीत्याहुर् एकीभवति न शृणोतीत्याहुर् एकीभवति न मनुत इत्याहुर् एकीभवति न स्पृशतीत्याहुर् एकीभवति न विजानातीत्याहुस् तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥ मन्त्र ३[IV.iv.3] तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसꣳहरत्य् एवमेवायमात्मेदꣳ शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसꣳहरति ॥ ३ ॥ मन्त्र ४[IV.iv.4] तद्यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन्नवतरं कल्याणतरꣳ रूपं तनुत एवमेवायम् आत्मेदꣳ शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरꣳ रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥ ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस् वा भूतेभ्यस्k गान्धर्वम् वा दैवम् वा प्राजापत्यम् वा ब्राह्मम् वान्येषाम् वा भूतानाम् मन्त्र ५[IV.iv.5] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस् श्रोत्रमयस् आकाशमयस् वायुमयस् तेजोमयस् आपोमयस् पृथिवीमयस् क्रोधमयस् अक्रोधमयस् हर्षमयस् अहर्षमयस् k श्रोत्रमयस् पृथिवीमयस् आपोमयस् वायुमयस् आकाशमयस् तेजोमयस् अतेजोमयस् काममयस् अकाममयस् क्रोधमयस् अक्रोधमयस् धर्ममयस् अधर्ममयस् सर्वमयः तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति । साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥ मन्त्र ६[IV.iv.6] तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्य् अस्मै लोकाय कर्मण् इति नु कामयमानो ऽथाकामयमानो योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति k तस्य प्राणास् उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति ॥ ६ ॥ मन्त्र ७[IV.iv.7] तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुत इति ॥ तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदꣳ शरीरꣳ शेते ऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव k तेजस् एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥ मन्त्र ८[IV.iv.8] तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माꣳ स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥ मन्त्र ९[IV.iv.9] तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलꣳ हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस् तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९ ॥ मन्त्र १०[IV.iv.10] अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ १० ॥ मन्त्र ११[IV.iv.11] अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ताꣳस्ते प्रेत्याभिगच्छन्त्य् अविद्वाꣳसोऽबुधो जनाः ॥ ११ ॥ मन्त्र १२[IV.iv.12] आत्मानं चेद्विजानीयाद् अयमस्मीति पूरुषः किमिच्छन्कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ १२ ॥ मन्त्र १३[IV.iv.13] यस्यानुवित्तः प्रतिबुद्ध आत्मा ऽस्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥ मन्त्र १४[IV.iv.14] इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्य् अथेतरे दुःखमेवापियन्ति ॥ १४ ॥ मन्त्र १५[IV.iv.15] यदैतमनुपश्यत्य् आत्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥ मन्त्र १६[IV.iv.16] यस्मादर्वाक्संवत्सरो ऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिर् आयुर्होपासतेऽमृतम् ॥ १६ ॥ मन्त्र १७[IV.iv.17] यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७ ॥ मन्त्र १८[IV.iv.18] प्राणस्य प्राणमुत चक्षुषश्चक्षुर् उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥ मन्त्र १९[IV.iv.19] मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥ मन्त्र २०[IV.iv.20] एकधैवानुद्रष्टव्यम् एतदप्रमयं ध्रुवम् । विरजः पर आकाशाद् अज आत्मा महान्ध्रुवः ॥ २० ॥ मन्त्र २१[IV.iv.21] तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनꣳ हि तद् इति ॥ २१ ॥ मन्त्र २२[IV.iv.22] स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस् तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर अद्द्। मर्क् १ eSha sarveshvaras eSha bhUtAdhipatireSha bhUtapAla eSha seturvidharaNa eShAM lokAnAmasambhedAya . tametaM vedAnuvachanena brAhmaNA vividiShanti yaj~nena dAnena tapasA.anAshakenaitameva viditvA munirbhavaty viditvA munis bhavati etameva pravrAjino lokamichChantaH pravrajanty etaddha sma vai tatpUrve vidvAꣳsaH prajAM na kAmayante kiM prajayA kariShyAmo yeShAM no.ayamAtmA.aya.n loka iti . te ha sma putraiShaNAyAshcha vittaiShaNAyAshcha lokaiShaNAyAshcha vyutthAyAtha bhikShAcharyaM charanti yA hyeva putraiShaNA sA vittaiShaNA yA vittaiShaNA sA lokaiShaNobhe hyete eShaNe eva bhavataH . sa eSha neti netyAtmA.agR^ihyo na hi gR^ihyate .ashIryo na hi shIryate .asa~Ngo na hi sajyate .asito na vyathate na riShyaty etamu haivaite na tarata ity ataH pApamakaravamityataH kalyANamakaravamityubhe u haivaiSha ete tarati nainaM kR^itAkR^ite tapataH .. 22 .. mantra 23[ईV।इव्।२३] tadetadR^ichAbhyuktam . eSha nityo mahimA brAhmaNasya na vardhate karmaNA no kanIyAn . tasyaiva syAt padavittaM viditvA na lipyate karmaNA pApakeneti . tasmAdevaMvichChAnto dAnta uparatastitikShuH samAhito bhUtvA.a.atmanyevA.a.atmAnaM pashyati sarvamAtmAnaM pashyati nainaM pApmA tarati sarvaM pApmAnaM tarati nainaM pApmA tapati sarvaM pApmAnaM tapati vipApo virajo.avichikitso brAhmaNo bhavati eSha brahmalokaH samrAD iti hovAcha yAj~navalkyaH . so.ahaM bhagavate videhAndadAmi mAm chApi saha dAsyAyeti .. 23 .. mantra 24[ईV।इव्।२४] sa vA eSha mahAnaja AtmA.annAdo vasudAno vindate vasu ya evaM veda .. 24 .. mantra 25[ईV।इव्।२५] sa vA eSha mahAnaja AtmA.ajaro.amaro.amR^ito.abhayo brahmAbhayaM vai brahmAbhayaꣳ hi vai brahma bhavati ya evaM veda .. 25 .. iti chaturthaM brAhmaNam . pa~nchamaM brAhmaNam mantra 1[ईV।व्।१] atha ha yAj~navalkyasya dve bhArye babhUvaturmaitreyI cha kAtyAyanI cha tayorha maitreyI brahmavAdinI babhUva strIpraj~naiva tarhi kAtyAyany atha ha yAj~navalkyo.anyadvR^ittamupAkariShyan .. 1 .. mantra 2[ईV।व्।२] maitreyIti hovAcha yAj~navalkyaH pravrajiShyanvA are.ahamasmAtsthAnAdasmi . hanta te.anayA katyAyAnyA.antaM karavANIti .. 2 .. mantra 3[ईV।व्।३] sA hovAcha maitreyI yannu ma iyaM bhagoH sarvA pR^ithivI vittena pUrNA syAt syAM nvahaM tenAmR^itA.a.aho3 neti neti hovAcha yAj~navalkyo yathaivopakaraNavatAM jIvita.n tathaiva te jIvitaꣳ syAd amR^itatvasya tu nA.a.ashA.asti vitteneti .. 