श्रीचक्रोपनिषत्
ॐ अथाह वै श्रीचक्रे नित्याक्रान्ते ।
गौरीर्मियाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
इति प्रत्यहं ससङ्गति सहस्रं कलशान् स्थाप्य शतं वा नव वा
सर्वाभावे पूर्णाभिषेकं चरेत् । अष्टाष्टकं चरेत् । पञ्चपञ्चकं
वा चरेत् । सर्वाभावे शतं पूजयेत् । अमृतत्वं गच्छति ।
श्रीचक्रन्यासं चरेत् । स व्यापकत्वं गच्छति । मूलाधाराद्बिलान्तं
क्रमेण न्यसेत् । स्वराट्चक्रं विराट्चक्रं समाट्चक्रं विराज्यचक्रं
विश्वरूपचक्रं शत्रुजिच्चक्रं क्रमेण सप्तकलामयं न्यसेत् ।
स शिवो भवेत् । स कविर्भवेत् । स सर्वसिद्धीश्वरो भवेत् ।
स नवनाथाधिष्ठितो भवेत् । स भुवनाराधितो भवेत् । निर्विकल्पेन
मनसा यश्चरेच्छक्तिदेहे स कालीरूपो भवेत् । विना शक्तिं न मोक्षो
न ज्ञानं न सत्यं न धर्मो न तपो न हरिर्न हरो न विरिञ्चिः ।
सर्वं शक्तियुक्तं भवेत् । तत्संयोगात् सिद्धीश्वरो भवेत् ।
इति शिवम् ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे श्रीचक्रोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti