कामराजकीलितोद्धारोपनिषत्

कामराजकीलितोद्धारोपनिषत्

अथोवाच कामराजम् । तदुपासनात् कुशलं लभेत् । श्रियं लभेत् । गुर्वीं वाणीं लभेत् । सर्वयुवतीनां प्रियो भवेत् । प्रथमं कामस्ततः शक्तिस्तदनु तुरीयं द्वावेतौ परैतानि पञ्चाक्षराणि भवन्ति । ततः शून्यं च द्वौ दिवाकरहरौ । तदनु गोत्रभृन्माया । एतानि षडक्षराणि भवन्ति । ततश्चन्द्रः प्रजापतिशक्रौ । ततो माया । एतानि चतुरक्षराणि भवन्ति । आद्यं वाग्भवं द्वितीयं कामराजं तृतीयं शक्तिबीजं शुक्लं तरुगदिवाकराभं शशिकान्तं क्रमेण स्मरेत् । कफारादित्वात्कीलिता । कोटिजपात् सिद्धिर्न जायते । यदा मन्मथकलादिर्भवति तदा निष्कीलिता भवेत् । सिद्धिदा भवेत् । सा वीर्यवती भवेत् । त्रैलोक्यं वशमानयेत् । पूजनाद्दौर्भाग्यनाशो भवेत् । जपात् सिद्धीश्वरो भवेत् । इति शिवम् ॥ १॥ अथाद्यं शाम्भवं द्वितायं शाक्तं चेति गुरुमुखात् ज्ञातव्यम् । अन्यथा शापमाप्नुयात् । उपासना द्विविधा । शाम्भवं शाक्तं चेति । एवं लोपनाल्लोपा । प्रथमं शम्भुचन्द्रौ । तदनु दिवाकरेन्द्रौ । ततः पराबीजं वाग्भवम् । ततः कामराजं शिवचन्द्रकामशम्भुहरयः । पराबीजं शक्तिः । कामपरामध्ये देवराजमेतच्छक्तिकूटम् । एतेन पञ्चादशाक्षराणि भवन्ति । शम्भुप्रधानत्वाच्छाम्भवम् । पूर्णोऽहं शिवोऽहमद्वैतरूपोऽहं नित्यानन्दरूपोऽहं इति स्मरेत् । नापि पूजायां व्रतनियमः । सर्वदा जपं चरेत् । विनोदतः कामिनीमध्ये कामि नीर्दृष्ट्वा च सदानन्दरूपो भवेत् । दिव्याङ्गरागौर्देहं भृषयेत् सुगन्धमाल्याम्बरालङ्काराद्यैः । मांसाद्यैः शुद्धैः सुमधुरैर्भोजयेत् । भपञ्चकेन पूजा कार्या । सदा कौलिको भवेत् । कुलाचागत् सर्वसिद्धीश्वरो भवेत् । एकाकी शक्तियुक्तो भवेत् । मादनं भुक्त्वा शक्तिभुग्भवेत् । शक्तिचक्रं पूजयेत् । भोगेन शिवं मोक्षमाप्नुयात् । शक्तिहर्षोत्पादनाच्छक्तिः प्रीता भवति । इति शिवम् ॥ २॥ अथ वकुलैरर्चयेत् । रक्तपुष्पैरर्चयेत् । तदभावे जलैस्तदभाबे मानसीं भक्तिमाचरेत् । इति शिवम् ॥ ३॥ (शाक्त-उपनिषदः) इत्याथर्वणशाखायां कामराजकीलितोद्धारोपनिषत् समाप्ता । Proofread by Kasturi navya sahiti
% Text title            : kAmarAjakIlitoddhAropaniShat
% File name             : kAmarAjakIlitoddhAropaniShat.itx
% itxtitle              : kAmarAjakIlitoddhAropaniShat (shAkta)
% engtitle              : kAmarAjakIlitoddhAropaniShat
% Category              : upanishhat, devii, devI, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti kasturinsahiti at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : March 20, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org