तैत्तिरीयारण्यकम् अरुणप्रश्नः
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।
आप॑मापाम॒पः सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ॥ १ ॥
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह सं॑चस्क॒रर्द्धि॑या ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मनो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ।
महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ।
दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ २ ॥
अ॒पाश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णिम॒पारघम्᳚ ।
अपा᳚घ्रा॒मप॑ चा॒वर्तिम्᳚ । अप॑दे॒वीरि॒तो हि॑त ।
वज्रं॑ दे॒वीरजी॑ताꣳश्च । भुव॑नं देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिं दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ।
शि॒वान॒श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वती । मा ते॒ व्यो॑म सं॒दृशि॑ ॥ ३ ॥
स्मृतिः॑ प्र॒त्यक्ष॑मैति॒ह्यम्᳚ । अनु॑मानश्चतुष्ट॒यम् ।
ए॒तैरादि॑त्यमण्डलम् । सर्वै॑रेव॒ विद्या᳚स्यते ।
सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚द्भुव॑नाद॒धि ।
तस्याः पाकवि॑शेषे॒ण । स्मृ॒तं का॑लवि॒शेष॑णम् ।
न॒दीव॒ प्रभ॑वात्का॒चित् । अ॒क्षय्या᳚त्स्यन्द॒ते य॑था ॥ ४ ॥
तान्नद्योऽभिस॑माय॒न्ति । सो॒रुस्सती॑ न नि॒व॑र्तते ए॒वन्ना॒नास॑मुत्था॒नाः ।
का॒लास्सं॑वत्स॒रꣳ श्रि॑ताः । अणुशश्च म॑हश॒श्च ।
सर्वे॑ समव॒यन्त्रि॑तम् । सतै॑स्स॒र्वैस्स॑मावि॒ष्टः ।
ऊ॒रुस्स॑न्न नि॒वर्त॑ते अधिसंवत्स॑रं वि॒द्यात् । तदेव॑ लक्ष॒णे ॥ ५ ॥
अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते ।
संवत्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑त्वः प्र॒दृश्य॑ते ।
प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒तद्व॑रुण॒लक्ष॑णम् ।
यत्रैत॑दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ।
एकꣳहि शिरो ना॑ना मु॒खे । कृ॒त्स्नम् त॑दृतु॒लक्ष॑णम् ॥ ६ ॥
उभयतस्सप्ते᳚न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते ।
शुक्लकृष्णे संव॑त्सर॒स्य । दक्षिणवाम॑योः पा॒र्श्वयोः ।
तस्यै॒षा भव॑ति । शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । नात्र॒ भुव॑नम् । न पू॒षा ।
न प॒शवः॑ । नादित्यस्संवत्सर एव प्रयक्षेण प्रियत॑मं वि॒द्यात् ।
एतद्वै संवत्सरस्य प्रियत॑मꣳ रू॒पम् । योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति ।
इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ ७ ॥
सा॒कं॒जानाꣳ॑ स॒प्तथ॑माहुरेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः
को नु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् ।
जहा॑को अ॒स्म दी॑षते । यस्ति॒त्याज॑ सखि॒विद॒ꣳ॒ सखा॑याम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति ॥ ८ ॥
न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ । ऋ॒तुरृ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिꣳश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ । सारा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भिस्स॒ह सं॒व॒त्स॒रस्य॑ सवि॒तुः ।
प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॒तः । अ॒मूना॒दय॑तीत्य॒न्यान् ॥ ९ ॥
अ॒मूꣳश्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
यत्रैत॑दुप॒दृश्य॑ते । ए॒तदे॒व वि॑जानी॒यात् ।
प्र॒माणं॑ काल॒प॑र्यये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः ।
ऋ॒तूनां᳚ तन्नि॒बोध॑त । शुक्लवासा॑ रुद्र॒गणः ।
ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह । नि॒जह॑न् पृथि॑वीꣳ स॒र्वाम् ॥ १० ॥
ज्यो॒तिषा᳚ऽप्रति॒ख्येन॑ सः । वि॒श्व॒रू॒पणि॑ वासा॒ꣳ॒सि ।
आ॒दि॒त्यानां᳚ नि॒बोध॑त । संवत्सरीणं॑ कर्म॒फलम् ।
वर्षाभिर्द॑दता॒ꣳ॒ सह । अदुःखो॑ दुःखच॑क्षुरि॒व ।
तद्मा॑ऽऽपीत इव॒ दृश्य॑ते । शीतेना᳚व्यथ॑यन्नि॒व ।
रु॒रुद॑क्ष इव॒ दृश्य॑ते । ह्लादयते᳚ ज्वल॑तश्चै॒व ।
शा॒म्यत॑श्चास्य॒ चक्षु॑षी । या वै प्रजा भ्र॑ꣳश्य॒न्ते ।
संवत्सरात्ता भ्र॑ꣳश्य॒न्ते । याः॒ प्रति॑तिष्ठ॒न्ति ।
संवत्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्षाभ्य इत्य॒र्थः ॥ ११ ॥
अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के ।
आङ्क्तेचाद्ग॑णं ना॒स्ति । ऋ॒भूणां᳚ तन्नि॒बोध॑त ।
क॒न॒का॒भानि॑ वासा॒ꣳ॒सि । अ॒हता॑नि नि॒बोधत ।
अन्नमश्नीत॑ मृज्मी॒त । अ॒हं वो॑ जीव॒नप्र॑दः ।
ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒दृश्य॑ते ॥ १२ ॥
अभिधून्वन्तोऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः ।
अमुतो जेतुमिषुमु॑खामि॒व । सन्नद्धास्सह द॑दृशे॒ ह ।
अपध्वस्तैर्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः ।
अक्रुद्धस्य योत्स्य॑मान॒स्य । क्रु॒द्धस्ये॑व॒ लोहि॑नी ।
हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚ क्षिप॒णोरि॑व ॥ १३ ॥
दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे ।
ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ।
ता अ॒ग्निः पव॑मना॒ अन्वै᳚क्षत । इ॒ह जी॑वि॒कामप॑रिपश्यन् ।
तस्यै॒षा भव॑ति । इ॒हेह॑वस्स्वत॒पसः ।
मरु॑त॒स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ १४ ॥
अति॑ता॒म्राणि॑ वासा॒ꣳ॒सि । अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च ।
विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त ।
नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः ।
नाग्निर्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्चन॒ विद्य॑ते ।
दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १५ ॥
तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑मछि॒नथ्स्व॑यम् ।
तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते ।
एतदेव शंयोर्बार्ह॑स्पत्य॒स्य । ए॒तद्रु॑द्रस्य॒ धनुः ।
रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष ।
स प्र॑व॒र्ग्यो॑ऽभवत् । तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनꣳ॑ रु॒द्र आरु॑को भवति । य ए॒वं वेद॑ ॥ १६ ॥
अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूपं न॑ वासा॒ꣳ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते ।
अ॒न्योन्यं॒ तु न॑ हिꣳस्रा॒तः । स॒तस्त॑द्देव॒लक्ष॑णम् ।
लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः । सू॒र्यस्यो॑दय॒नं प्र॑ति ।
त्वं करेषि॑न्यञ्ज॒लिकाम् । त्वं॒ करो॑षि नि॒जानु॑काम् ॥ १७ ॥
निजानुकामे᳚न्यञ्ज॒लिका । अमी वाचमुपास॑तामि॒ति ।
तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादाकरत्वात्प्र॑पुरो॒धाम् ।
ब्राह्मण॑ आप्नो॒ति । य ए॑वं वे॒द । स खलु संवत्सर एतैस्सेनानी॑भिस्स॒ह ।
इन्द्राय सर्वान्कामान॑भिव॒हति । स द्र॒प्सः । तस्यै॒षा भव॑ति ॥ १८ ॥
अव॑द्र॒प्सो अꣳ॑शु॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभि॑स्स॒हस्रैः᳚ ।
आव॒र्तमिन्द्रः॒ शच्या॒ धम॑न्तम् । उप्स्नुहि तं नृमणामथ॑द्रामि॒ती ।
एतयैवेन्द्रः सलावृ॑क्या स॒ह । असुरान् प॑रिवृ॒श्चति ।
पृथि॑व्य॒ꣳ॒शुम॑ती । ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ ।
नैवं विदुषाऽऽचार्या᳚न्तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒ताम् । यो द्रु॒ह्यति ।
भ्रश्यते स्व॑र्गाल्लो॒कात् । इत्यृतुम॑ण्डला॒नि ।
सूर्यमण्डला᳚न्याख्या॒यिकाः । अत ऊर्ध्वꣳ सनि॑र्व॒चनाः ॥१९ ॥
आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषिमान्॑ विभा॒सः ।
ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ।
कश्य॑पोऽष्ट॒मः । स महामेरुं न॑ जहा॒ति ।
तस्यै॒षा भव॑ति । यत्ते॒ शिल्पं॑कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु । यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥ २० ॥
तस्मिन् राजानमधिविश्रये॑ममि॒ति । ते अस्मै सर्वे कश्यपाज्ज्य् ओति॑र्लभ॒न्ते ।
तान्त्सोमः कश्यपादधि॑निर्द्ध॒मति । भ्रस्ताकर्मकृ॑दिवै॒वम् ।
प्राणो जीवानीन्द्रिय॑जीवा॒नि । सप्त शीर्ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः । अपश्यमहमेतान्त्सप्त सू᳚र्यानि॒ति ।
पञ्चकर्णो॑ वात्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ २१ ॥
See a note in the end on adding t before sapta for apashyamahametAntsapta
आनुश्राविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते ।
न हि शेकुमिव महामे॑रुं ग॒न्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिव॑र्तमा॒नम् ।
गा॒र्ग्यः प्राणत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एकं॑ चाज॒हतम् ।
भ्राजपटरपत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ २२ ॥
अ॒मुत्रे॒तरे । तस्मा॑दि॒हातप्त्रि॑तपाः । तेषा॑मेषा॒ भव॑ति ।
स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावान्॑ ।
ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ।
सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः । तेषा॑मेषा॒ भव॑ति । स॒प्त दिशो॒ नाना॑सूर्याः ॥ २३ ॥
स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त ।
तेभिस्सोमा᳚भीरक्ष॑ण इ॒ति । तद॑प्याम्ना॒यः ।
दिग्भ्राज ऋतू᳚न् करो॒ति । एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शंपा॒यनः ।
तस्यै॒षा भव॑ति । यद्द्याव॑ इन्द्र ते श॒तꣳ॑श॒तं भूमीः᳚ ।
उ॒तस्युः । नत्वा॑ वज्रिन् स॒हस्र॒ꣳ॒ सूर्याः॑ ॥ २४ ॥
अनुनजातमष्ट रोद॑सी इ॒ति । नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् ।
अष्टौ तु व्यवसि॑ता इ॒ति । सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् ।
तेषा॑मेषा॒ भव॑ति । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्ने । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥२५ ॥
क्वेदमभ्र॑न्निवि॒शते । क्वायꣳ॑ संवत्स॒रो मि॑थः ।
क्वाहः क्वेयन्दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः ।
अर्द्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभि॒स्सह ।
क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति ।
काला अप्सुनि॑विश॒न्ते । आ॒पस्सूर्ये॑ स॒माहि॑ताः ॥ २६ ॥
अभ्रा᳚ण्यपः प्र॑पद्य॒न्ते । वि॒द्युत्सूर्ये॑ स॒माहि॑ता ।
अनवर्णे इ॑मे भू॒मी । इ॒यं चा॑ऽसौ च॒ रोद॑सि ।
किꣳस्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे ।
वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑त्सस्य॒ वेद॑ना ।
इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ २७ ॥
व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚ ।
किन्तद्विष्णोर्ब॑लमा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णम् ।
एको॑ य॒द्धार॑यद्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे ।
वाताद्विष्णोर्ब॑लमा॒हुः । अ॒क्षरा᳚द्दीप्ति॒रुच्य॑ते ।
त्रि॒पदा॒द्धार॑यद्दे॒वः । यद्विष्णो॑रेक॒मुत्त॑मम् ॥ २८ ॥
अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् ।
पृच्छामि त्वा प॑रं मृ॒त्युम् । अ॒वमं॑ मध्य॒मञ्च॑तुम् ।
लो॒क्ञ्च॒ पुण्य॑पापा॒नाम् । ए॒तत्पृ॑च्छामि॒ सम्प्र॑ति ।
अ॒मुमा॑हुः प॑रं मृ॒त्युम् । प॒वमा॑नं तु॒ मध्य॑मम् ।
अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚श्चतु॒रुच्य॑ते ॥ २९ ॥
अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् । पा॒पास्सं॑यन्ति॒ सर्व॑दा ।
आभोगास्त्वेव॑ संय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः ।
ततो॑ म॒ध्यम॑माय॒न्ति । च॒तुम॑ग्निं च॒ सम्प्र॑ति ।
पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः ।
त्वन्नस्तद्ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे᳚त्थाऽस॒तो गृ॑हन् ॥ ३० ॥
क॒श्यपा॑दुदि॑तास्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।
रोदस्योन्त॑र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः ।
तेऽशरीराः प्र॑पद्य॒न्ते । य॒थाऽपु॑ण्यस्य॒ कर्म॑णः ।
अपा᳚ण्य॒पाद॑केशा॒सः । त॒त्र ते॑योनि॒जा ज॑नाः ।
मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते । अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ३१ ॥
आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः अपै॑तं मृ॒त्युं ज॑यति ।
य ए॒वं वेद॑ । स खल्वैवं॑ विद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भवति ।
कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धग॑मनः । तस्यै॒षा भव॑ति ।
आयस्मि᳚न्थ्स॒प्त वा॑स॒वाः । रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ ३२ ॥
ऋषि॑र् ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति ।
कश्यपः पश्य॑को भ॒वति । यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् ।
अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति ।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॑ । भूयिष्ठन्ते नम उक्तिं वि॑धेमे॒ति ॥ ३३ ॥
अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च ।
प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् ।
एतेऽष्टौ वसवः क्षि॑ता इ॒ति । यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः ।
नीलार्चिश्च पीतका᳚र्चिश्चे॒ति । अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
प्रभ्राजमाना व्य॑वदा॒ताः ॥ ३४ ॥
याश्च वासु॑किवै॒द्युताः । रजताः परु॑षाः श्या॒माः । कपिला अ॑तिलो॒हिताः ।
ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश । नैनं वैद्युतो॑ हिन॒स्ति ।
य ए॑वं वे॒द । स होवाच व्यासः पा॑राश॒र्यः ।
विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति । न त्वका॑मꣳह॒न्ति ॥ ३५ ॥
य ए॑वं वे॒द । अथ ग॑न्धर्व॒गणाः । स्वान॒भ्राट् ।
अङ्घा॑रि॒र्बम्भा॑रिः । हस्त॒स्सुह॑स्तः । कृशा॑नुर्वि॒श्वाव॑सुः ।
मूर्धन्वान्थ्सू᳚र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः ।
देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥३६ ॥
नैनं गिरो॑ हिन॒स्ति । य ए॑वं वे॒द ।
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सस्राक्षरा परमे व्यो॑मन्नि॒ति ।
वाचो॑ विशे॒षणम् । अथ निगद॑व्याख्या॒ताः ।
ताननुक्र॑मिष्या॒मः । व॒राहव॑स्स्वत॒पसः ॥ ३७ ॥
वि॒द्युन्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते ।
ये॒ चेमेऽशि॑मिवि॒द्विषः । पर्जन्यास्सप्त पृथिवीमभिव॑र्षन्ति ।
वृष्टि॑भिरि॒ति । एतयैव विभक्तिवि॑परी॒ताः । स॒प्तभि॒र्वा तै॑रुदी॒रिताः ।
अमून्लोकानभिव॑र्ष॒न्ति । तेशा॑मेषा॒ भव॑ति । स॒मा॒नमे॒तदुद॑कम् ॥ ३८ ॥
उ॒च्चैत्य॑व॒चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति । दिवं जिन्वन्त्यग्न॑य इ॒ति ।
यदक्ष॑रं भू॒तकृतम् । विश्वे॑ देवा उ॒पास॑ते । मह॒र्षि॑मस्य गो॒प्तारम्᳚ ।
ज॒मद॑ग्नि॒मकु॑र्वत । ज॒मद॑ग्नि॒राप्या॑यते ।
छन्दो॑भिश्चतुरुत्त॒रैः । राज्ञ॒स्सोम॑स्य तृ॒प्तासः॑ ॥ ३९ ॥
ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ ।
तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
सोमपा ( ३ ) असोमपा ( ३ ) इति निगद॑व्याख्या॒ताः ॥ ४० ॥
स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं व्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑नास॒त्या ।
वि॒श्वस्य॑ जग॒तस्प॑ती । जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः ।
पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् ।
शु॒क्र,न् वा॑म॒न्यद्य॑जं॒ वा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ४१ ॥
विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ ।
भ॒द्रा वां᳚ पूषणावि॒हरा॒तिर॑स्तु वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ ।
द्यावा॑भूमी च॒रथः॑ स॒ꣳ॒ सखा॑यौ । ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे ।
शु॒भ॒स्प॒ती॒ आ॒गतꣳ॑ सू॒र्यया॑ स॒ह । त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे ।
र॒यिन्न कश्चि॑न्ममृ॒वां ( २ ) अवा॑हाः । तमू॑हथुर्नौ॒भिरा᳚त्म॒न्वती॑भिः ।
अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ४२
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भीरथै᳚श्श॒तप॑द्भिः॒ षड॑श्वैः ।
स॒वि॒तारं॒ वित॑न्वन्तम् । अनु॑बध्नाति शांब॒रः । आपपूर्षंब॑रश्चै॒व ।
स॒विता॑रेप॒सो॑ऽभवत् । त्यꣳ सुतृप्तं वि॑दित्वै॒व । ब॒हुसो॑म गि॒रं व॑शी ॥ ४३ ॥
अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्त्सोम॑तृप्सु॒षु । स सङ्ग्रामस्तमो᳚द्योऽत्यो॒तः ।
वाचो गाः पि॑पाति॒ तत् । स तद्गोभिस्स्ता᳚ऽत्येत्य॒न्ये । र॒क्षसा॑नन्वि॒ताश्च॑ ये ।
अ॒न्वेति॒ परि॑वृत्या॒ऽस्तः । ए॒वमे॒तौस्थो॑ अश्विना ।
ते ए॒ते द्युः॑पृथि॒व्योः । अह॑रह॒र्गर्भ॑न्दधाथे ॥ ४४ ॥
तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ ।
ता अवि॑सृष्तौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ।
अ॒ग्निश्चा॑दित्य॒श्च॑ । रा॒त्रेर्व॒त्सः । श्वे॒त आ॑दि॒त्यः । अहो॒ऽग्निः ॥ ४५ ॥
ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ ।
ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः । तयो॑रे॒तौ व॒त्सौ ॥ ४६ ॥
उ॒ष्मा च॑ नीहा॒रश्च॑ । वृत्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः ।
तौ तावे॒व प्रति॑पद्येते । सेयꣳरात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति ।
तस्या॒ वा ए॒तदु॒ल्बणम्᳚ । यद्रात्रौ॑ र॒श्मयः॑ ।
यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बणम्᳚ । ए॒वमे॒तस्या॑ उ॒ल्बणम्᳚ ।
प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ।
य ए॑वं वे॒द । एतमुद्यन्तमपिय॑न्तं चे॒ति ।
आदित्यः पुण्य॑स्य व॒त्सः । अथ पवि॑त्राङ्गि॒रसः ॥ ४७ ॥
प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् ।
म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभम्᳚ ।
प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्राणि॒ पर्ये॑षिवि॒श्वतः॑ ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ।
ब्र॒ह्मा दे॒वाना᳚म् । अस॑तस्स॒द्ये तत॑क्षुः ॥ ४८ ॥
ऋश॑यस्स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च ।
नक्ष॑त्रै॒श्शङ्कृ॑तोऽवसन् । अथ॑ सवितुः॒ श्यावाश्व॒स्याऽवर्ति॑कामस्य ।
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुहा॑चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कशच्च॒न्द्रमा॒ नक्ष॑त्रमेति ।
तत्स॑वि॒तुर्वरे᳚ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि ॥ ४९ ॥
धियो॒ यो नः॑ प्रचो॒दया᳚त् । तत्स॑वि॒तुर्वृ॑णीमहे ।
व॒यन्दे॒वस्य॒ भोज॑नम् । श्रेष्ठꣳ॑सर्व॒धात॑मम् ।
तुरं॒ भग॑स्य धीमहि । अपा॑गूहत सविता॒ तृभीन्॑ ।
सर्वा᳚दि॒वो अन्ध॑सः । नक्त॒न्तान्य॑भवन्दृ॒शे ।
अस्थ्य॒स्थ्ना संभ॑विष्यामः । नाम॒ नामै॒व ना॒म मे᳚ ॥ ५० ॥
नपुꣳस॑कं॒ पुमा॒ꣳ॒स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः ।
य॒जेऽयक्षि॒ यष्टा॒हे च॑ । मया॑ भू॒तान्य॑यक्षत ।
प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्योऽस्म्य॑हं वि॒भुः ।
स्त्रिय॑स्स॒तीः । ता उ॑मे पु॒ꣳ॒स आ॑हुः ।
पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः । क॒विर्यः पु॒त्रस्य इ॒मा चि॑केत ॥ ५१ ॥
यस्ता वि॑जा॒नाथ्स॑वि॒तुः पि॒तास॑त् । अ॒न्धो मणिम॑विन्दत् ।
तम॑नङ्गुलि॒राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् ।
तमजि॑ह्वा अ॒सश्च॑त । ऊर्ध्वमूलम॑वाक्छा॒खम् ।
वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒ध्यात् ।
मृ॒त्युर्मा॑ मार॒यादि॑तिः । हसितꣳरुदि॑तङ्गी॒तम् ॥ ५२ ॥
वीणा॑पणव॒लासि॑तम् । मृ॒तञ्जी॒वं च॑ यत्किं॒चित्
अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् । अतृ॑ष्य॒ꣳ॒स्तृष्य॑ध्यायत् ।
अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निरृत्या॑ वैदे॒हः ।
अ॒चेता॑ यश्च॒ चेत॑नः । स॒ तं मणिम॑विन्दत् ।
सो॑ऽनङ्गुलि॒राव॑यत् । सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ५३ ॥
सोऽजि॑ह्वो अ॒सश्च॑त । नैतमृशिं विदित्वा नग॑रं प्र॒विशेत् ।
य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् ।
तथ्सम्भव॑स्यं व्र॒तम् । आ॒तम॑ग्ने र॒थन्ति॑ष्ठ ।
एका᳚श्वमेक॒योज॑नम् । एकचक्र॑मेक॒धुरम् ।
वा॒तध्रा॑जिग॒तिं वि॑भो । न॒ रि॒ष्यति॑ न व्य॒थते ॥ ५४ ॥
ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚न्रोहि॑ताꣳश्चा॒ग्नेः ।
र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति । एकया च दशभिश्च॑ स्वभू॒ते ।
द्वाभ्यामिष्टये विꣳ॑शत्या॒ च । तिसृभिश्च वहसे त्रिꣳशता॒ च ।
नियुद्भिर्वायविहिता॑ विमुञ्च ॥ ५५ ॥
आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाऽऽध॑म॒ सन्ध॑म ।
आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒माधे॑हि॒ यः पुमान्॑ ।
इ॒तस्सि॒क्तꣳसूर्य॑गतम् । च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वारादञ्जन॑याग्रे॒ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते ।
अ॒स॒ङ्ख्या॒तास्स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ५६ ॥
ए॒वमे॒तन्नि॑बोधत । आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒हि म॒यूर॑रोमभिः । मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः ।
द॒ध॒न्वेव॒ ता इ॑हि । मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒मि म॒यूर॑रोमभिः । मा मा केचिन्नियेमुरि॑न्न पा॒शिनः ।
नि॒ध॒न्वेव॒ तां ( २ ) इ॑मि । अणुभिश्च म॑हद्भि॒श्च ॥ ५७ ॥
नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्श्वेत॑सिक्द्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚ ।
नित्य॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ ५८ ॥
गौरावस्कन्दिन्नहल्या॑यै जा॒र । कौशिकब्रह्मण गौतम॑ब्रुवा॒ण ।
अ॒रु॒णाश्व॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒क्षितः॑ ।
अ॒ष्टौदि॒ग्वास॑सो॒ऽग्नयः॑ । अग्निश्च जातवेदा᳚श्चेत्ये॒ते ।
तम्राश्वा᳚स्ताम्र॒रथाः । ताम्रवर्णा᳚स्तथा॒ऽसिताः ।
दण्डहस्ताः᳚ ख्याद॒ग्दतः । इतो रुद्राः᳚ परा॒ङ्गताः ॥ ५९ ॥
उक्तꣳस्थानं प्रमाणञ्च॑ पुर॒ इत । बृह॒स्पति॑श्च सवि॒ता च॑ ।
वि॒श्वरू॑पैरि॒हाग॑ताम् । रथो॑नोदकवर्त्म॑ना ।
अ॒प्सुषा॑ इति॒ तद्द्व॑योः । उक्तो वेषो॑ वासा॒ꣳ॒सि च ।
कालावयवानामितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः ।
कोऽन्तरिक्षे श्ब्दङ्क॑रोती॒ति । वसिष्टो रौहिणो मीमाꣳ॑साञ्च॒क्रे ।
तस्यै॒षा भव॑ति । वा॒श्रेव॑ वि॒द्युदिति॑ ।
ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्ंअ॑ण उदी॒रण॑मसि ।
ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ६० ॥
[ अप॑क्रामत गर्भि॒ण्यः॑ ]
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां मही᳚म् ।
अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् ।
अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम् । अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् ।
अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् ।
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मून्दिवम्᳚ ॥ ६१ ॥
अ॒हं वेद॒ न मे॑ मृत्युः । नचामृ॑त्युर॒घाह॑रत् ।
सु॒त्रामा॑णां म॒हीमू॒षु । अदि॑ति॒र्द्यौर्दि॑तिर॒न्तरि॑क्षम् ।
अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒जनाः᳚ ।
अदि॑तिर्जा॒तमदि॑ति॒जनि॑त्वम् । अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः ।
ये जा॒तास्त॒न्वः॑ परि॑ । दे॒वं ( २ ) उप॑प्रैत्स॒प्तभिः॑ ॥ ६२ ॥
प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् । स॒प्तभिः॑ पु॒त्रैरदि॑तिः ।
उप॒प्रैत्पू॒र्व्यं॑ युगम्᳚ । प्र॒जायै॑ मृ॒त्यवे त॑त् ।
प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ । ताननुक्र॑मिष्या॒मः ।
मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा᳚र्य॒मा च॑ ।
अꣳश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाꣳ॑श्चेत्ये॒ते ।
हि॒र॒ण्य॒ ग॒र्भो ह॒ꣳ॒सश्शु॑चि॒षत् ।
ब्रह्म॑जज्ञा॒नं तदित्प॒दमिति॑ ग॒र्भ प्रा॑जाप॒त्यः ।
अथ॒ पुरु॑षः स॒प्त पुरु॑षः ॥ ६३ ॥
[ य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ ]
योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः ।
अ॒सौ यो᳚ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒ऽस्तमेति॑ ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः ।
अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरा॒पूर्य॑ति ॥ ६४ ॥
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः ।
अ॒सौ यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑क्षीयति ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑क्षेष्ठाः ।
अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ॥ ६५ ॥
इ॒मे मासा᳚श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ।
इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोत्स॑र्पन्ति॒ च ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोत्सृ॑पत ।
अ॒यꣳ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च ॥ ६६ ॥
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
इ॒दमहः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
इ॒यꣳरात्रिः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोत्स॑र्पति॒ च ।
मा मे᳚ प्र॒जया॒ मा प॑शूनाम् । मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोत्सृ॑प ।
ॐ भूर्भुव॒स्स्वः॑ । एतद्वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६७ ॥
अथादित्यस्याष्टपु॑रुष॒स्य ।
वसूनामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
रुद्राणामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
आदित्यानामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
सताꣳ॑सत्या॒नाम् । आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
अभिधून्वता॑मभि॒घ्नताम् । वातव॑तां म॒रुताम् ।
आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
ऋभूणामादित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
विश्वेषा᳚न्देवा॒नाम् । आदित्यानꣳस्थाने स्वतेज॑सा भा॒नि ।
संवत्सर॑स्य स॒वितुः । आदित्यस्य स्वतेज॑सा भा॒नि ।
ॐ भूर्भुव॒स्स्वः॑ । रश्मयो वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६८ ॥
आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि ।
पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि ।
स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि । ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि ।
विभासस्य स्थाने स्वतेज॑सा भा॒नि । कश्यपस्य स्थाने स्वतेज॑सा भा॒नि ।
ॐ भूर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ६९ ॥
अथ वयोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
प्रभ्राजमानानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
व्यवदातानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
रजतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
परुषाणाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
श्यामानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
कपिलानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ॥ ७० ॥
अवपतन्तानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
वैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
प्रभ्राजमानीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
रजतानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
परुषाणाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
श्यामानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
कपिलानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
अवपतन्तीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
वैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ।
ॐ भूर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ७१ ॥
अथाग्ने॑रष्टपु॑रुष॒स्य ।
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
ॐ भूर्भुव॒स्स्वः॑ । रूपाणि वो मिथुनं मा नो मिथु॑नꣳरी॒ढ्वम् ॥ ७२ ॥
दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ।
दक्षिणापरस्यां दिश्यविस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ।
उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि ।
उत्तरपरस्यान्दिश्यविषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि ।
आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ७३ ॥
इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यरु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् ।
संज्ञानं वः प॑श्चादि॒ति । आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् ।
वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि । च॒न्द्रमा॑ दि॒क्षु ।
नक्ष॑त्राणि॒ स्वलो॒के । ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने ।
ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन् । ए॒वा हि दे॑वाः ॥ ७४ ॥
आप॑मापाम॒पस्सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मनो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ।
महानाम्नीर्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥७५ ॥
दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ।
अ॒पाऽश्न्यु॑ष्णिम॒पा रक्षः॑ । अ॒पाऽऽश्न्यु॑ष्णिम॒पारघम्᳚ ।
अपा᳚घ्रा॒मप॑चा॒ऽवर्तिम्᳚ । अप॑दे॒वीरि॒तो हि॑त ।
वज्र॑न्दे॒वीरजी॑ताꣳश्च । भुव॑नन्देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिन्दे॒वीम् । योनि॑नोर्ध्वमु॒दीष॑त ॥ ७६ ॥
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।
के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाꣳश॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा न॒श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ ७७ ॥
यो॑ऽपां पुष्पं॒ वेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यतनं॒ वेद॑ ॥ ७८ ॥
आ॒यत॑नवान् भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७९ ॥
आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ८० ॥
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान् भवति ॥ ८१ ॥
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ॥ ८२ ॥
यो॑ऽपामा॒यत॑नं॒ वेद ॑ । आ॒यत॑नवान् भवति
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ८३ ॥
आ॒यत॑नवान् भवति । सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति । यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् ।
आ॒यत॑नवान् भवति । य ए॒वं वेद॑ ।
यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८४ ॥
इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू᳚क्ता ।
अ॒पाꣳरस॒मुद॑यꣳसन्न् । सूर्ये॑ शु॒क्रꣳस॒माभृ॑तम् ।
अ॒पाꣳरस॑स्य॒ यो रसः॑ । तं वो॑ गृह्णाम्युत्त॒ममिति॑ ।
इ॒मे वै लो॒का अ॒पाꣳरसः॑ । ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः ।
जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ८५ ॥
पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सꣳस्ती॒र्य । तस्मि॑न्विहा॒यसे ।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚ । साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते᳚ ।
अ॒सौ भुव॑ने॒प्यना॑हिताग्निरे॒ताः । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ८६ ॥
अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ ।
ए॒तद्ध॑ स्म॒ वा आ॑हुश्शण्डि॒लाः । कम॒ग्निञ्चि॑नुते ।
स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः । सं॒व॒त्स॒रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते । सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः ।
अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते ॥ ८७ ॥
ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः ।
प्रा॒णान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । चा॒तु॒हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
ब्रह्म॑ प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः ।
शरी॑रं प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ॥ ८८ ॥
इ॒मान् लो॒कान्प्र॒त्यक्षे॑ण । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒नः ।
य ए॒वासौ । इ॒तश्चा॒ऽमुत॑श्चाऽव्यतीप॒ती । तमिति॑ ।
यो᳚ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान्भ॑वति ।
आपो॒ वा अ॒ग्नेर्मि॑थू॒याः । मि॒थु॒न॒वान्भ॑वति । य ए॒वं वेद॑ ॥ ८९ ॥
आपो॒ वा इ॒दमा॑सन्त्सलि॒लमे॒व । स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् ।
तस्यान्त॒र्मन॑सि काम॒स्सम॑वर्तत । इ॒दꣳसृ॑जेय॒मिति॑ ।
तस्मा॒द्यत्पुरु॑षो॒ म॑सभि॒गच्छ॑ति । तद्वा॒चा व॑दति ।
तत्कर्म॑णा करोति । तदे॒षाऽभ्यनू᳚क्ता ।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् ॥ ९० ॥
स॒तो बन्धु॒मस॑ति॒ नि॑रविन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ।
उपै॑न॒न्तदुप॑नमति । यत्का॑मो॒ भव॑ति । य ए॒वं वेद॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन्मा॒ꣳ॒समासी᳚त् ।
ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न् ॥ ९१ ॥
ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः ।
यो रसः॑ । सो॑ऽपाम् । अ॒न्त॒र॒तः कू॒र्मं भू॒तꣳसर्प॑न्तम् ।
तम॑ब्रवीत् । मम॒ वैत्वङ्मा॒ꣳ॒सा । सम॑भूत् ॥ ९२ ॥
नेत्यब्रवीत्।पूर्व॑मे॒वाहमि॒हास॒निति॑ ।
तत्पुरु॑षस्य पुरुष॒त्वम् । स स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒हस्॒स्रा॒क्षस्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् ।
तम॑ब्रवीत् । त्वं वै पूर्वꣳ॑सम॑भूः ।
त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ । स इ॒त आ॒दायापः॑ । ॥ ९३ ॥
अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् । ए॒वाह्ये॒वेति॑ ।
तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् ।
अथा॑ऽरु॒णः । के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् ।
ए॒वाह्यग्न॒ इति॑ । ततो॑ वा अ॒ग्निरुद॑तिष्ठत् ।
सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पद॑धात् ।
ए॒वाहि वायो॒ इति॑ ॥ ९४ ॥
ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् ।
अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् । ए॒वाहीन्द्रेति॑ ।
ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् ।
अथा॑रु॒णः के॒तुर्म॑ध्य उ॒पाद॑धात् । ए॒वाहि पूष॒न्निति॑ ।
ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ ९५ ॥
अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् । ए॒वाहि दे॒वा हति॑ ।
ततो॑ देवमनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन्न् ।
सोर्ध्वा दिक् । या वि॒प्रुषो॑ वि॒परा॑पतन्न् ।
ताभ्योऽसु॑रा॒ रक्षाꣳ॑सि पिशा॒चाश्चोद॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् ।
वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् । तदे॒षाभ्यनू᳚क्ता ॥ ९६ ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्म॒मायन्न्॑ । दक्ष॒न्दधा॑ना ज॒नय॑न्तीस्स्वयं॒भुम् ।
तत॑ इ॒मेध्यसृज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दꣳ सम॑भूत् ।
तस्मा॑दि॒दꣳसर्वं॒ ब्रह्म॑ स्वयं॒भ्विति॑ ।
तस्मा॑दि॒दꣳसर्व॒ꣳ॒ शिथि॑लमि॒वाऽध्रुव॑मिवाभवत् ।
प्र॒जाप॑ति॒र्वाव तत् । आ॒त्मना॒त्मानं॑ वि॒धाय॑ ।
तदे॒वानु॒प्रावि॑शत् । तदे॒षाभ्यनू᳚क्ता ॥ ९७ ॥
वि॒धाय॑ लो॒कान् वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒त्मान॑म॒भि संवि॑वे॒शेति॑ ।
सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑मव॒रुद्ध्य॑ ।
तदे॒वानु॒प्रवि॑शति । य ए॒वं वेद॑ ॥ ९८ ॥
चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाꣳरू॒पाणि॑ ।
मेधो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्वृ॒ष्टिः । तान्ये॒वाव॑रुन्धे ।
आतप॑ति॒ वर्ष्या॑ गृह्णाति । ताः पु॒रस्ता॒दुप॑दधाति ।
ए॒ता वै ब्र॑ह्मवर्च॒स्या आ॒पः । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
तस्मा᳚न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ९९ ॥
कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति ।
ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒ऽवास्य॑ दक्षिण॒तो द॑धाति ।
तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः । स्था॒व॒रा गृ॑ह्णाति ।
ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति । वह॑न्तीर्गृह्णाति ॥१०० ॥
ता उ॑त्तर॒त उप॑दधाति ।
ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः ।
ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः ।
सं॒भा॒र्या गृ॑ह्णाति । ता मध्य॒ उप॑दधाति ।
इ॒यं वै सं॑भा॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति ।