3 .. mantra 4[ईV।व्।४] sA hovAcha maitreyI yenAhaM nAmR^itA syA.n kimahaM tena kuryAm . yadeva bhagavAnveda tadeva me brUhIti .. 4 .. mantra 5[ईV।व्।५] sa hovAcha yAj~navalkyaH priyA vai khalu no bhavatI satI priyamavR^idhad dhanta tarhi bhavaty etad vyAkhyAsyAmi te vyAchakShANasya tu me nididhyAsasveti .. 5 .. mantra 6[ईV।व्।६] sa hovAcha na vA are patyuH kAmAya patiH priyo bhavaty Atmanastu kAmAya patiH priyo bhavati . na vA are jAyAyai kAmAya jAyA priyA bhavaty Atmanastu kAmAya jAyA priyA bhavati . na vA are putrANAM kAmAya putrAH priyA bhavanty Atmanastu kAmAya putrAH priyA bhavanti . na vA are vittasya kAmAya vittaM priyaM bhavaty Atmanastu kAmAya vittaM priyaM bhavati .. na vA are pashUnA.n kAmAya pashavaH priyA bhavanti Atmanastu kAmAya pashavaH priyA bhavanti . na vA are brahmaNaH kAmAya brahma priyaM bhavaty Atmanastu kAmAya brahma priyaM bhavati . na vA are kShatrasya kAmAya kShatraM priyaM bhavaty Atmanastu kAmAya kShatraM priyaM bhavati . na vA are lokAnAM kAmAya lokAH priyA bhavanty Atmanastu kAmAya lokAH priyA bhavanti . na vA are devAnAM kAmAya devAH priyA bhavanty Atmanastu kAmAya devAH priyA bhavanti . na vA are vedAnA.n kAmAya vedAH priyA bhavanty Atmanastu kAmAya vedAH priyA bhavanti . na vA are bhUtAnAM kAmAya bhUtAni priyANi bhavanty Atmanastu kAmAya bhUtAni priyANi bhavanti . na vA are sarvasya kAmAya sarvaM priyaM bhavaty Atmanastu kAmAya sarvaM priyaM bhavaty AtmA vA are draShTavyaH shrotavyo mantavyo nididhyAsitavyo maitreyy Atmani khalvare dR^iShTe shrute mate vij~nAta idaꣳ sarvaM viditam . mantra 7[ईV।व्।७] brahma taM parAdAd yo.anyatrA.a.atmano brahma veda kShatraM taM parAdAd yo.anyatrA.a.atmanaH kShatraM veda lokAstaM parAduH yo.anyatrA.a.atmano lokAnveda devAstaM parAduH yo.anyatrAtmano devAnveda vedAstaM parAdur yo.anyatrAtmano vedAnveda bhUtAni taM parAdur yo.anyatrA.a.atmano bhUtAni veda sarvaM taM parAdAd yo.anyatrA.a.atmanaH sarvaM ved edaM brahmedaM kShatramime lokA ime devA ime vedA imAni bhUtAnIdaꣳ sarvaM yadayamAtmA .. 7 .. mantra 8[ईV।व्।८] sa yathA dundubherhanyamAnasya na bAhyA~nChabdA~nChaknuyAd grahaNAya dundubhestu grahaNena dundubhyAghAtasya vA shabdo gR^ihItaH .. 8 .. mantra 9[ईV।व्।९] sa yathA sha~Nkhasya dhmAyamAnasya na bAhyA~nChabdA~nChaknuyAd grahaNAya sha~Nkhasya tu grahaNena sha~Nkhadhmasya vA shabdo gR^ihItaH .. 9 .. mantra 10[ईV।व्।१०] sa yathA vINAyai vAdyamAnAyai na bAhyA~nChabdA~nChaknuyAdgrahaNAya vINAyai tu grahaNena vINAvAdasya vA shabdo gR^ihItaH .. 10 .. mantra 11[ईV।व्।११] sa yathA.a.ardraidhAgnerabhyAhitasya pR^ithagdhUmA vinishcharanty evaM vA are.asya mahato bhUtasya niHshvasitametadyadR^igvedo yajurvedaH sAmavedo.atharvA~Ngirasa itihAsaH purANaM vidyA upaniShadaH shlokAH sUtrANyanuvyAkhyAnAni vyAkhyAnAni iShTaꣳ hutamAshitaM pAyitamayaM cha lokaH parashcha lokaH sarvANi cha bhUtAnyasyaivaitAni sarvANi niHshvasitAni .. 11 .. sAmavedas atharvA~Ngirasas itihAsas purANam vidyAs upaniShadas shlokAs sUtrANi anuvyAkhyAnAni vyAkhyAnani dattam क् iShTam hutam Ashitam pAyitam ayam cha lokas paras cha lokas sarvANi cha bhUtAni asya eva etAni sarvANi nishvasitAniक् niHshvasitAni mantra 12[ईV।व्।१२] sa yathA sarvAsAmapAꣳ samudra ekAyanam evaꣳ sarveShAꣳ sparshAnAM tvagekAyanam evaꣳ sarveShAM gandhAnAM nAsikaikAyanam evaꣳ sarveShAꣳ rasAnAM jihvaikAyanam evaꣳ sarveShAꣳ rUpANAM chakShurekAyanam evaꣳ sarveShaM shabdAnAM shrotramekAyanam evaꣳ sarveShAꣳ sa~NkalpAnAM mana ekAyanam evaꣳ sarvAsAM vidyAnAꣳ hR^idayamekAyanam evaꣳ sarveShAM karmaNAꣳ hastAvekAyanam evaꣳ sarveShAmAnandAnAmupastha ekAyanam evaꣳ sarveShAM visargANAM pAyurekAyanam evaꣳ sarveShAmadhvanAM pAdAvekAyanam evaꣳ sarveShAM vedAnAM vAgekAyanam .. 12 .. mantra 13[ईV।व्।१३] sa yathA saindhavaghano.anantaro.abAhyaH kR^itsno rasaghana evai vaM vA are.ayamAtmAnantaro.abAhyaH kR^itsnaH praj~nAnaghana evaitebhyo bhUtebhyaH samutthAya tAnyevAnuvinayaShyatiti praj~nAnaghanas eva etebhyas bhUtebhyas samutthAya tAni eva anuvinayati na pretya sa~nj~nA.astItyare bravImIti hovAcha yAj~navalkyaH .. 13 .. mantra 14[ईV।व्।१४] sA hovAcha maitreyy atraiva mA bhagavAnmohAntamApIpipan na vA ahamimaM vijAnAmIti sa hovAcha na vA are.ahaM mohaM bravImy avinAshI vA are.ayamAtmA.anuchChittidharmA .. 14 .. mantra 15[ईV।व्।१५] yatra hi dvaitamiva bhavati taditara itaraM pashyati taditara itaraM jighrati taditara itaraꣳ rasayate taditara itaramabhivadati taditara itaraꣳ shR^iNoti taditara itaraM manute taditara itaraꣳ spR^ishati taditara itaraM vijAnAti . yatra tvasya sarvamAtmaivAbhUt tatkena kaM pashyet tatkena kaM jighret tatkena kaꣳ rasayet tatkena kamabhivadet tatkena kaꣳ shR^iNuyAt tatkena kaM manvIta tatkena kaꣳ spR^ishet tatkena kaM vijAnIyAdyenedaꣳ sarva.n vijAnAti ta.n kena vijAnIyAt sa eSha neti netyA.atmAgR^ihyo na hi gR^ihyate .ashIryo na hi shIryate .asa~Ngo na hi sajyate .asito na vyathate na riShyati . vij~nAtAramare kena vijAnIyAdityuktAnushAsanAsi maitreyy etAvadare khalvamR^itatvamiti hoktvA yAj~navalkyo vijahAra .. 15 ..iti pa~nchamaM brAhmaNam .. ShaShThaM brAhmaNam . mantra 1[ईV।वि।१] atha vaꣳshaH pautimAShyo gaupavanAd gaupavanaH pautimAShyAt pautimAShyo gaupavanAd gaupavanaH kaushikAt kaushikaH kauNDinyAt kauNDinyaH shANDilyAch ChANDilyaH kaushikAchcha gautamAchcha gautamaH .. 1 .. mantra 2[ईV।वि।२] AgniveshyAd agniveshyo gArgyAd gArgyo gArgyAd gArgyo gautamAd gautamaH saitavAt saitavaH pArAsharyAyaNAt pArAshAryAyaNo gArgyAyaNAd gArgyAyaNa uddAlakAyanAd uddAlakAyano jAbAlAyanAj jAbAlAyano mAdhyandinAyanAn mAdhyandinAyanaH saukarAyaNAt saukarAyaNaH kAShAyaNAt kAShAyaNaH sAyakAyanAt sAyakAyanaH kaushikAyaneH kaushikAyaniH .. 