अनन्तस्तवः
येनेदं जगदखिलं धृतं विधात्रा
विश्वं यज्जठरगतं युगान्तकाले ।
यो वेदानवति तमेत्य मत्स्यरूपं
तं देवं शरणमहं गतोऽस्म्थनन्तम् ॥ १॥
यो लोकानसृजदनाद्यनन्तरूपो
विश्वात्मा विगततमोरजोभिरीड्यः ।
घृत्वेमां कमठवपुमेहीं सृजन्तं
तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ २॥
यः पृथ्वीमसुरभयाद्रसातलस्था-
मुद्धर्तुं खुरनिकरक्षतासुरौघः ।
वाराहीं तनुमभजत् त्रयीनिवास-
स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ३॥
हैरण्यं कुलिशदृढं पुरा नखाग्रै-
र्वक्षो यः सपदि विदारयाश्चकार ।
रह्लादप्रियहितकृन्नृसिंहरूप-
स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ४॥
स्वर्लोकस्थितिकरणाय यो धरित्री
त्रेधा विक्रमितुमयाचतासुरेशम् ।
भूत्वा वामनतनुरीश्वरं सुराणां
तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ५॥
यः क्षत्रं निहितपरश्वधेन सर्वं
छित्वा तत्क्षतजजलेन कर्म पित्र्यम् ।
चक्रे विक्रमविभवैकसम्पदीड्य-
स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ६॥
यो लोकत्रयवनवह्निमीश्वराणा-
मीशानो दशवदनं रणे निहन्तुम् ।
रामो दाशरथिरभूदुदारवीर्य-
स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ७॥
यः पृथ्वीमसुरभरातिभङ्गुरार्ता-
मुद्धर्तुं मुसलहलायुधो बभूव ।
कालिन्दीकर्षणदर्शितातिवीर्य-
स्तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ८॥
कंसादींस्त्रिदशरिपूनपाचिकीर्षु-
र्यः पृथ्व्यामिह यदुनन्दनो वभूव ।
बालार्कयुतिविकसत्सरोजवक्त्रं
तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ ९॥
पाषण्डान् कलिकलुषीकृत स्वधर्मा-
निश्शेषं सपदि निराकरिष्णुरीशः ।
यः कल्की भवति नितान्तघोररूपं
तं देवं शरणमहं गतोऽस्म्यनन्तम् ॥ १०॥
(This stotra contains ten shlokas and describes
the ten inscarnations of Vishnu.)
इति सुभद्राकृतः अनन्तस्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor