भगवत्स्तोत्रं वासुकिकृत
भक्ष्यमाणेषु नागेषु गरुडेन महात्मना ।
वासुकिः शरणं प्रायाद्देवदेवं जनार्दनम् ॥ १॥
वासुकिरुवाच ।
नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते शार्ङ्गगदासिपाणे ।
नमोऽस्तु ते दानवनाशनाय नमोऽस्तु ते पद्मजसंस्तुताय ॥ २॥
नमोऽस्तु ते लोकहिते रताय नमोऽस्तु ते वासवनन्दनाय ।
नमोऽस्तु ते भक्तवरप्रदाय नमोऽस्तु ते सत्पथदर्शनाय ॥ ३॥
उन्निद्रनीलनलिनद्युतिचारुवर्णं सन्तप्तहाटकनिभे वसने वसानम् ।
सद्रत्नचुम्बितकिरीटविराजमानं दामोदरं सुरगुरुं प्रणतोऽस्मि नित्यम् ॥ ४॥
क्षीरोदकन्यार्पितपादपद्मं हरिं प्रपन्नोऽस्म्यनघं वरेण्यम् ।
परं पुराणं परमं सनातनं तमादिदेवं प्रणतोऽस्मि भक्त्या ॥ ५॥
फणावलीरत्नसहस्रचित्रे शेषस्य भोगे विमले शयानम् ।
तमादिदेवं पुरुषं पुराणं नमामि भक्त्या परया रमेशम् ॥ ६॥
भूमेः समुद्धारणबद्धचित्तो दैत्येन्द्रानर्घात विधानदक्षः ।
लोकस्य सर्वस्य तु चिन्तयानः शुभाशुभं रक्ष ममाऽद्यदेव ॥ ७॥
खगपतिरतिभीमचण्डवेगो मम कुलमाशु विनाशयत्यनन्त ।
करुमुनिवरसंस्तुताद्यरक्षां पवनबलं विनिवारयस्व तार्क्ष्यम् ॥ ८॥
इति नीलमते वासुकिकृत भगवत्स्तोत्रम् ॥
From Nilamata Purana verses 97-104
NA