2 .. mantra 3[ईV।वि।३] ghR^itakaushikAd ghR^itakaushikaH pArAsharyAyaNAt pArAsharyAyaNaH pArAsharyAt pArAsharyo jAtUkarNyAj jAtUkarNya AsurAyaNAchcha yAskAchchA .a.asurAyaNastraivaNes traivaNiraupajandhaner aupajandhanirAsurer AsurirbhAradvAjAd bhAradvAja AtreyAd Atreyo mANTer mANTirgautamAd gautamo gautamAd gautamo vAtsyAd vAtsyaH shANDilyAch ChANDilyaH kaishoryAtkApyAt kaishoryaH kApyaH kumArahAritAt kumArahArito gAlavAd gAlavo vidarbhIkauNDinyAd vidarbhIkauNDinyo vatsanapAto bAbhravAd vatsanapAdbAbhrava pathaH saubharAt panthAH saubharo.ayAsyAdA~NgirasAd ayAsya A~Ngirasa AbhUtestvAShTrAd AbhUtistvAShTro vishvarUpAttvAShTrAd vishvarUpastvAShTro.avshvibhyAm ashvinau dadhIcha AtharvaNAd dadhya~N~NAtharvaNo.atharvaNo daivAd atharvA daivo mR^ityoH prAdhvaꣳsanAn mR^ityuH prAdhvaꣳsanaH pradhvaꣳsanAt pradhvaꣳsana ekarSher ekarShirviprachitteH viprachittirvyaShTer vyaShTiH sanAroH sanAruH sanAtanAt sanAtanaH sanagAt sanagaH parameShThinaH parameShThI brahmaNo brahma svayambhu brahmaNe namaH .. 3 .. iti ShaShThaM brAhmaNam .. .. iti bR^ihadAraNyakopaniShadi chaturtho.adhyAyaH .. atha pa~nchamo.adhyAyaH . prathamaM brAhmaNam . [V।इ।१] OM pUrNamadaH pUrNamidaM pUrNAtpUrNamudachyate . pUrNasya pUrNamAdAya pUrNamevAvashiShyate . OM3 khaM brahma khaM purANa.n vAyuraM kham iti ha smA.a.aha kauravyAyaNIputro . vedo.ayamM brAhmaNA vidur vedainena yadveditavyam .. 1 .. iti prathamaM brAhmaNam .. dvitIyaM brAhmaNam . mantra 1[V।ई।१] trayAH prAjApatyAH prajApatau pitari brahmacharyamUShur devA manuShyA asurA uShitvA brahmacharyaM devA Uchur bravItu no bhavAniti . tebhyo haitadakSharamuvAcha da iti vyaj~nAsiShTA3 iti . vyaj~nAsiShmeti hochur dAmyateti na Atthety omiti hovAcha vyaj~nAsiShTeti .. 1 .. mantra 2[V।ई।२] atha hainaM manuShyA Uchur bravItu no bhavAniti . tebhyo haitadevAkSharamuvAcha da iti vyaj~nAsiShTA3 iti . vyaj~nAsiShmeti hochur datteti na Atthety omiti hovAcha vyaj~nAsiShTeti .. 2 .. mantra 3[V।ई।३] atha hainamasurA Uchur bravItu no bhavAniti . tebhyo haitadevAkSharamuvAcha da iti vyaj~nAsiShTA3 iti . vyaj~nAsiShmeti hochur dayadhvamiti na Atthety omiti hovAcha vyaj~nAsiShTeti . tadetadevaiShA daivI vAganuvadati stanayitnur da da da iti dAmyata datta dayadhvamiti . tadetattrayaꣳ shikShed dama.n dAna.n dayAmiti .. 3 .. iti dvitIyaM brAhmaNam .. tR^itIyaM brAhmaNam .[V।ईइ।१] eSha prajApatiryaddhR^idayam etadbrahmaitatsarvam . tadetattryakSharaꣳ hR^idayamiti . hR^i ityekamakSharam abhiharantyasmai svAshchAnye cha ya evaM veda . da ityekamakSharam dadatyasmai svAshchAnye cha ya evaM veda . yamityekamakSharam eti svargaM loka.n ya evaM veda .. 1 .. iti tR^itIyaM brAhmaNam .. chaturthaM brAhmaNam .[V।इव्।१] tadvai tad etadeva tadAsa satyameva . sa yo haitaM mahadyakShaM prathamajaM veda satyaM brahmeti jayatImAꣳllokA~n jita innvasAvasad ya evametanmahadyakShaM prathamajaM veda satyaM brahmeti satyaꣳ hyeva brahma .. 1 .. iti caturthaM brAhmaNam .. pa~nchamaM brAhmaNam . mantra 1[व्।V।१] apa evedamagra Asus tA ApaH satyamasR^ijanta satyaM brahma brahma prajApatim prajApatirdevAꣳs te devAH satyamevopAsate tadetattryakSharaꣳ satyamiti . sa ityekamakSharam tItyekamakSharam yamityekamakSharam . prathamottame akShare satyam madhyato.anR^itam tadetadanR^itamubhayataH satyena parigR^ihItaꣳ satyabhUyameva bhavati . nainaMvidvAꣳsamanR^itaꣳ hinasti .. 1 .. mantra 2[V।व्।२] tadyattatsatyamasau sa Adityo . ya eSha etasminmaNDale puruSho yashchAyaM dakShiNe.akShan puruShas tAvetAvanyo.anyasminpratiShThitau rashmibhireSho.asminpratiShThitaH prANairayamamuShmin sa yadotkramiShyanbhavati shuddhamevaitanmaNDalaM pashyati nainamete rashmayaH pratyAyanti .. 2 .. mantra 3[V।व्।३] ya eSha etasminmaNDale puruShas tasya bhUriti shira ekaꣳ shira ekametadakSharaM bhuva iti bAhU dvau bAhU dve ete akShare svariti pratiShThA dve pratiShThe dve ete akShare . tasyopaniShadahariti . hanti pApmAnaM jahAti cha ya evaM veda .. 3 .. mantra 4[V।व्।४] yo.ayaM dakShiNe.akShanpuruShas tasya bhUriti shiraH ekaꣳ shira ekametadakSharam bhuva iti bAhU dvau bAhU dve ete akShare svariti pratiShThA dve pratiShThe dve ete akShare . tasyopaniShadahamiti . hanti pApmAnaM jahAti cha ya evaM veda .. 4 .. iti paj~nchamaM brAhmaNam .. ShaShThaM brAhmaNam[V।वि।१] manomayo.ayaM puruSho bhAHsatyas tasminnantarhR^idaye yathA vrIhirvA yavo vA sa eSha sarvasya sarvasyeshAnaH sarvasyAdhipatiH sarvamidaM prashAsti yadidaM ki~ncha .. 1 .. iti ShaShThaM brAhmaNam .. saptamaM brAhmaNam .[V।वी।१] vidyud brahmetyAhur vidAnAdvidyud vidyatyenaM pApmano ya evaM veda vidyudbrahmeti . vidyuddhyeva brahma .. 1 .. iti saptamaM brAhmaNam .. aShTamaM brAhmaNam .[V।वीइ।१] vAchaM dhenumupAsIta . tasyAshchatvAraH stanAH svAhAkAro vaShaTkAro hantakAraH svadhAkAras tasyai dvau stanau devA upajIvanti svAhAkAraM cha vaShaTkAraM cha hantakAraM manuShyAH svadhAkAraM pitaraH . tasyAH prANa R^iShabho mano vatsaH .. 1 .. ityaShTamaM brAhmaNam .. navamaM brAhmaNam . [V।इक्ष्।१] ayamAgnirvaishvAnaro yo.ayamantaH puruShe yenedamannaM pachyate yadidamadyate . tasyaiSha ghoSho bhavati yametatkarNAvapidhAya shR^iNoti . sa yadotkramiShyanbhavati nainaM ghoShaꣳ shR^iNoti .. 1 .. iti navamaM brAhmaNam .. dashamaM brAhmaNam .[V।क्ष्।१] yadA vai puruSho.asmAllokAtpraiti sa vAyumAgachChati tasmai sa tatra vijihIte yathA rathachakrasya kha.n tena sa Urdhva Akramate . sa AdityamAgachChati tasmai sa tatra vijihIte yathAlambarasya kham tena sa Urdhva Akramate . sa chandramasamAgachChati tasmai sa tatra vijihIte yathA dundubheH kham tena sa Urdhva Akramate . sa lokamAgachChatyashokamahimam tasminvasati shAshvatIH samAH .. 1 .. iti dashamaM brAhmaNam .. ekAdashaM brAhmaNam .[V।क्षि।