पैङ्गलोपनिषत्
शुक्लयजुर्वेदीय सामान्य उपनिषत् ॥
पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।
परितः कलये रामं परमाक्षरवैभवम् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य
द्वादशवर्शशुश्रूषापूर्वकं
परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ । स होवाच
याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् ।
तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं
सनातनमेकमेवाद्वितीयं ब्रह्म ।
तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ
जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी
गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं
यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य
सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः सर्वज्ञः
सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति ।
स्वस्मिन्विलीनं सकलं जगदाविर्भावयति ।
प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः
प्राणिकर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं
सङ्कोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो
रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी
स्पष्टास्पष्टवपुर्भवति ।
हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा
स्थूलशक्तिरासीत् । तत्प्रतिबिम्बितं
यत्तद्विराटचैतन्यमासीत् । स तदभिमानी स्पष्टवपुः
सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति ।
तस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः
। अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि
त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय
सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत ।
सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय
पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा
संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि
तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् । स
पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा
भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् । स तेषां
तुर्यभागेन कर्मेन्द्रियाण्यसृजत् । स तेषां सत्त्वांशं
चतुर्धा कृत्वा भागत्रयसमष्टितः
पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां
सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित
इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत्
। तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् ।
तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् ।
हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि
तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि
चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि
समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा
जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशो
मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो
जीवत्वमगमत् ।
शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो
घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन
परिभ्रमतीति ॥ इति प्रथमोऽध्यायः ॥ १॥
अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां
सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति । स
होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं
जीवेश्वरस्वरूपं विविच्य कथयामीति
सावधानेनैकाग्रतया श्रूयताम् । ईशः
पञ्चीकृतमहाभूतलेशानादाय
व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् ।
कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः ।
रक्तमूत्रलालास्वेदादिकमवंशाः ।
क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः ।
प्रचारणोत्तारणश्वासादिका वाय्वंशाः । कामक्रोधादयो
व्योमांशाः । एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं
बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं
भवति ॥
अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः
प्राणमसृजत् । प्राणापानव्यानोदानसमानाः प्राणवृत्तयः
। नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः ।
हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि ।
आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् ।
वाक्पाणिपादपायूपास्थास्तद्वृत्तयः ।
वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥
एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत्
। अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः ।
सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः ।
गलवदननाभिहृदयभ्रूमध्यं स्थानम् ।
भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् ।
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।
शब्दस्पर्शरूपरसगन्धास्तद्विषयाः ।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो
विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥
अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च
कोशाः । अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं
प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः ।
तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादिपञ्चकं
प्राणमयकोशः । ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः ।
एतत्कोशत्रयं लिङ्गशरीरम् ।
स्वरूपाज्ञानमानन्दमयकोशः । तत्कारणशरीरम् ॥
अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं
प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं
कामकर्मतमांस्यष्टपुरम् ॥
इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय
विश्वत्वमगमत् । विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको
जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम
भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं
प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् । तैजसः
प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ।
ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं
प्रविश्य प्राज्ञत्वमगमत् । प्राज्ञोविच्छिन्नः पारमार्थिकः
सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति ।
अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य
तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः
नेतरयोर्व्यावहारिकप्रातिभासिकयोः ।
अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति
। स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो
जातो मृत इव स्थितो भवति । अथ
जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति
॥
तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः
शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति ।
तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य
कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक् च
भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स
सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं
मार्गमाश्रित्य तिष्ठति । करणोपरमे
जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं
स्वप्नावस्था भवति । तत्र विश्व एव
जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य
वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं
स्वयं भुङ्क्ते ॥
चित्तैककरणा सुषुप्त्यवस्था भवति ।
भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा
गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य
श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥
अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ्
आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति ।
जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या
ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी
मरणावस्था भवति । कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि
तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित
अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं
गच्छति । प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं
नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते
नृणां मोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य
चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति । अविचारकृतो
बन्धो विचारान्मोक्षो भवति । तस्मात्सदा विचारयेत् ।
अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते ।
तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो
जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत
इति ॥ इति द्वितीयोऽध्यायः ॥ २॥
अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं
महावाक्यविवरणमनुब्रूहीति । स होवाच
याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं
ब्रह्मास्मीत्यनुसन्धानं कुर्यात् । तत्र पारोक्ष्यशबलः
सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो
जगद्योनिस्तत्पदवाच्यो भवति । स
एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो
भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं
प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति
वाक्यार्थविचारः श्रवणं भवति । एकान्तेन
श्रवणार्थानुसन्धानं मननं भवति ।
श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया
चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय
निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति ।
तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति ।
ताः स्मरणादनुमीयन्ते । इहानादिसंसारे सञ्चिताः
कर्मकोटयोऽनेनैव विलयं यान्ति ।
ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति । ततो
योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले
निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे
समूलोन्मूलिते प्राक्परोक्षमपि
करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं
प्रसूयते । तदा जीवन्मुक्तो भवति ॥
ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं
सोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च
कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि
प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं
चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य
भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे
चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं
पुरुषे क्रमेण विलीयते । विराद्ड्ढिरण्यगर्भेश्वरा
उपाधिविलयात्परमात्मनि लीयन्ते ।
पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः
कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य
सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं
कूटस्थे प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः
स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते । अण्डं ज्ञानाग्निना
दग्धं कारणैः सह परमात्मनि लीनं भवति । ततो ब्राह्मणः
समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततो
मेघापायेंऽशुमानिवात्माविर्भवति । ध्यात्वा
मध्यस्थमात्मानं कलशान्तरदीपवत् ।
अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ १॥
प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् ।
ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥ २॥
जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३॥
अशब्दमस्पर्शमरूपमव्ययं
तथा रसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं
तदेव शिष्यत्यमलं निरामयम् ॥ ४॥ इति ॥ इति
तृतीयोऽध्यायः ॥ ३॥
अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं ज्ञानिनः किं
कर्म का च स्थितिरिति । स होवाच याज्ञवल्क्यः ।
अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति ।
ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु
सारथिं विद्धि मनः प्रग्रहमेव च ॥ १॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि
विमानानि हृदयानि मनीषिणः ॥ २॥
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः
साक्षाद्धृदये सुप्रतिष्ठितः ॥ ३॥
प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।
चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥ ४॥
तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् ।
प्राणानवकीर्य याति कैवल्यम् ॥
तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् । पुंसः
प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ५॥
नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न
कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे ॥ ६॥
दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा ।
ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ७॥
यावच्चोपाधिपर्यन्तं तावच्छुश्रूषयेद्गुरुम् ।
गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ८॥
शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः
सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि
संस्थिते देहे लब्धशान्तिपदं गते तदा
प्रभामनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं
प्रयोजनम् । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं
भवति । ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति
तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः
पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति ।
हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव
परं सर्वमिति पश्येत्परं सुखम् ॥ ९॥
यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः ॥ १०॥
देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति
तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः
पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् ।
यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः
॥ ११॥
आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा ।
स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति
चान्तरात्मा ॥ १२॥
यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा
सर्वगतं व्योम तत्रतत्र लयं गतः ॥ १३॥
घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति
निरालम्बं ज्ञानालोकं समन्ततः ॥ १४॥
तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य
कलां नार्हति षोडशीम् ॥ १५॥
इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्छति । । अपि
वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ १६॥
विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय
शास्त्रजालानि यत्सत्यं तदुपासताम् ॥ १७॥
अनन्तकर्मशौचं च जपो यज्ञस्तथैव च ।
तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति ॥ १८॥
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे
बन्धमोक्षाय न ममेति ममेति च ॥ १९॥
ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । मनसो ह्युन्मनी भावे
द्वैतं नैवोपलभ्यते ॥ २०॥
यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्रयत्र मनो
याति तत्रतत्र परं पदम् ॥ २१॥
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ।
हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् ॥ २२॥
नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते । य
एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो
भवति । स आदित्यपूतो भवति । स ब्रह्मपूतो भवति । स
विष्णुपूतो भवति । स रुद्रपूतो भवति । स सर्वेषु
तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतो भवति ।
स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां
रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
प्रणवानामयुतं जप्तं भवति । दश
पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स
महान्भवति ।
ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य
ः पूतो भवति । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
। दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत्
॥
ॐ पूर्णामद इति शान्तिः ॥
इति पैङ्गलोपनिष्त्समाप्ता ॥
Encoded by Sunder Hattangadi