तारसारोपनिषत्

तारसारोपनिषत्

(शुक्लयजुर्वेदीया) यन्नारायणतारार्थसत्यज्ञानसुखाकृति । त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ (अविमुक्तोपासनोपदेशः) बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्घ्छेत्तदेव मन्येतेति । इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥ (नारायणस्थूलाष्टाक्षरतारकम्) अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् । किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् । नम इति द्व्यक्षरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा भवति । नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति । रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति । यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेद परमपुरुषो भवति । अयमृग्वेदः प्रथमः पादः ॥ १॥ (नारायणसूक्ष्माष्टाक्षरतारकम्) ॐइत्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरं भवति । तदेतदष्टात्मकोऽष्टधा भवति । अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता सप्तमाक्षरो भवति । तत्परश्चाष्टमाक्षरो भवति । तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥ १॥ (प्रणवावयवदेवताः) अत्रैते श्लोका भवन्ति ॥ अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः । उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥ १॥ मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥ नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः । कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः ॥ ३॥ कलातीता भगवती स्वयं सीतेति संज्ञिता । तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥ (श्रीरामस्य सर्वात्मकत्वम्) ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो ऋक्कलाशक्तिसृष्ट्यात्मकमिति । य एवं वेद । यजुर्वेदो द्वितीयः पादः ॥ २॥ (जाम्बवदाद्यष्टतनुमन्त्राः) अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । स होवाच याज्ञवल्क्यः । ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ३॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥ यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् । उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य- परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥ (विद्यापठनमन्त्रार्थज्ञानयोः फलम्) एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति । स सर्वैर्देवैर्ज्ञातो भवति । तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति । दशपूर्वान्दशोत्तरान्पुनाति । नारायणपदमवाप्नोति य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ इत्युपनिषत् ॥ सामवेदस्तृतीयः पादः ॥ ३॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति तारसारोपनिषत्समाप्ता ॥ Encoded by Sunder Hattangadi
% Text title            : Tarasara Upanishad
% File name             : tarasara.itx
% itxtitle              : tArasAropaniShat
% engtitle              : Tarasara Upanishad
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedic tradition
% Language              : Sanskrit
% Subject               : philosophy/hiduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : 91 / 108; Shukla Yajurveda - vaishnava upanishad
% Latest update         : Apri  12, 2000  [Rama Navami], October 29, 2011
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org