१] etadvai paramaM tapo yadvyAhitastapyate paramaꣳ haiva lokaM jayati ya evaM vedaitadvai paramaM tapo yaM pretamaraNyaꣳ haranti paramaꣳ haiva lokaM jayati ya evaM vedaitadvai paramaM tapo yaM pretamagnAvabhyAdadhati paramaꣳ haiva lokaM jayati ya evaM veda .. 11 .. iti ekAdashaM brAhmaNam .. dvAdashaM brAhmaNam .[V।क्षी।१] annaM brahmetyeka Ahus tanna tathA pUyati vA annamR^ite prANAt prANo brahmetyeka Ahus tanna tathA shuShyati vai prANa R^ite.annAd ete ha tveva devate ekadhAbhUyaM bhUtvA paramatAM gachChatas taddha smA.a.aha prAtR^idaH pitaram kiꣳ svidevaivaM viduShe sAdhu kuryAm kimevAsmA asAdhu kuryAmiti . sa ha smAha pANinA mA prAtR^ida kastvenayorekadhAbhUyaM bhUtvA paramatAM gachChatIti . tasmA u haitaduvAcha vIty annaM vai vi anne hImAni sarvANi bhUtAni viShTAni . ramiti prANo vai raM prANe hImAni sarvANi bhUtAni ramante . sarvANi ha vA asmin bhUtAni vishanti sarvANi bhUtAni ramante ya evaM veda .. 12 .. iti dvAdashaM brAhmaNam .. trayodashaM brAhmaNam mantra 1[V।क्षीइ।१] uktham prANo vA uktham prANo hIdaꣳ sarvamutthApayaty uddhAsmA dhasmAdukthavidvIrastiShThaty ukthasya sAyujyaꣳ salokatAM jayati ya evaM veda .. 1 .. mantra 2[V।क्षीइ।२] yajuH prANo vai yajuH prANe hImAni sarvANi bhUtAni yujyante . yujyante hAsmai sarvANi bhUtAni shraiShThyAya yajuShaH sAyujyaꣳ salokatAM jayati ya evaM veda .. 2 .. mantra 3[V।क्षीइ।३] sAma prANo vai sAma prANe hImAni sarvANi bhUtAni samya~nchi . samya~nchi hAsmai sarvANi bhUtAni shraiShThyAya kalpante sAmnaH sAyujyaꣳ salokatAM jayati ya evaM veda .. 3 .. mantra 4[V।क्षीइ।४] kShatram prANo vai kShatram prANo hi vai kShatram trAyate hainaM prANaH kShaNitoH . pra kShatramatramapnoti kShatrasya sAyujyaꣳ salokatAM jayati ya evaM veda .. 4 .. iti trayodashaM brAhmaNam .. chaturdashaM brAhmaNam . mantra 1[V।क्षिव्।१] bhUmirantarikShaM dyaurityaShTAvakSharANy aShTAkSharaꣳ ha vA ekaM gAyatryai padam etadu haivAsyA etat sa yAvadeShu triShu lokeShu tAvaddha jayati yo.asyA etadevaM padaM veda .. 1 .. mantra 2[V।क्षिव्।२] R^icho yajUꣳShi sAmAnItyaShTAvakSharANy aShTAkSharaꣳ ha vA ekaM gAyatryai padam. etadu haivAsyA etat sa yAvatIyaM trayI vidyA tAvaddha jayati yo.asyA etadevaM padaM veda .. 2 .. mantra 3[V।क्षिव्।३] prANo.apAno vyAna ityaShTAvakSharANi aShTAkSharaꣳ ha vA ekaM gAyatryai padam etadu haivAsyA etat sa yAvadidaM prANi tAvaddha jayati yo.asyA etadevaM padaM veda athAsyA etadeva turIyaM darshataM padaM parorajA ya eSha tapati yadvai chaturthaM tatturIyam darshataM padamiti dadR^isha iva hyeSha parorajA iti sarvamu hyevaiSha raja uparyupari tapaty evaꣳ haiva shriyA yashasA tapati yo.asyA etadevaM padaM veda .. 3 .. mantra 4[V।क्षिव्।४] saiShA gAyatryetasmiꣳsturIye darshate pade parorajasi pratiShThitA tadvai tatsatye pratiShThitaM chakShurvai satyam chakShurhi vai satyam tasmAdyadidAnIM dvau vivadamAnAveyAtAm aham adarsham ahamashrauShamiti ya eva evaM brUyAd aham adarshamiti tasmA eva shraddadhyAma . tadvai tatsatyaM bale pratiShThitam prANo vai balam tatprANe pratiShThitam tasmAdAhur balaꣳ satyAdogIya ity evaM veShA gAyatryadhyAtmaM pratiShThitA . sA haiShA gayAꣳstatre prANA vai gayAs tatprANAꣳstatre tadyadgayAꣳstatre tasmAd gAyatrI nAma . sa yAmevAmUꣳ sAvitrImanvAhaiShaiva sA . sa yasmA anvAha tasya prANAꣳstrAyate .. 4 .. mantra 5[V।क्षिव्।५] tAꣳ haitAmeke sAvitrImanuShTubhamanvAhur vAganuShTub etadvAchamanubrUma iti . na tathA kuryAd gAyatrImevAnubrUyAd . yadi ha vA apyevaMvidbahviva pratigR^ihNAti na haiva tadgAyatryA ekaM chana padaM prati .. 5 .. mantra 6[V।क्षिव्।६] sa ya imAꣳstrIMllokAnpUrNAnpratigR^ihNIyAt so.asyA etatprathamaM padamApnuyAd. atha yAvatIyaM trayI vidyA yastAvatpratigR^ihNIyAt so.a.asyA etaddvitIyaM padamApnuyAd atha yAvadidaM prANi yastAvatpratigR^ihNIyAt so.asyA etattR^itIyaM padamApnuyAd athAsyA etadeva turIyaM darshataM padam parorajA ya eSha tapati naiva kena chanApyam kuta u etAvatpratigR^ihNIyAt .. 6 .. mantra 7[V।क्षिव्।७] tasyA upasthAnam gAyatry asyekapadI dvipadI tripadI chatuShpady apadasi na hi padyase . namaste turIyAya darshatAya padAya parorajase .asAvado mA prApaditi yaM dviShyAd asAvasmai kAmo mA samR^iddhIti vA na haivAsmai sa kAmaH samR^iddhyate yasmA evamupatiShThate .ahamadaH prApamiti vA .. 7 .. mantra 8[V।क्षिव्।८] etaddha vai tajjanako vaideho buDilamAshvatarAshvimuvAcha yannu ho tadgAyatrIvidabrUthA atha kathaꣳ hastI bhUto vahasIti . mukhaꣳ hyasyAH samrAN na vidAM chakAreti hovAcha . tasyA agnireva mukham yadi ha vA api bahvivAgnAvabhyAdadhati sarvameva tatsandahaty evaꣳ haivaivaMvid yadyapi bahviva pApaM kurute sarvameva tatsampsAya shuddhaH pUto.ajaro.amR^itaH sambhavati .. 8 .. iti chaturdashaM brAhmaNam .. pa~nchadashaM brAhmaNam . [V।क्ष्व्।१] hiraNmayena pAtreNa satyasyApihitaM mukham . tattvam pUShann apAvR^iNu satyadharmAya dR^iShTaye . pUShann ekarShe yama sUrya prAjApatya vyUha rashmIn . samUha tejo yatte rUpa.n kalyANatama.n tatte pashyAmi . yo.asAvasau puruShaH so.ahamasmi . vAyuranilamamR^itam athedaM bhasmAntaꣳ sharIram . OM3 krato smara kR^itaꣳ smara krato smara kR^itaꣳ smara . agne naya supathA rAye.asmAn vishvAni deva vayunAni vidvAn. yuyodhyasmajjuhurANameno bhUyiShThAM te nama uktiM vidhema .. 1 .. iti pa~nchadashaM brAhmaNam .. .. iti bR^ihadAraNyakopaniShadi pa~nchamo.adhyAyaH .. atha ShaShTho.adhyAyaH . prathamaM brAhmaNam mantra 1[Vई।१।१] OM yo ha vai jyeShThaM cha shreShThaM cha veda jyeShThashcha shreShThashcha svAnAM bhavati . prANo vai jyeShThashcha shreShThashcha . jyeShThashcha shreShThashcha svAnAM bhavaty api cha yeShAM bubhUShati ya evaM veda .. 1 .. mantra 2[Vई।इ।२] yo ha vai vasiShThAM veda vasiShThaH svAnAM bhavati . vAgvai vasiShThA . vasiShThaH svAnAM bhavatyapi cha yeShAM bubhUShati , ya evaM veda .. 