श्रीभगवन्नामरत्नावली
स्वनामकीर्तनादेव सुलभं व्रजवल्लभम् ।
शुकशास्त्रेश्वरं कृष्णमाश्रये जगतां पतिम् ॥ १॥
प्रथमस्कन्धे
आपन्नः सन्तृति घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्विभेति स्वयं भयम् ॥ २॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षया सकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३॥
स वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि य-
च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ४॥
नामान्यनन्तस्य गतत्रपः पठन्
गुण्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृहो
कालं प्रतीक्षन् विमदो विमत्सरः ॥ ५॥
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ ६॥
कुतः पुनर्गणतो नाम तस्य
महत्तमैकान्तपरायणस्य ।
योऽनन्तकीर्तिर्भगवाननन्तो
महागुणत्वाद्यमनन्तमाहुः ॥ ७॥
द्वितीयस्कन्धे
एतन्निर्विद्यमानानामिच्छतामकुसोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ८॥
श्वविडराहोष्ट्रखरैः सम्मितः पुरुषः पशुः ।
न यत्कर्णपथोपेतं जातु नाम गदाभृतः ॥ ९॥
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणे हरिनामधेये ।
न विक्रियेताथ मुखे विकासो नेत्रे जलं गात्ररुहेषु हर्षः ॥ १०॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्र्वणं यदहणम् ।
लोकस्य सद्यो विधुनोति किल्बिषं तस्मै सुभद्रश्रवसे नमो नमः ॥ ११॥
अन्तःपरस्युरुबलेन गृहीतपादो
ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।
आहेदमादिपुरुषाखिललोकनाथ-
तीर्थश्रवश्रवणमङ्गलनामधेय ॥ १२॥
धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्धे
आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ १३॥
तृतीयस्कन्धे -
यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
तेऽनेकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १४॥
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ।
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाञ्च मे ॥ १५॥
यन्नामधेयश्रवणानुकीर्तनात्
यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस्ते भगवन्नु दर्शनात् ॥ १६॥
अहो बत श्वपचोऽतो गरीयान्
यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस्तपस्ते जुहुवुः सस्नुरार्या
ब्रह्मानू चुर्नाम गृणन्ति ये ते ॥ १७॥
चतुर्थस्कन्धे
स प्रसीद त्वमस्माकमाकाङ्क्षतां
दर्शनं सम्परिभ्रष्टसत्कर्मणाम् ।
कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते
यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ १८॥
औत्तानपाद भगवांस्तव शार्ङ्गधन्वा
देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य वाद्धा
लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ २९॥
पञ्चमस्कन्धे -
नैवंविधः पुरुषकार उरुक्रमस्य
पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगतः सकृदाददीत
यन्नामधेयमधुना स जहाति बन्धम् ॥ २०॥
अथ कथञ्चित् स्खलनचलनक्षुधापतनजृम्भणदुरवस्थानादिषु
विवशानां नः श्रीमच्चरणारविन्दस्मरणाय ज्वरमरणदशायामपि
सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि
भवन्तु ।
यस्य ह वाह क्षुतपतनप्रस्खलनादिषु सकृन्नामाभिगृणन् पुरुषः
कर्मबन्धनमञ्जसा विधुनोति ।
यस्य ह वै प्रतिबाधनं त्विह मुमुक्षवोऽन्यथैवोपलभन्ते ।
यन्नाम श्रुतमनुकीर्तयेदकस्मा-
दार्तो यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं
कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ २१॥
षष्ठस्कन्धे
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २२॥
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ २३॥
अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ २४॥
एतेनैव ह्यघोनस्य कृतं स्यादघनिष्कृतम् ।
यदा नारायणायेति जगाद चतुरक्षरम् ॥ २५॥
स्तेनः सुरापो मित्रध्रुक् ब्रह्महा गुरुतल्पगः ।
स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ २६॥
सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ २७॥
न निष्कृतैरुदितैर्बह्मवादिभि-
स्तथा हि शुध्यत्यघवान् व्रतादिभिः ।
यथा हरेर्नामपदैरुदाहृतै-
स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ २८॥
नैकान्तिकं तद्धि कृतेऽघनिष्कृते
मनः पुनर्वावति चेदसत्पथे ।
तत्कर्मनिर्हारमभीप्सतां हरे-
र्गुणानुवादः खलु सत्त्वभावनः ॥ २९॥
अथैनं मापनयत कृताशेषाघनिष्कृतिम् ।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत ॥ ३०॥
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव दा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ ३१॥
पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।
हरिरित्यवशेनाह पुमान्नार्हति यातनाः ॥ ३२॥
अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् ।
सङ्कीर्तितमघं पुंसो दहत्येधो यथानलः ॥ ३३॥
यथागदं वीर्यतममुपयुक्तं यदृच्छया ।
अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ ३४॥
अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३५॥
क्व चाहं कितवः पापः ब्रह्मघ्नो निरपत्रपः ।
क्वच नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३६॥
एवं स विष्ठावितसर्वधर्मों
दास्याः पतिः पतितो गर्ह्यकर्मा ।
निपात्यमानो निरये हतव्रतः
सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ३७॥
नातः परं कर्मनिबन्धकृन्तनं
मुमुक्षतां तीर्थपदानुकीर्तनात् ।
न यत्पुनः कर्मसु सज्जते मनो
रजस्तमोभ्यां कलिलं तदन्यथा ॥ ३८॥
नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः ।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ ३९॥
एतावतालमघनिर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
आकृश्य पुत्रमघवान् सदजामिलोऽपि
नारायणेति म्रियमाण उपैति मुक्तिम् ॥ ४०॥
जिह्वा न वक्ति भगवन् गुणनामधेयं
चेतश्च न स्मरति तच्चरणारविन्दम् ।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ ४१॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ४२॥
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ।
श्वादः पुल्कसको वापि मुच्येरन् यस्य कीर्तनात् ॥ ४३॥
न हि भगवन्नघटितं त्वदर्शनान्नृर्णामखिलपापक्षयः ।
यन्नाम्नः सकुच्छ्रवणात् पुल्कसोऽपि मुच्येत संसारात् ॥ ४४॥
सप्तमस्कन्धे
यदा ग्रहग्रस्त इव क्वचिद्धस-
त्याक्रन्दते ध्यायति वन्दते जनम् ।
मुहुश्च संवक्ति हरे जगत्पते
नारायणेत्यात्मरतिर्गतत्रपः ॥ ४५॥
तदा पुमान् मुक्तसमस्तबन्धन-
स्तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रवाहेण समेत्यधोक्षजम् ॥ ४६॥
अष्टमस्कन्धे
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद-
तीर्थश्रवश्रवणमङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदयाद्य
शं नः कृधीश भगवन्नसि दीननाथः ॥ ४७॥
मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः ।
सर्वं करोति निश्छिद्रं नामसङ्गीर्तनं तद ॥ ४८॥
नवमस्कन्धे
अजानता ते महिमानुभावं
कृतं मयाघं भवतः प्रियाणाम् ।
विधेहि तस्यापचितिं विधात-
र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ४२॥
यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ ५०॥
दशमस्कन्धे
शृण्वन् गृणन् संस्मरयंश्च चिन्तय-
न्नामानि रूपाणि च मङ्गलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचित्तो न भवाय कल्पते ॥ ५१॥
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ।
सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ५२॥
यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च ।
सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ ५३॥
इति ब्रुवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति ॥ ५४॥
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ।
यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ ५५॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवे ॥ ५६॥
मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः ।
वाचाभिधानी नाम्नां कायस्तत्प्रह्वणादिषु ॥ ५७॥
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।
दामोदरारविन्दाक्ष गोविन्द गरुडध्वज ॥ ५८॥
देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।
नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ ५९॥
तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं
विद्वद्स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः
कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ६०॥
एकादशस्कन्धे
शृण्वन् सुभद्राणि रथाङ्गपाणे-
र्जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन् विलज्जो विचरेदसङ्गः ॥ ६१॥
एवं व्रतः स्वप्रियनामकीर्त्या
जातानुरागो दुतचित्त उच्चैः ।
हसत्यसौ रोदिति रौति गाय-
त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ६२॥
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
यत्र सङ्कीर्तनेनैव सर्वस्वार्थो हि लभ्यते ॥ ६३॥
कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः ।
योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शुभैः ॥ ६४॥
द्वादशस्कन्धे -
यन्नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्तकर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ६५॥
कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं ब्रजेत् ॥ ६६॥
कृते यद्धयायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ६७॥
श्रीकृष्ण कृष्णसख वृष्णिवृषावनिधु-
ग्राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत-
तीर्थश्रव श्रवणमङ्गल पाहि भृत्यान् ॥ ६८॥
नामरत्नावलीमेतां कण्ठे धृत्वा रमापतेः ।
तद्दर्शनार्हो भवति भक्तिपूतः पुमानिह ॥ ६९॥
इति श्रीभगवनामावली सम्पूर्णा ।
Proofread by Rajesh Thyagarajan