श्रीभक्तिवैजयन्तीस्तोत्रम्
श्रीकृष्णाय नमः समस्तहृदयाम्भोजावदातत्विषे
भक्तौघस्मयमानमानसवते दैत्यावलीविद्विषे ।
गोपीवल्लविकाय नायकगुणग्रामप्रणालीजुषे
लीलावैणविकाय कायसुषमानीलाम्बुजश्रीजुषे ॥ १॥
अव्यक्तं श्रुतिशेखरान्तरवने व्यक्तं च वृन्दावने
गूढं वेदविचारचारुवदनैगूढं च गोपीजनैः ।
अस्पष्टं हृदि योगिनामपिः पुनः स्पष्टं च सेवावतां
श्रीकृष्णं कमनीयकान्तिकुहकं ब्रह्माद्भुतं संश्रये ॥ २॥
पद्मापीनपयोधरप्रणिहितं प्राणप्रदं प्राणिनां
पिजञ्छाडम्बरपीवरं प्रणायिनीप्रेमाप्रियं भावुकम् ।
पीतं पद्मविलोचनापरिषदा प्रत्यक्षतः प्रीतया
पायाद्वः प्रतिमाभिनापिहितं पीताम्बरं प्राभवम् ॥ ३॥
कालो गत्वर एष केनचिदहो मार्गेण यास्यत्यलं
योगक्षेमविचारघोरनरके रात्रिन्दिवं मन्जताम् ।
येषां याति मुकुन्दचित्रचरितश्रेयोऽमृताकर्णन-
प्रेयोनन्दितचेतसां सुमनसां तेभ्यो महद्भयो नमः ॥ ४॥
बाह्वोरङ्कितशङ्खचक्रयुगलं कण्ठे तुलस्याञ्चितं
स्वान्ते प्रस्फुटकृष्णपादकमलं नामामृताढ्यं मुखे ।
नेत्रे हर्षजलोज्ज्वलं शुचितरे गात्रे च रोमाञ्चितम् ।
धन्या एव विलोकयन्ति नयनैर्विष्णोः समं वैष्णवम् ॥ ५॥
सत्यं ज्ञानमनन्तमेकममलं ज्योतिः स्वतो भास्वरं
ब्रह्मानन्दघनं परं गुरुमुखाद्विज्ञाय वेदान्ततः ।
सद्यः स्मेरसरोजसुन्दरतरं लक्ष्म्या मुदोपासितं
तद्विष्णोः परमं पदं हृदि सदा पश्यन्ति यत्सूरयः ॥ ६॥
अव्यक्तं परमं निराकृति हरे रूपं वचश्चेतसोः-
दूरं केवलचित्प्रकाशमतुलं ज्ञात्वा श्रुतेः शेखरे ।
व्यक्तं विस्तृतपुण्डरीकनयनं वंशीनिनादप्रियं
वृन्दारण्यविनोदवञ्चनपरं संसेव्यतां मुक्तये ॥ ७॥
आर्द्रान्तःकरणं गुणैर्भगवतस्त्यक्तान्यमार्गभ्रमं
रोमाञ्चैर्विपुलैः समावृततनुं हर्षाश्रुपूर्णक्षणम् ।
आनन्दोदयमोदमानमनिशं श्रीकृष्णनामामृतैः
मुक्तिः सन्तनुते स्वयंवरविधिं दृष्ट्वा स्वयं वैष्णवम् ॥ ८॥
धिग्जिह्वां पिशुनस्य कृत्तमुसलीपुच्छोपमं विह्वलां
दुस्तर्कोपलताडनैर्भगवतो भक्तेर्द्विषाणां मृषा ।
कैवल्यागमकर्तरीं कलिपटीनिर्माणकाले तुरीं
मर्मोद्भेदनसूचिकां निजहतेः संसूचिकां सूचिकाम् ॥ ९॥
भेदोऽयं याद नाम जीवपरयोः स्वाभाविको वर्तते
यद्वौपाधिक एव मूर्तिपदवीपर्यन्तमत्र ध्रुवः ।
