॥ वेदस्तुती श्रीमद् भागवत पुराणान्तर्गतम् १०.८७ ॥

श्रीपरीक्षिदुवाच ब्रह्मन्ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ १०.८७.१॥ श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ १०.८७.२॥ सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता । श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ १०.८७.३॥ अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादमृषेर्नारायणस्य च ॥ १०.८७.४॥ एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ १०.८७.५॥ यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥ १०.८७.६॥ तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ १०.८७.७॥ तस्मै ह्यवोचद्भगवानृषीणां शृण्वतामिदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ १०.८७.८॥ श्रीभगवानुवाच स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा । तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ १०.८७.९॥ श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १०.८७.१०॥ तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १०.८७.११॥ श्रीसनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयांचक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १०.८७.१२॥ यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १०.८७.१३॥ श्रुतय ऊचुः जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयात्मना च चरतोऽनुचरेन्निगमः ॥ १०.८७.१४॥ बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १०.८७.१५॥ इति तव सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १०.८७.१६॥ दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन्यदनुग्रहतः । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १०.८७.१७॥ उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १०.८७.१८॥ स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः । अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ १०.८७.१९॥ स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोऽंशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः ॥ १०.८७.२०॥ दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्- चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ १०.८७.२१॥ त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवच् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ १०.८७.२२॥ निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन् मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ १०.८७.२३॥ क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ १०.८७.२४॥ जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥ १०.८७.२५॥ सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयात्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ १०.८७.२६॥ तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निरृतेः । परिवयसे पशूनिव गिरा विबुधानपि तांस्- त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ १०.८७.२७॥ त्वमकरणः स्वराडखिलकारकशक्तिधरस्- तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ १०.८७.२८॥ स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः । न हि परमस्य कश्चिदपरो न परश्च भवेद् वियत इवापदस्य तव शून्यतुलां दधतः ॥ १०.८७.२९॥ अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्- तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ १०.८७.३०॥ न घटत उद्भवः प्रकृतिपूरुषयोरजयोर् उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ १०.८७.३१॥ नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ॥ १०.८७.३२॥ विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ १०.८७.३३॥ स्वजनसुतात्मदारधनधामधरासुरथैस्- त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ १०.८७.३४॥ भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदास्- त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ १०.८७.३५॥ सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ १०.८७.३६॥ न यदिदमग्र आस न भविष्यदतो निधनाद्- अनु मितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथैर् वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ १०.८७.३७॥ स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ १०.८७.३८॥ यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । असुतृपयोगिनामुभयतोऽप्यसुखं भगवन् अनपगतान्तकादनधिरूढपदाद्भवतः ॥ १०.८७.३९॥ त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोर् गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः । अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ १०.८७.४०॥ द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयस्- त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ १०.८७.४१॥ श्रीभगवानुवाच इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनमथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ १०.८७.४२॥ इत्यशेषसमाम्नाय पुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥ १०.८७.४३॥ त्वं चैतद्ब्रह्मदायाद श्रद्धयात्मानुशासनम् । धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ १०.८७.४४॥ श्रीशुक उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥ १०.८७.४५॥ श्रीनारद उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ १०.८७.४६॥ इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः । ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ १०.८७.४७॥ सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥ १०.८७.४८॥ इत्येतद्वर्णितं राजन्यन्नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ १०.८७.४९॥ योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ १०.८७.५०॥ ॥ इति ॥ ॥ ॐ तत्सत् ॥
Proofread by Shankara shankara_2000 at yahoo.com PSA Easwaran, Sunder Hattangadi

% Text title            : vedastuti shrImad bhAgavata purANAntargatam
% File name             : vedastutibhAgavatam.itx
% itxtitle              : vedastutiH (bhAgavatapurANAntargatam)
% engtitle              : Praise of Vedas from Shrimad Bhagavata Purana Skandha 10 Adhyaya 87
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Shankara shankara_2000 at yahoo.com, PSA Easwaran Sunder Hattangadi
% Description-comments  : Bhagavatam dashama skandha adhyAya 87
% Latest update         : September 12, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP