श्रीभार्गवकवचम्
गम्भीरो माहात्म्यात्प्रशमशुचिरत्यन्तसुजनः
प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः ।
प्रभुत्वस्योत्कर्षात्परिणति विशुद्धेश्च तपसा -
मसौ दृष्टः सत्त्वं प्रबलयति पापं च नुदति ॥
॥ श्री गणेशाय नमः ॥
श्री नारायण उवाच ।
कैलासशिखरे रम्ये शङ्करं लोकशङ्करम् ।
कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥ १॥
पार्वत्युवाच ।
देवदेव महादेव देवेश वृषभध्वज ।
त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम् ॥ २॥
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् ।
न श्रुतं कवचं देव न चोक्तं भवता मम ॥ ३॥
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ।
इति पृष्टः स गिरिशो मन्त्रयन्त्राङ्गतत्त्ववित् ॥ ४॥
उवाच प्रहसन्देवीं हिताय जगतामिदम् ।
रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥ ५॥
शिव उवाच ।
शृणु प्रिये प्रियमिदं मम गुह्यतरं परम् ।
धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥ ६॥
एकमौपयिङ्क मन्ये विष्णुवक्षःस्थलालयाम् ।
श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥ ७॥
एकातपत्रसहितां य इच्छेत्सागराम्बराम् ।
स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥ ८॥
उद्दण्डशस्त्रदोर्दण्ड प्रचण्डरिपुमण्डलम् ।
कथञ्जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥ ९॥
परप्रयुक्त कृत्यादिदोषो भूतादयोऽपि वा ।
प्रयान्ति भीता रामस्य वर्मणा विक्ष्य रक्षितम् ॥ १०॥
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा ।
जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥ ११॥
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् ।
मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥ १२॥
अस्य श्रीभार्गवकवास्तोत्रमन्त्रस्य
अङ्गिरा ऋषिः, बृहतीछन्दः, श्रीमान्जामदग्न्यो देवता,
श्रीभार्गवरामप्रीत्यर्थे भार्गवकवचस्तोत्रजपेविनियोगः ।
अथ करन्यासः ।
ॐ रां रामाय नमः अङ्गुष्ठाभ्यां नमः ।
ॐ रां रामाय नमः तर्जनीभ्यां नमः ।
ॐ रां रामाय नमः मध्यमाभ्यां नमः ।
ॐ रां रामाय नमः अनामिकाभ्यां नमः ।
ॐ रां रामाय नमः कनिष्ठिकाभ्यां नमः ।
ॐ रां रामाय नमः करतलकरपृष्ठाभ्यां नमः ।
अथ षडङ्गन्यासः ।
ॐ ऱां रामाय नमः हृदयाय नमः ।
ॐ ऱां रामाय नमः शिरसे स्वाहा ।
ॐ ऱां रामाय नमः शिखायै वषट् ।
ॐ ऱां रामाय नमः कवचाय हुम् ।
ॐ ऱां रामाय नमः नेत्रत्रयाय वौषट् ।
ॐ ऱां रामाय नमः अस्त्राय फट् ।
अथ ध्यानम् ।
उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फु लिङ्गङ्कुर
व्रातामोघमहास्त्रनाशितजगद्धिद्धेषिवंशाटवीम् ।
वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननम्,
वीर श्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥ १३॥
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् ।
ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥ १४॥
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ।
नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥ १५॥
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् ।
नासे सुनासः पायान्मे नासिके दासवत्सलः ॥ १६॥
रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः ।
अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥ १७॥
वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तिन्द्रविक्रमः ।
चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥ १८॥
स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः ।
भुजौ मे सततं पातु सहस्रभुजशासनः ॥ १९॥
करौ हितकरः पातु पाणी क्षोणी भरापहः ।
अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥ २०॥
वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः ।
उरः पुरुषवीरो मे पार्श्वौ पातु परश्वधी ॥ २१॥
उदरस्थजगत्पायादुदरं मम सर्वदा ।
भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥ २२॥
लिङ्गं शङ्करशिष्योऽव्यादुपस्थं निस्तुलप्रभः ।
पाय्वपानं च मे पायात्सायकासनवान्सदा ॥ २३॥
त्रिः सप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा ।
परमेष्ठ्यवतात्पृष्ठं पिठरं दृढ विक्रमः ॥ २४॥
ऊरु मेरुसमः पातु जानू मे जगतां पतिः ।
जङ्घे सङ्घातहन्ताव्यात्प्रपदे विपदान्तकः ॥ २५॥
पादौ मे पादचार्यव्याच्चरणौ करणानिधिः ।
पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥ २६॥
परश्वधधरः पायद्रामः पादनखानि मे ।
पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि सन्ततम् ॥ २७॥
दक्षिणस्यामपि दिशि दक्षयज्ञान्तक प्रियः ।
पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥ २८॥
वित्तेशरक्षिताशायां पायान्मां सत्तमार्चितः ।
सर्वतः सर्वजित्पायान्ममाङ्गनि भयात्प्रभुः ॥ २९॥
मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः ।
बुद्धिं सिद्धार्चितः पायादहन्तामनहङ्कृतिः ॥ ३०॥
कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहाः ।
हरत्वमोघदृङ् मोहं क्रोधं च क्रोधदर्पहा ॥ ३१॥
श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः ।
सन्तानं सततं दद्याद्भृगुसतानभूरुहः ॥ ३२॥
आयूंषि मे वितनुतादार्यः परमपूरुषः ।
आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः ।
श्रीमान्परशुरायो मां पातु सर्वात्मना सदा ॐ ॥ ३३॥
इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ।
कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥ ३४॥
न नास्तिकाय नादात्रे न चाश्रद्धालवे प्रिये ।
देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥ ३५॥
नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् ।
नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥ ३६॥
देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने ।
गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥ ३७॥
अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ।
मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥ ३८॥
वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ।
आसेचितादिव तरोः फलं नाप्नोति सद्रसम् ॥ ३९॥
जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्जवलैः ।
लिखित्वावर्तयेद्रात्रौ कवचंशतसंख्यया ॥ ४०॥
सम्पूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् ।
हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥ ४१॥
एवं सम्प्रस्थितस्यास्य विद्यावादे रणेऽपि वा ।
वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥ ४२॥
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनी ।
कवचेनाभिजप्तेन गच्छन्जयमवाप्नुयात् ॥ ४३॥
श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् ।
तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥ ४४॥
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ।
मण्डलान्ते श्रियं श्रेष्ठा लभते भार्गवाज्ञया ॥ ४५॥
सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः ।
सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥ ४६॥
भूतप्रेतपिशाचश्च रोगश्च विविधाशुभाः ।
दुष्टा नृपास्तस्कराश्च व्याग्रसिंहगजादयः ॥ ४७॥
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रजे ।
दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥ ४८॥
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम् ।
दारिद्र्यदुःखशमनं संसारभयनाशनम् ॥ ४९॥
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् ।
तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥ ५०॥
परश्चधधनुर्दण्डराजितां सद्वयान्वितम् ।
अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥ ५१॥
वामजानुतलन्यस्तवामपाणि कुशेशयम् ।
उन्मज्जज्ज्वलं ग्रीवमामीलित विलोचनम् ॥ ५२॥
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् ।
सुन्दरं सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥ ५३॥
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् ।
ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवस्तलम् ॥ ५४॥
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः ।
जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥ ५५॥
जामदग्न्यो जनन्नेता ब्रह्मण्यो ब्रह्मवत्सलः ।
कीर्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥ ५६॥
विश्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः ।
परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥ ५७॥
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः ।
उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम् ।
क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥ ५८॥
हन्त ते सम्प्रवक्ष्यामि तान्यपि प्रणतासि यत् ।
इमानि गौरि नामानि सुगोप्यानि सतामपि ॥ ५९॥
ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदालयः ।
त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ॥ ६०॥
नारायणः परं ब्रह्म परं तत्त्वं परात्परः ।
भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥ ६१॥
इति षोडशभिः स्तुत्वा नामभिऋर्षिपुङ्गवम् ।
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥ ६२॥
आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः ।
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ॥ ६३॥
दशचारं प्रतिदिनं मासमेकं समाचरेत् ।
स्पप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ॥ ६४॥
चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् ।
मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ॥ ६५॥
मनसः सम्प्रसादेन लब्ध्वा वरमनुत्तमम् ।
अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ॥ ६६॥
अथवा योगसिद्धिं यो धातु सिद्धिं च वाच्छति ।
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ॥ ६७॥
सर्वाश्चौषधयस्तस्य खेचरत्वाधिसिद्धिदाः ।
रससिद्धिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥ ६८॥
महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले ।
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः ॥ ६९॥
प्रस्फुरद्रुणसौवर्णराशीनां जन्मभूः परः ।
तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ॥ ७०॥
कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्ति सहस्रजम् ।
फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥ ७१॥
अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ।
जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ॥ ७२॥
सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्॥
मूकोऽपि वाग्मी भवति जपन्नेतद्रुरुर्यथा ॥ ७३॥
नित्यं परश्वधभृतः कवचस्यास्य धारणात् ।
सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ॥ ७४॥
वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् ।
कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ॥ ७५॥
इत्येतदुक्तं कवचं मया हैहयविद्विषः ।
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥ ७६॥
धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् ।
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥ ७७॥
इति श्री विष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धि -
कल्पे त्रयस्त्रिंशत्पटलः ॥ श्री भार्गवार्पणमस्तु ॥
॥ इति श्रीभार्गवकवचं सम्पूर्णम् ॥
Encoded and proofread by
Sivakumar Thyagarajan shivakumar24 at gmail.com
Text from ᳚Bhagavan Parashuram᳚ by Dr. Viracharya Shastri.