खिलस् १

खिलस् १

Supplement to Rigveda Mandala 1 विषघ्नसूक्तम् । १००००१०११ मा बिभेर्न मरिष्यसि परित्वापामि सर्वतः । १००००१०१२ घनेन हन्मि वृश्चिकमहिदण्डेनागतं १००००१०२१ आदित्यरथवेगेन विष्णुबाहुबलेन च । १००००१०२२ गरुडपक्षनिपातेन भूमिं गच्छ महायशाः १००००१०३१ गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः । १००००१०३२ प्रकम्पिता मही सर्वा सशैलवनकानना १००००१०४१ गगनं नष्टचन्द्रार्कं ज्योतिषं न प्रकाशते । १००००१०४२ देवताभयभीताश्च मारुतो न प्लवायति मारुतो न प्लवायत्यों नमः १००००१०५१ भो सर्पभद्र भद्रं ते दूरं गच्छ महायशाः । १००००१०५२ जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर १००००१०६१ आस्तीकवचनं श्रुत्वा यः सर्पो न निवर्तते । १००००१०६२ शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा १००००१०७१ नर्मदायै नमः प्रातर्नर्मदायै नमो निशि । १००००१०७२ नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः १००००१०८१ यो जरत्कारुणा जातो जरत्कन्यां महायशाः । १००००१०८२ तस्य सर्पापभद्रं ते दूरं गच्छ महायशाः Supplement to Rigveda Mandala 2 ??सूक्तम् । २००००१०११ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । २००००१०१२ भद्रं पुरस्तान्नो वद भद्रं पश्चात् कपिंजल २००००१०२१ भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । २००००१०२२ भद्रमस्माकं नो वद भद्रं नोऽभयं कृधि २००००१०३१ भद्रमधस्तान्नो वद भद्रमुपरिष्टान्नो वद । २००००१०३२ भद्रं भद्रं न आवद भद्रं नः सर्वतो वद २००००१०४१ असपत्नः पुरस्तान्नः शिवं दक्षिणतस्कृधि । २००००१०४२ अभयं सततं पश्चाद्भद्रमुत्तरतो गृहे २००००१०५१ यौवनानि महयसि जिग्युषामिव दुंदुभिः । २००००१०५२ शकुन्तकप्रदक्षिणं शतपत्राभि नो वद २००००१०६१ आवदंस्त्वं शकुने ॥ Supplement to Rigveda Mandala 5 श्रीसूक्तम् । ५००००१०११ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । ५००००१०१२ चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ५००००१०२१ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । ५००००१०२२ यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ५००००१०३१ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । ५००००१०३२ श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ५००००१०४१ कांसोऽस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । ५००००१०४२ पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ५००००१०५१ चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् । ५००००१०५२ तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ १॥ ५००००१०६१ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । ५००००१०६२ तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ५००००१०७१ उपैतु मां देवसखः कीर्तिश्च मणिना सह । ५००००१०७२ प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ५००००१०८१ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । ५००००१०८२ अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ५००००१०९१ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ५००००१०९२ ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ५००००११०१ मनसः काममाकूतिं वाचः सत्यमशीमहि । ५००००११०२ पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ २ ५००००११११ कर्दमेन प्रजाभूतामयि सम्भवकर्दम । ५००००१११२ श्रियं वासय मे कुले