तत्रैवं सति सेव्यसेवकभिदा सिद्धा प्रसिद्धा श्रुतौ
निष्कामो निजमुक्तये परमुपासीतेति वाक्यैः स्फुटम् ॥ १०॥
एके षोडशषट्पदार्थविषयज्ञानं समाचक्षते
कमैवेति विचारयन्ति कतिचिद्योगं च केचिज्जगुः ।
पुंसोऽथ प्रकृतेश्च जीवपरयोर्ज्ञानं परे मेनिरे
सर्वं क्लृप्तमिदं गुणैर्भगवतो भक्तिः परं मुक्तये ॥ ११॥
या काचित् परिकल्पिता खलकथा तामागप्यजातभ्रमाः
पाकायातिभयङ्कराय विरसाकाराय लब्धाश्रमाः ।
नाकाधीशपतेरपारपरमानन्दाप्तिमन्दाकिनीं
शाकास्वादपराः सुधामिव सुधा नेच्छन्ति भक्तिं बुधाः ॥ १२॥
कं कः सेवत इत्युदीरयति योऽभेदे स कङ्कः स्वयम् ।
का का भक्तिरितीरयन्ति बहु ये काका वराका हि ते ।
ब्रह्माहं विषमेऽत्र मे कृतशमे किं मे भवेदीश्वरः
सेव्योऽसाविति संलपन्नुरुगलः सोऽयं खलश्छागलः ॥ १३॥
स्वाध्यायाध्ययने तथोपनिषदां जातेऽक्षराणां ग्रहे
विज्ञाते श्रवणे च जीवपरयोरैक्ये विमुक्तेक्षणः ।
श्रीकृष्णं भजमान एव बहुधा सङ्कीर्तनाद्यैः सदा
सत्यं ज्ञानमनन्तमेकमखिलं तद्ब्रह्म सम्पद्यते ॥ १४॥
एतैः षोडशभिः पदार्थनिचयैर्ज्ञार्तैर्विमुक्तिः कथं
जल्पंस्तत्र फलं परस्य विजयः स्यात्तेन किं वा ततः ।
ज्ञानं चेत परमेश्वरस्य तदिदं भक्त्यर्थमेवोचितं
सिद्धान्तेष्विदमूचिरे स्फुटतरं प्रामाणिकास्तार्किकाः ॥ १५॥
द्रव्यादौ विदिते पदार्थनिवहे कैवल्यसिद्धिः कथं
पाणिन्यादिविवेचनादिव सुखं ज्ञाता भवेत् प्रक्रिया ।
शब्दस्याप्यनुमानभावभजनं बौद्धस्य पन्था न किं
तस्मादीशमुपासितुं श्रुतमिदं द्रव्यादिचिन्ताफलम् ॥ १६॥
ब्रूते षोडशषट्पदार्थकलनात् का वा विमुक्तिं श्रुतिः
किं वा संस्मरणं पुराणवचनं न्यायोऽपि कस्तादृशः ।
तर्को वेदविचारणाय घटितेऽनुग्राहकः केवलं
तस्यै तत्प्रतिपक्षता यदि तदा सिद्धा न किं बौद्धता ॥ १७॥
भेदोऽयं घटकुम्भयोः समुचितं प्रत्यक्षतो गृह्यते
श्रुत्या केवलमेव जीवपरयोः कैवल्यमुद्भाव्यते ।
भेदाभेदविवेचने प्रभवति प्रत्यक्षयोवास्पदे
तस्यागोचरके कथं प्रसरतु भ्रान्तेऽपि तुल्योदयम् ॥ १८॥
भेदं लोकनितं वदिष्यति कथं पश्चादभेदश्रुतिः
भीता लोकमितेर्भविध्यति पुनः स्वार्थीपचारे कथम् ।
बाधं लौकिकमानतः कथमियं गच्छेदथापौरुषी ।
यद्येषा पुरषोदिता स पुरुषः किं त्वादृशोऽन्यादृशः ॥ १९॥