2 .. mantra 3[Vई।इ।३] yo ha vai pratiShThAM veda pratitiShThati same pratitiShThati durge . chakShurvai pratiShThA chakShuShA hi same cha durge cha pratitiShThati . pratitiShThati same pratitiShThati durge ya evaM veda .. 3 .. mantra 4[Vई।इ।४] yo ha vai sampadaM veda saꣳ hAsmai padyate yaM kAmaM kAmayate . shrotraM vai sampach Chrotre hIme sarve vedA abhisampannAH . saꣳ hAsmai padyate yaM kAmaM kAmayate ya evaM veda .. 4 .. mantra 5[Vई।इ।५] yo ha vA AyatanaM vedA.a.ayatanaꣳ svAnAM bhavati AyatanaM janAnAm . mano vA Ayatanam Ayatanaꣳ svAnAM bhavaty AyatanaM janAnAm ya evaM veda .. 5 .. mantra 6[Vई।इ।६] yo ha vai prajAtiM veda prajAyate ha prajayA pashubhI reto vai prajAtiH . prajAyate ha prajayA pashubhir ya evaM veda .. 6 .. mantra 7[Vई।इ।७] te heme prANA ahaꣳshreyase vivadamAnA brahma jagmustaddhochuH ko no vasiShTha iti . taddhovAcha स्ण् एदितिओ उन इन्दिच एत्क् अद्द्। मर्क् १ tad dha uvAcha yasminva utkrAnta idaꣳ sharIraM pApIyo manyate sa vo vasiShTha iti .. 7 .. mantra 8[वि।ई।८] vAgghochchakrAma . sA saMvatsaraM proShyA.A.AgatyovAcha kathamashakata madR^ite jIvitumiti . te hochuR yathA.akalA avadanto vAchA prANantaH prANena pashyantashchakShuShA shR^iNvantaH shrotreNa vidvAꣳso manasA prajAyamAnA retasaivamajIviShmeti . pravivesha ha vAk .. 8 .. mantra 9[Vई।इ।९] chakShurhochchakrAma . tatsaMvatsaraM proShyA.a.agatyovAcha kathamashakata madR^ite jIvitumiti . te hochur yathAndhA apashyantashchakShuShA prANantaH prANena vadanto vAchA shR^iNvantaH shrotreNa vidvAꣳso manasA prajAyamAnA retasaivamajIviShmeti . pravivesha ha chakShuH .. 9 .. mantra 10[Vई।इ।१०] shrotraꣳ hochchakrAma . tatsaMvatsaraM proShyA.a.agatyovAcha kathamashakata madR^ite jIvitumiti . te hochur yathA badhirA ashR^iNvantaH shrotreNa prANantaH prANena vadanto vAchA pashyantashchakShuShA vidvAꣳso manasA prajAyamAnA retasaivamajIviShmeti . pravivesha ha shrotram .. 10 .. mantra 11[Vई।इ।११] mano hochchakrAma . tatsaMvatsaraM proShyA.a.agatyovAcha kathamashakata madR^ite jIvitumiti . te hochur yathA mugdhA avidvAꣳso manasA prANantaH prANena vadanto vAchA pashyantashchakShuShA shR^iNvantaH shrotreNa prajAyamAnA retasaivamajIviShmeti . pravivesha ha manaH .. 11 .. mantra 12[Vई।इ।१२] reto hochchakrAma . tatsaMvatsaraM proShyA.a.agatyovAcha kathamashakata madR^ite jIvitumiti . te hochur yathA klIbA aprajAyamAnA retasA prANantaH prANena vadanto vAchA pashyantashchakShuShA shR^iNvantaH shrotreNa vidvAꣳso manasaivamajIviShmeti . pravivesha ha retaH .. 12 .. mantra 13[Vई।इ।१३] atha ha prANa utkramiShyan yathA mahAsuhayaH saindhavaH paDvIshasha~NkUnsaMvR^ihed evaꣳ haivemAnprANAnsaMvavarha . te hochur mA bhagava utkramIr na vai shakShyAmastvadR^ite jIvitumiti . tasyo me baliM kuruteti tatheti .. 13 .. mantra 14[Vई।इ।१४] sA ha vAguvAcha yadvA ahaM vasiShThA.asmi tvaM tadvasiShTho.asIti . yad vA ahaM pratiShThAsmi tvaM tatpratiShTho.asIti chakShur yadvA ahaꣳ sampadasmi tvaM tat sampadasIti shrotram . yad vA ahamAyatanamasmi tvaM tadAyatanamasIti mano yadvA ahaM prajAtirasmi tvaM tat prajAtirasIti retas tasyo me kimannam kiM vAsa iti . yadidaM ki~nchA.a.ashvabhya A kR^imibhya A kITapata~Ngebhyas tatte.annam Apo vAsa iti . na ha vA asyAnannaM jagdhaM bhavati nAnannaM pratigR^ihItaM ya evametadanasyAnnaM veda . tad vidvAꣳsaH shrotriyA ashiShyanta AchAmanty ashitvA.a.achAmanty etameva tadanamanagnaM kurvanto manyante .. 14 .. iti prathamaM brAhmaNam .. dvitIyaM brAhmaN mantra 1[Vई।ई।१] shvetaketurha vA AruNeyaH pa~nchAlAnAM pariShadamAjagAma . sa AjagAma jaivaliM pravAhaNaM parichArayamANam . tamudIkShyAbhyuvAda kumArA3 iti . sa bhoH 3 iti pratishushrAva anushiShTo.anvasi pitrety omiti hovAcha .. 1 .. mantra 2[Vई।ई।२] vettha yathemAH prajAH prayatyo vipratipadyantA3 iti . neti hovAcha . vettho yathemaM lokaM punarApadyantA3 iti . neti haivovAcha . vettho yathA.asau loka evaM bahubhiH punaHpunaH prayadbhirna sampUryatA3 iti neti haivovAcha . vettho yatithyAmAhutyAꣳ hutAyAmApaH puruShavAcho bhUtvA samutthAya vadantI3 iti . neti haivovAcha . vettho devayAnasya vA pathaH pratipadaM pitR^iyANasya vA yatkR^itvA devayAnaM vA panthAnaM pratipadyante pitR^iyANaM vA .api hi na R^iShervachaH shrutam dve sR^itI ashR^iNavaM pitR^iNAm ahaM devAnAmuta martyAnAm tAbhyAmidaM vishvamejatsameti yadantarA pitaraM mAtaraM cheti . nAhamata ekaM chana vedeti hovAcha .. 2 .. mantra 3[Vई।ई।३] athainaM vasatyopamantrayAM chakre .anAdR^itya vasatiM kumAraH pradudrAva . sa AjagAma pitaram taꣳ hovAcheti vAva kila no bhavAnpurA.anushiShTAnavocha iti . kathaꣳ, sumedha iti . pa~ncha mA prashnAnrAjanyabandhuraprAkShIt tato naika~nchana vedeti . katame ta iti ima iti ha pratIkAnyudAjahAra .. 3 .. mantra 4[Vई।ई।४] sa hovAcha tathA nastvam tAta jAnIthA yathA yadahaM ki~ncha veda sarvamahaM tattubhamavocham . prehi tu tatra pratItya brahmacharyaM vatsyAva iti . bhavAneva gachChatviti . sa AjagAma gautamo yatra pravAhaNasya jaivalerAsa . tasmA AsanamAhR^ityodakamahArayAM chakArAtha hAsmA arghyaM chakAra . taꣳ hovAcha varaM bhagavate gautamAya dadma iti .. 4 .. mantra 5[Vई।ई।५] sa hovAcha pratij~nAto ma eSha varo yAM tu kumArasyAnte vAchamabhAShathAs tAM me brUhIti .. 5 .. mantra 6[Vई।ई।६] sa hovAcha daiveShu vai gautama tadvareShu mAnuShANAM brUhIti .. 6 .. mantra 7[Vई।ई।७] sa hovAcha vij~nAyate hAsti hiraNyasyApAttaM goashvAnAM dAsInAM pravArANAM paridhAnasya mA no bhavAnbahoranantasyAparyantasyAbhyavadAnyo bhUditi . sa vai gautama tIrthenechChAsA ity upaimyahaM bhavantamiti vAchA ha smaiva pUrva upayanti . sa hopAyanakIrtyovAsa .. 7 .. mantra 8[Vई।ई।८] sa hovAcha tathA nastvam gautama mA.aparAdhAstava cha pitAmahA yatheyaM vidyetaH pUrvaM na kasmiꣳshchana brAhmaNa uvAsa tAM tvahaM tubhyaM vakShyAmi ko hi tvaivaM bruvantamarhati pratyAkhyAtumiti .. 