ऋद्धिस्तवः

ऋद्धिस्तवः

श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २॥ प्राकारगोपुरवरप्रासादमणिमण्टपाः । शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः ॥ ३॥ रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४॥ कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः । छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६॥ मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च । काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७॥ कोमलानि च दामानि कुसुमैस्सौरभोत्करैः । धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु[च] सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९॥ कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् । सूपापूपघृतक्षीरशर्करासहितं हविः ॥ १०॥ घनसारशिलोदग्रैः क्रमुकाष्टदलैस्सह । विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो ॥ ११॥ प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव । भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा ॥ १२॥ वरणीधनरत्नानि वितरन्तु चिरं तव । कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १३॥ प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम् । महान्तस्सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ॥ १४॥ एवमेव भवेन्नित्यं पालयन् कुशली भवान् । मामहीरमण श्रीमान् वर्धतामभिवर्धताम् ॥ १५॥ पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्छ्यम् । प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान् ॥ १६॥ ॥ इति ऋद्धिस्तवः सम्पूर्णः ॥ From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIRiddhistava
% File name             : Riddhistava.itx
% itxtitle              : Riddhistava
% engtitle              : shrIRiddhistava
% Category              : vishhnu, venkateshwara, stotra, vishnu, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : December 19, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org