यस्मिन् सर्वमिदं विभाति निहितं यस्मात् पुनर्जायते
यस्मिन्नेव लयं प्रयाति सकलं कर्मापि यत्प्रीतये ।
सर्वं कर्मफलं विमुक्तिपदवी यस्य प्रसादाद्भवेत्
यच्छवासप्रतिमा श्रुतिः स भगवान् कैश्चित् कथं नेष्यते ॥ २०॥
द्रोहं श्रीपरमेश्वरे विद्धते ये लौकिकैः कल्पनैः
वेदान्तैरुपगीयमानचरिते न्यायैश्च संसविते ।
ते व्यर्थं पशुमारणैकरसिकाः सन्मार्गसन्दूषकाः-
कन्थां कर्ममयीं निधाय निभृता मीमांसका राक्षसाः ॥ २१॥
कर्मैव प्रतिपाद्यतां स्वसमयैर्न्यायैः सहस्रैः स्फुटं
तस्यानुष्ठितिसिद्धये क्रमवती व्याख्यायतां पद्धतिः ।
जाने यूयमिहात्मनाशरसिका मीमांसका हिंसकाः
यद्द्रोहात् परमेश्वरस्य भवतां स्वर्गोऽपवर्गो हतः ॥ २२॥
मोहोऽयं कपिलस्य जैमिनिमुनेर्द्रोहोऽयमीशे परे
तद्भुक्तिं कणभुक् तथाक्षचरणस्तर्केण चक्रे पराम् ।
व्यासः कृष्णमतानुसारि कृतवान् सूत्रं निरस्तभ्रमः
कृष्णोपासनया समाधिविभवः पातञ्जलेः प्रक्रमः ॥ २३॥
स्वर्गो दुर्गतिमागतोऽक्षयमुखो मोक्षोऽपि विक्षोभितः
स्वेच्छाकल्पनयानया रचनया वेदोऽपि विप्लावितः ।
मोक्षार्थं मिलतां सुमुधामतिमतां साङ्खयेन सङ्कयावतां
द्वेषार्थः परमेश्वरस्य नितरां लाभो महागौरवः ॥ २४॥
वेदानीश्वरसेवनव्यसनिनो मुक्त्वा तदेकव्रतान्
विद्याभावनयाल्पया प्रकटयं तां पल्लवग्राहिणीम् ।
नारत्येवेश्वर इत्युदीरयति यः सूत्रेण बद्धो गले
नाशायैव कृतोद्यमः स हि पशुः कालस्य नूनं बलिः ॥ २५॥
ईशद्रोहपरायणं मतभिदं नैवोज्ज्वलं कापिलं
ग्राह्यं जैमिनिकल्पितं भगवतो द्रोहादृते कर्मताम् ।
नास्त्येवेश्वर इत्युदीरणपरो द्रोहं विषं दोन्धि गाम् ।
तत् पीत्वा निपतत्यपारनिरये भूयो विनष्टस्मृतिः ॥ २६॥
न्याया यान्तु विदूरमेव भवतां भक्तौ कृतज्ञो यदा
मीमांसे बहिरास्व भक्तिवचने यद्यर्थवादाध्वनी ।
वेदान्ताः सुतरां न दान्तहृदया भक्तेर्न शेषा यदा
भक्त्यर्था यदि वो नमः समुचिते मार्गे सुखं स्थीयताम् ॥ २७॥
भेदाक्रन्दनवावदूकरसनस्तर्केण तर्केण किं
तत्तद्वेदकथाविमर्दकुहनासाङ्ख्येन साङ्खयेन किम् ।
स्वान्ताश्रान्तनिरोधयोधकलनोद्योगेन योगेन किं
भक्तिं भागवतीं श्रयन्तु सुधियः स्वर्गापवर्गप्रदाम् ॥ २८॥
यद्वेदाः समुदीरयन्ति बहुधा स्वेषां च तज्जन्यतां
स्वेनैव प्रतिपादयन्ति नियतां तच्छेषतां कर्मणाम् ।
एषामर्पणमेव यत्र नियतं मोक्षाय सञ्जायते
तस्याभावमुदीरयन् विजयते स स्यात् कथं वैदिकः ॥ २९॥
लब्ध्वा मानुषजन्म पूर्वसुकृतैः पुण्यां च मेधावितां
तत्तज्जातिनिजाश्रमस्थितिमिमां श्रीवैष्णवैः सङ्कथाम ।
शोच्या यूयममी भविष्यथ तदा ज्ञानं श्रिता दुर्लभं
मुक्तम्मन्यतया यदा भगवतो भक्तिः परित्यज्यते ॥ ३०॥
यूयं तत्त्वविदः श्रुतिस्मृतिगिरां ज्ञानेन धौताशयाः
मुक्त्यै भागवती परं भगवती भक्तिः समाश्रीयताम् ।
संसाराम्बुधिपारमाप्तुमनसो धृत्वैव वो मज्जयन्
धीराः कोऽपि दुराग्रहो हि भवतां ग्राहो भविष्यत्ययम् ॥ ३१॥
ज्ञानं स्त्यानमिदं कुरुध्वममलैः श्रीविष्णुभक्ते रसैः
कर्माणि प्रतिकर्मनर्मसुभगं भक्त्या तनुध्वं हरेः ।
योगं भोगसमाश्रितं भगवतो रूपैः श्रयध्वं सदा
भक्तेः शेषतया विधाय सकलं धीराः समाध्वं सुखम् ॥ ३२॥
योगो रोग इवेह दुर्लभतरः खेदाय सञ्जायते
ज्ञानं ग्लानिमिदं प्रयाति नितरां यत्नेन सम्पादितम् ।
मर्मच्छेदनमेव कर्म कलितं क्लेशाय सञ्जायते
विष्णोभक्तिरियं यदा न भवतां मुक्तिः प्रियम्भावुकी ॥ ३३॥
बेदान्ताध्ययनादतः प्रकृतता तस्योचिता वृत्तता
तस्यानन्तरताथ शब्दघटिता तत्राधिकारीदृशः ।
तेन ब्रह्मणि वेदमातृविदिते ज्ञातुं विशेषेण तत्-
कार्येच्छेत्यनुवक्ति वेदवचनं सूत्रं च वैयासिकम् ॥ ३४॥
जन्माद्यस्य यतो भवेत् स भगवान् ब्रह्मेति वेदोदितं
सूत्रेणानुकृतं ततोऽस्य जगतां निर्मातृता लक्षणम् ।
तत्सामान्यविशेषतः श्रवणतो ज्ञात्वा विशुद्धाशयः
तस्योपासनमाचरेदविरतं मुक्त्यै निरस्तेषणः ॥ ३५॥
विश्वं विश्वकृता कृतं पुनरिदं तस्यैव माया स्फुटं
सा तद्भक्तिविशेषतो यदि निवर्तेतेति वेदोदितम् ।
उत्सूत्रः श्रुतिलक्षणेन रहितस्तत्कल्पनानिष्फलः
शास्त्रारम्भसमर्थनाय विकलोऽध्यासः कथं वर्तते ॥ ३६॥
ईशाद्विश्वमितीरणं श्रुतिगिरां तेन प्रकारेण तत्
ज्ञात्वोपासनमामनन्ति विदुषः कैवल्यसंसिद्धये ।
अध्यस्तं परमेश्वरे जगदिदं नैतादृशो दृश्यते
वेदः कोऽपि वृथैव जल्पनमिदं कैश्चिद्बलात् कल्पितम् ॥ ३७॥
भ्रान्तिश्चेत् परमेश्वरस्य विहता सर्वज्ञता तद्गता
जीवस्येति यदा स एव कथमन्योऽन्याश्रयाज्जीयताम् ।
तत्रानादितया यदा परिहृतिर्जन्मान्तरीयं स्मरन्
किं सर्वं कथमुल्लसेदनुभवो नैतादृशो विभ्रमः ॥ ३८॥
अज्ञाते यदि रङ्गसीसशकले जायेत रूप्यभ्रमः-
तस्याभावविनिश्चितेः स न भवेत् काधिष्ठितेतिता ।
तज्ज्ञानं यदि पूर्वमिष्टममलब्रह्मात्मनाधिष्ठितेः
संसारभ्रम ईदृशः किमुदये कस्मात् पुनर्लीयताम् ॥ ३९॥
यत्रेदं रजतं विभाति निहितं ज्ञातं पुरा किं ततो
बाधे तब्द्यतिरेक एव रजतं नेदं भवेदित्यतः ।
तत्तत्वप्रथनं निवर्तयति न भ्रान्तिं ततस्तेन किं
न ज्ञानेन निवर्तयेत् क्षतरुजः शङ्खस्मृतेः पीतिमा ॥ ४०॥
अज्ञानाद्यदि जीवता कथमिदं सर्वेश्वरो जायतां
जीवे चेन्नितरां परस्परहतं माया ततः श्रीहरेः ।
झानाभावनिवर्तकं तत इदं ज्ञानं मतं ज्ञानिनां
मायासन्तरणे परं भगवतो भक्तेः श्रुतौ श्रूयते ॥ ४१॥
येयं नाश्रयमोहिनी परवशा कर्तुश्च माया हे सा-
यासावाश्रयमोहिनी निगदिता विद्या न कर्तुर्वशा ।
सा ज्ञानेन निवर्तते भगवती माया पुनर्वैष्णवी
भक्त्यैवेह विलीयते भगवतो लीलाकृतेः श्रीपतेः ॥ ४२॥
स्वेनाध्यस्तमिदं जगद्भगवता स्वस्मिन् यदेतीयते
का युक्तिः श्रुतिरेव का न सकलज्ञानस्य युक्तो भ्रमः ।
ईशाजातमिदं समस्तमिति चेत् सूत्रं श्रुतिः श्रूयते
बुद्धेर्बन्धनमेव कैश्चिदुदिताध्यासे वृथा फक्किका ॥ ४३॥
सर्वज्ञस्य कुतो भ्रमः कथमसौ जीवो नु भूयः स्मरेत्
अध्यस्येदिह यद्भवेन विदितेऽध्यासः कथं जायताम् ।
नैवाधिष्ठितिनिश्चयाद्विघटतेऽध्यासो यथा पीतिमा
शङ्के रोगशमात् परं न खलु तज्ज्ञानं भवेन्निश्चितम् ॥ ४४॥
अज्ञातेऽपि पुरेह शुक्तिशकले रूप्यानुभूतिस्मृतेः
तत्ल्हातिभ्रमबाधनं च रजताभावप्रकाराद्भवेत् ।
आरोप्यानुभवो यथा यदि तथाधिष्ठानसंवेदनं
पूर्व ब्रह्म यदा मतं कथमसौ संसाररूपो भ्रमः ॥ ४५॥
तज्ज्ञानेन विना यदा कथमधिष्ठानं भ्रमो बोधयेत्
बाधस्तत्र न हि प्रभुः स हि समारोप्यस्य विध्वंसकः ।
नात्मा चेद्विदितः षडूर्मिरहितो देहाद्विभिन्नो विभुः
नित्यं कः कुरुतां धनक्षयकरं दुःखाकरं कर्म तत् ॥ ४६॥
अज्ञात्वाक्षरमत्र यो हि यजते तस्याखिलं क्षीयते
श्रुत्यैवं प्रतिपादितं भगवता गीतासु तव्द्याकृतम् ।
ज्ञानं मोचकमत्र बन्धकमिदं कर्मेति कैश्चिन्मतं
तज्ज्ञाने भगवन्मते न घटते वैदैः सदा सम्मते ॥ ४७॥
बन्धार्थं फलमेव तत्परिहृतं कर्मैव भक्त्यात्मना
श्रीकृष्णर्पितमेककं विजयते संसारतो मुक्तये ।
ज्ञानानन्तरमीरितं भगवतः संसेवनं भूरिभिः
वाक्यैर्मुक्तिफलान्वितैः श्रुतफलं नैवार्थवादायते ॥ ४८॥
ज्ञानं पापविनाशनं यदि भवेत्तत्रापि मोक्षश्रुतिः
सैषाङ्गेषु फलश्रुतिर्नयवशादत्रार्थवादायते ।
ज्ञानञ्चेन्न विधीयते तव जना नैतत्प्रधानं भवेत्
तस्याङ्ग किमिहास्तु यस्य भविता भाव्यश्रुतेर्वादता (?) ॥ ४९॥
भतिर्ज्ञानमपेक्ष्य साधयति ते द्वारं विमुक्तिं तदा (विमुक्तेः)
तस्याः कारणता मतं श्रवणतस्तत्स्यादिति व्याहतम् ।
ब्रह्माहं न हि मे भिदा भगवता काचिद्यथार्था श्रुतिः
कैवल्यप्रतिपादिका भगवती किं त्वेकमभ्यर्थये ॥ ५०॥
यावत्कालभुपाधिरेष कलितो देहात्मना दृश्यते
तावत्कालमहं भजामि सततं भक्तप्रियं श्रीप्रियम् ।
पीतं पङ्कजलोचनाक्षिपुटकैः पीतं दिलासाम्बरे
रक्तं गोपनितम्बिनीकुचतटे रक्तं वरोल्लासने ॥ ५१॥
शुक्लं कोमलमन्दहासकुसुमे शुक्लं युगोपक्रमे
कृष्णं चारुकलेवरे गुणवरे कृष्णं श्रिये संश्रये ।
जातिः काचिदिहास्तु कश्चन विधिः प्राप्तस्तथैवाश्रमः
तद्धर्मस्थितिपालनं फलपरित्यागेन कृष्णार्पणम् ॥ ५२॥
ज्ञानं तस्य निजाधिकारनियमैः सम्पाद्य लक्षीपतेः
पादाम्भोरुहसेवनं हि तनुते लोकस्य निःश्रेयसम् ।
सञ्जाते श्रवणे ततः समुदिते ज्ञाने परात्माश्रये
शुद्धेऽन्तःकरणे नरस्य सुकृते जात्याश्रमस्थे कृते ॥ ५३॥
कामे निर्गलिते मुकुन्दपदयोराविष्कृतायां रतौ
साकारस्य हरेरुपासनमिदं सिद्धं श्रुतौ मुक्तये ।
सत्यं ज्ञानमनन्तमेकमखिलं ब्रह्मामृतं निश्चितं
सर्वात्मा परमेश्वरः स सकलं सन्निर्ममे मायया ॥ ५४॥
निर्माय स्वयमेव तत्र कृतवान् स्वस्य प्रवेशं प्रभुः
तत्रोपाधिसमावृतस्य नियता भक्तिर्भवेदात्मनः ।
ज्ञानासूत्रकृतस्तथोपनिषदां व्याख्याकृतः पण्डिताः (नानासूत्र)
तत्राप्युत्तमबुद्धयो मतकृतः केचिद्विवादप्रियाः ॥ ५५॥
श्रीकृष्णस्य कला भवन्तु न समास्तेनेति निर्धारितं
तस्मात्तन्मतबाधनं कथमिदं तेषां मतेर्जायते ।
अव्यक्तं समुपास्यमित्युपहतव्यक्तस्य सेवा श्रुता
सर्वासूपनिषत्सु निश्चितमिदं कृष्णेन गीतामृतैः ॥ ५६॥
भक्तेर्मुक्तिरितीरितं भगवता सारूप्यचिन्तात्मिका
स्पष्टे राजपथे सुखामृतरसे धीरा रमध्वं सुखम् ।
