मन्त्रपुष्पांजलि
ॐ योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चंद्र मा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ १॥
अग्निर्वा अपामायतनम् । आयतनवान् भवति ।
योऽग्नेरायतनं वेद । आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ २॥
वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद । आयतनवान् भवति ।
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ३॥
असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वाऽमुष्य तपत आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ४॥
चंद्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चंद्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चंद्रमस आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ५॥
नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद । आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ६॥
पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ७॥
संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽप्सुनावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८॥