प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ १०१ ॥
अ॒सौ वै प॑ल्व॒याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ।
दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ ।
अन्नं॒ वा आपः॑ । अ॒द्भ्यो चा अन्न॑ञ्जायते ।
यदे॒वद्भ्योऽन्न॒ञ्जाय॑ते । तदव॑रुन्धे ।
तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒नाऋष॑योऽचिन्वन्न् ।
तस्मा॑दारुणके॒तुकः॑ ॥ १०२ ॥
तदे॒षाभ्यनू᳚क्ता । के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑हि ।
स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ । श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते य उ॑चैनमे॒वं वेद॑ ॥ १०३ ॥
जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति ।
आ॒पꣳ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णꣳरु॒क्मं पुरु॑ष॒मित्युप॑दधाति ।
तपो॒ वै पु॑ष्करप॒र्णम् । स॒त्यꣳरु॒क्मः । अ॒मृतं॒ पुरु॑षः ।
ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ १०४ ॥
तदव॑रुन्धे । कू॒र्ममुप॑दधाति ।
अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
आप॑मापाम॒पस्सर्वाः᳚ । अ॒स्माद॒स्मादि॒तोऽमुतः॑ ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः । लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ १०५ ॥
यास्ति॒स्रः प॑रम॒जाः । इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ ।
पञ्च॒चित॑य॒ उप॑दधाति । पाङ्क्तो॒ऽग्निः ।
याव॑ने॒वाग्निः । तञ्चि॑नुते ।
लो॒कंपृ॑णया द्वि॒तीया॒मुप॑दधाति । पञ्च॑ पदा॒ वै वि॒राट् ।
तस्या॒ वा इ॒यं पादः॑ । अ॒त्नरि॑क्षं॒ पादः॑ । द्यौः पादः॑ ।
दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ । वि॒राज्ये॒व प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ १०६ ॥
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । तम॒भित ए॒ता अ॒बीष्टका॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः । सर्वेषु॑ यज्ञक्र॒तुष्विति॑ ।
अथ॑ हस्माहारु॒णस्स्वा॑यं॒भुवः॑ । सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे ।
नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि । कम॒ग्निञ्चि॑नुते ॥ १०७ ॥
स॒त्रि॒यम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्रम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ।
ना॒चि॒के॒तम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ॥ १०८
उ॒पा॒नु॒वा॒क्यमा॒शुम॒ग्निञ्चि॑वा॒नः । कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑वा॒न इति॑ । वृषा॒ वा अ॒ग्निः ।
वृषा॑णो॒ सꣳस्फा॑लयेत् । ह॒न्येता᳚स्य य॒ज्ञः ।
तस्मा॒न्नानु॒षज्यः॑ । सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत ।
उ॒त्त॒र॒वे॒द्याꣳह्य॑ग्निश्ची॒यते᳚ । प्र॒जाका॑मश्चिन्वीत ॥ १०९ ॥
प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः ।
प्र॒जावा᳚न् भवति । य ए॒वं वेद॑ ।
प॒शुका॑मश्चिन्वीत । सं॒ज्ञानं॒ वा ए॒तत् प॑शूनाम् ।
यदापः॑ प्॒शू॒नामे॒व सं॒ज्ञाने॒ऽग्निञ्चि॑नुते ।
प्॒शु॒मान् भ॑वति । य ए॒वं वेद॑ ॥ ११० ॥
वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ ।
प॒र्जन्यो॒ वर्षु॑को भवति । य ए॒वं वेद॑ ।
आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् ।
भे॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति ।
अ॒भि॒चरꣳ॑श्चिन्वीत । वज्रो॒ वै आपः॑ ॥ १११ ॥
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति।स्तृ॒णु॒त ए॑नम् ।
तेज॑स्कामो॒ यश॑स्कामः । ब्र॒ह्म॒व॒र्च॒सका॑मस्स्व॒र्गका॑मश्चिन्वीत ।
ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ । तदव॑रुन्धे ।
तस्यै॒तद् व्र॒तम् । वर्ष॑ति॒न धा॑वेत् ॥ ११२ ॥
अ॒मृतं॒ वा आपः॑ । अ॒मृत॒स्यान॑न्तरित्यै ।
नाप्सु मूत्र॑पुरी॒षङ्कुर्यात् । न निष्ठी॑वेत् ।
न वि॒वस॑नस्स्नायात् । गुह्यो॒ वा ए॒षो᳚ऽग्निः ।
ए॒तस्या॒ग्नेरन॑तिदाहाय । न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒वाऽधि॒तिष्ठे᳚त् ।
ए॒तस्या॒ग्नेरन॑भ्यारोहाय । न कूर्म॒स्याश्नी॑यात् ।
नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ ।
य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं वेद॑ ॥ ११३ ॥
इ॒मानु॑कं॒ भु॑वना सीषधेम । इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञश्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द्र॑स्स्स॒ह सी॑षधातु ।
आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म् ।
आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डीभ॑वज॒ मा मु॒हुः ।
सुखादीन्दुः॑खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ॥ ११४ ॥
मरी॑चयस्स्वायंभु॒वाः । ये श॑री॒राण्य॑कल्पयन्न् ।
ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्यास्म॑ तीरिषत् ।
उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्निमि॑च्छध्वं॒ भार॑ताः ।
राज्ञ॒स्सोमस्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः ।
युवा॑ सु॒वासाः᳚ । अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ११५ ॥
दे॒वानां॒ पूर॑यो॒ध्या । तस्याꣳ॑हिरण्म॑यः को॒शः ।
स्व॒र्गो लो॒को ज्योति॒षाऽऽचृ॑तः । यो वै तां᳚ ब्रह्म॑णो वे॒द ।
अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् । तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च ।
आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः । वि॒भ्राज॑माना॒ꣳ॒हरि॑णीम् ।
य॒शसा॑ सम्प॒रीवृ॑ताम् । पुरꣳ॑हिरण्मयीं ब्र॒ह्मा ॥ ११६ ॥
वि॒वेशा॑ऽप॒राजि॑ता । पराङ्गेत्य॑ज्याम॒यी ।
पराङ्गेत्य॑नाश॒की । इ॒हचा॑मुत्र॑चान्वे॒ति ।
वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् । यत्कु॑मा॒री म॒न्द्रय॑ते ।
य॒द्यो॒षद्यत्प॑ति॒व्रता᳚ । अरि॑ष्टं॒ यत्किंच॑ क्रि॒यते᳚ ।
अ॒ग्निस्तदनु॑वेधति । अ॒शृता॑सश्शृ॑तास॒श्च ॥ ११७ ॥
य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे᳚क्षन्ते ।
इन्द्र॑म॒ग्निश्च॑ ये वि॒दुः । सिक॑ता इव सं॒यन्ति॑ ।
र॒श्मिभि॑स्समु॒दीरि॑ताः । अ॒स्माल्लो॒काद॑मुष्मा॒च्च ।
ऋ॒षिभि॑रदात्पृ॒श्निभि॑ ।
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ येऽत्र॒स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒व्य॑क्तम् ॥ ११८ ॥
य॒मो द॑दात्वव॒सान॑मस्मै । नृ मु॑णन्तु नृपा॒त्वर्यः॑ ।
अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु ।
जा॒रिणी॑षु च॒ ये हि॒ताः । रेतः॑पीता॒ आण्ड॑पीताः ।
अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया᳚न् पुत्र॑पौत्र॒कान् ।
यु॒वे॒ऽहं य॒मराज॑गान् । श॒तमिन्नु श॒रदः॑ ॥ ११९ ॥
अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।
वरु॑ण॒स्याश्वि॑नोर॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑साम् ।
का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः ।
इति नाको ब्रह्मिश्रवो॑ रायो॑ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाऽऽहि॑त ॥ १२० ॥
विशी᳚र्ष्णी॒ङ्गृध्र॑शीर्ष्णीञ्च । अपेतो॑निरृ॒तिꣳह॑थः ।
परिबाधꣳश्वे॑तकु॒क्षम् । निजङ्घꣳ॑शब॒लोद॑रम् ।
स॒ तान् वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ ।
ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्युं कृ॒त्यां च॑ दीधिरे ।
रथे॑न किꣳशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ १२१ ॥
प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ ।
स नो॑ य॒वस॑मिच्छतु।इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे᳚ ।
हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत । म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयस्सन्त्व॒स्मे ।
सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः । यो गर्भ॒मोष॑धीनम् ।
गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरू॒षीणा᳚म् ॥ १२२ ॥
पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ ।
पुन॒र्ब्राह्म॑णमैतु मा । पुन॒र्द्रवि॑णमैतु मा ।
यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ ।
इ॒दन्तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ।
यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑ ।
तेन॑ माम॒मृतं॑ कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ १२३ ॥
अ॒द्भ्यस्तिरो॒धाऽजा॑यत । तव॑ वैश्रव॒णस्स॑दा ।
तिरो॑धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न ।
त्वा॒ष्ट्रीं मा॒यां वै᳚श्रव॒णः । रथꣳ॑सहस्र॒वन्धु॑रम् ।
पु॒रु॒श्च॒क्रꣳसह॑स्राश्वम् । आस्था॒याया॑हि नो ब॒लिम् ।
यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वान्॑ ॥ १२४ ॥
असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रियं॒ बिभ्र॒तिऽन्न॑मुखीं वि॒राजम्᳚ ।
सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ ।
श॒तद्वा॒ट्टार॑गम॒न्ता । स॒ꣳ॒हार्य॒न्नग॑रं॒ तव॑ ।
इति मन्त्राः᳚ । कल्पो॑ऽत ऊ॒र्ध्वम् । यदि॒ बलि॒ꣳ॒ हरे᳚त् ।
हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ॥ १२५ ॥
सर्वभूतधिपतये न॑म इ॒ति । अथ बलिꣳहृत्वोप॑तिष्ठे॒त ।
क्ष॒त्रं क्ष॒त्रं वै᳚श्रव॒णः । ब्राह्मणा॑ वय॒ꣳ॒स्मः ।
नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । अस्मात्प्रविश्यान्न॑मद्धी॒ति ।
अथ तमग्निमा॑दधी॒त । यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः ॥ १२६ ॥
ति॒रोधा॒स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ ।
सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति । अथ तमग्नि॑मिन्धी॒त ।
यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त । ति॒रोधा॒ भूस्स्वाहा᳚ ।
ति॒रोधा॒ भुव॒स्स्वाहा᳚ । ति॒रोधा॒स्स्व॑स्स्वाहा᳚ ।
ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ ।
यमिन्नस्य काले सर्वा आहुतीर् हुता॑ भवे॒युः ॥ १२७ ॥
अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युन्ञ्जी॒त ।
पर॑स्सु॒प्तज॑नाद्वे॒पि । मास्म प्रमाद्यन्त॑माध्या॒पयेत् ।
सर्वार्था᳚स्सिद्ध्य॒न्ते । य ए॑वं वे॒द ।
क्षुध्यन्निद॑मजा॒नताम् । सर्वार्था न॑ सिद्ध्य॒न्ते ।
यस्ते॑ वि॒घातु॑को भ्रा॒ता । ममान्तर्हृ॑दये॒ श्रितः ॥ १२८ ॥
तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि । स मे᳚ऽर्था॒न्मा विव॑धीत् ।
मयि॒ स्वाहा᳚ । रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳश॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वान॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ १२९ ॥
संवत्सरमेत॑द् व्रतं॒ चरेत् । द्वौ॑ वा मा॒सौ ।
नियमस्स॑मासे॒न । तस्मिन्नियम॑विशे॒षाः ।
त्रिषवणमुदको॑पस्प॒र्शी । चतुर्थकालपान॑भक्त॒स्स्यात् ।
अहरहर्वा भैक्ष॑मश्नी॒यात् । औदुंबरीभिस्समिद्भिरग्निं॑ परि॒चरेत् ।
पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनु॑वाके॒न । उद्धृतपरिपूताभिरद्भिः कार्यं॑ कुर्वी॒त ॥ १३० ॥
अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य ।
ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः ।
ऋतुभ्यस्सं॑वत्सरा॒य । वरुणायारुणायेति व्र॑तहो॒माः ।
प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्डऋ॒षयः ।
अरण्ये॑ऽधीयी॒रन्न् । भद्रङ्कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ १३१ ॥
महानाम्नीभिरुदकꣳ स॑ꣳस्प॒र्श्य । तमाचा᳚र्यो द॒द्यात् ।
शिवानश्शन्तमेत्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् ।
एवम॑पव॒र्गे । धे॑नुर्द॒क्षिणा । कꣳसं वास॑श्च क्षौ॒मम् ।
अन्य॑द्वा शु॒क्लम् । य॑थाश॒क्ति वा । एवꣳस्वाध्याय॑धर्मे॒ण ।
अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ १३२ ॥
ॐ भ॒द्रङ्कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १३३ ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
This first prashna of the arAnyaka is known as aruNaprashnaH
From taittirIyasamhitAtml
Note on the use of t or th in apashyamahametAnthsapta in
.. 0. 1. 7. 21.. . See top right
https://archive.org/details/taittiriya/taittiriya_aranyaka_bhaskara_01/page/n50/mode/1up
It is explained in Taittiriya-pratisakhya
https://archive.org/details/in.ernet.dli.2015.553666/page/n161/mode/2up
See pages 88 and 89 .
