नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष

नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष

कृष्णयजुर्वेदीया ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ (प्रथमः खण्डः नारायणात् सर्वचेतनाचेतनजन्म) ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते । नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दाꣳसि । नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥ (एतदृग्वेदशिरोऽधीते ।) (द्वितीयः खण्डः नारायणस्य सर्वात्मत्वम्) ॐ । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः । कालश्चर्न् षन्स्क्रित्! ळोवे षन्स्क्रित्!! ळिवे षन्स्क्रित्!!! ह्त्त्प्://व्व्व्।सन्स्क्रित्दोचुमेन्त्स्।ओर्ग् नारायणः । दिशश्च नारायणः । ऊर्ध्वंश्च नारायणः । अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदꣳ सर्वम् । यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद । स विष्णुरेव भवति स विष्णुरेव भवति ॥ (एतद्यजुर्वेदशिरोऽधीते ।) (तृतीयः खण्डः नारायणाष्टाक्षरमन्त्रः) ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै नारायणस्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति । विन्दते प्राजापत्यꣳ रायस्पोषं गौपत्यम् । ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥ (एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय) (चतुर्थः खण्डः नारायणप्रणवः) प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति । तानेकधा समभरत्तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति । तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तटिदाभमात्रम् । ( bhAshya तस्मात् तटिदिव प्रकाशमात्रम्) ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । var ब्रह्मण्यो मधुसूदनओम् ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्यत इति । सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्म ॐ । एतदथर्वशिरोयोऽधीते ॥ विद्याऽध्ययनफलम् । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायंप्रातरधीयानोऽपापो भवति । माध्यन्दिनमादित्याभिमुखोऽधीयानः (मध्यन्दिन) पञ्चमहापातकोपपातकात् प्रमुच्यते । सर्व वेद पारायण पुण्यं लभते । नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति । य एवं वेद । इत्युपनिषत् ॥ ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ This is more appropriately titled nArAyaNAtharvashira upaniShad. Although titled as mahAnArAyaNopaniShat, it is different from the long version with 25 khaNDas from atharvaveda. Encoded and proofread by Sunder Hattangadi
% Text title            : nArAyaNopaniShat evaM nArAyaNa atharvashIrSha
% File name             : nArAyaNopaniShat.itx
% itxtitle              : nArAyaNopaniShat vA nArAyaNAtharvashIrSha upaniShat
% engtitle              : Narayanopanishat or NarAyana Atharvashirsha
% Category              : atharvashIrSha, upanishhat, narayana, svara
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% SubDeity              : vishnu
% Subcategory           : narayana
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi, Gaura Nitai Dasa
% Indexextra            : (Scans 123audio)
% Latest update         : October 21, 2013, May 14, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org