सङ्कर्षणोपनिषत्
अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह
वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति ।
ततः प्रद्युम्नसंज्ञं मन आसीत् । तस्मादहङ्कारनामाऽनिरुद्धः ।
ततो हिरण्यगर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादयः
स्थाणुदक्षकर्दमप्रियव्रतोत्तानपादादयोऽप्यजायन्त । तेभ्यः
सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि समुत्पद्यन्ते ।
तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः सर्वान् परिपाति ।
स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो
बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्णि
सिद्धार्थवद्धार- यमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः
सहस्रशिखरमेरोश्शिरोभिर्वारयमाणो महावायोरहङ्कारं निराचकार ।
स भगवान् युगसन्धिकाले स्वेन रूपेण युगे युगे तेनैव जायमानः
स्वयमेव सौमित्रिरैक्ष्वाके (वंशे जा)यमा(नो) रक्षांसि सर्वाणि
विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त(यति) । स एव भगवान्
युगसन्धिकाले(शरदभ्रसं)निकाशो रौहिणेयो वासुदेवः सर्वाणि
ग(दा)द्यायुधशास्त्राजन्यमण्डलान्निराचिकीर्ष (ति । ) भूभारमखिलं
निचखान । स एव भगवान् (शेषः) युगे तुरीयेऽपि ब्राह्मण्यां
जायमा(नो) रामानुजो भूत्वा सर्वा उपनिषद उद्दिधीर्ष(ति । ) सर्वाणि
धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन्
सर्वानपि पाषण्डान्निचखान । स एष जग(दाविर्भावतिरोभावहेतुः । )
स एष सर्वात्मकः । स एष मुमुक्षुभिर्ध्येयः । स एष मोक्षप्रदः
एतत्स्मृ(त्या) सर्वेभ्यः पाप्मे(प्म)भ्यो मुच्यते । तन्नाम सङ्कीर्तयन्
विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽधीयानो रात्रिकृतं पापं
नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां
रहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वक्रतुफलं
लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते ।
य एवं वेद । देहबन्धाद्विमुच्यते । देहबन्धाद्विमुच्यते ।
इत्येवोपनिषत् ॥
(वैष्णव-उपनिषदः)
इति सङ्कर्षणोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti