श्रीकृष्णस्तोत्रं बालकृतम् अथवा दावानल संहरण स्तोत्रम्
बाला ऊचुः -
यथा सुरक्षित ब्रह्मन् सर्वापत्स्वेव नः कुलम् ।
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ १॥
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता ।
स्रष्टा पाता च संहर्ता जगतां च जगत्पते ॥ २॥
वह्निर्वा वरूणो वाऽपि चन्द्रो वा सूर्य एव च ।
नमः कुबेरः पवन ईशानाद्याश्च देवता ॥ ३॥
ब्रह्मेश-शेष-धर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः ।
मानवाश्च तथा दैत्या यक्ष-राक्षस-किन्नराः ॥ ४॥
ये ये चराऽचराश्चैव सर्वे तव विभूतयः ।
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया ॥ ५॥
अभयं देहि गोविंद वह्निसंहरणं कुरु ।
वयं त्वां शरणं यामो रक्ष नः शरणागतान् ॥ ६॥
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ।
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ॥ ७॥
दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः ।
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ॥ ८॥
इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् ।
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ ९॥
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे ।
स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः ॥ १०॥
शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ।
इह लोके हरेर्भक्तिमन्ते दास्यं लभेध्रुवम् ॥ ११॥
॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे बालकृतं
कृष्णस्तोत्रं अथवा दावानल संहरण स्तोत्रं सम्पूर्णम् ॥
Proofread by Subrahmanyam Gorty subrahmanyam\_gorty at yahoo.com