मातरं पद्ममालिनीम् ५००००११२१ आपः स्रजन्तु स्निग्धानि चिक्लीतवसमे गृहे । ५००००११२२ निचदेवीं मातरं श्रियं वासय मे कुले ५००००११३१ आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् । ५००००११३२ सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ५००००११४१ आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् । ५००००११४२ चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ५००००११५१ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । ५००००११५२ यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् ॥ ३ ५००००११६१ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । ५००००११६२ सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ५००००११७१ पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे । ५००००११७२ तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् ५००००११८१ अश्वदायी गोदायी धनदायी महाधने । ५००००११८२ धनं मे जुषतां देवि सर्वकामांश्च देहि मे ५००००११९१ पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । ५००००११९२ विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ५००००१२०१ पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् । ५००००१२०२ प्रजानां भवसी माता आयुष्मन्तं करोतु मे ५००००१२११ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । ५००००१२२१ धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते ५००००१२३१ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । ५००००१२३२ सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ५००००१२४१ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । ५००००१२४२ भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ५००००१२५१ सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । ५००००१२५२ भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ५००००१२६१ विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् । ५००००१२६२ लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ५००००१२७१ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि । ५००००१२७२ तन्नो लक्ष्मीः प्रचोदयात् ५००००१२८१ श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । ५००००१२८२ धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ ४ Supplement to Rigveda Mandala 7-3 ??सूक्तम् । ७००००१०११ स्वप्नस्वप्नाधिकरणे सर्वं निष्वापयाजनम् । ७००००१०१२ आसूर्यमन्यान् त्स्वापयद् व्यूह्लं जाग्रियादहम् ७००००१०२१ अजगरो नाम सर्पः सर्पिरविषो महान् । ७००००१०२२ तस्मिन्हि सर्पः सुधितस्तेन त्वास्वाषयामसि ७००००१०३१ सर्पः सर्पोऽजगरः सर्पिरविषो महान् । ७००००१०३२ तस्य सर्पात् सिंधवस्तस्य गाधमशीमहि ७००००१०४१ काळिको नाम सर्पो नवनागसहस्रबळः । ७००००१०४२ यमुनह्रदेहसो जातो यो नारायणवाहनः ७००००१०५१ यदि काळिकदूतस्य यदिकाः काळिकाद्भयात् । ७००००१०५२ जन्मभूमिमतिक्रान्तो निर्विषो याति काळिकः ७००००१०६१ आयाहीन्द्रपथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । ७००००१०६२ तृप्तां जहुर्मातुळस्येव योषाभागस्ते पैतृष्वसेयीवपामिव ७००००१०७१ यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव । ७००००१०७२ संकीर्णनागाश्वपतिर्नराणां सुमंगल्यं सततं दीर्घमायुः ७००००१०८१ कर्कोटको नाम सर्पो यो दृष्टीविष उच्यते । ७००००१०८२ तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते Supplement to Rigveda Mandala 8-6 वालखिल्यानि सूक्तानि । ८००००१०११ अभिप्रवः सुरासधसमिन्द्रमर्चयथाविदे । ८००००१०१२ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेवशिक्षति ८००००१०२१ शतानीकेव प्रजिगाति धृष्णुया हंति वृत्राणि दाशुषे । ८००००१०२२ गिरेरिव प्ररसा अस्य पिन्विरेदत्राणि पुरुभोजसः ८००००१०३१ आत्वा सुतास इन्दवो मदाय इन्द्रगिर्वणः । ८००००१०३२ आपोनवज्रिन्नन्वोक्यं सरः पृणन्ति शूरराधसे ८००००१०४१ अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब । ८००००१०४२ आ यथा मन्दसानः किरासिनः प्रक्षुद्रेवत्मना धृषत् ८००००१०५१ आ नः स्तोममुपद्रवद्धियानो अश्वोनसोतृभिः । ८००००१०५२ यन्ते स्वधावन् त्स्वदयंति धेनव इन्द्रकण्वेषुरातयः ८००००१०६१ उग्रं न वीरं नमसोपसेदिमविभूतिमक्षिता वसुम् । ८००००१०६२ उद्रीववज्रिन्नवतोन सिंचते क्षरंतींद्रधीतयः ८००००१०७१ यद्धनूनं यद्वायज्ञे यद्वा पृथिव्यामधि । ८००००१०७२ अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरागहि ८००००१०८१ अजिरासो हरयो येत आशवो वाता इव प्रसक्षिणः । ८००००१०८२ येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ८००००१०९१ एतावतस्त ईमह इन्द्रसुम्नस्य गोमतः । ८००००१०९२ यथाप्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ८००००११०१ यथा कण्वे मघवन्त्रसदस्यवियथा पक्थे दशव्रजे । ८००००११०२ यथा गोशर्ये असनोऋ र्जिश्वनींद्रगोमद्धिरण्यवत् ८००००२०११ प्रसुश्रुतं सुराधसमर्चाशक्रमभिष्टये । ८००००२०१२ यः सुन्वते स्तुवते काम्यं वसुसहस्रेणेवमंहते ८००००२०२१ शतानीकाहेतयो अस्यदुष्टरा इन्द्रस्य समिषोमहीः । ८००००२०२२ गिरिर्न भुज्मा मघवत्सुपिन्वते यदीं सुता अमन्दिषुः ८००००२०३१ यदीं सुतास इन्दवोभिप्रियममन्दिषुः । ८००००२०३२ आपोनधायि सवनं म आवसो दुघा इवो पदाशुषे ८००००२०४१ अनेहसंवो हवमानमूतये मध्वःक्षरंति धीतयः । ८००००२०४२ आत्वा वसो हवमानास इन्दव उपस्तोत्रेषु दधिरे ८००००२०५१ आ नः सोमेस्वध्वर इयानो अत्योनतो शते । ८००००२०५२ यन्तेस्वदावन् त्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ८००००२०६१ प्रवीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । ८००००२०६२ उद्रीव वज्रिन्नवतोवसुत्वनासदापीपेथदाशुषे ८००००२०७१ यद्धनूनं परावति यद्वा पृथिव्यां दिवि । ८००००२०७२ युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरागहि ८००००२०८१ रथिरासो हरयो ये ते अस्रिध ओजोवातस्यपिप्रति । ८००००२०८२ येभिर्निदस्युं मनुषो निघोषयो येभिः स्वः परीयसे ८००००२०९१ एतावतस्तेवसो विद्यामशूरनव्यसः । ८००००२०९२ यथा प्राव एतशंकृत्व्येधने यथावशं दशव्रजे ८००००२१०१ यथा कण्वे मघवन्मेघे अध्वरेदीर्घनीथेदमूनसि । ८००००२१०२ यथा गोशर्ये असिषासो अद्रिवोमयि गोत्रं हरिश्रियम् ८००००३०११ यथा मनौसां वरणौ सोममिन्द्रापिबः सुतम् । ८००००३०१२ नीपाथितौ मघवन्मेध्यातिथौ पुष्टिगौश्रुष्टिगौसचा ८००००३०२१ पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् । ८००००३०२२ सहस्राण्यसिषासद्गवामृषिस्त्वोतोदस्यवेवृकः ८००००३०३१ य उक्थेभिर्नविन्धते चिकिद्य ऋषिचोदनः । ८००००३०३२ इन्द्रं तमच्छावदनव्यस्यामत्यरिष्यन्तं न भोजसे ८००००३०४१ यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे । ८००००३०४२ सत्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्टपौंस्यम् ८००००३०५१ यो नो दातावसूनामिंद्रंतं हूमहे वयम् । ८००००३०५२ विद्मास्य सुमतिं नवीयसीं गमेम