तैत्तिरीयारण्यकम् अरुणप्रश्नः

तैत्तिरीयारण्यकम् अरुणप्रश्नः

ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आप॑मापाम॒पः सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ॥ १ ॥ अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह सं॑चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मनो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ । दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ २ ॥ अ॒पाश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णिम॒पारघम्᳚ । अपा᳚घ्रा॒मप॑ चा॒वर्तिम्᳚ । अप॑दे॒वीरि॒तो हि॑त । वज्रं॑ दे॒वीरजी॑ताꣳश्च । भुव॑नं देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त । शि॒वान॒श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वती । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ३ ॥ स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्यम्᳚ । अनु॑मानश्चतुष्ट॒यम् । ए॒तैरादि॑त्यमण्डलम् । सर्वै॑रेव॒ विद्या᳚स्यते । सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚द्भुव॑नाद॒धि । तस्याः पाकवि॑शेषे॒ण । स्मृ॒तं का॑लवि॒शेष॑णम् । न॒दीव॒ प्रभ॑वात्का॒चित् । अ॒क्षय्या᳚त्स्यन्द॒ते य॑था ॥ ४ ॥ तान्नद्योऽभिस॑माय॒न्ति । सो॒रुस्सती॑ न नि॒व॑र्तते ए॒वन्ना॒नास॑मुत्था॒नाः । का॒लास्सं॑वत्स॒रꣳ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑तम् । सतै॑स्स॒र्वैस्स॑मावि॒ष्टः । ऊ॒रुस्स॑न्न नि॒वर्त॑ते अधिसंवत्स॑रं वि॒द्यात् । तदेव॑ लक्ष॒णे ॥ ५ ॥ अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । संवत्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑त्वः प्र॒दृश्य॑ते । प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् । यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते । एकꣳहि शिरो ना॑ना मु॒खे । कृ॒त्स्नम् त॑दृतु॒लक्ष॑णम् ॥ ६ ॥ उभयतस्सप्ते᳚न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते । शुक्लकृष्णे संव॑त्सर॒स्य । दक्षिणवाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । नात्र॒ भुव॑नम् । न पू॒षा । न प॒शवः॑ । नादित्यस्संवत्सर एव प्रयक्षेण प्रियत॑मं वि॒द्यात् । एतद्वै संवत्सरस्य प्रियत॑मꣳ रू॒पम् । योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति । इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ ७ ॥ सा॒कं॒जानाꣳ॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः को नु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्म दी॑षते । यस्ति॒त्याज॑ सखि॒विद॒ꣳ॒ सखा॑याम् । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ श‍ृ॒णोत्य॒लकꣳ॑ श‍ृणोति ॥ ८ ॥ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ । ऋ॒तुरृ॑तुना नु॒द्यमा॑नः । विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिꣳश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ । सारा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिस्स॒ह सं॒व॒त्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॒तः । अ॒मूना॒दय॑तीत्य॒न्यान् ॥ ९ ॥ अ॒मूꣳश्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रैत॑दुप॒दृश्य॑ते । ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒प॑र्यये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः । ऋ॒तूनां᳚ तन्नि॒बोध॑त । शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह । नि॒जह॑न् पृथि॑वीꣳ स॒र्वाम् ॥ १० ॥ ज्यो॒तिषा᳚ऽप्रति॒ख्येन॑ सः । वि॒श्व॒रू॒पणि॑ वासा॒ꣳ॒सि । आ॒दि॒त्यानां᳚ नि॒बोध॑त । संवत्सरीणं॑ कर्म॒फलम् । वर्षाभिर्द॑दता॒ꣳ॒ सह । अदुःखो॑ दुःखच॑क्षुरि॒व । तद्मा॑ऽऽपीत इव॒ दृश्य॑ते । शीतेना᳚व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते । ह्लादयते᳚ ज्वल॑तश्चै॒व । शा॒म्यत॑श्चास्य॒ चक्षु॑षी । या वै प्रजा भ्र॑ꣳश्य॒न्ते । संवत्सरात्ता भ्र॑ꣳश्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति । संवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य इत्य॒र्थः ॥ ११ ॥ अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्तेचाद्ग॑णं ना॒स्ति । ऋ॒भूणां᳚ तन्नि॒बोध॑त । क॒न॒का॒भानि॑ वासा॒ꣳ॒सि । अ॒हता॑नि नि॒बोधत । अन्नमश्नीत॑ मृज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒दृश्य॑ते ॥ १२ ॥ अभिधून्वन्तोऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः । अमुतो जेतुमिषुमु॑खामि॒व । सन्नद्धास्सह द॑दृशे॒ ह । अपध्वस्तैर्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः । अक्रुद्धस्य योत्स्य॑मान॒स्य । क्रु॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚ क्षिप॒णोरि॑व ॥ १३ ॥ दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः । ता अ॒ग्निः पव॑मना॒ अन्वै᳚क्षत । इ॒ह जी॑वि॒कामप॑रिपश्यन् । तस्यै॒षा भव॑ति । इ॒हेह॑वस्स्वत॒पसः । मरु॑त॒स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ १४ ॥ अति॑ता॒म्राणि॑ वासा॒ꣳ॒सि । अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च । विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त । नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्निर्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्चन॒ विद्य॑ते । दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १५ ॥ तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑मछि॒नथ्स्व॑यम् । तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शंयोर्बार्ह॑स्पत्य॒स्य । ए॒तद्रु॑द्रस्य॒ धनुः । रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष । स प्र॑व॒र्ग्यो॑ऽभवत् । तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते । रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनꣳ॑ रु॒द्र आरु॑को भवति । य ए॒वं वेद॑ ॥ १६ ॥ अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते । नैव रूपं न॑ वासा॒ꣳ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते । अ॒न्योन्यं॒ तु न॑ हिꣳस्रा॒तः । स॒तस्त॑द्देव॒लक्ष॑णम् । लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒नं प्र॑ति । त्वं करेषि॑न्यञ्ज॒लिकाम् । त्वं॒ करो॑षि नि॒जानु॑काम् ॥ १७ ॥ निजानुकामे᳚न्यञ्ज॒लिका । अमी वाचमुपास॑तामि॒ति । तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादाकरत्वात्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द । स खलु संवत्सर एतैस्सेनानी॑भिस्स॒ह । इन्द्राय सर्वान्कामान॑भिव॒हति । स द्र॒प्सः । तस्यै॒षा भव॑ति ॥ १८ ॥ अव॑द्र॒प्सो अꣳ॑शु॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभि॑स्स॒हस्रैः᳚ । आव॒र्तमिन्द्रः॒ शच्या॒ धम॑न्तम् । उप्स्नुहि तं नृमणामथ॑द्रामि॒ती । एतयैवेन्द्रः सलावृ॑क्या स॒ह । असुरान् प॑रिवृ॒श्चति । पृथि॑व्य॒ꣳ॒शुम॑ती । ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ । नैवं विदुषाऽऽचार्या᳚न्तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गाल्लो॒कात् । इत्यृतुम॑ण्डला॒नि । सूर्यमण्डला᳚न्याख्या॒यिकाः । अत ऊर्ध्वꣳ सनि॑र्व॒चनाः ॥१९ ॥ आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषिमान्॑ विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । कश्य॑पोऽष्ट॒मः । स महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति । यत्ते॒ शिल्पं॑कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥ २० ॥ तस्मिन् राजानमधिविश्रये॑ममि॒ति । ते अस्मै सर्वे कश्यपाज्ज्य् ओति॑र्लभ॒न्ते । तान्त्सोमः कश्यपादधि॑निर्द्ध॒मति । भ्रस्ताकर्मकृ॑दिवै॒वम् । प्राणो जीवानीन्द्रिय॑जीवा॒नि । सप्त शीर्ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः । अपश्यमहमेतान्त्सप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वात्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ २१ ॥ See a note in the end on adding t before sapta for apashyamahametAntsapta आनुश्राविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते । न हि शेकुमिव महामे॑रुं ग॒न्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिव॑र्तमा॒नम् । गा॒र्ग्यः प्राणत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एकं॑ चाज॒हतम् । भ्राजपटरपत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ २२ ॥ अ॒मुत्रे॒तरे । तस्मा॑दि॒हातप्त्रि॑तपाः । तेषा॑मेषा॒ भव॑ति । स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावान्॑ । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति । सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः । तेषा॑मेषा॒ भव॑ति । स॒प्त दिशो॒ नाना॑सूर्याः ॥ २३ ॥ स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त । तेभिस्सोमा᳚भीरक्ष॑ण इ॒ति । तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति । एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शंपा॒यनः । तस्यै॒षा भव॑ति । यद्द्याव॑ इन्द्र ते श॒तꣳ॑श॒तं भूमीः᳚ । उ॒तस्युः । नत्वा॑ वज्रिन् स॒हस्र॒ꣳ॒ सूर्याः॑ ॥ २४ ॥ अनुनजातमष्ट रोद॑सी इ॒ति । नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् । अष्टौ तु व्यवसि॑ता इ॒ति । सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् । तेषा॑मेषा॒ भव॑ति । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्ने । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥२५ ॥ क्वेदमभ्र॑न्निवि॒शते । क्वायꣳ॑ संवत्स॒रो मि॑थः । क्वाहः क्वेयन्दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः । अर्द्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभि॒स्सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति । काला अप्सुनि॑विश॒न्ते । आ॒पस्सूर्ये॑ स॒माहि॑ताः ॥ २६ ॥ अभ्रा᳚ण्यपः प्र॑पद्य॒न्ते । वि॒द्युत्सूर्ये॑ स॒माहि॑ता । अनवर्णे इ॑मे भू॒मी । इ॒यं चा॑ऽसौ च॒ रोद॑सि । किꣳस्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे । वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑त्सस्य॒ वेद॑ना । इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ २७ ॥ व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ । किन्तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् । एको॑ य॒द्धार॑यद्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे । वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षरा᳚द्दीप्ति॒रुच्य॑ते । त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥ २८ ॥ अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् । पृच्छामि त्वा प॑रं मृ॒त्युम् । अ॒वमं॑ मध्य॒मञ्च॑तुम् । लो॒क्ञ्च॒ पुण्य॑पापा॒नाम् । ए॒तत्पृ॑च्छामि॒ सम्प्र॑ति । अ॒मुमा॑हुः प॑रं मृ॒त्युम् । प॒वमा॑नं तु॒ मध्य॑मम् । अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚श्चतु॒रुच्य॑ते ॥ २९ ॥ अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् । पा॒पास्सं॑यन्ति॒ सर्व॑दा । आभोगास्त्वेव॑ संय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः । ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुम॑ग्निं च॒ सम्प्र॑ति । पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः । त्वन्नस्तद्ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे᳚त्थाऽस॒तो गृ॑हन् ॥ ३० ॥ क॒श्यपा॑दुदि॑तास्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा । रोदस्योन्त॑र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः । तेऽशरीराः प्र॑पद्य॒न्ते । य॒थाऽपु॑ण्यस्य॒ कर्म॑णः । अपा᳚ण्य॒पाद॑केशा॒सः । त॒त्र ते॑योनि॒जा ज॑नाः । मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते । अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ३१ ॥ आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः अपै॑तं मृ॒त्युं ज॑यति । य ए॒वं वेद॑ । स खल्वैवं॑ विद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भवति । कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धग॑मनः । तस्यै॒षा भव॑ति । आयस्मि᳚न्थ्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ ३२ ॥ ऋषि॑र् ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति । कश्यपः पश्य॑को भ॒वति । यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् । अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति । अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयिष्ठन्ते नम उक्तिं वि॑धेमे॒ति ॥ ३३ ॥ अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् । एतेऽष्टौ वसवः क्षि॑ता इ॒ति । यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः । नीलार्चिश्च पीतका᳚र्चिश्चे॒ति । अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमाना व्य॑वदा॒ताः ॥ ३४ ॥ याश्च वासु॑किवै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः । ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश । नैनं वैद्युतो॑ हिन॒स्ति । य ए॑वं वे॒द । स होवाच व्यासः पा॑राश॒र्यः । विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति । न त्वका॑मꣳह॒न्ति ॥ ३५ ॥ य ए॑वं वे॒द । अथ ग॑न्धर्व॒गणाः । स्वान॒भ्राट् । अङ्घा॑रि॒र्बम्भा॑रिः । हस्त॒स्सुह॑स्तः । कृशा॑नुर्वि॒श्वाव॑सुः । मूर्धन्वान्थ्सू᳚र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः । देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥३६ ॥ नैनं गिरो॑ हिन॒स्ति । य ए॑वं वे॒द । गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सस्राक्षरा परमे व्यो॑मन्नि॒ति । वाचो॑ विशे॒षणम् । अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः । व॒राहव॑स्स्वत॒पसः ॥ ३७ ॥ वि॒द्युन्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते । ये॒ चेमेऽशि॑मिवि॒द्विषः । पर्जन्यास्सप्त पृथिवीमभिव॑र्षन्ति । वृष्टि॑भिरि॒ति । एतयैव विभक्तिवि॑परी॒ताः । स॒प्तभि॒र्वा तै॑रुदी॒रिताः । अमून्लोकानभिव॑र्ष॒न्ति । तेशा॑मेषा॒ भव॑ति । स॒मा॒नमे॒तदुद॑कम् ॥ ३८ ॥ उ॒च्चैत्य॑व॒चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्त्यग्न॑य इ॒ति । यदक्ष॑रं भू॒तकृतम् । विश्वे॑ देवा उ॒पास॑ते । मह॒र्षि॑मस्य गो॒प्तारम्᳚ । ज॒मद॑ग्नि॒मकु॑र्वत । ज॒मद॑ग्नि॒राप्या॑यते । छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ॥ ३९ ॥ ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ । तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । सोमपा ( ३ ) असोमपा ( ३ ) इति निगद॑व्याख्या॒ताः ॥ ४० ॥ स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं व्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती । जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् । शु॒क्र,न् वा॑म॒न्यद्य॑जं॒ वा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ४१ ॥ विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ । भ॒द्रा वां᳚ पूषणावि॒हरा॒तिर॑स्तु वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ । द्यावा॑भूमी च॒रथः॑ स॒ꣳ॒ सखा॑यौ । ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे । शु॒भ॒स्प॒ती॒ आ॒गतꣳ॑ सू॒र्यया॑ स॒ह । त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे । र॒यिन्न कश्चि॑न्ममृ॒वां ( २ ) अवा॑हाः । तमू॑हथुर्नौ॒भिरा᳚त्म॒न्वती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ४२ ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भीरथै᳚श्श॒तप॑द्भिः॒ षड॑श्वैः । स॒वि॒तारं॒ वित॑न्वन्तम् । अनु॑बध्नाति शांब॒रः । आपपूर्षंब॑रश्चै॒व । स॒विता॑रेप॒सो॑ऽभवत् । त्यꣳ सुतृप्तं वि॑दित्वै॒व । ब॒हुसो॑म गि॒रं व॑शी ॥ ४३ ॥ अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्त्सोम॑तृप्सु॒षु । स सङ्ग्रामस्तमो᳚द्योऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् । स तद्गोभिस्स्ता᳚ऽत्येत्य॒न्ये । र॒क्षसा॑नन्वि॒ताश्च॑ ये । अ॒न्वेति॒ परि॑वृत्या॒ऽस्तः । ए॒वमे॒तौस्थो॑ अश्विना । ते ए॒ते द्युः॑पृथि॒व्योः । अह॑रह॒र्गर्भ॑न्दधाथे ॥ ४४ ॥ तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ । ता अवि॑सृष्तौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ । अ॒ग्निश्चा॑दित्य॒श्च॑ । रा॒त्रेर्व॒त्सः । श्वे॒त आ॑दि॒त्यः । अहो॒ऽग्निः ॥ ४५ ॥ ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ॥ ४६ ॥ उ॒ष्मा च॑ नीहा॒रश्च॑ । वृत्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ तावे॒व प्रति॑पद्येते । सेयꣳरात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति । तस्या॒ वा ए॒तदु॒ल्बणम्᳚ । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बणम्᳚ । ए॒वमे॒तस्या॑ उ॒ल्बणम्᳚ । प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति । य ए॑वं वे॒द । एतमुद्यन्तमपिय॑न्तं चे॒ति । आदित्यः पुण्य॑स्य व॒त्सः । अथ पवि॑त्राङ्गि॒रसः ॥ ४७ ॥ प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभम्᳚ । प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्राणि॒ पर्ये॑षिवि॒श्वतः॑ । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते । श‍ृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत । ब्र॒ह्मा दे॒वाना᳚म् । अस॑तस्स॒द्ये तत॑क्षुः ॥ ४८ ॥ ऋश॑यस्स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च । नक्ष॑त्रै॒श्शङ्कृ॑तोऽवसन् । अथ॑ सवितुः॒ श्यावाश्व॒स्याऽवर्ति॑कामस्य । अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुहा॑चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कशच्च॒न्द्रमा॒ नक्ष॑त्रमेति । तत्स॑वि॒तुर्वरे᳚ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि ॥ ४९ ॥ धियो॒ यो नः॑ प्रचो॒दया᳚त् । तत्स॑वि॒तुर्वृ॑णीमहे । व॒यन्दे॒वस्य॒ भोज॑नम् । श्रेष्ठꣳ॑सर्व॒धात॑मम् । तुरं॒ भग॑स्य धीमहि । अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚दि॒वो अन्ध॑सः । नक्त॒न्तान्य॑भवन्दृ॒शे । अस्थ्य॒स्थ्ना संभ॑विष्यामः । नाम॒ नामै॒व ना॒म मे᳚ ॥ ५० ॥ नपुꣳस॑कं॒ पुमा॒ꣳ॒स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः । य॒जेऽयक्षि॒ यष्टा॒हे च॑ । मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्योऽस्म्य॑हं वि॒भुः । स्त्रिय॑स्स॒तीः । ता उ॑मे पु॒ꣳ॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः । क॒विर्यः पु॒त्रस्य इ॒मा चि॑केत ॥ ५१ ॥ यस्ता वि॑जा॒नाथ्स॑वि॒तुः पि॒तास॑त् । अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्वा अ॒सश्च॑त । ऊर्ध्वमूलम॑वाक्छा॒खम् । वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः । हसितꣳरुदि॑तङ्गी॒तम् ॥ ५२ ॥ वीणा॑पणव॒लासि॑तम् । मृ॒तञ्जी॒वं च॑ यत्किं॒चित् अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् । अतृ॑ष्य॒ꣳ॒स्तृष्य॑ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निरृत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः । स॒ तं मणिम॑विन्दत् । सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ५३ ॥ सोऽजि॑ह्वो अ॒सश्च॑त । नैतमृशिं विदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तथ्सम्भव॑स्यं व्र॒तम् । आ॒तम॑ग्ने र॒थन्ति॑ष्ठ । एका᳚श्वमेक॒योज॑नम् । एकचक्र॑मेक॒धुरम् । वा॒तध्रा॑जिग॒तिं वि॑भो । न॒ रि॒ष्यति॑ न व्य॒थते ॥ ५४ ॥ ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚न्रोहि॑ताꣳश्चा॒ग्नेः । र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति । एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्यामिष्टये विꣳ॑शत्या॒ च । तिसृभिश्च वहसे त्रिꣳशता॒ च । नियुद्भिर्वायविहिता॑ विमुञ्च ॥ ५५ ॥ आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाऽऽध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒माधे॑हि॒ यः पुमान्॑ । इ॒तस्सि॒क्तꣳसूर्य॑गतम् । च॒न्द्रम॑से॒ रस॑ङ्कृधि । वारादञ्जन॑याग्रे॒ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते । अ॒स॒ङ्ख्या॒तास्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ५६ ॥ ए॒वमे॒तन्नि॑बोधत । आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒हि म॒यूर॑रोमभिः । मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि । मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्नियेमुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒ तां ( २ ) इ॑मि । अणुभिश्च म॑हद्भि॒श्च ॥ ५७ ॥ नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युश्श्वेत॑सिक्द्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚ । नित्य॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् । इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ ५८ ॥ गौरावस्कन्दिन्नहल्या॑यै जा॒र । कौशिकब्रह्मण गौतम॑ब्रुवा॒ण । अ॒रु॒णाश्व॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒क्षितः॑ । अ॒ष्टौदि॒ग्वास॑सो॒ऽग्नयः॑ । अग्निश्च जातवेदा᳚श्चेत्ये॒ते । तम्राश्वा᳚स्ताम्र॒रथाः । ताम्रवर्णा᳚स्तथा॒ऽसिताः । दण्डहस्ताः᳚ ख्याद॒ग्दतः । इतो रुद्राः᳚ परा॒ङ्गताः ॥ ५९ ॥ उक्तꣳस्थानं प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पैरि॒हाग॑ताम् । रथो॑नोदकवर्त्म॑ना । अ॒प्सुषा॑ इति॒ तद्द्व॑योः । उक्तो वेषो॑ वासा॒ꣳ॒सि च । कालावयवानामितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः । कोऽन्तरिक्षे श्ब्दङ्क॑रोती॒ति । वसिष्टो रौहिणो मीमाꣳ॑साञ्च॒क्रे । तस्यै॒षा भव॑ति । वा॒श्रेव॑ वि॒द्युदिति॑ । ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्ंअ॑ण उदी॒रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ६० ॥ [ अप॑क्रामत गर्भि॒ण्यः॑ ] अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां मही᳚म् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम् । अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् । अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मून्दिवम्᳚ ॥ ६१ ॥ अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् । सु॒त्रामा॑णां म॒हीमू॒षु । अदि॑ति॒र्द्यौर्दि॑तिर॒न्तरि॑क्षम् । अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः᳚ । अदि॑तिर्जा॒तमदि॑ति॒जनि॑त्वम् । अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒तास्त॒न्वः॑ परि॑ । दे॒वं ( २ ) उप॑प्रैत्स॒प्तभिः॑ ॥ ६२ ॥ प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् । स॒प्तभिः॑ पु॒त्रैरदि॑तिः । उप॒प्रैत्पू॒र्व्यं॑ युगम्᳚ । प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ । ताननुक्र॑मिष्या॒मः । मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा᳚र्य॒मा च॑ । अꣳश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाꣳ॑श्चेत्ये॒ते । हि॒र॒ण्य॒ ग॒र्भो ह॒ꣳ॒सश्शु॑चि॒षत् । ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑ ग॒र्भ प्रा॑जाप॒त्यः । अथ॒ पुरु॑षः स॒प्त पुरु॑षः ॥ ६३ ॥ [ य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ ] योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः । अ॒सौ यो᳚ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒ऽस्तमेति॑ । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः । अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरा॒पूर्य॑ति ॥ ६४ ॥ मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः । अ॒सौ यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑क्षीयति । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑क्षेष्ठाः । अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ॥ ६५ ॥ इ॒मे मासा᳚श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत । अ॒यꣳ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च ॥ ६६ ॥ मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । इ॒दमहः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । इ॒यꣳरात्रिः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च । मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प । ॐ भूर्भुव॒स्स्वः॑ । एतद्वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६७ ॥ अथादित्यस्याष्टपु॑रुष॒स्य । वसूनामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि । रुद्राणामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि । आदित्यानामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि । सताꣳ॑सत्या॒नाम् । आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि । अभिधून्वता॑मभि॒घ्नताम् । वातव॑तां म॒रुताम् । आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि । ऋभूणामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि । विश्वेषा᳚न्देवा॒नाम् । आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि । संवत्सर॑स्य स॒वितुः । आदित्यस्य स्वतेज॑सा भा॒नि । ॐ भूर्भुव॒स्स्वः॑ । रश्मयो वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६८ ॥ आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि । स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि । विभासस्य स्थाने स्वतेज॑सा भा॒नि । कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । ॐ भूर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६९ ॥ अथ वयोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य । प्रभ्राजमानानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । व्यवदातानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । रजतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । परुषाणाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । अतिलोहितानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ॥ ७० ॥ अवपतन्तानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । वैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । प्रभ्राजमानीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । व्यवदातीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । रजतानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । परुषाणाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । अतिलोहितीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । अवपतन्तीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । वैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि । ॐ भूर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ७१ ॥ अथाग्ने॑रष्टपु॑रुष॒स्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । ॐ भूर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ७२ ॥ दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । दक्षिणापरस्यां दिश्यविस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । उत्तरपरस्यान्दिश्यविषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि । आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ७३ ॥ इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् । मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् । प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् । वि॒श्वक॑र्मा व आदि॒त्यरु॑त्तर॒त उप॑दधताम् । त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् । संज्ञानं वः प॑श्चादि॒ति । आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन् । ए॒वा हि दे॑वाः ॥ ७४ ॥ आप॑मापाम॒पस्सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मनो॒ अद्रु॑हः । दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत । महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥७५ ॥ दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत । अ॒पाऽश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाऽऽश्न्यु॑ष्णिम॒पारघम्᳚ । अपा᳚घ्रा॒मप॑चा॒ऽवर्तिम्᳚ । अप॑दे॒वीरि॒तो हि॑त । वज्र॑न्दे॒वीरजी॑ताꣳश्च । भुव॑नन्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिन्दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ॥ ७६ ॥ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳश॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा न॒श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ ७७ ॥ यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यतनं॒ वेद॑ ॥ ७८ ॥ आ॒यत॑नवान् भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७९ ॥ आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ८० ॥ आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान् भवति ॥ ८१ ॥ य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ॥ ८२ ॥ यो॑ऽपामा॒यत॑नं॒ वेद ॑ । आ॒यत॑नवान् भवति प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ८३ ॥ आ॒यत॑नवान् भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८४ ॥ इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू᳚क्ता । अ॒पाꣳरस॒मुद॑यꣳसन्न् । सूर्ये॑ शु॒क्रꣳस॒माभृ॑तम् । अ॒पाꣳरस॑स्य॒ यो रसः॑ । तं वो॑ गृह्णाम्युत्त॒ममिति॑ । इ॒मे वै लो॒का अ॒पाꣳरसः॑ । ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः । जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ८५ ॥ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सꣳस्ती॒र्य । तस्मि॑न्विहा॒यसे । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚ । साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते᳚ । अ॒सौ भुव॑ने॒प्यना॑हिताग्निरे॒ताः । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ८६ ॥ अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ । ए॒तद्ध॑ स्म॒ वा आ॑हुश्शण्डि॒लाः । कम॒ग्निञ्चि॑नुते । स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । सं॒व॒त्स॒रं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः । अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते ॥ ८७ ॥ ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः । प्रा॒णान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । चा॒तु॒हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ॥ ८८ ॥ इ॒मान् लो॒कान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒नः । य ए॒वासौ । इ॒तश्चा॒ऽमुत॑श्चाऽव्यतीप॒ती । तमिति॑ । यो᳚ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान्भ॑वति । य ए॒वं वेद॑ ॥ ८९ ॥ आपो॒ वा इ॒दमा॑सन्त्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्त॒र्मन॑सि काम॒स्सम॑वर्तत । इ॒दꣳसृ॑जेय॒मिति॑ । तस्मा॒द्यत्पुरु॑षो॒ म॑सभि॒गच्छ॑ति । तद्वा॒चा व॑दति । तत्कर्म॑णा करोति । तदे॒षाऽभ्यनू᳚क्ता । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् ॥ ९० ॥ स॒तो बन्धु॒मस॑ति॒ नि॑रविन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ । उपै॑न॒न्तदुप॑नमति । यत्का॑मो॒ भव॑ति । य ए॒वं वेद॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन्मा॒ꣳ॒समासी᳚त् । ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न् ॥ ९१ ॥ ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑ऽपाम् । अ॒न्त॒र॒तः कू॒र्मं भू॒तꣳसर्प॑न्तम् । तम॑ब्रवीत् । मम॒ वैत्वङ्मा॒ꣳ॒सा । सम॑भूत् ॥ ९२ ॥ नेत्यब्रवीत्।पूर्व॑मे॒वाहमि॒हास॒निति॑ । तत्पुरु॑षस्य पुरुष॒त्वम् । स स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒हस्॒स्रा॒क्षस्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं वै पूर्वꣳ॑सम॑भूः । त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ । स इ॒त आ॒दायापः॑ । ॥ ९३ ॥ अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् । ए॒वाह्ये॒वेति॑ । तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् । अथा॑ऽरु॒णः । के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वाह्यग्न॒ इति॑ । ततो॑ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पद॑धात् । ए॒वाहि वायो॒ इति॑ ॥ ९४ ॥ ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् । अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् । ए॒वाहीन्द्रेति॑ । ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् । अथा॑रु॒णः के॒तुर्म॑ध्य उ॒पाद॑धात् । ए॒वाहि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ ९५ ॥ अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् । ए॒वाहि दे॒वा हति॑ । ततो॑ देवमनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन्न् । सोर्ध्वा दिक् । या वि॒प्रुषो॑ वि॒परा॑पतन्न् । ताभ्योऽसु॑रा॒ रक्षाꣳ॑सि पिशा॒चाश्चोद॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् । तदे॒षाभ्यनू᳚क्ता ॥ ९६ ॥ आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्म॒मायन्न्॑ । दक्ष॒न्दधा॑ना ज॒नय॑न्तीस्स्वयं॒भुम् । तत॑ इ॒मेध्यसृज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दꣳ सम॑भूत् । तस्मा॑दि॒दꣳसर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ । तस्मा॑दि॒दꣳसर्व॒ꣳ॒ शिथि॑लमि॒वाऽध्रुव॑मिवाभवत् । प्र॒जाप॑ति॒र्वाव तत् । आ॒त्मना॒त्मानं॑ वि॒धाय॑ । तदे॒वानु॒प्रावि॑शत् । तदे॒षाभ्यनू᳚क्ता ॥ ९७ ॥ वि॒धाय॑ लो॒कान् वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भि संवि॑वे॒शेति॑ । सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुद्ध्य॑ । तदे॒वानु॒प्रवि॑शति । य ए॒वं वेद॑ ॥ ९८ ॥ चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाꣳरू॒पाणि॑ । मेधो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्वृ॒ष्टिः । तान्ये॒वाव॑रुन्धे । आतप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आ॒पः । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे । तस्मा᳚न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ९९ ॥ कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒ऽवास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः । स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः । प॒श्चादे॒व प्रति॑तिष्ठति । वह॑न्तीर्गृह्णाति ॥१०० ॥ ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः । सं॒भा॒र्या गृ॑ह्णाति । ता मध्य॒ उप॑दधाति । इ॒यं वै सं॑भा॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति । प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ १०१ ॥ अ॒सौ वै प॑ल्व॒याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति । दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒ वा आपः॑ । अ॒द्भ्यो चा अन्न॑ञ्जायते । यदे॒वद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे । तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒नाऋष॑योऽचिन्वन्न् । तस्मा॑दारुणके॒तुकः॑ ॥ १०२ ॥ तदे॒षाभ्यनू᳚क्ता । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ । श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते य उ॑चैनमे॒वं वेद॑ ॥ १०३ ॥ जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । आ॒पꣳ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णꣳरु॒क्मं पुरु॑ष॒मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यꣳरु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ १०४ ॥ तदव॑रुन्धे । कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । आप॑मापाम॒पस्सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । वा॒य्वश्वा॑ रश्मि॒पत॑यः । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ १०५ ॥ यास्ति॒स्रः प॑रम॒जाः । इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ । पञ्च॒चित॑य॒ उप॑दधाति । पाङ्क्तो॒ऽग्निः । याव॑ने॒वाग्निः । तञ्चि॑नुते । लो॒कंपृ॑णया द्वि॒तीया॒मुप॑दधाति । पञ्च॑ पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒त्नरि॑क्षं॒ पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ । वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ १०६ ॥ अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । तम॒भित ए॒ता अ॒बीष्टका॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । अथो॑ आहुः । सर्वेषु॑ यज्ञक्र॒तुष्विति॑ । अथ॑ हस्माहारु॒णस्स्वा॑यं॒भुवः॑ । सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे । नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि । कम॒ग्निञ्चि॑नुते ॥ १०७ ॥ स॒त्रि॒यम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते । सा॒वि॒त्रम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते । ना॒चि॒के॒तम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते । चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ॥ १०८ उ॒पा॒नु॒वा॒क्यमा॒शुम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑वा॒न इति॑ । वृषा॒ वा अ॒ग्निः । वृषा॑णो॒ सꣳस्फा॑लयेत् । ह॒न्येता᳚स्य य॒ज्ञः । तस्मा॒न्नानु॒षज्यः॑ । सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याꣳह्य॑ग्निश्ची॒यते᳚ । प्र॒जाका॑मश्चिन्वीत ॥ १०९ ॥ प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा᳚न् भवति । य ए॒वं वेद॑ । प॒शुका॑मश्चिन्वीत । सं॒ज्ञानं॒ वा ए॒तत् प॑शूनाम् । यदापः॑ प्॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निञ्चि॑नुते । प्॒शु॒मान् भ॑वति । य ए॒वं वेद॑ ॥ ११० ॥ वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्षु॑को भवति । य ए॒वं वेद॑ । आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् । भे॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति । अ॒भि॒चरꣳ॑श्चिन्वीत । वज्रो॒ वै आपः॑ ॥ १११ ॥ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति।स्तृ॒णु॒त ए॑नम् । तेज॑स्कामो॒ यश॑स्कामः । ब्र॒ह्म॒व॒र्च॒सका॑मस्स्व॒र्गका॑मश्चिन्वीत । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे । तस्यै॒तद् व्र॒तम् । वर्ष॑ति॒न धा॑वेत् ॥ ११२ ॥ अ॒मृतं॒ वा आपः॑ । अ॒मृत॒स्यान॑न्तरित्यै । नाप्सु मूत्र॑पुरी॒षङ्कुर्यात् । न निष्ठी॑वेत् । न वि॒वस॑नस्स्नायात् । गुह्यो॒ वा ए॒षो᳚ऽग्निः । ए॒तस्या॒ग्नेरन॑तिदाहाय । न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒वाऽधि॒तिष्ठे᳚त् । ए॒तस्या॒ग्नेरन॑भ्यारोहाय । न कूर्म॒स्याश्नी॑यात् । नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ११३ ॥ इ॒मानु॑कं॒ भु॑वना सीषधेम । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । य॒ज्ञश्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द्र॑स्स्स॒ह सी॑षधातु । आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म् । आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डीभ॑वज॒ मा मु॒हुः । सुखादीन्दुः॑खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ॥ ११४ ॥ मरी॑चयस्स्वायंभु॒वाः । ये श॑री॒राण्य॑कल्पयन्न् । ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्यास्म॑ तीरिषत् । उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒ भार॑ताः । राज्ञ॒स्सोमस्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः । युवा॑ सु॒वासाः᳚ । अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ११५ ॥ दे॒वानां॒ पूर॑यो॒ध्या । तस्याꣳ॑हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को ज्योति॒षाऽऽचृ॑तः । यो वै तां᳚ ब्रह्म॑णो वे॒द । अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑माना॒ꣳ॒हरि॑णीम् । य॒शसा॑ सम्प॒रीवृ॑ताम् । पुरꣳ॑हिरण्मयीं ब्र॒ह्मा ॥ ११६ ॥ वि॒वेशा॑ऽप॒राजि॑ता । पराङ्गेत्य॑ज्याम॒यी । पराङ्गेत्य॑नाश॒की । इ॒हचा॑मुत्र॑चान्वे॒ति । वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् । यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षद्यत्प॑ति॒व्रता᳚ । अरि॑ष्टं॒ यत्किंच॑ क्रि॒यते᳚ । अ॒ग्निस्तदनु॑वेधति । अ॒श‍ृता॑सश्श‍ृ॑तास॒श्च ॥ ११७ ॥ य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे᳚क्षन्ते । इन्द्र॑म॒ग्निश्च॑ ये वि॒दुः । सिक॑ता इव सं॒यन्ति॑ । र॒श्मिभि॑स्समु॒दीरि॑ताः । अ॒स्माल्लो॒काद॑मुष्मा॒च्च । ऋ॒षिभि॑रदात्पृ॒श्निभि॑ । अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ येऽत्र॒स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अहो॑भिर॒द्भिर॒क्तुभि॒व्य॑क्तम् ॥ ११८ ॥ य॒मो द॑दात्वव॒सान॑मस्मै । नृ मु॑णन्तु नृपा॒त्वर्यः॑ । अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः । रेतः॑पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया᳚न् पुत्र॑पौत्र॒कान् । यु॒वे॒ऽहं य॒मराज॑गान् । श॒तमिन्नु श॒रदः॑ ॥ ११९ ॥ अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च । वरु॑ण॒स्याश्वि॑नोर॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑साम् । का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॑ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाऽऽहि॑त ॥ १२० ॥ विशी᳚र्ष्णी॒ङ्गृध्र॑शीर्ष्णीञ्च । अपेतो॑निरृ॒तिꣳह॑थः । परिबाधꣳश्वे॑तकु॒क्षम् । निजङ्घꣳ॑शब॒लोद॑रम् । स॒ तान् वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्युं कृ॒त्यां च॑ दीधिरे । रथे॑न किꣳशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ १२१ ॥ प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु।इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयस्सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः । यो गर्भ॒मोष॑धीनम् । गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरू॒षीणा᳚म् ॥ १२२ ॥ पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र्ब्राह्म॑णमैतु मा । पुन॒र्द्रवि॑णमैतु मा । यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । इ॒दन्तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से । यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ । तेन॑ माम॒मृतं॑ कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ १२३ ॥ अ॒द्भ्यस्तिरो॒धाऽजा॑यत । तव॑ वैश्रव॒णस्स॑दा । तिरो॑धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न । त्वा॒ष्ट्रीं मा॒यां वै᳚श्रव॒णः । रथꣳ॑सहस्र॒वन्धु॑रम् । पु॒रु॒श्च॒क्रꣳसह॑स्राश्वम् । आस्था॒याया॑हि नो ब॒लिम् । यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वान्॑ ॥ १२४ ॥ असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॒तिऽन्न॑मुखीं वि॒राजम्᳚ । सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ । श॒तद्वा॒ट्टार॑गम॒न्ता । स॒ꣳ॒हार्य॒न्नग॑रं॒ तव॑ । इति मन्त्राः᳚ । कल्पो॑ऽत ऊ॒र्ध्वम् । यदि॒ बलि॒ꣳ॒ हरे᳚त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ॥ १२५ ॥ सर्वभूतधिपतये न॑म इ॒ति । अथ बलिꣳहृत्वोप॑तिष्ठे॒त । क्ष॒त्रं क्ष॒त्रं वै᳚श्रव॒णः । ब्राह्मणा॑ वय॒ꣳ॒स्मः । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । अस्मात्प्रविश्यान्न॑मद्धी॒ति । अथ तमग्निमा॑दधी॒त । यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त । ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः ॥ १२६ ॥ ति॒रोधा॒स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ । सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति । अथ तमग्नि॑मिन्धी॒त । यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त । ति॒रोधा॒ भूस्स्वाहा᳚ । ति॒रोधा॒ भुव॒स्स्वाहा᳚ । ति॒रोधा॒स्स्व॑स्स्वाहा᳚ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ । यमिन्नस्य काले सर्वा आहुतीर् हुता॑ भवे॒युः ॥ १२७ ॥ अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युन्ञ्जी॒त । पर॑स्सु॒प्तज॑नाद्वे॒पि । मास्म प्रमाद्यन्त॑माध्या॒पयेत् । सर्वार्था᳚स्सिद्ध्य॒न्ते । य ए॑वं वे॒द । क्षुध्यन्निद॑मजा॒नताम् । सर्वार्था न॑ सिद्ध्य॒न्ते । यस्ते॑ वि॒घातु॑को भ्रा॒ता । ममान्तर्हृ॑दये॒ श्रितः ॥ १२८ ॥ तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि । स मे᳚ऽर्था॒न्मा विव॑धीत् । मयि॒ स्वाहा᳚ । रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳश॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वान॒श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ १२९ ॥ संवत्सरमेत॑द् व्रतं॒ चरेत् । द्वौ॑ वा मा॒सौ । नियमस्स॑मासे॒न । तस्मिन्नियम॑विशे॒षाः । त्रिषवणमुदको॑पस्प॒र्शी । चतुर्थकालपान॑भक्त॒स्स्यात् । अहरहर्वा भैक्ष॑मश्नी॒यात् । औदुंबरीभिस्समिद्भिरग्निं॑ परि॒चरेत् । पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनु॑वाके॒न । उद्धृतपरिपूताभिरद्भिः कार्यं॑ कुर्वी॒त ॥ १३० ॥ अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्यस्सं॑वत्सरा॒य । वरुणायारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्डऋ॒षयः । अरण्ये॑ऽधीयी॒रन्न् । भद्रङ्कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ १३१ ॥ महानाम्नीभिरुदकꣳ स॑ꣳस्प॒र्श्य । तमाचा᳚र्यो द॒द्यात् । शिवानश्शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा । कꣳसं वास॑श्च क्षौ॒मम् । अन्य॑द्वा शु॒क्लम् । य॑थाश॒क्ति वा । एवꣳस्वाध्याय॑धर्मे॒ण । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ १३२ ॥ ॐ भ॒द्रङ्कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १३३ ॥ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ This first prashna of the arAnyaka is known as aruNaprashnaH From taittirIyasamhitAtml Note on the use of t or th in apashyamahametAnthsapta in .. 0. 1. 7. 21.. . See top right https://archive.org/details/taittiriya/taittiriya_aranyaka_bhaskara_01/page/n50/mode/1up It is explained in Taittiriya-pratisakhya https://archive.org/details/in.ernet.dli.2015.553666/page/n161/mode/2up See pages 88 and 89 . There are two parts Rule 1 (a and b) a . if ङ् followed by स् , ष् then क् is Agama eg - प्रत्यङ् सोमो => प्रत्यङ्+क्+सोमो eg - प्रत्यङ् षडहो => प्रत्यङ् +क् +षडहो b . if ट् , न् followed by स् , ष् ) then त् is Agama eg - विद्वान् सोमेन => विद्वान् + त् +सोमेन our eg एतान् सप्त => एतान् + त् +सप्त वट् स्वयमभि => वट् + त् + स्वयमभि Rule 2 First letter in group followed by ऊष्म - becomes second in the respective group eg - प्रत्यङ्+क्+सोमो => प्रत्यङ्+ ख् +सोमो विद्वान् + त् +सोमेन => विद्वान् + थ् +सोमेन our eg एतान् + त् +सप्त => एतान् + थ् +सप्त See pratishakhya reference page 164 This is the reason many books also use saMvathsara in place of saMvatsara etc . BTW वर्धन as वर्द्धन is also documented as द्विवर्णम् page 162 onwards in the same pratishAkhya reference (sutra 1 and 5 for वर्द्धन) These specifics are emphasized in some vedic books to remind उच्चारण although some books are liberal and expect students to learn from parampara . - Muralidhara muraliba at gmail.com Encoded with Accents by Rajagopal Iyer ॥ तैत्तिरीयारण्यकम् अरुणप्रश्नः ॥ स्वररहितम् ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः ॥ १ ॥ अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसस्स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत ॥ २ ॥ अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अपदेवीरितो हित । वज्रं देवीरजीताꣳश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वती । मा ते व्योम संदृशि ॥ ३ ॥ स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विद्यास्यते । सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा ॥ ४ ॥ तान्नद्योऽभिसमायन्ति । सोरुस्सती न निवर्तते एवन्नानासमुत्थानाः । कालास्संवत्सरꣳ श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रितम् । सतैस्सर्वैस्समाविष्टः । ऊरुस्सन्न निवर्तते अधिसंवत्सरं विद्यात् । तदेव लक्षणे ॥ ५ ॥ अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण । नाधिसत्वः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकꣳहि शिरो नाना मुखे । कृत्स्नम् तदृतुलक्षणम् ॥ ६ ॥ उभयतस्सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा । न पशवः । नादित्यस्संवत्सर एव प्रयक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमꣳ रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् ॥ ७ ॥ साकंजानाꣳ सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्म दीषते । यस्तित्याज सखिविदꣳ सखायाम् । न तस्य वाच्यपि भागो अस्ति । यदीꣳ श‍ृणोत्यलकꣳ श‍ृणोति ॥ ८ ॥ न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिꣳशका वल्गाः । शुककृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिस्सह संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः । अमूनादयतीत्यन्यान् ॥ ९ ॥ अमूꣳश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्रगणः । ग्रीष्मेणाऽऽवर्तते सह । निजहन् पृथिवीꣳ सर्वाम् ॥ १० ॥ ज्योतिषाऽप्रतिख्येन सः । विश्वरूपणि वासाꣳसि । आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् । वर्षाभिर्ददताꣳ सह । अदुःखो दुःखचक्षुरिव । तद्माऽऽपीत इव दृश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रꣳश्यन्ते । संवत्सरात्ता भ्रꣳश्यन्ते । याः प्रतितिष्ठन्ति । संवत्सरे ताः प्रतितिष्ठन्ति । वर्षाभ्य इत्यर्थः ॥ ११ ॥ अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्तेचाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासाꣳसि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते ॥ १२ ॥ अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखामिव । सन्नद्धास्सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव ॥ १३ ॥ दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः । ता अग्निः पवमना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेहवस्स्वतपसः । मरुतस्सूर्यत्वचः । शर्म सप्रथा आवृणे ॥ १४ ॥ अतिताम्राणि वासाꣳसि । अष्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता ॥ १५ ॥ तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनथ्स्वयम् । तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनꣳ रुद्र आरुको भवति । य एवं वेद ॥ १६ ॥ अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासाꣳसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिꣳस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शारशीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करेषिन्यञ्जलिकाम् । त्वं करोषि निजानुकाम् ॥ १७ ॥ निजानुकामेन्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्रपुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैस्सेनानीभिस्सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति ॥ १८ ॥ अवद्रप्सो अꣳशुमतीमतिष्ठत् । इयानः कृष्णो दशभिस्सहस्रैः । आवर्तमिन्द्रः शच्या धमन्तम् । उप्स्नुहि तं नृमणामथद्रामिती । एतयैवेन्द्रः सलावृक्या सह । असुरान् परिवृश्चति । पृथिव्यꣳशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवं विदुषाऽऽचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वꣳ सनिर्वचनाः ॥१९ ॥ आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषिमान् विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति । कश्यपोऽष्टमः । स महामेरुं न जहाति । तस्यैषा भवति । यत्ते शिल्पंकश्यप रोचनावत् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पितास्सप्त साकम् ॥ २० ॥ तस्मिन् राजानमधिविश्रयेममिति । ते अस्मै सर्वे कश्यपाज्ज्य् ओतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्द्धमति । भ्रस्ताकर्मकृदिवैवम् । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्लाक्षिः ॥ २१ ॥ See a note in the end on adding t before sapta for apashyamahametAntsapta आनुश्राविक एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गच्छन्त महामेरुम् । एकं चाजहतम् । भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिह तप्त्रितपाः ॥ २२ ॥ अमुत्रेतरे । तस्मादिहातप्त्रितपाः । तेषामेषा भवति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति । सप्तर्त्विजस्सूर्या इत्याचार्याः । तेषामेषा भवति । सप्त दिशो नानासूर्याः ॥ २३ ॥ सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिस्सोमाभीरक्षण इति । तदप्याम्नायः । दिग्भ्राज ऋतून् करोति । एतयैवावृता सहस्रसूर्यताया इति वैशंपायनः । तस्यैषा भवति । यद्द्याव इन्द्र ते शतꣳशतं भूमीः । उतस्युः । नत्वा वज्रिन् सहस्रꣳ सूर्याः ॥ २४ ॥ अनुनजातमष्ट रोदसी इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम् । अष्टौ तु व्यवसिता इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम् । तेषामेषा भवति । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्ने । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति ॥२५ ॥ क्वेदमभ्रन्निविशते । क्वायꣳ संवत्सरो मिथः । क्वाहः क्वेयन्देव रात्री । क्व मासा ऋतवः श्रिताः । अर्द्धमासा मुहूर्ताः । निमेषास्तुटिभिस्सह । क्वेमा आपो निविशन्ते । यदीतो यान्ति सम्प्रति । काला अप्सुनिविशन्ते । आपस्सूर्ये समाहिताः ॥ २६ ॥ अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमी । इयं चाऽसौ च रोदसि । किꣳस्विदत्रान्तरा भूतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ॥ २७ ॥ व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः । किन्तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ॥ २८ ॥ अग्नयो वायवश्चैव । एतदस्य परायणम् । पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमञ्चतुम् । लोक्ञ्च पुण्यपापानाम् । एतत्पृच्छामि सम्प्रति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥ २९ ॥ अनाभोगाः परं मृत्युम् । पापास्संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः । ततो मध्यममायन्ति । चतुमग्निं च सम्प्रति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वन्नस्तद्ब्रह्मन् प्रब्रूहि । यदि वेत्थाऽसतो गृहन् ॥ ३० ॥ कश्यपादुदितास्सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेयोनिजा जनाः । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानास्स्वकर्मभिः ॥ ३१ ॥ आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवं विद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिस्सिद्धगमनस्सिद्धगमनः । तस्यैषा भवति । आयस्मिन्थ्सप्त वासवाः । रोहन्ति पूर्व्या रुहः ॥ ३२ ॥ ऋषिर् ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात् । अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठन्ते नम उक्तिं विधेमेति ॥ ३३ ॥ अग्निश्च जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य । प्रभ्राजमाना व्यवदाताः ॥ ३४ ॥ याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश । नैनं वैद्युतो हिनस्ति । य एवं वेद । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति । न त्वकामꣳहन्ति ॥ ३५ ॥ य एवं वेद । अथ गन्धर्वगणाः । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तस्सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वान्थ्सूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ॥३६ ॥ नैनं गिरो हिनस्ति । य एवं वेद । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सस्राक्षरा परमे व्योमन्निति । वाचो विशेषणम् । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः । वराहवस्स्वतपसः ॥ ३७ ॥ विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः । पर्जन्यास्सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वा तैरुदीरिताः । अमून्लोकानभिवर्षन्ति । तेशामेषा भवति । समानमेतदुदकम् ॥ ३८ ॥ उच्चैत्यवचाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञस्सोमस्य तृप्तासः ॥ ३९ ॥ ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । सोमपा ( ३ ) असोमपा ( ३ ) इति निगदव्याख्याताः ॥ ४० ॥ सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यूनासत्या । विश्वस्य जगतस्पती । जाया भूमिः पतिर्व्योम । मिथुनन्ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम् । शुक्र,न् वामन्यद्यजं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः ॥ ४१ ॥ विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविहरातिरस्तु वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ सूर्यया सह । त्युग्रोह भुज्युमश्विनोदमेघे । रयिन्न कश्चिन्ममृवां ( २ ) अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः ॥ ४२ तिस्रः क्षपस्त्रिरहातिव्रजद्भिः । नासत्या भुज्युमूहथुः पतङ्गैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभीरथैश्शतपद्भिः षडश्वैः । सवितारं वितन्वन्तम् । अनुबध्नाति शांबरः । आपपूर्षंबरश्चैव । सवितारेपसोऽभवत् । त्यꣳ सुतृप्तं विदित्वैव । बहुसोम गिरं वशी ॥ ४३ ॥ अन्वेति तुग्रो वक्रियान्तम् । आयसूयान्त्सोमतृप्सुषु । स सङ्ग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिस्स्ताऽत्येत्यन्ये । रक्षसानन्विताश्च ये । अन्वेति परिवृत्याऽस्तः । एवमेतौस्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भन्दधाथे ॥ ४४ ॥ तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्तौ । दम्पती एव भवतः । तयोरेतौ वत्सौ । अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अहोऽग्निः ॥ ४५ ॥ ताम्रो अरुणः । ता अविसृष्टौ । दम्पती एव भवतः । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दम्पती एव भवतः । तयोरेतौ वत्सौ ॥ ४६ ॥ उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते । सेयꣳरात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदुल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्या उल्बणम् । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः । अथ पवित्राङ्गिरसः ॥ ४७ ॥ पवित्रवन्तः परिवाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महस्समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम् । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषिविश्वतः । अतप्ततनूर्न तदामो अश्नुते । श‍ृतास इद्वहन्तस्तत्समाशत । ब्रह्मा देवानाम् । असतस्सद्ये ततक्षुः ॥ ४८ ॥ ऋशयस्सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैश्शङ्कृतोऽवसन् । अथ सवितुः श्यावाश्वस्याऽवर्तिकामस्य । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहाचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति । तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि ॥ ४९ ॥ धियो यो नः प्रचोदयात् । तत्सवितुर्वृणीमहे । वयन्देवस्य भोजनम् । श्रेष्ठꣳसर्वधातमम् । तुरं भगस्य धीमहि । अपागूहत सविता तृभीन् । सर्वादिवो अन्धसः । नक्तन्तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः । नाम नामैव नाम मे ॥ ५० ॥ नपुꣳसकं पुमाꣳस्त्र्यस्मि । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः । स्त्रियस्सतीः । ता उमे पुꣳस आहुः । पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रस्य इमा चिकेत ॥ ५१ ॥ यस्ता विजानाथ्सवितुः पितासत् । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद सम्प्रति । न स जातु जनः श्रद्दध्यात् । मृत्युर्मा मारयादितिः । हसितꣳरुदितङ्गीतम् ॥ ५२ ॥ वीणापणवलासितम् । मृतञ्जीवं च यत्किंचित् अङ्गानि स्नेव विद्धि तत् । अतृष्यꣳस्तृष्यध्यायत् । अस्माज्जाता मे मिथू चरन्न् । पुत्रो निरृत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ॥ ५३ ॥ सोऽजिह्वो असश्चत । नैतमृशिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तथ्सम्भवस्यं व्रतम् । आतमग्ने रथन्तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो । न रिष्यति न व्यथते ॥ ५४ ॥ नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चाग्नेः । रथे युक्त्वाऽधितिष्ठति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳशत्या च । तिसृभिश्च वहसे त्रिꣳशता च । नियुद्भिर्वायविहिता विमुञ्च ॥ ५५ ॥ आतनुष्व प्रतनुष्व । उद्धमाऽऽधम सन्धम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् । इतस्सिक्तꣳसूर्यगतम् । चन्द्रमसे रसङ्कृधि । वारादञ्जनयाग्रेऽग्निम् । य एको रुद्र उच्यते । असङ्ख्यातास्सहस्राणि । स्मर्यते न च दृश्यते ॥ ५६ ॥ एवमेतन्निबोधत । आमन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्नियेमुरिन्न पाशिनः । दधन्वेव ता इहि । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्नियेमुरिन्न पाशिनः । निधन्वेव तां ( २ ) इमि । अणुभिश्च महद्भिश्च ॥ ५७ ॥ निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्रायाहि सहस्रयुक् । अग्निर्विभ्राष्टिवसनः । वायुश्श्वेतसिक्द्रुकः । संवथ्सरो विषूवर्णैः । नित्यस्तेऽनुचरास्तव । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सुब्रह्मण्योम् । इन्द्रागच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ॥ ५८ ॥ गौरावस्कन्दिन्नहल्यायै जार । कौशिकब्रह्मण गौतमब्रुवाण । अरुणाश्व इहागताः । वसवः पृथिविक्षितः । अष्टौदिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते । तम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः ख्यादग्दतः । इतो रुद्राः पराङ्गताः ॥ ५९ ॥ उक्तꣳस्थानं प्रमाणञ्च पुर इत । बृहस्पतिश्च सविता च । विश्वरूपैरिहागताम् । रथोनोदकवर्त्मना । अप्सुषा इति तद्द्वयोः । उक्तो वेषो वासाꣳसि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्तरिक्षे श्ब्दङ्करोतीति । वसिष्टो रौहिणो मीमाꣳसाञ्चक्रे । तस्यैषा भवति । वाश्रेव विद्युदिति । ब्रह्मण उदरणमसि । ब्रह्ंअण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि ॥ ६० ॥ [ अपक्रामत गर्भिण्यः ] अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । अष्टयोन्यष्टपुत्रम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । अष्टयोनीमष्टपुत्राम् । अष्टपत्नीममून्दिवम् ॥ ६१ ॥ अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् । सुत्रामाणां महीमूषु । अदितिर्द्यौर्दितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिजनित्वम् । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवं ( २ ) उपप्रैत्सप्तभिः ॥ ६२ ॥ परा मार्ताण्डमास्यत् । सप्तभिः पुत्रैरदितिः । उपप्रैत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति । ताननुक्रमिष्यामः । मित्रश्च वरुणश्च । धाता चार्यमा च । अꣳशश्च भगश्च । इन्द्रश्च विवस्वाꣳश्चेत्येते । हिरण्य गर्भो हꣳसश्शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति गर्भ प्राजापत्यः । अथ पुरुषः सप्त पुरुषः ॥ ६३ ॥ [ यथास्थानं गर्भिण्यः ] योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायोदगाः । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणानादायाऽस्तमेति । मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायाऽस्तङ्गाः । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति ॥ ६४ ॥ मा मे प्रजया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत ॥ ६५ ॥ इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । इम ऋतवः । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । अयꣳ संवत्सरः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च ॥ ६६ ॥ मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । इदमहः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । इयꣳरात्रिः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च । मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप । ॐ भूर्भुवस्स्वः । एतद्वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६७ ॥ अथादित्यस्याष्टपुरुषस्य । वसूनामादित्यानꣳस्थाने स्वतेजसा भानि । रुद्राणामादित्यानꣳस्थाने स्वतेजसा भानि । आदित्यानामादित्यानꣳस्थाने स्वतेजसा भानि । सताꣳसत्यानाम् । आदित्यानꣳस्थाने स्वतेजसा भानि । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यानꣳस्थाने स्वतेजसा भानि । ऋभूणामादित्यानꣳस्थाने स्वतेजसा भानि । विश्वेषान्देवानाम् । आदित्यानꣳस्थाने स्वतेजसा भानि । संवत्सरस्य सवितुः । आदित्यस्य स्वतेजसा भानि । ॐ भूर्भुवस्स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६८ ॥ आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवस्स्वः । आपो वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६९ ॥ अथ वयोरेकादशपुरुषस्यैकादशस्त्रीकस्य । प्रभ्राजमानानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । व्यवदातानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । वासुकिवैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । रजतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । परुषाणाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । श्यामानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । कपिलानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । अतिलोहितानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । ऊर्ध्वानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ॥ ७० ॥ अवपतन्तानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । वैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि । प्रभ्राजमानीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । व्यवदातीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । वासुकिवैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । रजतानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । परुषाणाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । श्यामानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । कपिलानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । अतिलोहितीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । ऊर्ध्वानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । अवपतन्तीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । वैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि । ॐ भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ७१ ॥ अथाग्नेरष्टपुरुषस्य । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ७२ ॥ दक्षिणपूर्वस्यान्दिशि विसर्पी नरकः । तस्मान्नः परिपाहि । दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि । उत्तरपूर्वस्यान्दिशि विषादी नरकः । तस्मान्नः परिपाहि । उत्तरपरस्यान्दिश्यविषादी नरकः । तस्मान्नः परिपाहि । आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ॥ ७३ ॥ इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यरुत्तरत उपदधताम् । त्वष्टा वो रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति । आदित्यस्सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ॥ ७४ ॥ आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसस्स्वः ॥७५ ॥ देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत । अपाऽश्न्युष्णिमपा रक्षः । अपाऽऽश्न्युष्णिमपारघम् । अपाघ्रामपचाऽवर्तिम् । अपदेवीरितो हित । वज्रन्देवीरजीताꣳश्च । भुवनन्देवसूवरीः । आदित्यानदितिन्देवीम् । योनिनोर्ध्वमुदीषत ॥ ७६ ॥ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳशतधा हि । समाहितासो सहस्रधायसम् । शिवा नश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम सन्दृशि ॥ ७७ ॥ योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । अग्निर्वा अपामायतनम् । आयतनवान् भवति । योऽग्नेरायतनं वेद ॥ ७८ ॥ आयतनवान् भवति । आपो वा अग्नेरायतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । वायुर्वा अपामायतनम् । आयतनवान् भवति । यो वायोरायतनं वेद । आयतनवान् भवति ॥ ७९ ॥ आपो वै वायोरायतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । असौ वै तपन्नपामायतनम् । आयतनवान् भवति । योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति । आपो वा अमुष्य तपत आयतनम् ॥ ८० ॥ आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । चन्द्रमा वा अपामायतनम् । आयतनवान् भवति । यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति । आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ॥ ८१ ॥ य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति । यो नक्षत्राणामायतनं वेद । आयतनवान् भवति । आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति । य एवं वेद ॥ ८२ ॥ योऽपामायतनं वेद । आयतनवान् भवति पर्जन्यो वा अपामायतनम् । आयतनवान् भवति । यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति । य एवं वेद । योऽपामायतनं वेद ॥ ८३ ॥ आयतनवान् भवति । संवत्सरो वा अपामायतनम् । आयतनवान् भवति । यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति । आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति । य एवं वेद । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८४ ॥ इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता । अपाꣳरसमुदयꣳसन्न् । सूर्ये शुक्रꣳसमाभृतम् । अपाꣳरसस्य यो रसः । तं वो गृह्णाम्युत्तममिति । इमे वै लोका अपाꣳरसः । तेऽमुष्मिन्नादित्ये समाभृताः । जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयित्वा गुल्फदघ्नम् ॥ ८५ ॥ पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सꣳस्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय । ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्रणीतेऽयमप्सु ह्ययञ्चीयते । असौ भुवनेप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु ॥ ८६ ॥ अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । एतद्ध स्म वा आहुश्शण्डिलाः । कमग्निञ्चिनुते । सत्रियमग्निञ्चिन्वानः । संवत्सरं प्रत्यक्षेण । कमग्निञ्चिनुते । सावित्रमग्निञ्चिन्वानः । अमुमादित्यं प्रत्यक्षेण । कमग्निञ्चिनुते ॥ ८७ ॥ नाचिकेतमग्निञ्चिन्वानः । प्राणान्प्रत्यक्षेण । कमग्निञ्चिनुते । चातुहोत्रियमग्निञ्चिन्वानः । ब्रह्म प्रत्यक्षेण । कमग्निञ्चिनुते । वैश्वसृजमग्निञ्चिन्वानः । शरीरं प्रत्यक्षेण । कमग्निञ्चिनुते । उपानुवाक्यमाशुमग्निञ्चिन्वानः ॥ ८८ ॥ इमान् लोकान्प्रत्यक्षेण । कमग्निञ्चिनुते । इममारुणकेतुकमग्निञ्चिन्वानः । य एवासौ । इतश्चाऽमुतश्चाऽव्यतीपती । तमिति । योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ॥ ८९ ॥ आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामस्समवर्तत । इदꣳसृजेयमिति । तस्माद्यत्पुरुषो मसभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ॥ ९० ॥ सतो बन्धुमसति निरविन्दन्न् । हृदि प्रतीष्या कवयो मनीषेति । उपैनन्तदुपनमति । यत्कामो भवति । य एवं वेद । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माꣳसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्न् ॥ ९१ ॥ ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम् । अन्तरतः कूर्मं भूतꣳसर्पन्तम् । तमब्रवीत् । मम वैत्वङ्माꣳसा । समभूत् ॥ ९२ ॥ नेत्यब्रवीत्।पूर्वमेवाहमिहासनिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्स्राक्षस्सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वꣳसमभूः । त्वमिदं पूर्वः कुरुष्वेति । स इत आदायापः । ॥ ९३ ॥ अञ्जलिना पुरस्तादुपादधात् । एवाह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक् । अथाऽरुणः । केतुर्दक्षिणत उपादधात् । एवाह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथारुणः केतुः पश्चादुपदधात् । एवाहि वायो इति ॥ ९४ ॥ ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथारुणः केतुरुत्तरत उपादधात् । एवाहीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथारुणः केतुर्मध्य उपादधात् । एवाहि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयन्दिक् ॥ ९५ ॥ अथारुणः केतुरुपरिष्टादुपादधात् । एवाहि देवा हति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सरसश्चोदतिष्ठन्न् । सोर्ध्वा दिक् । या विप्रुषो विपरापतन्न् । ताभ्योऽसुरा रक्षाꣳसि पिशाचाश्चोदतिष्ठन्न् । तस्मात्ते पराभवन्न् । विप्रुड्भ्यो हि ते समभवन्न् । तदेषाभ्यनूक्ता ॥ ९६ ॥ आपो ह यद्बृहतीर्गर्ममायन्न् । दक्षन्दधाना जनयन्तीस्स्वयंभुम् । तत इमेध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदꣳ समभूत् । तस्मादिदꣳसर्वं ब्रह्म स्वयंभ्विति । तस्मादिदꣳसर्वꣳ शिथिलमिवाऽध्रुवमिवाभवत् । प्रजापतिर्वाव तत् । आत्मनात्मानं विधाय । तदेवानुप्राविशत् । तदेषाभ्यनूक्ता ॥ ९७ ॥ विधाय लोकान् विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनात्मानमभि संविवेशेति । सर्वमेवेदमाप्त्वा । सर्वमवरुद्ध्य । तदेवानुप्रविशति । य एवं वेद ॥ ९८ ॥ चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपाꣳरूपाणि । मेधो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे । आतपति वर्ष्या गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ॥ ९९ ॥ कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्विनीरापः । तेज एऽवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः । स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति । वहन्तीर्गृह्णाति ॥१०० ॥ ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः । संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति । पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ॥ १०१ ॥ असौ वै पल्वयाः । अमुष्यामेव प्रतितिष्ठति । दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो चा अन्नञ्जायते । यदेवद्भ्योऽन्नञ्जायते । तदवरुन्धे । तं वा एतमरुणाः केतवो वातरशनाऋषयोऽचिन्वन्न् । तस्मादारुणकेतुकः ॥ १०२ ॥ तदेषाभ्यनूक्ता । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳ शतधाहि । समाहितासो सहस्रधायसमिति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निञ्चिनुते य उचैनमेवं वेद ॥ १०३ ॥ जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयति । आपꣳ सर्वत्वाय । पुष्करपर्णꣳरुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्यꣳरुक्मः । अमृतं पुरुषः । एतावद्वा वास्ति । यावदेतत् । यावदेवास्ति ॥ १०४ ॥ तदवरुन्धे । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै । आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सहसञ्चस्करर्द्धिया इति । वाय्वश्वा रश्मिपतयः । लोकं पृणच्छिद्रं पृण ॥ १०५ ॥ यास्तिस्रः परमजाः । इन्द्रघोषा वो वसुभिरेवाह्येवेति । पञ्चचितय उपदधाति । पाङ्क्तोऽग्निः । यावनेवाग्निः । तञ्चिनुते । लोकंपृणया द्वितीयामुपदधाति । पञ्च पदा वै विराट् । तस्या वा इयं पादः । अत्नरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः । विराज्येव प्रतितिष्ठति । य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ १०६ ॥ अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति । अथ हस्माहारुणस्स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि । कमग्निञ्चिनुते ॥ १०७ ॥ सत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते । सावित्रमग्निञ्चिवानः । कमग्निञ्चिनुते । नाचिकेतमग्निञ्चिवानः । कमग्निञ्चिनुते । चातुर्होत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते । वैश्वसृजमग्निञ्चिवानः । कमग्निञ्चिनुते ॥ १०८ उपानुवाक्यमाशुमग्निञ्चिवानः । कमग्निञ्चिनुते । इममारुणकेतुकमग्निञ्चिवान इति । वृषा वा अग्निः । वृषाणो सꣳस्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्याꣳह्यग्निश्चीयते । प्रजाकामश्चिन्वीत ॥ १०९ ॥ प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान् भवति । य एवं वेद । पशुकामश्चिन्वीत । संज्ञानं वा एतत् पशूनाम् । यदापः प्शूनामेव संज्ञानेऽग्निञ्चिनुते । प्शुमान् भवति । य एवं वेद ॥ ११० ॥ वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति । अभिचरꣳश्चिन्वीत । वज्रो वै आपः ॥ १११ ॥ वज्रमेव भ्रातृव्येभ्यः प्रहरति।स्तृणुत एनम् । तेजस्कामो यशस्कामः । ब्रह्मवर्चसकामस्स्वर्गकामश्चिन्वीत । एतावद्वा वास्ति । यावदेतत् । यावदेवास्ति । तदवरुन्धे । तस्यैतद् व्रतम् । वर्षतिन धावेत् ॥ ११२ ॥ अमृतं वा आपः । अमृतस्यानन्तरित्यै । नाप्सु मूत्रपुरीषङ्कुर्यात् । न निष्ठीवेत् । न विवसनस्स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय । न पुष्करपर्णानि हिरण्यंवाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येनमोदकानि भवन्ति । अघातुका आपः । य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ ११३ ॥ इमानुकं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः । यज्ञश्च नस्तन्वञ्च प्रजाञ्च । आदित्यैरिन्द्रस्स्सह सीषधातु । आदित्यैरिन्द्रस्सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम् । आप्लवस्व प्रप्लवस्व । आण्डीभवज मा मुहुः । सुखादीन्दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ॥ ११४ ॥ मरीचयस्स्वायंभुवाः । ये शरीराण्यकल्पयन्न् । ते ते देहङ्कल्पयन्तु । मा च ते ख्यास्म तीरिषत् । उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञस्सोमस्य तृप्तासः । सूर्येण सयुजोषसः । युवा सुवासाः । अष्टाचक्रा नवद्वारा ॥ ११५ ॥ देवानां पूरयोध्या । तस्याꣳहिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽचृतः । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजान्ददुः । विभ्राजमानाꣳहरिणीम् । यशसा सम्परीवृताम् । पुरꣳहिरण्मयीं ब्रह्मा ॥ ११६ ॥ विवेशाऽपराजिता । पराङ्गेत्यज्यामयी । पराङ्गेत्यनाशकी । इहचामुत्रचान्वेति । विद्वान्देवासुरानुभयान् । यत्कुमारी मन्द्रयते । यद्योषद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति । अश‍ृतासश्श‍ृतासश्च ॥ ११७ ॥ यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निश्च ये विदुः । सिकता इव संयन्ति । रश्मिभिस्समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभि । अपेत वीत वि च सर्पतातः येऽत्रस्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिव्यक्तम् ॥ ११८ ॥ यमो ददात्ववसानमस्मै । नृ मुणन्तु नृपात्वर्यः । अकृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान् पुत्रपौत्रकान् । युवेऽहं यमराजगान् । शतमिन्नु शरदः ॥ ११९ ॥ अदो यद्ब्रह्म विलबम् । पितृणाञ्च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुताञ्च विहायसाम् । कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम् । पुत्रानापो देवीरिहाऽऽहित ॥ १२० ॥ विशीर्ष्णीङ्गृध्रशीर्ष्णीञ्च । अपेतोनिरृतिꣳहथः । परिबाधꣳश्वेतकुक्षम् । निजङ्घꣳशबलोदरम् । स तान् वाच्यायया सह । अग्ने नाशय सन्दृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन किꣳशुकावता । अग्ने नाशय सन्दृशः ॥ १२१ ॥ पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु।इदं वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरन्तद्युयोत । मयोभूर्वातो विश्वकृष्टयस्सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः । यो गर्भमोषधीनम् । गवाङ्कृणोत्यर्वताम् । पर्जन्यः पुरूषीणाम् ॥ १२२ ॥ पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदन्तत्पुनराददे । दीर्घायुत्वाय वर्चसे । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसङ्कुरु ॥ १२३ ॥ अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणस्सदा । तिरोधेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन । त्वाष्ट्रीं मायां वैश्रवणः । रथꣳसहस्रवन्धुरम् । पुरुश्चक्रꣳसहस्राश्वम् । आस्थायायाहि नो बलिम् । यस्मै भूतानि बलिमावहन्ति । धनङ्गावो हस्तिहिरण्यमश्वान् ॥ १२४ ॥ असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतिऽन्नमुखीं विराजम् । सुदर्शने च क्रोञ्चे च । मैनागे च महागिरौ । शतद्वाट्टारगमन्ता । सꣳहार्यन्नगरं तव । इति मन्त्राः । कल्पोऽत ऊर्ध्वम् । यदि बलिꣳ हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः ॥ १२५ ॥ सर्वभूतधिपतये नम इति । अथ बलिꣳहृत्वोपतिष्ठेत । क्षत्रं क्षत्रं वैश्रवणः । ब्राह्मणा वयꣳस्मः । नमस्ते अस्तु मा मा हिꣳसीः । अस्मात्प्रविश्यान्नमद्धीति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत । तिरोधा भूः । तिरोधा भुवः ॥ १२६ ॥ तिरोधास्स्वः । तिरोधा भूर्भुवस्स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति । अथ तमग्निमिन्धीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत । तिरोधा भूस्स्वाहा । तिरोधा भुवस्स्वाहा । तिरोधास्स्वस्स्वाहा । तिरोधा भूर्भुवस्स्वस्स्वाहा । यमिन्नस्य काले सर्वा आहुतीर् हुता भवेयुः ॥ १२७ ॥ अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुन्ञ्जीत । परस्सुप्तजनाद्वेपि । मास्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थास्सिद्ध्यन्ते । य एवं वेद । क्षुध्यन्निदमजानताम् । सर्वार्था न सिद्ध्यन्ते । यस्ते विघातुको भ्राता । ममान्तर्हृदये श्रितः ॥ १२८ ॥ तस्मा इममग्रपिण्डञ्जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳशतधा हि । समाहितासो सहस्रधायसम् । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम सन्दृशि ॥ १२९ ॥ संवत्सरमेतद् व्रतं चरेत् । द्वौ वा मासौ । नियमस्समासेन । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तस्स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुंबरीभिस्समिद्भिरग्निं परिचरेत् । पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ॥ १३० ॥ असञ्चयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यस्संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्डऋषयः । अरण्येऽधीयीरन्न् । भद्रङ्कर्णेभिरिति द्वे जपित्वा ॥ १३१ ॥ महानाम्नीभिरुदकꣳ सꣳस्पर्श्य । तमाचार्यो दद्यात् । शिवानश्शन्तमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । कꣳसं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवꣳस्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ॥ १३२ ॥ ॐ भद्रङ्कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ १३३ ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
% Text title            : taittirIya AraNyaka 1 aruNaprashnaH
% File name             : aranyaka.itx
% itxtitle              : taittirIyAraNyakam 1 aruNaprashnaH athavA sUryopaniShat 2, AruNam, sUryanamaskAra mantrAH
% engtitle              : TaittiriyAranyakam 1 aruNaprashnaH sUryopaniShat 2, AruNam, sUryanamaskAra mantrAH
% Category              : veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Rajagopal Iyer
% Proofread by          : Rajagopal Iyer
% Description-comments  : The  Mantrams  of  AaruNam  (AaruNa  Kethuka  Saayanam)  deal  largely  with  Surya  UpAsanA.  That  is  why  it  is  called  Surya  Upanishad.
% Indexextra            : (Text 1, 2, 3, Meaning bhAShyam Volumes 1, 2, 3, Audio 1, 2, Video, Aranyaka 1, 2)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org