8 .. mantra 9[Vई।ई।९] asau vai loko.agnir gautama . tasyA.a.aditya eva samid rashmayo dhUmo .ahararchir disho.a~NgArA avAntaradisho visphuli~NgAs tasminnetasminnagnau devAH shraddhAM juhvati tasyA Ahutyai somo rAjA sambhavati .. 9 .. mantra 10[Vई।ई।१०] parjanyo vA agnir gautama . tasya saMvatsara eva samid abhrANi dhUmo vidyudarchir ashanira~NgArA hrAdunayo visphuli~NgAs tasminnetasminnagnau devAH somaꣳ rAjAnaM juhvati tasyA Ahutyai vR^iShTiH sambhavati .. 10 .. mantra 11[Vई।ई।११] ayaM vai loko.agnir gautama . tasya pR^ithivyeva samid agnirdhUmo rAtrirarchish chandramA a~NgArA nakShatrANi viShphuli~NgAs tasminnetasminnagnau devA vR^iShTiM juhvati tasyA AhutyA annaꣳ sambhavati .. 11 .. mantra 12[Vई।ई।१२] puruSho vA agnir gautama . tasya vyAttameva samit prANo dhUmo vAgarchish chakShura~NgArAH shrotraM visphuli~NgAs tasminnetasminnagnau devA annaM juhvati tasyA Ahutyai retaH sambhavati .. 12 .. mantra 13[Vई।ई।१३] yoShA vA Agnir gautama . tasyA upastha eva samil lomAni dhUmo yonirarchir yadantaH karoti te.a~NgArA abhinandA visphuli~NgAs tasminnetasminnagnau devA reto juhvati tasyA Ahutyai puruShaH sambhavati . sa jIvati yAvajjIvaty atha yadA mriyate . 13 .. mantra 14[Vई।ई।१४] athainamagnaye haranti . tasyAgnirevAgnirbhavati samitsamid dhUmo dhUmo .archirarchir a~NgArA a~NgArA visphuli~NgA visphuli~NgAs tasminnetasminnagnau devAH puruShaM juhvati tasyA Ahutyai puruSho bhAsvaravarNaH sambhavati .. 14 .. mantra 15[Vई।ई।१५] te ya evametadvidur ye chAmI araNye shraddhAꣳ satyamupAsate te.archirabhisambhavanty archiSho.aho .ahna ApUryamANapakSham ApUryamANapakShAdyAnShaNmAsAnuda~N~NAditya eti mAsebhyo devalokam devalokAdAdityam AdityAdvaidyutam tAnvaidyutAnpuruSho mAnasa etya brahmalokAn gamayati te teShu brahmalokeShu parAH parAvato vasanti . teShAM na punarAvR^ittiH . mantra 16[Vई।ई।१६] atha ye yaj~nena dAnena tapasA lokA~njayanti te dhUmamabhisambhavanti dhUmAdrAtriꣳ, rAtrerapakShIyamANapakSham apakShIyamANapakShAdyAnShaNmAsAndakShiNAditya eti mAsebhyaH pitR^ilokam pitR^ilokAchchandram te chandraM prApyAnnaM bhavanti tAꣳstatra devA yathA somaꣳ rAjAnam ApyAyasva apakShIyasvety evamenAꣳstatra bhakShayanti . teShAM yadA tatparyavaity athemamevA.a.akAshamabhiniShpadyante AkAshAdvAyum vAyorvR^iShTim vR^iShTeH pR^ithivIm te pR^ithivIM prApyAnnaM bhavanti te punaH puruShAgnau hUyante tato yoShAgnau jAyante te lokAnpratyuthAyinasta evamevAnuparivartante .atha ya etau panthAnau na vidus te kITAH pata~NgA yadidaM dandashUkam .. 16 .. iti dvitIyaM brAhmaNam .. tR^itIyaM brAhmaNam mantra 1[Vई।ईइ।१] sa yaH kAmayate mahatprApnuyAmity udagayana ApUryamANapakShasya puNyAhe dvAdashAhamupasadvratI bhUtvaudumbare kaꣳse chamase vA sarvauShadhaM phalAnIti sambhR^itya parisamuhya parilipyAgnimupasamAdhAya paristIryA.a.avR^itA.a.ajyaꣳ saꣳskR^itya puꣳsA nakShatreNa manthaꣳ sannIya juhoti . yAvanto devAstvayi jAtavedas tirya~ncho ghnanti puruShasya kAmAn tebhyo.ahaM bhAgadheyaM juhomi te mA tR^iptAH sarvaiH kAmaistarpayantu svAhA . yA tirashchI nipadyate .ahaM vidharaNI iti tAM tvA ghR^itasya dhArayA yaje saꣳrAdhanImahaꣳ . svAhA .. 1 .. mantra 2[Vई।ईइ।२] jyeShThAya svAhA shreShThAya svAhety agnau hutvA manthe saꣳsravamavanayati . prANAya svAhA vasiShThAyai svAhety agnau hutvA manthe saꣳsravamavanayati . vAche svAhA pratiShThAyai svAhety agnau hutvA manthe saꣳsravamavanayati . chakShuShe svAhA sampade svAheti agnau hutvA manthe saꣳsravamavanayati . shrotrAya svAhA.a.ayatanAya svAhety agnau hutvA manthe saꣳsravamavanayati . manase svAhA prajAtyai svAhety agnau hutvA manthe saꣳsravamavanayati . retase svAheti agnau hutvA manthe saꣳsravamavanayati .. 2 .. mantra 3[Vई।ईइ।३] agnaye svAhety agnau hutvA manthe saꣳsravamavanayati . somAya svAhety agnau hutvA manthe saꣳsravamavanayati . bhUH svAhety agnau hutvA manthe saꣳsravamavanayati . bhuvaH svAhety agnau hutvA manthe saꣳsravamavanayati . svaH svAhety agnau hutvA manthe saꣳsravamavanayati . bhUrbhuvaH svaH svAhety agnau hutvA manthe saꣳsravamavanayati . brahmaNe svAhety agnau hutvA manthe saꣳsravamavanayati . kShatrAya svAhety agnau hutvA manthe saꣳsravamavanayati . bhUtAya svAhety agnau hutvA manthe saꣳsravamavanayati . bhaviShyate svAhety agnau hutvA manthe saꣳsravamavanayati . vishvAya svAhety agnau hutvA manthe saꣳsravamavanayati . sarvAya svAhety agnau hutvA manthe saꣳsravamavanayati . prajApataye svAhety agnau hutvA manthe saꣳsravamavanayati .. 3 .. mantra 4[Vई।ई।४] athainamabhimR^ishati bhramadasi jvaladasi pUrNamasi prastabdhamasy ekasabhamasi hi~NkR^itamasi hi~NkriyamANamasy udgIthamasy udgIyamAnamasi shrAvitamasi pratyAshrAvitamasy ardre sandIptamasi vibhUrasi prabhUrasy annamasi jyotirasi स्ण् क् वरिअतो ओर्दिनेः annam asi jyotis asi nidhanamasi saMvargo.asIti .. 4 .. mantra 5[Vई।ईइ।५] athainamudyachChaty amaꣳsy Amaꣳ hi te mahi . sa hi rAjeshAno.adhipatiH sa mAꣳ rAjeshano.adhipatiM karotviti .. 5 .. mantra 6[Vइ।ईइ।६] athainamAchAmati tatsaviturvareNyam . madhu vAtA R^itAyate madhu kSharanti sindhavaH . mAdhvIrnaH santvoShadhIH . bhUH svAhA . bhargo devasya dhImahi madhu naktamutoShaso madhumatpArthivaꣳ rajaH . madhu dyaurastu naH pitA . bhuvaH svAhA . dhiyo yo naH prachodayAt . madhumAnno vanaspatir madhumAꣳ astu sUryaH . mAdhvIrgAvo bhavantu naH . svaH svAheti . sarvAM cha sAvitrImanvAha sarvAshcha madhumatIr ahamevedaꣳ sarvaM bhUyAsam . bhUrbhuvaH svaH svAhety antata Achamya pANI prakShAlya jaghanenAgniM prAkShirAH saMvishati . prAtarAdityamupatiShThate dishAmekapuNDarIkamasi ahaM manuShyANAmekapuNDarIkaM bhUyAsamiti . yathetametya jaghanenAgnimAsIno vaꣳshaM japati .. 6 .. mantra 7[Vई।ईइ।