There are two parts
Rule 1 (a and b)
a .
if ङ् followed by स् , ष् then क् is Agama
eg - प्रत्यङ् सोमो => प्रत्यङ्+क्+सोमो
eg - प्रत्यङ् षडहो => प्रत्यङ् +क् +षडहो
b .
if ट् , न् followed by स् , ष् ) then त् is Agama
eg - विद्वान् सोमेन => विद्वान् + त् +सोमेन
our eg एतान् सप्त => एतान् + त् +सप्त
वट् स्वयमभि => वट् + त् + स्वयमभि
Rule 2
First letter in group followed by ऊष्म - becomes second in the respective group
eg - प्रत्यङ्+क्+सोमो => प्रत्यङ्+ ख् +सोमो
विद्वान् + त् +सोमेन => विद्वान् + थ् +सोमेन
our eg एतान् + त् +सप्त => एतान् + थ् +सप्त
See pratishakhya reference page 164
This is the reason many books also use saMvathsara
in place of saMvatsara etc .
BTW वर्धन as वर्द्धन is also documented as द्विवर्णम्
page 162 onwards in the same pratishAkhya reference
(sutra 1 and 5 for वर्द्धन)
These specifics are emphasized in some vedic books to remind
उच्चारण although some books are liberal and expect
students to learn from parampara .
- Muralidhara muraliba at gmail.com
Encoded with Accents by Rajagopal Iyer
॥ तैत्तिरीयारण्यकम् अरुणप्रश्नः ॥
स्वररहितम्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः ॥ १ ॥
अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया ।
वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः ।
देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत ।
महानाम्नीर्महामानाः । महसो महसस्स्वः ।
देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत ॥ २ ॥
अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपारघम् ।
अपाघ्रामप चावर्तिम् । अपदेवीरितो हित ।
वज्रं देवीरजीताꣳश्च । भुवनं देवसूवरीः ।
आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ।
शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः ।
सुमृडीका सरस्वती । मा ते व्योम संदृशि ॥ ३ ॥
स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् ।
एतैरादित्यमण्डलम् । सर्वैरेव विद्यास्यते ।
सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि ।
तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् ।
नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा ॥ ४ ॥
तान्नद्योऽभिसमायन्ति । सोरुस्सती न निवर्तते एवन्नानासमुत्थानाः ।
कालास्संवत्सरꣳ श्रिताः । अणुशश्च महशश्च ।
सर्वे समवयन्त्रितम् । सतैस्सर्वैस्समाविष्टः ।
ऊरुस्सन्न निवर्तते अधिसंवत्सरं विद्यात् । तदेव लक्षणे ॥ ५ ॥
अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते ।
संवत्सरः प्रत्यक्षेण । नाधिसत्वः प्रदृश्यते ।
पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् ।
यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते ।
एकꣳहि शिरो नाना मुखे । कृत्स्नम् तदृतुलक्षणम् ॥ ६ ॥
उभयतस्सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते ।
शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः ।
तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् ।
विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः ।
भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा ।
न पशवः । नादित्यस्संवत्सर एव प्रयक्षेण प्रियतमं विद्यात् ।
एतद्वै संवत्सरस्य प्रियतमꣳ रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति ।
इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् ॥ ७ ॥
साकंजानाꣳ सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति ।
तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः
को नु मर्या अमिथितः । सखा सखायमब्रवीत् ।
जहाको अस्म दीषते । यस्तित्याज सखिविदꣳ सखायाम् ।
न तस्य वाच्यपि भागो अस्ति । यदीꣳ शृणोत्यलकꣳ शृणोति ॥ ८ ॥
न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः ।
विननादाभिधावः । षष्टिश्च त्रिꣳशका वल्गाः ।
शुककृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः ।
वसन्तो वसुभिस्सह संवत्सरस्य सवितुः ।
प्रैषकृत्प्रथमः स्मृतः । अमूनादयतीत्यन्यान् ॥ ९ ॥
अमूꣳश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते ।
यत्रैतदुपदृश्यते । एतदेव विजानीयात् ।
प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः ।
ऋतूनां तन्निबोधत । शुक्लवासा रुद्रगणः ।
ग्रीष्मेणाऽऽवर्तते सह । निजहन् पृथिवीꣳ सर्वाम् ॥ १० ॥
ज्योतिषाऽप्रतिख्येन सः । विश्वरूपणि वासाꣳसि ।
आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् ।
वर्षाभिर्ददताꣳ सह । अदुःखो दुःखचक्षुरिव ।
तद्माऽऽपीत इव दृश्यते । शीतेनाव्यथयन्निव ।
रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव ।
शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रꣳश्यन्ते ।
संवत्सरात्ता भ्रꣳश्यन्ते । याः प्रतितिष्ठन्ति ।
संवत्सरे ताः प्रतितिष्ठन्ति । वर्षाभ्य इत्यर्थः ॥ ११ ॥
अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके ।
आङ्क्तेचाद्गणं नास्ति । ऋभूणां तन्निबोधत ।
कनकाभानि वासाꣳसि । अहतानि निबोधत ।
अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः ।
एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते ॥ १२ ॥
अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः ।
अमुतो जेतुमिषुमुखामिव । सन्नद्धास्सह ददृशे ह ।
अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः ।
अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी ।
हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव ॥ १३ ॥
दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे ।
एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः ।
ता अग्निः पवमना अन्वैक्षत । इह जीविकामपरिपश्यन् ।
तस्यैषा भवति । इहेहवस्स्वतपसः ।
मरुतस्सूर्यत्वचः । शर्म सप्रथा आवृणे ॥ १४ ॥
अतिताम्राणि वासाꣳसि । अष्टिवज्रिशतघ्नि च ।
विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत ।
नैव देवो न मर्त्यः । न राजा वरुणो विभुः ।
नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते ।
दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता ॥ १५ ॥
तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनथ्स्वयम् ।
तदिन्द्रधनुरित्यज्यम् । अभ्रवर्णेषु चक्षते ।
एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः ।
रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष ।
स प्रवर्ग्योऽभवत् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते ।
रुद्रस्य स शिरः प्रतिदधाति । नैनꣳ रुद्र आरुको भवति । य एवं वेद ॥ १६ ॥
अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते ।
नैव रूपं न वासाꣳसि । न चक्षुः प्रतिदृश्यते ।
अन्योन्यं तु न हिꣳस्रातः । सतस्तद्देवलक्षणम् ।
लोहितोऽक्ष्णि शारशीर्ष्णिः । सूर्यस्योदयनं प्रति ।
त्वं करेषिन्यञ्जलिकाम् । त्वं करोषि निजानुकाम् ॥ १७ ॥
निजानुकामेन्यञ्जलिका । अमी वाचमुपासतामिति ।
तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्रपुरोधाम् ।
ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैस्सेनानीभिस्सह ।
इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति ॥ १८ ॥
अवद्रप्सो अꣳशुमतीमतिष्ठत् । इयानः कृष्णो दशभिस्सहस्रैः ।
आवर्तमिन्द्रः शच्या धमन्तम् । उप्स्नुहि तं नृमणामथद्रामिती ।
एतयैवेन्द्रः सलावृक्या सह । असुरान् परिवृश्चति ।
पृथिव्यꣳशुमती । तामन्ववस्थितः संवत्सरो दिवं च ।
नैवं विदुषाऽऽचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति ।
भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि ।
सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वꣳ सनिर्वचनाः ॥१९ ॥
आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषिमान् विभासः ।
ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति ।
कश्यपोऽष्टमः । स महामेरुं न जहाति ।
तस्यैषा भवति । यत्ते शिल्पंकश्यप रोचनावत् ।
इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पितास्सप्त साकम् ॥ २० ॥
तस्मिन् राजानमधिविश्रयेममिति । ते अस्मै सर्वे कश्यपाज्ज्य् ओतिर्लभन्ते ।
तान्त्सोमः कश्यपादधिनिर्द्धमति । भ्रस्ताकर्मकृदिवैवम् ।
प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः ।
सूर्या इत्याचार्याः । अपश्यमहमेतान्त्सप्त सूर्यानिति ।
पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्लाक्षिः ॥ २१ ॥
See a note in the end on adding t before sapta for apashyamahametAntsapta
आनुश्राविक एव नौ कश्यप इति । उभौ वेदयिते ।
न हि शेकुमिव महामेरुं गन्तुम् । अपश्यमहमेत्सूर्यमण्डलं परिवर्तमानम् ।
गार्ग्यः प्राणत्रातः । गच्छन्त महामेरुम् । एकं चाजहतम् ।
भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिह तप्त्रितपाः ॥ २२ ॥
अमुत्रेतरे । तस्मादिहातप्त्रितपाः । तेषामेषा भवति ।
सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् ।
ते अस्मै सर्वे घृतमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति ।
सप्तर्त्विजस्सूर्या इत्याचार्याः । तेषामेषा भवति । सप्त दिशो नानासूर्याः ॥ २३ ॥
सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त ।
तेभिस्सोमाभीरक्षण इति । तदप्याम्नायः ।
दिग्भ्राज ऋतून् करोति । एतयैवावृता सहस्रसूर्यताया इति वैशंपायनः ।
तस्यैषा भवति । यद्द्याव इन्द्र ते शतꣳशतं भूमीः ।
उतस्युः । नत्वा वज्रिन् सहस्रꣳ सूर्याः ॥ २४ ॥
अनुनजातमष्ट रोदसी इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम् ।
अष्टौ तु व्यवसिता इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम् ।
तेषामेषा भवति । चित्रं देवानामुदगादनीकम् ।
चक्षुर्मित्रस्य वरुणस्याग्ने । आप्रा द्यावापृथिवी अन्तरिक्षम् ।
सूर्य आत्मा जगतस्तस्थुषश्चेति ॥२५ ॥
क्वेदमभ्रन्निविशते । क्वायꣳ संवत्सरो मिथः ।
क्वाहः क्वेयन्देव रात्री । क्व मासा ऋतवः श्रिताः ।
अर्द्धमासा मुहूर्ताः । निमेषास्तुटिभिस्सह ।
क्वेमा आपो निविशन्ते । यदीतो यान्ति सम्प्रति ।
काला अप्सुनिविशन्ते । आपस्सूर्ये समाहिताः ॥ २६ ॥
अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता ।
अनवर्णे इमे भूमी । इयं चाऽसौ च रोदसि ।
किꣳस्विदत्रान्तरा भूतम् । येनेमे विधृते उभे ।
विष्णुना विधृते भूमी । इति वत्सस्य वेदना ।
इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ॥ २७ ॥
व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः ।
किन्तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् ।
एको यद्धारयद्देवः । रेजती रोदसी उभे ।
वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते ।
त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ॥ २८ ॥
अग्नयो वायवश्चैव । एतदस्य परायणम् ।
पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमञ्चतुम् ।
लोक्ञ्च पुण्यपापानाम् । एतत्पृच्छामि सम्प्रति ।
अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् ।
अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ॥ २९ ॥
अनाभोगाः परं मृत्युम् । पापास्संयन्ति सर्वदा ।
आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः ।
ततो मध्यममायन्ति । चतुमग्निं च सम्प्रति ।
पृच्छामि त्वा पापकृतः । यत्र यातयते यमः ।
त्वन्नस्तद्ब्रह्मन् प्रब्रूहि । यदि वेत्थाऽसतो गृहन् ॥ ३० ॥
कश्यपादुदितास्सूर्याः । पापान्निर्घ्नन्ति सर्वदा ।
रोदस्योन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः ।
तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः ।
अपाण्यपादकेशासः । तत्र तेयोनिजा जनाः ।
मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानास्स्वकर्मभिः ॥ ३१ ॥
आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः अपैतं मृत्युं जयति ।
य एवं वेद । स खल्वैवं विद्ब्राह्मणः । दीर्घश्रुत्तमो भवति ।
कश्यपस्यातिथिस्सिद्धगमनस्सिद्धगमनः । तस्यैषा भवति ।
आयस्मिन्थ्सप्त वासवाः । रोहन्ति पूर्व्या रुहः ॥ ३२ ॥
ऋषिर् ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति ।
कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात् ।
अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति ।
अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठन्ते नम उक्तिं विधेमेति ॥ ३३ ॥
अग्निश्च जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च ।
पङ्क्तिराधाश्च सप्तमः विसर्पेवाऽष्टमोऽग्नीनाम् ।
एतेऽष्टौ वसवः क्षिता इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः ।
नीलार्चिश्च पीतकार्चिश्चेति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य ।
प्रभ्राजमाना व्यवदाताः ॥ ३४ ॥
याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः ।
ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश । नैनं वैद्युतो हिनस्ति ।
य एवं वेद । स होवाच व्यासः पाराशर्यः ।
विद्युद्वधमेवाहं मृत्युमैच्छमिति । न त्वकामꣳहन्ति ॥ ३५ ॥
य एवं वेद । अथ गन्धर्वगणाः । स्वानभ्राट् ।
अङ्घारिर्बम्भारिः । हस्तस्सुहस्तः । कृशानुर्विश्वावसुः ।
मूर्धन्वान्थ्सूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः ।
देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ॥३६ ॥
नैनं गिरो हिनस्ति । य एवं वेद ।
गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी । सस्राक्षरा परमे व्योमन्निति ।
वाचो विशेषणम् । अथ निगदव्याख्याताः ।
ताननुक्रमिष्यामः । वराहवस्स्वतपसः ॥ ३७ ॥
विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते ।
ये चेमेऽशिमिविद्विषः । पर्जन्यास्सप्त पृथिवीमभिवर्षन्ति ।
वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वा तैरुदीरिताः ।
अमून्लोकानभिवर्षन्ति । तेशामेषा भवति । समानमेतदुदकम् ॥ ३८ ॥
उच्चैत्यवचाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति ।
यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् ।
जमदग्निमकुर्वत । जमदग्निराप्यायते ।
छन्दोभिश्चतुरुत्तरैः । राज्ञस्सोमस्य तृप्तासः ॥ ३९ ॥
ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः ।
तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये ।
दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् ।
शन्नो अस्तु द्विपदे । शं चतुष्पदे ।
सोमपा ( ३ ) असोमपा ( ३ ) इति निगदव्याख्याताः ॥ ४० ॥
सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यूनासत्या ।
विश्वस्य जगतस्पती । जाया भूमिः पतिर्व्योम । मिथुनन्ता अतुर्यथुः ।
पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम् ।
शुक्र,न् वामन्यद्यजं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः ॥ ४१ ॥
विश्वा हि माया अवथः स्वधावन्तौ ।
भद्रा वां पूषणाविहरातिरस्तु वासात्यौ चित्रौ जगतो निधानौ ।
द्यावाभूमी चरथः सꣳ सखायौ । तावश्विना रासभाश्वा हवं मे ।
शुभस्पती आगतꣳ सूर्यया सह । त्युग्रोह भुज्युमश्विनोदमेघे ।
रयिन्न कश्चिन्ममृवां ( २ ) अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः ।
अन्तरिक्षप्रुड्भिरपोदकाभिः ॥ ४२
तिस्रः क्षपस्त्रिरहातिव्रजद्भिः । नासत्या भुज्युमूहथुः पतङ्गैः ।
समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभीरथैश्शतपद्भिः षडश्वैः ।
सवितारं वितन्वन्तम् । अनुबध्नाति शांबरः । आपपूर्षंबरश्चैव ।
सवितारेपसोऽभवत् । त्यꣳ सुतृप्तं विदित्वैव । बहुसोम गिरं वशी ॥ ४३ ॥
अन्वेति तुग्रो वक्रियान्तम् । आयसूयान्त्सोमतृप्सुषु । स सङ्ग्रामस्तमोद्योऽत्योतः ।
वाचो गाः पिपाति तत् । स तद्गोभिस्स्ताऽत्येत्यन्ये । रक्षसानन्विताश्च ये ।
अन्वेति परिवृत्याऽस्तः । एवमेतौस्थो अश्विना ।
ते एते द्युःपृथिव्योः । अहरहर्गर्भन्दधाथे ॥ ४४ ॥
तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः ।
ता अविसृष्तौ । दम्पती एव भवतः । तयोरेतौ वत्सौ ।
अग्निश्चादित्यश्च । रात्रेर्वत्सः । श्वेत आदित्यः । अहोऽग्निः ॥ ४५ ॥
ताम्रो अरुणः । ता अविसृष्टौ । दम्पती एव भवतः ।
तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य ।
ता अविसृष्टौ । दम्पती एव भवतः । तयोरेतौ वत्सौ ॥ ४६ ॥
उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः ।
तौ तावेव प्रतिपद्येते । सेयꣳरात्री गर्भिणी पुत्रेण संवसति ।
तस्या वा एतदुल्बणम् । यद्रात्रौ रश्मयः ।
यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्या उल्बणम् ।
प्रजयिष्णुः प्रजया च पशुभिश्च भवति ।
य एवं वेद । एतमुद्यन्तमपियन्तं चेति ।
आदित्यः पुण्यस्य वत्सः । अथ पवित्राङ्गिरसः ॥ ४७ ॥
पवित्रवन्तः परिवाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् ।
महस्समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम् ।
पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषिविश्वतः ।
अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत ।
ब्रह्मा देवानाम् । असतस्सद्ये ततक्षुः ॥ ४८ ॥
ऋशयस्सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च ।
नक्षत्रैश्शङ्कृतोऽवसन् । अथ सवितुः श्यावाश्वस्याऽवर्तिकामस्य ।
अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहाचिद्दिवेयुः ।
अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति ।
तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि ॥ ४९ ॥
धियो यो नः प्रचोदयात् । तत्सवितुर्वृणीमहे ।
वयन्देवस्य भोजनम् । श्रेष्ठꣳसर्वधातमम् ।
तुरं भगस्य धीमहि । अपागूहत सविता तृभीन् ।
सर्वादिवो अन्धसः । नक्तन्तान्यभवन्दृशे ।
अस्थ्यस्थ्ना संभविष्यामः । नाम नामैव नाम मे ॥ ५० ॥
नपुꣳसकं पुमाꣳस्त्र्यस्मि । स्थावरोऽस्म्यथ जङ्गमः ।
यजेऽयक्षि यष्टाहे च । मया भूतान्ययक्षत ।
पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः ।
स्त्रियस्सतीः । ता उमे पुꣳस आहुः ।
पश्यदक्षण्वान्नविचेतदन्धः । कविर्यः पुत्रस्य इमा चिकेत ॥ ५१ ॥
यस्ता विजानाथ्सवितुः पितासत् । अन्धो मणिमविन्दत् ।
तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् ।
तमजिह्वा असश्चत । ऊर्ध्वमूलमवाक्छाखम् ।
वृक्षं यो वेद सम्प्रति । न स जातु जनः श्रद्दध्यात् ।
मृत्युर्मा मारयादितिः । हसितꣳरुदितङ्गीतम् ॥ ५२ ॥
वीणापणवलासितम् । मृतञ्जीवं च यत्किंचित्
अङ्गानि स्नेव विद्धि तत् । अतृष्यꣳस्तृष्यध्यायत् ।
अस्माज्जाता मे मिथू चरन्न् । पुत्रो निरृत्या वैदेहः ।
अचेता यश्च चेतनः । स तं मणिमविन्दत् ।
सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ॥ ५३ ॥
सोऽजिह्वो असश्चत । नैतमृशिं विदित्वा नगरं प्रविशेत् ।
यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् ।
तथ्सम्भवस्यं व्रतम् । आतमग्ने रथन्तिष्ठ ।
एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् ।
वातध्राजिगतिं विभो । न रिष्यति न व्यथते ॥ ५४ ॥
नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चाग्नेः ।
रथे युक्त्वाऽधितिष्ठति । एकया च दशभिश्च स्वभूते ।
द्वाभ्यामिष्टये विꣳशत्या च । तिसृभिश्च वहसे त्रिꣳशता च ।
नियुद्भिर्वायविहिता विमुञ्च ॥ ५५ ॥
आतनुष्व प्रतनुष्व । उद्धमाऽऽधम सन्धम ।
आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् ।
इतस्सिक्तꣳसूर्यगतम् । चन्द्रमसे रसङ्कृधि ।
वारादञ्जनयाग्रेऽग्निम् । य एको रुद्र उच्यते ।
असङ्ख्यातास्सहस्राणि । स्मर्यते न च दृश्यते ॥ ५६ ॥
एवमेतन्निबोधत । आमन्द्रैरिन्द्र हरिभिः ।
याहि मयूररोमभिः । मा त्वा केचिन्नियेमुरिन्न पाशिनः ।
दधन्वेव ता इहि । मा मन्द्रैरिन्द्र हरिभिः ।
यामि मयूररोमभिः । मा मा केचिन्नियेमुरिन्न पाशिनः ।
निधन्वेव तां ( २ ) इमि । अणुभिश्च महद्भिश्च ॥ ५७ ॥
निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः ।
इन्द्रायाहि सहस्रयुक् । अग्निर्विभ्राष्टिवसनः ।
वायुश्श्वेतसिक्द्रुकः । संवथ्सरो विषूवर्णैः ।
नित्यस्तेऽनुचरास्तव । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सुब्रह्मण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ॥ ५८ ॥
गौरावस्कन्दिन्नहल्यायै जार । कौशिकब्रह्मण गौतमब्रुवाण ।
अरुणाश्व इहागताः । वसवः पृथिविक्षितः ।
अष्टौदिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते ।
तम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः ।
दण्डहस्ताः ख्यादग्दतः । इतो रुद्राः पराङ्गताः ॥ ५९ ॥
उक्तꣳस्थानं प्रमाणञ्च पुर इत । बृहस्पतिश्च सविता च ।
विश्वरूपैरिहागताम् । रथोनोदकवर्त्मना ।
अप्सुषा इति तद्द्वयोः । उक्तो वेषो वासाꣳसि च ।
कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः ।
कोऽन्तरिक्षे श्ब्दङ्करोतीति । वसिष्टो रौहिणो मीमाꣳसाञ्चक्रे ।
तस्यैषा भवति । वाश्रेव विद्युदिति ।
ब्रह्मण उदरणमसि । ब्रह्ंअण उदीरणमसि ।
ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि ॥ ६० ॥
[ अपक्रामत गर्भिण्यः ]
अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् ।
अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् ।
अष्टयोन्यष्टपुत्रम् । अष्टपदिदमन्तरिक्षम् ।
अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् ।
अष्टयोनीमष्टपुत्राम् । अष्टपत्नीममून्दिवम् ॥ ६१ ॥
अहं वेद न मे मृत्युः । नचामृत्युरघाहरत् ।
सुत्रामाणां महीमूषु । अदितिर्द्यौर्दितिरन्तरिक्षम् ।
अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः ।
अदितिर्जातमदितिजनित्वम् । अष्टौ पुत्रासो अदितेः ।
ये जातास्तन्वः परि । देवं ( २ ) उपप्रैत्सप्तभिः ॥ ६२ ॥
परा मार्ताण्डमास्यत् । सप्तभिः पुत्रैरदितिः ।
उपप्रैत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् ।
परा मार्ताण्डमाभरदिति । ताननुक्रमिष्यामः ।
मित्रश्च वरुणश्च । धाता चार्यमा च ।
अꣳशश्च भगश्च । इन्द्रश्च विवस्वाꣳश्चेत्येते ।
हिरण्य गर्भो हꣳसश्शुचिषत् ।
ब्रह्मजज्ञानं तदित्पदमिति गर्भ प्राजापत्यः ।
अथ पुरुषः सप्त पुरुषः ॥ ६३ ॥
[ यथास्थानं गर्भिण्यः ]
योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायोदगाः ।
असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणानादायाऽस्तमेति ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणानादायाऽस्तङ्गाः ।
असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति ॥ ६४ ॥
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः ।
असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः ।
अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत ॥ ६५ ॥
इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत ।
इम ऋतवः । सर्वेषां भूतानां प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत ।
अयꣳ संवत्सरः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च ॥ ६६ ॥
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप ।
इदमहः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप ।
इयꣳरात्रिः । सर्वेषां भूतानां प्राणैरपप्रसर्पति चोत्सर्पति च ।
मा मे प्रजया मा पशूनाम् । मा मम प्राणैरपप्रसृप मोत्सृप ।
ॐ भूर्भुवस्स्वः । एतद्वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६७ ॥
अथादित्यस्याष्टपुरुषस्य ।
वसूनामादित्यानꣳस्थाने स्वतेजसा भानि ।
रुद्राणामादित्यानꣳस्थाने स्वतेजसा भानि ।
आदित्यानामादित्यानꣳस्थाने स्वतेजसा भानि ।
सताꣳसत्यानाम् । आदित्यानꣳस्थाने स्वतेजसा भानि ।
अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् ।
आदित्यानꣳस्थाने स्वतेजसा भानि ।
ऋभूणामादित्यानꣳस्थाने स्वतेजसा भानि ।
विश्वेषान्देवानाम् । आदित्यानꣳस्थाने स्वतेजसा भानि ।
संवत्सरस्य सवितुः । आदित्यस्य स्वतेजसा भानि ।
ॐ भूर्भुवस्स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६८ ॥
आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि ।
पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि ।
स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि ।
विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि ।
ॐ भूर्भुवस्स्वः । आपो वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ६९ ॥
अथ वयोरेकादशपुरुषस्यैकादशस्त्रीकस्य ।
प्रभ्राजमानानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
व्यवदातानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
वासुकिवैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
रजतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
परुषाणाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
श्यामानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
कपिलानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
अतिलोहितानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
ऊर्ध्वानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ॥ ७० ॥
अवपतन्तानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
वैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेजसा भानि ।
प्रभ्राजमानीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
व्यवदातीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
वासुकिवैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
रजतानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
परुषाणाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
श्यामानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
कपिलानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
अतिलोहितीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
ऊर्ध्वानाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
अवपतन्तीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
वैद्युतीनाꣳ रुद्राणीनाꣳस्थाने स्वतेजसा भानि ।
ॐ भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ७१ ॥
अथाग्नेरष्टपुरुषस्य ।
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि ।
सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि ।
वैश्वानरस्याऽपरदिश्यस्य स्थाने स्वतेजसा भानि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि ।
पङ्क्तिराधसौदग्दिश्यस्य स्थाने स्वतेजसा भानि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि ।
ॐ भूर्भुवस्स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳरीढ्वम् ॥ ७२ ॥
दक्षिणपूर्वस्यान्दिशि विसर्पी नरकः । तस्मान्नः परिपाहि ।
दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि ।
उत्तरपूर्वस्यान्दिशि विषादी नरकः । तस्मान्नः परिपाहि ।
उत्तरपरस्यान्दिश्यविषादी नरकः । तस्मान्नः परिपाहि ।
आ यस्मिन्त्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ॥ ७३ ॥
इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् ।
मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् ।
प्रचेता वो रुद्रैः पश्चादुपदधताम् ।
विश्वकर्मा व आदित्यरुत्तरत उपदधताम् ।
त्वष्टा वो रूपैरुपरिष्टादुपदधताम् ।
संज्ञानं वः पश्चादिति । आदित्यस्सर्वोऽग्निः पृथिव्याम् ।
वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु ।
नक्षत्राणि स्वलोके । एवा ह्येव । एवा ह्यग्ने ।
एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ॥ ७४ ॥
आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः
अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्द्धिया ।
वाय्वश्वा रश्मिपतयः । मरीच्यात्मनो अद्रुहः ।
देवीर्भुवनसूवरीः । पुत्रवत्वाय मे सुत ।
महानाम्नीर्महामानाः । महसो महसस्स्वः ॥७५ ॥
देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत ।
अपाऽश्न्युष्णिमपा रक्षः । अपाऽऽश्न्युष्णिमपारघम् ।
अपाघ्रामपचाऽवर्तिम् । अपदेवीरितो हित ।
वज्रन्देवीरजीताꣳश्च । भुवनन्देवसूवरीः ।
आदित्यानदितिन्देवीम् । योनिनोर्ध्वमुदीषत ॥ ७६ ॥
भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
केतवो अरुणासश्च । ऋषयो वातरशनाः ।
प्रतिष्ठाꣳशतधा हि । समाहितासो सहस्रधायसम् ।
शिवा नश्शन्तमा भवन्तु । दिव्या आप ओषधयः ।
सुमृडीका सरस्वति । मा ते व्योम सन्दृशि ॥ ७७ ॥
योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद ।
आयतनवान् भवति । अग्निर्वा अपामायतनम् ।
आयतनवान् भवति । योऽग्नेरायतनं वेद ॥ ७८ ॥
आयतनवान् भवति । आपो वा अग्नेरायतनम् ।
आयतनवान् भवति । य एवं वेद ।
योऽपामायतनं वेद । आयतनवान् भवति ।
वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद । आयतनवान् भवति ॥ ७९ ॥
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद ।
आयतनवान् भवति । असौ वै तपन्नपामायतनम् ।
आयतनवान् भवति । योऽमुष्य तपत आयतनं वेद ।
आयतनवान् भवति । आपो वा अमुष्य तपत आयतनम् ॥ ८० ॥
आयतनवान् भवति । य एवं वेद ।
योऽपामायतनं वेद । आयतनवान् भवति ।
चन्द्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ॥ ८१ ॥
य एवं वेद । योऽपामायतनं वेद ।
आयतनवान् भवति । नक्षत्राणि वा अपामायतनम् ।
आयतनवान् भवति । यो नक्षत्राणामायतनं वेद ।
आयतनवान् भवति । आपो वै नक्षत्राणामायतनम् ।
आयतनवान् भवति । य एवं वेद ॥ ८२ ॥
योऽपामायतनं वेद । आयतनवान् भवति
पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद ॥ ८३ ॥
आयतनवान् भवति । संवत्सरो वा अपामायतनम् ।
आयतनवान् भवति । यस्संवत्सरस्यायतनं वेद ।
आयतनवान् भवति । आपो वै संवत्सरस्यायतनम् ।
आयतनवान् भवति । य एवं वेद ।
योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८४ ॥
इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता ।
अपाꣳरसमुदयꣳसन्न् । सूर्ये शुक्रꣳसमाभृतम् ।
अपाꣳरसस्य यो रसः । तं वो गृह्णाम्युत्तममिति ।
इमे वै लोका अपाꣳरसः । तेऽमुष्मिन्नादित्ये समाभृताः ।
जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयित्वा गुल्फदघ्नम् ॥ ८५ ॥
पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सꣳस्तीर्य । तस्मिन्विहायसे ।
अग्निं प्रणीयोपसमाधाय । ब्रह्मवादिनो वदन्ति ।
कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्रणीतेऽयमप्सु ह्ययञ्चीयते ।
असौ भुवनेप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति ।
अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु ॥ ८६ ॥
अथो आहुः । सर्वेषु यज्ञक्रतुष्विति ।
एतद्ध स्म वा आहुश्शण्डिलाः । कमग्निञ्चिनुते ।
सत्रियमग्निञ्चिन्वानः । संवत्सरं प्रत्यक्षेण ।
कमग्निञ्चिनुते । सावित्रमग्निञ्चिन्वानः ।
अमुमादित्यं प्रत्यक्षेण । कमग्निञ्चिनुते ॥ ८७ ॥
नाचिकेतमग्निञ्चिन्वानः ।
प्राणान्प्रत्यक्षेण । कमग्निञ्चिनुते । चातुहोत्रियमग्निञ्चिन्वानः ।
ब्रह्म प्रत्यक्षेण । कमग्निञ्चिनुते । वैश्वसृजमग्निञ्चिन्वानः ।
शरीरं प्रत्यक्षेण । कमग्निञ्चिनुते । उपानुवाक्यमाशुमग्निञ्चिन्वानः ॥ ८८ ॥
इमान् लोकान्प्रत्यक्षेण । कमग्निञ्चिनुते । इममारुणकेतुकमग्निञ्चिन्वानः ।
य एवासौ । इतश्चाऽमुतश्चाऽव्यतीपती । तमिति ।
योऽग्नेर्मिथूया वेद । मिथुनवान्भवति ।
आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ॥ ८९ ॥
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् ।
तस्यान्तर्मनसि कामस्समवर्तत । इदꣳसृजेयमिति ।
तस्माद्यत्पुरुषो मसभिगच्छति । तद्वाचा वदति ।
तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ॥ ९० ॥
सतो बन्धुमसति निरविन्दन्न् । हृदि प्रतीष्या कवयो मनीषेति ।
उपैनन्तदुपनमति । यत्कामो भवति । य एवं वेद ।
स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माꣳसमासीत् ।
ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्न् ॥ ९१ ॥
ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः ।
यो रसः । सोऽपाम् । अन्तरतः कूर्मं भूतꣳसर्पन्तम् ।
तमब्रवीत् । मम वैत्वङ्माꣳसा । समभूत् ॥ ९२ ॥
नेत्यब्रवीत्।पूर्वमेवाहमिहासनिति ।
तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः ।
सहस्स्राक्षस्सहस्रपात् । भूत्वोदतिष्ठत् ।
तमब्रवीत् । त्वं वै पूर्वꣳसमभूः ।
त्वमिदं पूर्वः कुरुष्वेति । स इत आदायापः । ॥ ९३ ॥
अञ्जलिना पुरस्तादुपादधात् । एवाह्येवेति ।
तत आदित्य उदतिष्ठत् । सा प्राची दिक् ।
अथाऽरुणः । केतुर्दक्षिणत उपादधात् ।
एवाह्यग्न इति । ततो वा अग्निरुदतिष्ठत् ।
सा दक्षिणा दिक् । अथारुणः केतुः पश्चादुपदधात् ।
एवाहि वायो इति ॥ ९४ ॥
ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् ।
अथारुणः केतुरुत्तरत उपादधात् । एवाहीन्द्रेति ।
ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् ।
अथारुणः केतुर्मध्य उपादधात् । एवाहि पूषन्निति ।
ततो वै पूषोदतिष्ठत् । सेयन्दिक् ॥ ९५ ॥
अथारुणः केतुरुपरिष्टादुपादधात् । एवाहि देवा हति ।
ततो देवमनुष्याः पितरः । गन्धर्वाप्सरसश्चोदतिष्ठन्न् ।
सोर्ध्वा दिक् । या विप्रुषो विपरापतन्न् ।
ताभ्योऽसुरा रक्षाꣳसि पिशाचाश्चोदतिष्ठन्न् । तस्मात्ते पराभवन्न् ।
विप्रुड्भ्यो हि ते समभवन्न् । तदेषाभ्यनूक्ता ॥ ९६ ॥
आपो ह यद्बृहतीर्गर्ममायन्न् । दक्षन्दधाना जनयन्तीस्स्वयंभुम् ।
तत इमेध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदꣳ समभूत् ।
तस्मादिदꣳसर्वं ब्रह्म स्वयंभ्विति ।
तस्मादिदꣳसर्वꣳ शिथिलमिवाऽध्रुवमिवाभवत् ।
प्रजापतिर्वाव तत् । आत्मनात्मानं विधाय ।
तदेवानुप्राविशत् । तदेषाभ्यनूक्ता ॥ ९७ ॥
विधाय लोकान् विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च ।
प्रजापतिः प्रथमजा ऋतस्य । आत्मनात्मानमभि संविवेशेति ।
सर्वमेवेदमाप्त्वा । सर्वमवरुद्ध्य ।
तदेवानुप्रविशति । य एवं वेद ॥ ९८ ॥
चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपाꣳरूपाणि ।
मेधो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे ।
आतपति वर्ष्या गृह्णाति । ताः पुरस्तादुपदधाति ।
एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे ।
तस्मान्मुखतो ब्रह्मवर्चसितरः ॥ ९९ ॥
कूप्या गृह्णाति । ता दक्षिणत उपदधाति ।
एता वै तेजस्विनीरापः । तेज एऽवास्य दक्षिणतो दधाति ।
तस्माद्दक्षिणोऽर्धस्तेजस्वितरः । स्थावरा गृह्णाति ।
ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः ।
पश्चादेव प्रतितिष्ठति । वहन्तीर्गृह्णाति ॥१०० ॥
ता उत्तरत उपदधाति ।
ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः ।
ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः ।
संभार्या गृह्णाति । ता मध्य उपदधाति ।
इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति ।
पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ॥ १०१ ॥
असौ वै पल्वयाः । अमुष्यामेव प्रतितिष्ठति ।
दिक्षूपदधाति । दिक्षु वा आपः ।
अन्नं वा आपः । अद्भ्यो चा अन्नञ्जायते ।
यदेवद्भ्योऽन्नञ्जायते । तदवरुन्धे ।
तं वा एतमरुणाः केतवो वातरशनाऋषयोऽचिन्वन्न् ।
तस्मादारुणकेतुकः ॥ १०२ ॥
तदेषाभ्यनूक्ता । केतवो अरुणासश्च ।
ऋषयो वातरशनाः । प्रतिष्ठाꣳ शतधाहि ।
समाहितासो सहस्रधायसमिति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति ।
य एतमग्निञ्चिनुते य उचैनमेवं वेद ॥ १०३ ॥
जानुदघ्नीमुत्तरवेदीङ्खात्वा । अपां पूरयति ।
आपꣳ सर्वत्वाय । पुष्करपर्णꣳरुक्मं पुरुषमित्युपदधाति ।
तपो वै पुष्करपर्णम् । सत्यꣳरुक्मः । अमृतं पुरुषः ।
एतावद्वा वास्ति । यावदेतत् । यावदेवास्ति ॥ १०४ ॥
तदवरुन्धे । कूर्ममुपदधाति ।
अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै ।
आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः ।
अग्निर्वायुश्च सूर्यश्च । सहसञ्चस्करर्द्धिया इति ।
वाय्वश्वा रश्मिपतयः । लोकं पृणच्छिद्रं पृण ॥ १०५ ॥
यास्तिस्रः परमजाः । इन्द्रघोषा वो वसुभिरेवाह्येवेति ।
पञ्चचितय उपदधाति । पाङ्क्तोऽग्निः ।
यावनेवाग्निः । तञ्चिनुते ।
लोकंपृणया द्वितीयामुपदधाति । पञ्च पदा वै विराट् ।
तस्या वा इयं पादः । अत्नरिक्षं पादः । द्यौः पादः ।
दिशः पादः । परोरजाः पादः । विराज्येव प्रतितिष्ठति ।
य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ १०६ ॥
अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति ।
अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु ।
अथो आहुः । सर्वेषु यज्ञक्रतुष्विति ।
अथ हस्माहारुणस्स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे ।
नाना वा एतेषां वीर्याणि । कमग्निञ्चिनुते ॥ १०७ ॥
सत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते ।
सावित्रमग्निञ्चिवानः । कमग्निञ्चिनुते ।
नाचिकेतमग्निञ्चिवानः । कमग्निञ्चिनुते ।
चातुर्होत्रियमग्निञ्चिवानः । कमग्निञ्चिनुते ।
वैश्वसृजमग्निञ्चिवानः । कमग्निञ्चिनुते ॥ १०८
उपानुवाक्यमाशुमग्निञ्चिवानः । कमग्निञ्चिनुते ।
इममारुणकेतुकमग्निञ्चिवान इति । वृषा वा अग्निः ।
वृषाणो सꣳस्फालयेत् । हन्येतास्य यज्ञः ।
तस्मान्नानुषज्यः । सोत्तरवेदिषु क्रतुषु चिन्वीत ।
उत्तरवेद्याꣳह्यग्निश्चीयते । प्रजाकामश्चिन्वीत ॥ १०९ ॥
प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः ।
प्रजावान् भवति । य एवं वेद ।
पशुकामश्चिन्वीत । संज्ञानं वा एतत् पशूनाम् ।
यदापः प्शूनामेव संज्ञानेऽग्निञ्चिनुते ।
प्शुमान् भवति । य एवं वेद ॥ ११० ॥
वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः ।
पर्जन्यो वर्षुको भवति । य एवं वेद ।
आमयावी चिन्वीत । आपो वै भेषजम् ।
भेषजमेवास्मै करोति । सर्वमायुरेति ।
अभिचरꣳश्चिन्वीत । वज्रो वै आपः ॥ १११ ॥
वज्रमेव भ्रातृव्येभ्यः प्रहरति।स्तृणुत एनम् ।
तेजस्कामो यशस्कामः । ब्रह्मवर्चसकामस्स्वर्गकामश्चिन्वीत ।
एतावद्वा वास्ति । यावदेतत् ।
यावदेवास्ति । तदवरुन्धे ।
तस्यैतद् व्रतम् । वर्षतिन धावेत् ॥ ११२ ॥
अमृतं वा आपः । अमृतस्यानन्तरित्यै ।
नाप्सु मूत्रपुरीषङ्कुर्यात् । न निष्ठीवेत् ।
न विवसनस्स्नायात् । गुह्यो वा एषोऽग्निः ।
एतस्याग्नेरनतिदाहाय । न पुष्करपर्णानि हिरण्यंवाऽधितिष्ठेत् ।
एतस्याग्नेरनभ्यारोहाय । न कूर्मस्याश्नीयात् ।
नोदकस्याघातुकान्येनमोदकानि भवन्ति । अघातुका आपः ।
य एतमग्निञ्चिनुते । य उचैनमेवं वेद ॥ ११३ ॥
इमानुकं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः ।
यज्ञश्च नस्तन्वञ्च प्रजाञ्च । आदित्यैरिन्द्रस्स्सह सीषधातु ।
आदित्यैरिन्द्रस्सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम् ।
आप्लवस्व प्रप्लवस्व । आण्डीभवज मा मुहुः ।
सुखादीन्दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ॥ ११४ ॥
मरीचयस्स्वायंभुवाः । ये शरीराण्यकल्पयन्न् ।
ते ते देहङ्कल्पयन्तु । मा च ते ख्यास्म तीरिषत् ।
उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः ।
राज्ञस्सोमस्य तृप्तासः । सूर्येण सयुजोषसः ।
युवा सुवासाः । अष्टाचक्रा नवद्वारा ॥ ११५ ॥
देवानां पूरयोध्या । तस्याꣳहिरण्मयः कोशः ।
स्वर्गो लोको ज्योतिषाऽऽचृतः । यो वै तां ब्रह्मणो वेद ।
अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च ।
आयुः कीर्तिं प्रजान्ददुः । विभ्राजमानाꣳहरिणीम् ।
यशसा सम्परीवृताम् । पुरꣳहिरण्मयीं ब्रह्मा ॥ ११६ ॥
विवेशाऽपराजिता । पराङ्गेत्यज्यामयी ।
पराङ्गेत्यनाशकी । इहचामुत्रचान्वेति ।
विद्वान्देवासुरानुभयान् । यत्कुमारी मन्द्रयते ।
यद्योषद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते ।
अग्निस्तदनुवेधति । अशृतासश्शृतासश्च ॥ ११७ ॥
यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते ।
इन्द्रमग्निश्च ये विदुः । सिकता इव संयन्ति ।
रश्मिभिस्समुदीरिताः । अस्माल्लोकादमुष्माच्च ।
ऋषिभिरदात्पृश्निभि ।
अपेत वीत वि च सर्पतातः येऽत्रस्थ पुराणा ये च नूतनाः ।
अहोभिरद्भिरक्तुभिव्यक्तम् ॥ ११८ ॥
यमो ददात्ववसानमस्मै । नृ मुणन्तु नृपात्वर्यः ।
अकृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु ।
जारिणीषु च ये हिताः । रेतःपीता आण्डपीताः ।
अङ्गारेषु च ये हुताः । उभयान् पुत्रपौत्रकान् ।
युवेऽहं यमराजगान् । शतमिन्नु शरदः ॥ ११९ ॥
अदो यद्ब्रह्म विलबम् । पितृणाञ्च यमस्य च ।
वरुणस्याश्विनोरग्नेः । मरुताञ्च विहायसाम् ।
कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः ।
इति नाको ब्रह्मिश्रवो रायो धनम् । पुत्रानापो देवीरिहाऽऽहित ॥ १२० ॥
विशीर्ष्णीङ्गृध्रशीर्ष्णीञ्च । अपेतोनिरृतिꣳहथः ।
परिबाधꣳश्वेतकुक्षम् । निजङ्घꣳशबलोदरम् ।
स तान् वाच्यायया सह । अग्ने नाशय सन्दृशः ।
ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे ।
रथेन किꣳशुकावता । अग्ने नाशय सन्दृशः ॥ १२१ ॥
पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे ।
स नो यवसमिच्छतु।इदं वचः पर्जन्याय स्वराजे ।
हृदो अस्त्वन्तरन्तद्युयोत । मयोभूर्वातो विश्वकृष्टयस्सन्त्वस्मे ।
सुपिप्पला ओषधीर्देवगोपाः । यो गर्भमोषधीनम् ।
गवाङ्कृणोत्यर्वताम् । पर्जन्यः पुरूषीणाम् ॥ १२२ ॥
पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः ।
पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा ।
यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः ।
इदन्तत्पुनराददे । दीर्घायुत्वाय वर्चसे ।
यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः ।
तेन माममृतं कुरु । तेन सुप्रजसङ्कुरु ॥ १२३ ॥
अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणस्सदा ।
तिरोधेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन ।
त्वाष्ट्रीं मायां वैश्रवणः । रथꣳसहस्रवन्धुरम् ।
पुरुश्चक्रꣳसहस्राश्वम् । आस्थायायाहि नो बलिम् ।
यस्मै भूतानि बलिमावहन्ति । धनङ्गावो हस्तिहिरण्यमश्वान् ॥ १२४ ॥
असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतिऽन्नमुखीं विराजम् ।
सुदर्शने च क्रोञ्चे च । मैनागे च महागिरौ ।
शतद्वाट्टारगमन्ता । सꣳहार्यन्नगरं तव ।
इति मन्त्राः । कल्पोऽत ऊर्ध्वम् । यदि बलिꣳ हरेत् ।
हिरण्यनाभये वितुदये कौबेरायायं बलिः ॥ १२५ ॥
सर्वभूतधिपतये नम इति । अथ बलिꣳहृत्वोपतिष्ठेत ।
क्षत्रं क्षत्रं वैश्रवणः । ब्राह्मणा वयꣳस्मः ।
नमस्ते अस्तु मा मा हिꣳसीः । अस्मात्प्रविश्यान्नमद्धीति ।
अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत ।
तिरोधा भूः । तिरोधा भुवः ॥ १२६ ॥
तिरोधास्स्वः । तिरोधा भूर्भुवस्स्वः ।
सर्वेषां लोकानामाधिपत्ये सीदेति । अथ तमग्निमिन्धीत ।
यस्मिन्नेतत्कर्म प्रयुञ्जीत । तिरोधा भूस्स्वाहा ।
तिरोधा भुवस्स्वाहा । तिरोधास्स्वस्स्वाहा ।
तिरोधा भूर्भुवस्स्वस्स्वाहा ।
यमिन्नस्य काले सर्वा आहुतीर् हुता भवेयुः ॥ १२७ ॥
अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुन्ञ्जीत ।
परस्सुप्तजनाद्वेपि । मास्म प्रमाद्यन्तमाध्यापयेत् ।
सर्वार्थास्सिद्ध्यन्ते । य एवं वेद ।
क्षुध्यन्निदमजानताम् । सर्वार्था न सिद्ध्यन्ते ।
यस्ते विघातुको भ्राता । ममान्तर्हृदये श्रितः ॥ १२८ ॥
तस्मा इममग्रपिण्डञ्जुहोमि । स मेऽर्थान्मा विवधीत् ।
मयि स्वाहा । राजाधिराजाय प्रसह्यसाहिने ।
नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् ।
कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय ।
महाराजाय नमः । केतवो अरुणासश्च ।
ऋषयो वातरशनाः । प्रतिष्ठाꣳशतधा हि ।
समाहितासो सहस्रधायसम् । शिवानश्शन्तमा भवन्तु ।
दिव्या आप ओषधयः । सुमृडीका सरस्वति ।
मा ते व्योम सन्दृशि ॥ १२९ ॥
संवत्सरमेतद् व्रतं चरेत् । द्वौ वा मासौ ।
नियमस्समासेन । तस्मिन्नियमविशेषाः ।
त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तस्स्यात् ।
अहरहर्वा भैक्षमश्नीयात् । औदुंबरीभिस्समिद्भिरग्निं परिचरेत् ।
पुनर्मामैत्त्विन्द्रियनित्येतेनाऽनुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ॥ १३० ॥
असञ्चयवान् । अग्नये वायवे सूर्याय ।
ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः ।
ऋतुभ्यस्संवत्सराय । वरुणायारुणायेति व्रतहोमाः ।
प्रवर्ग्यवदादेशः । अरुणाः काण्डऋषयः ।
अरण्येऽधीयीरन्न् । भद्रङ्कर्णेभिरिति द्वे जपित्वा ॥ १३१ ॥
महानाम्नीभिरुदकꣳ सꣳस्पर्श्य । तमाचार्यो दद्यात् ।
शिवानश्शन्तमेत्योषधीरालभते । सुमृडीकेति भूमिम् ।
एवमपवर्गे । धेनुर्दक्षिणा । कꣳसं वासश्च क्षौमम् ।
अन्यद्वा शुक्लम् । यथाशक्ति वा । एवꣳस्वाध्यायधर्मेण ।
अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ॥ १३२ ॥
ॐ भद्रङ्कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ १३३ ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