श्रीसूक्त (ऋग्वेद)
ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीर्जु॑षताम् ॥ ३॥
कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ४॥
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ ५॥
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६॥
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ ७॥
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त् ॥ ८॥
गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ ९॥
मन॑सः॒ काम॒माकू᳚तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १०॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११॥
आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२॥
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३॥
आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥ १४॥
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५॥
यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् ।
श्रियः॑ प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥ १६॥
फलश्रुति
प॒द्मा॒न॒ने प॑द्म ऊ॒रू॒ प॒द्माक्षी॑ पद्म॒सम्भ॑वे ।
त्वं मां᳚ भ॒जस्व॑ प॒द्मा॒क्षी॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हम् ॥
अश्व॑दा॒यी गो॑दा॒यी॒ ध॒नदा॑यी म॒हाध॑ने ।
धनं मे॒ जुष॑तां दे॒वि॒ स॒र्वका॑मांश्च॒ देहि॑ मे ॥
पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् ।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ माम् ॥
धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसुः॑ ।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णं॒ धन॒मश्नु॑ ते ॥
वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑ ॥
न क्रोधो न च॑ मात्स॒र्यं न॒ लोभो॑ नाशु॒भा म॑तिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्तानां श्रीसू᳚क्तं ज॒पेत्स॑दा ॥
वर्ष॑न्तु॒ ते वि॑भाव॒रि॒ दि॒वो अ॑भ्रस्य॒ विद्यु॑तः ।
रोह॑न्तु॒ सर्व॑बी॒जा॒न्य॒व ब्र॑ह्म द्वि॒षो ज॑हि ॥
पद्म॑प्रिये पद्मिनि पद्म॒हस्ते पद्मा॑लये पद्मदलाय॑ताक्षि ।
विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑धत्स्व ॥
या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी ।
गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र वस्त्रो॑त्तरी॒या ।
लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः ।
नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे सर्व॒माङ्गल्य॑युक्ता ॥
ल॒क्ष्मीं क्षीरसमुद्र राजतनयां श्री॒रंगधामे॑श्वरीम् ।
दा॒सीभूतसमस्त देव व॒नितां लो॒कैक॒ दीपां॑कुराम् ।
श्रीमन्मन्दकटाक्षलब्ध विभव ब्र॒ह्मेन्द्रगङ्गा॑धराम् ।
त्वां त्रै॒लोक्य॒ कुटु॑म्बिनीं स॒रसिजां वन्दे॒ मुकु॑न्दप्रियाम् ॥
सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती ।
श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना म॑म स॒र्वदा ॥
वरांकुशौ पाशमभी॑तिमु॒द्रां॒ क॒रैर्वहन्तीं क॑मला॒सनस्थाम् ।
बालार्क कोटि प्रति॑भां त्रि॒णे॒त्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम् ॥
स॒र्व॒म॒ङ्ग॒लमा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके ।
शर॑ण्ये त्र्यम्ब॑के दे॒वि॒ ना॒राय॑णि न॒मोऽस्तु॑ ते ॥
सरसिजनिलये सरो॑जह॒स्ते धवलतरांशुक गन्धमा᳚ल्यशो॒भे ।
भगवति हरिवल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरिप्र॑सीद म॒ह्यम् ॥
विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं᳚ माध॒वप्रि॑याम् ।
विष्णोः᳚ प्रि॒यस॑खींम् दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥
म॒हा॒ल॒क्ष्मी च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमही ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
(आन॑न्दः॒ कर्द॑मः श्रीदश्चि॒क्लीत॑ इति॒ विश्रु॑ताः ।
ऋष॑यः॒ श्रियः॑ पुत्रा॒श्च श्री॒र्दे॑वीर्देवता॒ म॑ताः
(स्वयम् श्रीरेव देवता ॥ ) variation)
(चन्द्रभां लक्ष्मीमीशानाम् सूर्यभां श्रियमीश्वरीम् ।
चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे ॥ variation)
श्री॒वर्च॑स्य॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒त् पव॑मानं मही॒यते᳚ ।
ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायुः॑ ॥
ऋणरोगादिदारिद्र्यपा॒पक्षु॑द॒पमृत्य॑वः ।
भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा ॥
श्रिये॑ जा॒त श्रिय॒ आनि॑र्याय॒ श्रियं॒ वयो᳚ जनि॒तृभ्यो᳚ दधातु ।
श्रियं॒ वसा᳚ना अमृत॒त्वमा᳚य॒न् भजं᳚ति स॒द्यः स॑वि॒ता वि॒दध्यून्॑ ॥
श्रिय॑ एवैनं तच्छ्रि॒यामा॑दधा॒ति । स॒न्त॒त॒मृ॒चा व॑षट्कृ॒त्यं
सन्ध॑त्तं॒ सन्धी॑यते प्रज॒या प॒शुभिः । य ए॑वं वे॒द ।
ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
श्रीसूक्तोपनिषद्
Encoded and proofread by Avinash Sathaye, Shree,
Anant Upadhyayula, Sunder Hattangadi