७] taꣳ haitamUddAlaka AruNirvAjasaneyAya yAj~navalkyAyAntevAsina uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej shuShke sthANau niShi~nchet jAyera~nChAkhAH praroheyuH palAshAnIti .. 7 .. mantra 8[Vई।ईइ।८] etamu haiva vAjasaneyo yAj~navalkyo madhukAya pai~NgyAyAntevAsina uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej sthANau niShi~nchet jAyera~nChAkhAH praroheyuH palAshAnIti .. 8 .. mantra 9[Vई।ईइ।९] etamu haiva madhukaH pai~NgyashchUlAya bhAgavittaye.antevAsina uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej jAyera~nChAkhAH praroheyuH palAshAnIti .. 9 .. mantra 10[Vई।ईइ।१०] etamu haiva cUlo bhAgavittirjAnakaya AyasthUNAyAntevAsina uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej yas enam shuShke sthANau niShi~nchet jAyera~nChAkhAH praroheyuH palAshAnIti .. 10 .. mantra 11[Vई।ईइ।११] etamu haiva jAnakirayasthUNaH satyakAmAya jAbAlAyAntevAsina uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej jAyera~nChAkhAH praroheyuH palAshAnIti .. 11 .. mantra 12[Vई।ईइ।१२] etamu haiva satyakAmo jAbAlo.antevAsibhya uktvovAchApi ya enaꣳ shuShke sthANau niShi~nchej jAyera~nChAkhAH praroheyuH palAshAnIti . tametaM nAputrAya vA.anantevAsine vA brUyAt .. 12 .. mantra 13[Vई।ईइ।१३] chaturaudumbaro bhavaty audumbaraH sruva audumbarashchamasa audumbara idhma audumbaryA upamanthanyau . dasha grAmyANi dhAnyAni bhavanti vrIhiyavAstilamAShA aNupriya~Ngavo godhUmAshcha masUrAshcha khalvAshcha khalakulAshcha tAnpiShTAndadhani madhuni ghR^ita upasi~nchaty Ajyasya juhoti .. 13 .. iti tR^itIyaM brAhmaNam .. chaturthaM brAhmaNam mantra 1[Vई।इव्।१] eShAM vai bhUtAnAM pR^ithivI rasaH pR^ithivyA Apo .apAmoShadhaya oShadhInAM puShpANi puShpANAM phalAni phalAnAM puruShaH puruShasya retaH .. 1 .. mantra 2[Vई।इव्।२] sa ha prajApatirIkShA.nchakre hantAsmai pratiShThAM kalpayAnIti sa striyaꣳ sasR^ije . tAꣳ sR^iShTvA.adha upAsta tasmAtstriyamadha upAsIta sa etaM prA~nchaM grAvANamAtmana eva samudapArayat tenainAmabhyasR^ijat .. 2 .. mantra 3[Vई।इव्।३] tasyA vedirupastho lomAni barhish charmAdhiShavaNe samiddho madhyatastau muShkau . sa yAvAnha vai vAjapeyena yajamAnasya loko bhavati tAvAnasya loko bhavati ya evaM vidvAnadhopahAsaM charaty AsAꣳ strINAꣳ sukR^itaM vR^i~Nkte .atha ya idamavidvAnadhopahAsaM charaty A.asya striyaH sukR^itaM vR^i~njate .. 3 .. mantra 4[Vई।इव्।४] etaddha sma vai tadvidvAnuddAlaka AruNirAhaitaddha sma vai tadvidvAnnAko maudgalya Ahaitaddha sma vai tadvidvAn kumArahArita Aha etad dha sma vai tad vidvAn kumArahAritas Aha bahavo maryA brAhmaNAyanA nirindriyA visukR^ito.asmAllokAtprayanti ya idamavidvAꣳso.adhopahAsaM charantIti . bahu vA idaꣳ suptasya vA jAgrato vA retaH skandati .. 4 .. mantra 5[Vई।इव्।५] tadabhimR^ished anu vA mantrayeta yanme.adya retaH pR^ithivImaskAntsId yadoShadhIrapyasarad yadapaH . idamahaM tadreta Adade punarmAmaitvindriyam punastejaH punarbhagaH . punaragnirdhiShNyA yathAsthAnaM kalpantAmity anAmikA~NguShThAbhyAmAdAyAntareNa stanau vA bhruvau vA nimR^ijyAt .. 5 .. mantra 6[Vई।इव्।६] atha yadyudaka AtmAnaM pashyet tadabhimantrayeta mayi teja indriyaM yasho draviNaꣳ sukR^itamiti . shrIrha vA eShA strINAM yanmalodvAsAs tasmAnmalodvAsasaM yashasvinImabhikramyopamantrayeta .. 6 .. mantra 7[Vई।इव्।७] sA chedasmai na dadyAt kAmamenAmavakriNIyAt sA chedasmai naiva dadyAt kAmamenAM yaShTyA vA pANinA vopahatyAtikrAmed indriyeNa te yashasA yasha Adada ity ayashA eva bhavati .. 7 .. mantra 8[Vई।इव्।८] sA chedasmai dadyAd indriyeNa te yashasA yasha AdadhAmIti yashasvinAveva bhavataH .. 8 .. mantra 9[Vई।इव्।९] sa yAmichChet kAmayeta meti tasyAmarthaM niShThAya mukhena mukhaꣳ sandhAyopasthamasyA abhimR^ishya japed a~NgAda~NgAtsambhavasi hR^idayAdadhijAyase . sa tvama~NgakaShAyo.asi digdhaviddhamiva mAday emAmamUM mayIti .. 9 .. mantra 10[Vई।इव्।१०] atha yAmichChen na garbhaM dadhIteti tasyAmarthaM niShThAya mukhena mukhaꣳ sandhAyAbhiprANyApAnyAd indriyeNa te retasA reta Adada ityaretA eva bhavati .. 10 .. mantra 11[Vई।इव्।११] atha yAmichChed dadhIteti tasyAmarthaM niShThAya mukhena mukhaꣳ sandhAyApAnyAbhiprANyAd indriyeNa te retasA reta AdadhAmIti garbhiNyeva bhavati .. 11 .. mantra 12[Vई।इव्।१२] atha yasya jAyAyai jAraH syAt taM ched dviShyAd AmapAtre.agnimupasamAdhAya pratilomaꣳ sharabarhistIrtvA tasminnetAH sharabhR^iShTIH pratilomAH sarpiShA.aktA juhuyAn mama samiddhe.ahauShIH prANApAnau ta Adade .asAviti . mama samiddhe.ahauShIH putrapashUꣳsta Adade .asAviti . mama samiddhe.ahauShIr iShTAsukR^ite ta Adade .asAviti . mama samiddhe.ahauShIr AshAparAkAshau ta Adade .asAviti . sa vA eSha nirindriyo visukR^ito.asmAllokAtpraiti yamevaMvidbrAhmaNaH shapati . tasmAdevaMvitChrotriyasya dAreNa nopahAsamichChed uta hyevaMvitparo bhavati .. 12 .. mantra 13[Vई।इव्।१३] atha yasya jAyAmArtavaM vindet tryahaM kaꣳse na pibedahatavAsA nainAM vR^iShalo na vR^iShalyupahanyAt apahanyAt trirAtrAnta Aplutya vrIhInavaghAtayet .. 13 .. mantra 14[Vई।इव्।१४] sa ya ichChet putro me shuklo jAyeta vedamanubruvIta sarvamAyuriyAditi kShIraudanaM pAchayitvA sarpiShmantamashnIyAtAm Ishvarau janayitavai .. 14 .. mantra 15[Vई।इव्।१५] atha ya ichChet putro me kapilaH pi~Ngalo jAyeta dvau vedAvanubruvIta sarvamAyuriyAditi dadhyodanaM pAchayitvA sarpiShmantamashnIyAtAm Ishvarau janayitavai .. 15 .. mantra 16[Vई।इव्।१६] atha ya ichChet putro me shyAmo lohitAkSho jAyeta trInvedAnanubruvIta sarvamAyuriyAdity udaudanaM pAchayitvA sarpiShmantamashnIyAtAm Ishvarau janayitavai .. 16 .. mantra 17[Vई।इव्।१७] atha ya ichChed duhitA me paNDitA jAyeta sarvamAyuriyAditi tilaudanaM pAchayitvA sarpiShmantamashnIyAtAm Ishvarau janayitavai .. 17 .. mantra 18[Vई।इव्।