गोमतिव्रजे ८००००३०६१ यस्मै त्वं वसोदानायशिक्षसि स रायस्पोषमश्नुते । ८००००३०६२ तं त्वा वयं मघवन्निन्द्रगिर्वणः सुतावन्तो हवामहे ८००००३०७१ कदाचनस्तरीरसि नेन्द्रसश्चसिदाशुषे । ८००००३०७२ उपोपेन्नु मघवन्भूय इन्नुते दानं देवस्य पृच्यते ८००००३०८१ प्रयोननक्षे अभ्योजसाक्रिविं वधैः शुष्णं निघोष्यन् । ८००००३०८२ यदेद्रस्तंभीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ८००००३०९१ यस्यायं विश्व आर्योदासः शेवधिपा अरिः । ८००००३०९२ तिरश्चिदर्येरुशमेपवीरवितुभ्येत्सो अज्यते रयिः ८००००३१०१ तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । ८००००३१०२ अस्मे रयिः पप्रथे वृष्ण्यंशवोस्मेस्सुवानास इन्दवः ८००००४०११ यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । ८००००४०१२ यथा त्रितेछन्द इन्द्रजुजोषस्यायौ मादसयसे सचा ८००००४०२१ पृषध्रे मेध्ये मातरिश्वनीन्द्रसुवाने अमन्दथाः । ८००००४०२२ यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ८००००४०३१ य उक्था केवलादधे यः सोमं धृषितापिबत् । ८००००४०३२ यस्मै विष्णुस्त्रीणिपदा विचक्रम उपमित्रस्य धर्मभिः ८००००४०४१ यस्य त्वमिन्द्रस्तोमेषु चाक नो वाजे वाजिञ्छतक्रतो । ८००००४०४२ तं त्वा वयं सुदुघामिव गोदुहो जुहूम सिश्रवस्यवः ८००००४०५१ यो नो दातासनः पितामहाँ उग्र ईशानकृत् । ८००००४०५२ अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्यप्रदातु नः ८००००४०६१ यस्मै त्वं वसो दानाय मंहसे सरायस्पोषमिन्वति । ८००००४०६२ वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ८००००४०७१ कदाचन प्रयुच्छस्युभेनिपासि जन्मनी । ८००००४०७२ तुरीयादित्यहवनं त इन्द्रियमातस्थावमृतं दिवि ८००००४०८१ यस्मै त्वं मघवन्निन्द्रगिर्वणः शिक्षोशिक्षसि दाशुषे । ८००००४०८२ अस्माकं गिर उत सुष्टुतिं वसोकण्ववच्छृणुधी हवम् ८००००४०९१ अस्ताविमन्मपूर्व्यं ब्रह्मेन्द्राय वोचत । ८००००४०९२ पूर्वीऋ र्तस्य बृहतीरनूषतस्तोतुर्मेधा असृक्षत ८००००४१०१ समिन्द्रोरायो बृहतीरधूनुत संक्षोणीसमुसूर्यम् । ८००००४१०२ संशुक्रासः शुचयः संगवाशिरः सोमा इन्द्रममंदिषुः ८००००५०११ उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् । ८००००५०१२ पूर्भित्तमंघवन्निन्द्रगोविदमीशानं राय ईमहे ८००००५०२१ य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे । ८००००५०२२ तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ८००००५०३१ आ नो विश्वेषां रसं मध्वः सिंचंत्वद्रयः । ८००००५०३२ ये परावति सुन्विरे जनेष्वाये अर्वावतीं दवः ८००००५०४१ विश्वाद्वेषां सिजहिचावचाकृधि विश्वेसन्वं त्वा वसु । ८००००५०४२ शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृंपसि ८००००५०५१ इन्द्रनेदीय एदिहि मितमेधाभिरूतिभिः । ८००००५०५२ आशंतमशंतमाभिरभिष्टिभिरास्वापेस्वापिभिः ८००००५०६१ आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् । ८००००५०६२ प्रसूतिराशचीभिर्येत उक्थिनः क्रतुं पुनत आनुषक् ८००००५०७१ यस्ते साधिष्ठो वसेते स्याम भरेषु ते । ८००००५०७२ वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ८००००५०८१ अहं हि ते हरिवो ब्रह्मवाजयुराजिं यामि सदोतिभिः । ८००००५०८२ त्वामिदेवतममेसमश्वयुर्गव्युरग्रेमथीनाम् ८००००६०११ एतत्त इन्द्रवीर्यं गीर्भिर्गृणंति कारवः । ८००००६०१२ ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ८००००६०२१ नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे । ८००००६०२२ यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्रमत्स्व ८००००६०३१ आ नो विश्वे सजोषसो देवासो गन्तनोपनः । ८००००६०३२ वसवो रुद्रा अवसेन आगमञ्छृण्वंतु मरुतो हवम् ८००००६०४१ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्तसिन्धवः । ८००००६०४२ आपो वातः पर्वतासो वनस्पतिः श‍ृणोतु पृथिवी हवम् ८००००६०५१ यदिन्द्रराधो अस्ति ते माघोनं मघवत्तमम् । ८००००६०५२ तेन नो बोधिसधमाद्यो वृधे भगो दानाय वृत्रहन् ८००००६०६१ आजिपते नृपते त्वमिद्धि नो वाज आवक्षि सुक्रतो । ८००००६०६२ वीतीहोत्राभिरुत देववीतिभिः ससवांसो विश‍ृण्विरे ८००००६०७१ संतिह्यर्य आशिष इन्द्र आयुर्जनानाम् । ८००००६०७२ अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ८००००६०८१ वयं त इन्द्रस्तोमेभिर्विधेम त्वमस्माकं शतक्रतो । ८००००६०८२ महिस्थूरं शशयंराधो अह्र्यं प्रस्कण्वायनितोशय ८००००७०११ भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति । ८००००७०१२ राधस्तेदस्य वेवृक ८००००७०२१ शतं श्वेतास उक्षणो दिवितारो न रोचते । ८००००७०२२ मह्नादिवं नतस्तभुः ८००००७०३१ शतं वेणून् शतं शुनः शतं चर्माणि म्लातानि । ८००००७०३२ शतं मे बल्बजस्तुका अरुषीणां चतुः शतम् ८००००७०४१ सुदेवाः स्थकाण्वायना वयो वयो विचरन्तः । ८००००७०४२ अश्वासो न चंक्रमत ८००००७०५१ आदित्साप्तस्यचर्किरन्नानूनस्य महिश्रवः । ८००००७०५२ श्यावीरतिध्वसन्पथश्चक्षुषा च न संनशे ८००००८०११ प्रतितेदस्यवेवृकराधो अदर्श्यह्रदम् । ८००००८०१२ द्यौर्न प्रथिनाशवः ८००००८०२१ दशमह्यं पौतक्रतः सहस्रादस्य वेवृकः । ८००००८०२२ नित्याद्रायो अमंहत ८००००८०३१ शतं मे गर्दभानां शतमूर्णावतीनाम् । ८००००८०३२ शतं दासाँ अतिस्रजः ८००००८०४१ तत्रो अपिप्राणीयत पूतक्रतायै व्यक्ता । ८००००८०४२ अश्वानामिन्नयूथ्याम् ८००००८०५१ अचेत्यग्निश्चिकितुर्हव्यवाट् ससुमद्रथः । ८००००८०५२ अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ८००००९०११ युवं देवा क्रतुना पूर्व्येण युक्ता रथेनतविषं यजत्रा । ८००००९०१२ आगच्छतं नासत्याशचीभिरिदं तृतीयं सवनं पिबाथः ८००००९०२१ युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् । ८००००९०२२ अस्माकं यज्ञसवनं जुषाणा पातं सोममश्विना दीद्यग्नी ८००००९०३१ पनाय्यन्तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः । ८००००९०३२ सहस्रं शंसा उत ये गविष्टौ सर्वाँ इत्ताँ उपयाता पिबध्यै ८००००९०४१ अयं वां भागो निहितो यजत्रेमा गिरो नासत्योपयातम् । ८००००९०४२ पिबतं सोमं मधुमन्तमस्मेप्रदाश्वां समवतं शचीभिः ८०००१००११ यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति । ८०००१००१२ यो अनूचानो ब्राह्मणो युक्त आसीत्कास्वित्तत्र यजमानस्य संवित् ८०००१००२१ एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनुप्रभूतः । ८०००१००२२ एकैवोषाः सर्वमिदं विभात्येकं वा इदं विबभूव सर्वम् ८०००१००३१ ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् । ८०००१००३२ चित्रामघा यस्य योगेधिजज्ञे तं वां हुवे अतिरिक्तं पिबध्यै ८०००११०११ इमानि वां भागधेयानि सिस्रत इन्द्रावरुणाप्रमहेसुतेषु वाम् । ८०००११०१२ यज्ञेयज्ञेहसवनाभुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ८०००११०२१ निःषिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत । ८०००११०२२ या सिस्रतूरजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ८०००११०३१ सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्तवाणीः । ८०००११०३२ ताभिर्दाश्वां समवतं शुभस्पतीयो वामदब्धो अभिपातिचित्तिभिः ८०००११०४१ घृतप्रुषः सौम्याजीरदानवः सप्तस्वासारः सदन ऋतस्य । ८०००११०४२ या हवामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ८०००११०५१ अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । ८०००११०५२ अस्मान्त्स्विंद्रावरुणाघृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ८०००११०६१ इन्द्रावरुणायदृषिभ्यो मनीषां वाचोमतिं श्रुतमदत्तमग्रे । ८०००११०६२ यानि स्थानान्यसृजन्त धिरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ८०००११०७१ इन्द्रावरुणासौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् । ८०००११०७२ प्रजापुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्रतिरतं न आयुः Supplement 1 to Rigveda Mandala 9-3 पावमानीः । ९००००१०११ पावमानीः स्वस्त्ययनीः सुदुघाहि घृतश्चुतः । ९००००१०१२ ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् ९००००१०२१ पावमानीर्दिशन्तु न इमं लोकमथो अमुम् । ९००००१०२२ कामान्त्समर्धयन्तु नो देवीर्देवैः समाहिता ९००००१०३१ येन देवाः पवित्रेणात्मानं पुनते सदा । ९००००१०३२ तेन सहस्रधारेण पावमान्यः पुनन्तु माम् ९००००१०४१ प्राजपत्यं पवित्रं शतोद्यामं हिरण्मयम् । ९००००१०४२ तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे ९००००१०५१ इन्द्रः पुनीती सहमापुनातु सोमः स्वस्त्यावरुणः समीच्या । ९००००१०५२ यमो राजा प्रमृणाभिः पुनातु माजातवेदामूर्जयंत्यापुनातु ९००००१०६१ ऋषयस्तु तपस्तेपुः सर्वे स्वर्गजिगीषवः । ९००००१०६२ तपसस्तपसोग्र्यं तु पावमानीऋ र्चोब्रवीत् ॥ ९००००२०११ यन्मेगर्भे वसतः पाषमुग्रं यज्जायमानस्य च किंचिदन्यत् । ९००००२०१२ जातस्य च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पुनामि ९००००२०२१ मातापित्रोर्यन्न कृतं वचो मे यत्स्थावरं जङ्गममाबभूव । ९००००२०२२ विश्वस्य तत्प्रहृषितं वचो मे तत्पावमानीभिरहं पुनामि ९००००२०३१ गोघ्नात्तस्करत्वात् स्त्रीवधाद्यच्च किल्बिषम् । ९००००२०३२ पापकं च चरणेभ्यस्तत्पावमानीभिरहं पुनामि ९००००२०४१ ब्रह्मवधात्सुरापानात्स्वर्णस्तेयात्वृषलिगमनमैथुनसङ्गमात् । ९००००२०४२ गुरोर्दाराधिगमनाच्च तत्पावमानीभिरहं पुनामि ९००००२०५१ बालघ्नान्मातृपितृवधाद्भूमितस्करात्सर्ववर्णगमनमैथुनसङ्गमात् । ९००००२०५२ पापेभ्यश्च प्रतिग्रहात्सद्यः प्रहरति सर्वदुष्कृतं तत्पावमानीभिरहं पुनामि ९००००२०६१ क्रयविक्रयाद्योनिदोषाद्भक्षाद्भोज्यात्प्रतिग्राहात् । ९००००२०६२ असम्भोजनाच्चापि नृशंसं तत्पावमानीभिरहं पुनामि ९००००३०११ दुर्यष्टं दुरधीतं पापं यच्चाज्ञानतो कृतम् । ९००००३०१२ अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहं पुनामि ९००००३०२१ अमन्त्रमन्नं यत्किंचिद्धुयते च हुताशने । ९००००३०२२ संवत्सरकृतं पापं तत्पावमानीभिरहं पुनामि ९००००३०३१ ऋतस्ययोनयोमृतस्यधाम विश्वादेवेभ्यः पुण्यगन्धाः । ९००००३०३२ ता न आपः प्रवहन्तु पापं शुद्धागच्छामि सुकृतामुलोकं तत्पावमानीभिरहं पुनामि ९००००३०४१ पावमानीः स्वस्त्यनीर्याभिर्गच्छति नान्दनम् । ९००००३०४२ पुण्यांश्च भक्ष्यान्भक्षयत्यमृतत्वं च गच्छति ९००००३०५१ पावमानीः पितॄन्देवान्ध्यायेद्यश्च सरस्वतीम् । ९००००३०५२ पितॄंस्तस्योपवर्तेतत्क्षीरं सर्पिर्मधूदकम् ९००००३०६१ पावमानं परं ब्रह्म शुक्रं ज्योतिः सनातनम् । ९००००३०६२ ऋषींस्तस्योपतिष्ठेतत्क्षीरं सर्पिर्मधूदकम् ९००००३०७१ पावमानं परं ब्रह्म ये पठन्ति मनीषिणः । ९००००३०७२ सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगाः ९००००३०८१ दशोत्तराण्यृचांश्चैव पावमानीः शतानि षट् ९००००३०८२ एतज्जुह्वन्जपेन्मन्त्रं घोरमृत्युभयं हरेत् Supplement 2 to Rigveda Mandala 9 ???