निर्वाणोपनिषत्

निर्वाणोपनिषत्

(ऋग्वेदीय संन्यासोपनिषत्) निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य मा आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः । मन्मथ क्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः । निर्वाणोदेवता । निष्कुलप्रवृत्तिः । निष्केवलज्ञानम् । ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा । वियोगोपदेशः । दीक्षासन्तोषपानं च । द्वादशावदित्यावलोकनम् । विवेकरक्षा । करुणैव केलिः । आनन्दमाला । एकान्तगुहायां मुक्तासनसुखगोष्टी । अकल्पितभिक्षाशी । हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् । धैर्यकन्था । उदासीन कौपीनम् । विचारदण्डः । ब्रह्मावलोकयोगपट्टः ।श्रियां पादुका । परेच्छाचरणम् । कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च । खेचरीमुद्रा च । परमानन्दी । निर्गतगुणत्रयम् । विवेकलभ्यं मनोवागगोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् । तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविद्यादिशताभिधानलक्ष्यम् । अङ्कुशो मार्गः । शून्यं न सङ्केतः । परमेश्वरसत्ता । सत्यसिद्धयोगो मठः । अमरपदं तत्स्वरूपम् । आदिब्रह्मस्वसंवित् । अजपा गायत्री । विकारदण्डो ध्येयः । मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् । आनन्द भिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् । आनन्दमठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् । निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया । पाण्डरगगनम् । महासिद्धान्तः । शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता । नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः । अनियामकत्वनिर्मलशक्तिः । स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः । भवाभावदहनम् । बिभ्रत्याकाशाधारम् । शिवं तुरीयं यज्ञोपवीतम् । तन्मया शिखा । चिन्मयं चोत्सृष्टिदण्डम् । सन्तताक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था । मायाममताहङ्कारदहनम् । स्प्रशाने अनाहताङ्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् । भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । काठिन्यदृढकौपीनम् । चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म । प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् । ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् । अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् । एतन्निर्वाणदर्शनम् । शिष्यं पुत्रं विना न देयमित्युपनिषत् । ॐ वाङ्मे मनसीति शान्तिः ॥ इति निर्वाणोपनिषत् समाप्ता । Encoded by Sunder Hattangadi
% Text title            : Nirvana Upanishad
% File name             : nirvana.itx
% itxtitle              : nirvANopaniShat
% engtitle              : Nirvana Upanishad
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/religion/hinduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : 47/108; Rig Veda, Sanyasa Upanishad
% Latest update         : July, 3, 1999, October 6, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org