वज्रपञ्जरोपनिषत्

वज्रपञ्जरोपनिषत्

सह नाववतु-इति शान्तिः । वज्रपञ्जरेण भस्मधारणं कुर्यात् । वामकरे भस्म गृहीत्वा सद्योजातमिति पञ्चब्रह्ममन्त्रः । त्रियम्बकं जातवेदसे गायत्र्या मानस्तोकैरभिमन्त्र्य मूलेन सप्तवारमभिमत्र्य श्रीविद्येयं शिरसि । ऐं वद वद वाग्वादिनि ह्स्रैः क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु । हसकलरी ॐ मोक्षं कुरु कुरु । ह्सौः इति मुखे । ॐ ॐ नमो भगवति ज्वालामालिनि देवदेवि सर्वज्ञानं हारिके जातवेदसि ज्वलन्ति ज्वलन्ति प्रज्वल प्रज्वल ह्रां ह्रीं ह्रूं र र र र ज्वालामालिनि हुं फट् स्वाहा इति हृदये । जलवासिन्यै नमो नाभौ । ह्रीं वह्निवासिन्यै नमो गुह्ये । ॐ सह...नाभ्यादिजान्वन्तम् । ॐ ह्रीं श्रीं पशु हुं फट् स्वाहा जान्वादिपादपर्यन्तम् । ॐ ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुररूप तट तट चट चट प्रचट प्रचट कह कह वम वम बन्धय बन्धय घातय घातय हुं फट् स्वाहा हत्यघोरेण शिरसि । ॐ वैष्णव्यै नमो हृदये । पुनः अघोरेण पृष्ठे । पुनः सुदर्शनेन जान्वादिनाभ्यन्तम् । पुनः पाशुपतेन पादादिजान्वन्तम् । ह्सौः अ अं क्षं शौः । ॐ ह्रीं क्लीं क्ष्रौं श्रीम् ॥ उग्रं वीरं महाविप्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ श्रीं क्ष्रौं श्रीं ह्रीं ॐ इति दक्षिणबाहौ । ॐ क्षां ॐ नमो भगवते नारसिंहाय ज्वालामालिने तीक्ष्णदंष्ट्राग्निनेत्राय सर्वरक्षोघ्नाय सर्वज्वरविनाशाय सर्वभूतविनाशाय दह दह पच पच रक्ष रक्ष हुं फट् स्वाहा इति वामबाहौ । उत्तिष्ठ पुरुष हरितपिङ्गळ लोहिताक्ष देहि मे दापय स्वाहा । ॐ ह्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा ते भगवति शमय शमय स्वाहा ॥ मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निस्सृता किं नु जिह्वा किं वा कृष्णाङ्घ्रिपद्मसृतिभिररुणिता विष्णुपद्याः पदव्यः । प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमानाः देवैर्देव्यास्त्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥ इति बडबानलदुर्गामृत्योस्तुल्यवनदुर्गाभिः सर्वाङ्गमुद्धूळयेत् । ततः शेषभस्मनि जलं निक्षिप्य त्रिपुण्ड्रधारणं कुर्यात् । एता एव महाविद्या विभूतेरभिधारणे । कथिताः परमेशानि सतां पूर्वतराघहाः ॥ वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् । स सर्वभयनिर्मुक्तः साक्षाच्छिवमयो भवेत् । पूतानि तानि श्रीमन्त्रपवित्रे यानि भस्मनि ॥ दग्धकामाङ्गविभूतित्रैपुण्ड्रितानि कथितानि ललाटपट्टे लोपयन्ति दैवलिखितानि दुरक्षराणि ॥ (शैव-उपनिषदः) इति वज्रपञ्जरोपनिषत् समाप्त । Proofread by Kasturi navya sahiti
% Text title            : vajrapanjaropaniShat
% File name             : vajrapanjaropaniShat.itx
% itxtitle              : vajrapanjaropaniShat (shaiva)
% engtitle              : vajrapanjaropaniShat
% Category              : upanishhat, shiva, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti kasturinsahiti at gmail.com
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : March 20, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org