१८] atha ya ichChet putro me paNDito vigItaH samiti~NgamaH shushrUShitAM vAchaM bhAShitA jAyeta sarvAnvedAnanubruvIta sarvamAyuriyAditi mAꣳsaudanaM pAchayitvA sarpiShmantamashnIyAtAm Ishvarau janayitavai . aukSheNa vA.a.arShabheNa vA .. 18 .. mantra 19[Vई।इव्।१९] athAbhiprAtareva sthAlIpAkAvR^itA.a.ajya.n cheShTitvA sthAlIpAkasyopaghAtaM juhoty agnaye svAhA .anumataye svAhA devAya savitre satyaprasavAya svAheti hutvoddhR^itya prAshnAti . prAshyetarasyAH prayachChati . prakShAlya pANI udapAtraM pUrayitvA tenainAM trirabhyukShaty uttiShThAto vishvAvaso .anyAmichCha prapUrvyAꣳ saM jAyAM patyA saheti .. 19 .. mantra 20[Vई।इव्।२०] athainAmabhipadyate .amo.ahamasmi sA tvaꣳ sA tvamasy amo.ahaꣳ sAmAhamasmi R^iktvam dyauraham pR^ithivI tvam . tAvehi saꣳrabhAvahai saha reto dadhAvahai puꣳse putrAya vittaya iti .. 20 .. mantra 21[Vई।इव्।२१] athAsyA UrU vihApayati vijihIthAM dyAvApR^ithivI iti . tasyAmarthaM niShThAya mukhena mukhaꣳ sandhAya trirenAmanulomAmanumArShTi viShNuryoniM kalpayatu tvaShTA rUpANi piꣳshatu Asi~nchatu prajApatir dhAtA garbhaM dadhAtu te . garbhaM dhehi sinIvAli garbhaM dhehi pR^ithuShTuke . garbhaM te Ashvinau devAv AdhattAM puShkarasrajau .. 21 .. mantra 22[Vई।इव्।२२] hiraNmayI araNI yAbhyAM nirmanthatAmAshvinau taM te garbhaꣳ havAmahe dashame mAsi sUtaye . yathA.agnigarbhA pR^ithivI yathA dyaurindreNa garbhiNI vAyurdishAM yathA garbha evaM garbhaM dadhAmi te .asAviti .. 22 .. mantra 23[Vई।इव्।२३] soShyantImadbhirabhyukShati yathA vAyuH puShkariNIꣳ sami~Ngayati sarvataH . evA te garbha ejatu sahAvaitu jarAyuNA . indrasyAyaM vrajaH kR^itaH sArgalaH saparishrayaH . tam Indra nirjahi garbheNa sAvarAꣳ saheti .. 23 .. mantra 24[Vई।इव्।२४] jAte.agnimupasamAdhAyA~Nka AdhAya kaꣳse pR^iShadAjyaꣳ sannIya pR^iShadAjyasyopaghAtaM juhoty asminsahasraM puShyAsam edhamAnaH sve gR^ihe . asyopasandyAM mA chChaitsIt prajayA cha pashubhishcha svAhA . mayi prANAꣳstvayi manasA juhomi svAhA . yat karmaNA.atyarIricham yadvA nyUnamihAkaram . agniShTatsviShTakR^idvidvAn sviShTaꣳ suhutaM karotu naH svAheti .. 24 .. mantra 25[Vई।इव्।२५] athAsya dakShiNaM karNamabhinidhAya vAgvAgiti trir atha dadhi madhu ghR^itaꣳ sannIyAnantarhitena jAtarUpeNa prAshayati . bhUste dadhAmi bhuvaste dadhAmi svaste dadhAmi bhUrbhuvaH svaH sarvaM tvayi dadhAmIti .. 25 .. mantra 26[Vई।इव्।२६] athAsya nAma karoti vedo.asIti . tadasyaitadguhyameva nAma bhavati .. 26 .. mantra 27[Vई।इव्।२७] athainaM mAtre pradAya stanaM prayachChati yaste stanaH shashayo yo mayobhUr yo ratnadhA vasuvidyaH sudatro yena vishvA puShyasi vAryANi sarasvati tamiha dhAtave kariti .. 27 .. mantra 28[Vई।इव्।२८] athAsya mAtaramabhimantrayate . ilA.asi maitrAvaruNI vIre vIramajIjanat . sA tvaM vIravatI bhava yA.asmAnvIravato.akaraditi . taM vA etamAhur atipitA batAbhUr atipitAmaho batAbhUH . paramAM bata kAShThAM prApayachChriyA yashasA brahmavarchasena ya evaMvido brAhmaNasya putro jAyata iti .. 28 .. iti chaturthaM brAhmaNam .. pa~nchamaM brAhmaNam mantra 1[Vई।व्।१] atha vaꣳshaH . pautimAShIputraH kAtyAyanIputrAt kAtyAyanIputro gautamIputrAd gautamIputro bhAradvAjIputrAd bhAradvAjIputraH pArAsharIputrAt pArAsharIputra aupasvastIputrAd aupasvastIputraH pArAsharIputrAt pArAsharIputraH kAtyAyanIputrAt kAtyAyanIputraH kaushikIputrAt kaushikIputra AlambIputrAchcha vaiyAghrapadIputrAchcha vaiyAghrapadIputraH kANvIputrAchcha kApIputrAchcha kApIputraH .. 1 .. mantra 2[Vई।व्।२] AtreyIputrAd AtreyIputro gautamIputrAd gautamIputro bhAradvAjIputrAd bhAradvAjIputraH pArAsharIputrAt pArAsharIputro vAtsIputrAd vAtsIputraH pArAsharIputrAt pArAsharIputro vArkAruNIputrAd vArkAruNIputro vArkAruNIputrAd vArkAruNIputra ArtabhAgIputrAd ArtabhAgIputraH shau~NgIputrAch chau~NgIputraH sA~NkR^itIputrAt sA~NkR^itIputra AlambAyanIputrAd AlambAyanIputra AlambIputrAd AlambIputro jAyantIputrAj jAyantIputro mANDUkAyanIputrAn mANDUkAyanIputro mANDUkIputrAn mANDUkIputraH shANDilIputrAch ChANDilIputro rAthItarIputrAd rAthItarIputro bhAlukIputrAd bhAlukIputraH krau~nchikIputrAbhyA.n krau~nchikIputrau vaidabhR^itIputrAd vaidabhR^itIputraH kArshakeyIputrAt kArshakeyIputraH prAchInayogIputrAt prAchInayogIputraH sA~njIvIputrAt sA~njIvIputraH prAshnIputrAdAsurivAsinaH prAshnIputra AsurAyaNAd AsurAyaNa Asurer AsuriH .. 2 .. mantra 3[Vई।व्।३] yAj~navalkyAd yAj~navalkya UddAlakAd UddAlako.aruNAd aruNa upavesher upaveshiH kushreH kushrirvAjashravaso vAjashravA jIhvAvato bAdhyogAj jIhvAvAnbAdhyogo.asitAdvArShagaNAd asito vArShagaNo haritAtkashyapAdd haritaH kashyapaH shilpAtkashyapAch ChilpaH kashyapaH kashyapAnnaidhruveH kashyapo naidhruvirvAcho vAgambhiNyAH ambhiNyAdityAd AdityAnImAni shuklAni yajUꣳShi vAjasaneyena yAj~navalkyenA.a.akhyayante .. 3 .. mantra 4[Vई।व्।४] samAnamA sA~njIvIputrAt sa~njivIputro mANDUkAyaner mANDUkAyanirmANDavyAn mANDavyaH kautsAt kautso mAhitther mAhitthirvAmakakShAyaNAd vAmakakShAyaNaH shANDilyAch ChANDilyo vAtsyAd vAtsyaH kushreH kushriryaj~navachaso rAjastambAyanAd yaj~navachA rAjastambAyanasturAtkAvaSheyAt turaH kAvaSheyaH prajApateH prajApatirbrahmaNo brahma svayambhu . brahmaNe namaH .. 4 .. iti pa~nchamaM brAhmaNam .. iti bR^ihadAraNyakopaniShadi ShaShTho.adhyAyaH .. iti vAjasaneyake bR^ihadAraNyakopaniShatsamAptA .. षुन्देर् ःअत्तन्गदि सुन्देर्ह् अत् होत्मैल्ॅओम्

% Text title            : bRihadAraNyakopaniShat
% File name             : bribasic.itx
% itxtitle              : bRihadAraNyakopaniShat (nissvaraH)
% engtitle              : Brihadaranyaka Upanishad (basic without accent)
% Category              : upaniShat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/religion/hinduism
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : 1translation
% Latest update         : November 28, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP