पवमानसूक्तम् अथवा पुण्याहवाचनम्

पवमानसूक्तम् अथवा पुण्याहवाचनम्

तैत्तिरीय संहिता । काण्डम् - ५, प्रपाठकः - ६, अनुवाकः - १ तैत्तिरीय ब्राह्मणम् । अष्टकम् - १, प्रश्नः - ४, अनुवाकः - ८ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं य॒ज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ । ॐ ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽऽपश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः पवित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒ रनु॑। यत्ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒माद्ये॑षु । व॒यꣳ स्या॑म॒ पत॑यो रयी॒णाम् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यंकशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒ध्येति॑। ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚। सर्व॒ꣳ॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मानीर्यो अ॒ध्येति॑। ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚। तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम् ॥ पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैः स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚। तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रम्᳚। श॒तोध्या॑मꣳ हिर॒ण्मयम्᳚। तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या व॑रुणस्स॒मीच्या᳚। यमो॒ राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । भूर्भुव॒स्सुवः॑ । ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑। गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ ।

पवमानसूक्तम् अथवा पुण्याहवाचनम् स्वररहितम्

तैत्तिरीय संहिता । काण्डम् ५ प्रपाठकः ६ अनुवाकः १ तैत्तिरीय ब्राह्मणम् । अष्टकम् १ प्रश्नः ४ अनुवाकः ८ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः । ॐ ॥ हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निं या गर्भं दधिरे विरूपास्ता न आपश्शm+ स्योना भवन्तु ॥ यासाm+ राजा वरुणो याति मध्ये सत्यानृते अवपश्यं जनानाम् । मधुश्चुतश्शुचयो याः पावकास्ता न आपश्शm+ स्योना भवन्तु ॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीं पयसोन्दन्ति शुक्रास्ता न आपश्शm+ स्योना भवन्तु ॥ शिवेन मा चक्षुषा पश्यताऽऽपश्शिवया तनुवोप स्पृशत त्वचं मे । सर्वाm+ अग्नीm+ रप्सुषदो हुवे वो मयि वर्चो बलमोजो नि धत्त ॥ पवमानस्सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देवदीद्यत् । अग्ने क्रत्वा क्रतूm+ रनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तः सधमाद्येषु । वयm+ स्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयो भूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर्देवमन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यंकशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति। ऋषिभिस्सम्भृतm+ रसम् । सर्वm+ स पूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति। ऋषिभिस्सम्भृतm+ रसम् । तस्मै सरस्वती दुहे । क्षीरm+ सर्पिर्मधूदकम् ॥ पावमानीस्स्वस्त्ययनीः । सुदुघाहि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतm+ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैः समाभृताः । पावमानीस्स्वस्त्ययनीः । सुदुघाहि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतm+ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा। तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोध्यामm+ हिरण्मयम्। तेन ब्रह्म विदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रस्सुनीती सहमा पुनातु । सोमस्स्वस्त्या वरुणस्समीच्या। यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु । भूर्भुवस्सुवः । ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः । taittirIya saMhitA 5.6.1, taittirIya brAhmaNam 1.4.8 Encoded with Accents by Rajagopal Iyer
% Text title            : Pavamanasuktam 1 or Punyahavachanam from taittirIya saMhitA brAhmaNam
% File name             : pavamana.itx
% itxtitle              : pavamAnasUktam 1 athavA puNyAhavAchanam (taittirIya saMhitA evaM brAhmaNam)
% engtitle              : PavamAnasuktam 1 from Taittiriya Samhita and Brahmana
% Category              : sUkta, veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Rajagopal Iyer
% Proofread by          : Rajagopal Iyer
% Description-comments  : mantrapuShpam. taittirIya saMhitA 5.6.1, taittirIya brAhmaNam 1.4.8
% Indexextra            : (Videos 1, 2, 3, 4 Rigveda)
% Latest update         : February 27, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org