मृत्युलाङ्गूलोपनिषत्

मृत्युलाङ्गूलोपनिषत्

अथ मृत्युलाङ्गूलं व्याख्यास्यामः । अस्य मृत्युलाङ्गूलमन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । कालाग्निरुद्रो यमश्च देवता । मृत्यूपस्थाने विनियोगः । अथातो योगजिह्वः साधुमतियोजितं स मे वाह कालं पुरुषमूर्ध्वलिङ्गं विरूपाक्षं विश्वरूपाय नमो नमः । पशुपतये नमः । य इदं श‍ृणुयान्नित्यं मृत्युलाङ्गलं त्रिसन्ध्यं कीर्तयति वा स ब्रह्महत्यां व्यपोहति । सुवर्णस्तेय्यस्तेयी भवति । गुरुदाराभिगाम्यगामी भवति । सर्वेभ्यः पातकेभ्य उपपातकेभ्यश्च सद्यो विमुक्तो भवति । सकृज्जप्तेनानेन गायत्र्याः षष्टिसहस्राणि फलितानि भवन्ति । अष्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकमवाप्नोति । यः कश्चिन्न ददाति स श्वित्री कुष्ठी कुनखी वा भवेत् । यः कश्चिद्दीयमानं न गृह्णाति सोऽन्धो बधिरो मूको वा भवति । मृत्युमुपस्थितः षण्मासादर्वाक् । बन्धोऽयं नश्यति इत्यनेन मृत्युलाङ्गूलाख्यस्य च महामन्त्रस्य शतकृत्वो जप्तेन भगवान् धर्मराट् मम प्रीयताम् ॥ ऋतं नष्टं यदा काले षण्मासेन मरिष्यति । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ ऊर्ध्वलिङ्गं विरूपाक्षं विश्वरूपं नमाम्यहम् । सत्यं तु पञ्चमे मासे परं ब्रह्म चतुर्थके ॥ पुरुषं च तृतीये वा द्वितीये कृष्णपिङ्गलम् ॥ ऊर्ध्वलिङ्गं तु मासेन विरूपाक्षं तदर्धके । विश्वरूपं तृतीयेऽह्नि सद्यश्चैव नमो नमः ॥ (शैव-उपनिषदः) इति मृत्युलाङ्गूलोपनिषत् समाप्ता । Proofread by Kasturi navya sahiti
% Text title            : mRRityulAngUlopaniShat
% File name             : mRRityulAngUlopaniShat.itx
% itxtitle              : mRityulANgUlopaniShat (shaiva)
% engtitle              : mRRityulAngUlopaniShat
% Category              : upanishhat, shiva, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti kasturinsahiti at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : May 13, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org