सूक्तम् । ९००००४०११ यत्र तत्परमं पदं विष्णोर्लोके महीयते । ९००००४०१२ देवैः सुकृतकर्मभिस्तत्र माममृतं कृधींद्रायेन्दोपरिस्रव ९००००४०२१ यत्र तत्परमाय्यं भूतानामधिपतिम् । ९००००४०२२ भावभावी च योगीश्च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव ९००००४०३१ यत्र लोकास्तनूत्यजः श्रद्ध्या तपसाजिताः । ९००००४०३२ तेजश्च यत्र ब्रह्म च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव ९००००४०४१ यत्र देवा महात्मानः सेन्द्राश्च मरुद्गणाः । ९००००४०४२ ब्रह्मा च यत्र विष्णुश्च तत्र माममृतं कृधींद्रायेन्दोपरिस्रव ९००००४०५१ यत्र गङ्गा च यमुना यत्र प्राची सरस्वती । ९००००४०५२ यत्र सोमेश्वरो देवस्तत्र माममृतं कृधींद्रायेन्दोपरिस्रव Supplement to Rigveda Mandala 10 ???सूक्तम् । ०००००१०११ संज्ञानमुशनावदत्संज्ञानं वरुणोवदत् । ०००००१०१२ संज्ञानमिन्द्रश्चाग्निश्च संज्ञानं सवितावदत् ०००००१०२१ संज्ञानंनश्वेभ्यः संज्ञानमरणेभ्यः । ०००००१०२२ संज्ञानमश्विनायुवमिहास्मासु नियच्छताम् । ०००००१०३१ यत्कक्षीवां संवननं पुत्रो । अङ्गिरसा भवेत् । ०००००१०३२ तेन नोद्य विश्वेदेवाः संप्रियांसमजीजनन् । ०००००१०४१ संवो मनांसि जानतां समाकूतिर्मनामसि । ०००००१०४२ असौ यो विमनामनः संसमावर्तयामसि ०००००२०११ नैर्हस्त्यंसेनादरणं परिवर्त्मे तु यद्धविः । ०००००२०१२ तेनामित्राणां बाहून्हविषा शोषयामसि ०००००२०२१ परिवर्त्मान्येषामिन्द्रः पूषा च सस्रतुः ०००००२०२२ तेषां वो अग्निदग्धानामग्निमूह्ळानामिन्द्रो हन्तु वरं वरम् । ०००००२०३१ ऐषुनह्यवृषाजिनं हरिणस्य धियं यथा । ०००००२०३२ पराँ अमित्राँ ऐषत्वर्वाची गौरुपाजतु ०००००२०४१ प्राध्वराणां पतेवसो होतर्वरेण्यक्रतो । ०००००२०४२ तुभ्यं गायत्रमृच्यते ०००००२०५१ गोकामो अन्नकामः प्रजाकाम उत कश्यपः । ०००००२०५२ भूतं भविष्यत्प्रस्तौति सहब्रह्मैकमक्षरं बहुब्रह्मैकमक्षरम् ०००००३०११ यदुक्षरम् भूतकृतं विश्वेदेवा उपासते । ०००००३०१२ मह ऋषिमस्य गोप्तारं जमदग्निरकुर्वतम् ०००००३०२१ जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः । ०००००३०२२ राजा सोमस्य भक्षेण ब्रह्मणा वीर्यावताम् ०००००३०३१ शिवा नः प्रदिशो दिशः सत्या नः प्रदिशो दिशः । ०००००३०३२ अजोयत्तेजो ददृश्रे शुक्रं ज्योतिः परोगुहा ०००००३०४१ यदृषिः कश्यपः स्तौति सत्यं ब्रह्म चराचरं ध्रुवं ब्रह्म चराचरम् ०००००३०४२ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् ०००००३०५१ यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषं सर्वमस्तु शतायुषं बलायुषम् । ०००००३०५२ तच्छ्ंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये ९००००३०६१ दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ९००००३०६२ ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे
% Text title            : khilas 1
% File name             : khilas1.itx
% itxtitle              : khilas 1
% engtitle              : khilas 1
% Category              : veda, rigveda
% Location              : doc_veda
% Sublocation           : veda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan 1, 2)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org