हे धीराः किमिहोदितैर्बहुतरैश्चित्तस्य चिन्ताकरैः
युष्माभिः सकलं श्रुतिस्मृतिगतं व्याख्याशतं ज्ञायते ॥ ५७॥
शाने शास्त्रकृते कृतं मतिमतामर्थार्थमत्यादरैः
सर्वं तत्परिमुच्यतां निजकृते कृष्णः परं सेव्यताम् ।
वादैर्भक्तिरियं गतेति हृदयं भूयस्तरां वेपते
विद्वांसो विमलाशयाः प्रतिभयात् सर्वं स्वयं जानते ॥ ५८॥
निति परमेश्वरेण बहुधा गीतासु सर्व मतं
स्पष्टं भागवतं (भागवते) तथा निगदितं स्वर्गापवर्गप्रदम् ।
एकं ब्रह्म यथार्थमेतदखिलं तब्द्याकृतं जृम्भते
सर्वे निर्जरनायकाश्च तदिमे सर्वं जगत्तन्मयम् ॥ ५९॥
सर्वा मूर्तिरियं स्फुटा भगवतो नारायणस्य प्रभोः
चेतः केवलमीहते कलयितुं गोपाललीलं महः
।? ? ?? ? ?॥
?????????????॥ ६०॥
मायासैर्बहुभिर्विवादविहितैः सिद्धान्तचिन्ताभवैः
मायामव्यसनैरलं श्रुतिशिरस्तत्त्वं परं चिन्त्यताम् ।
मायाविभ्रमदायिनी मरकतश्यामा मनोमोहिनी
माया काचन मानसे मिलतु मे मायूरपिञ्छप्रिया ॥ ६१॥
सेवा भक्तिरपि प्रपत्तिरपरा तत्संश्रितिः प्रह्वता
तद्वत्तत्परता तदीयपरतोऽपास्ता शरण्या गतिः ।
इत्येकार्थपदैः श्रुतिस्मृतिपुराणाद्यैः समुल्लासिता ।
भूयाद्वो भवबन्धभेदनकरी भक्तिर्विभोर्भासुरा ॥ ६२॥
यो ध्यातो विमलेन्द्रनीलरुचिरः कृष्णेति सङ्कीर्तितः
सद्यः क्लेशचयं निहत्य वितरत्यानन्दबोधोदयम् ।
हे धीरा बहुशास्त्रतत्त्वकलनासंशुद्धबुद्धाशयाः
श्रीकृष्णे विलसत्युदारमहिमाम्भोधौ कथं खिद्यते ॥ ६३॥
तल्लीलाश्रवणं शुभेन मनसा तन्नामसङ्कीर्तनं
तन्मूर्तिस्मरणं च तत्प्रतिकृतेः पादाम्बुजोपासनम् ।
तत्पूजा विविधा नमस्कृतिनुतिस्तस्मिंश्च तद्रासता
तत्सख्यात्मनिवेदनेन विविधा भक्तिः श्रुता वैष्णवी ॥ ६४॥
एषा षोडशधेति केऽपि नवधा केचित्तथैवाष्टधा
प्राहुः केऽपि तथैकधेति मुनयो यस्मिन्न कश्चिद्ग्रहः ।
एकाग्रेण तदाश्रितेन मनसा तिष्ठन् मुहुवैष्णवः
सर्वं युक्तमिदं करोति पिबतस्तृप्तिः सुधायां कथम् ॥ ६५॥
पीतं कर्णपुटेन यादवपतेश्चित्रं चरित्रामृतं
गीतं वैणिकशेखरेण मुनिना मत्या (भक्त्या) महत्या मुहुः ।
नीतं भावनयानुरागघनया स्वस्यान्तरं सान्तरं
पीतं दुर्लभसौरभोज्ज्वलरसं तापत्रयोन्मूलनम् ॥ ६६॥
स्वादु स्वादुरसायनं श्रवणयोः सन्तर्पणं चेतसः
कामायासपिपासुतोपशमनं निर्वाणमाशाक्षुधाम् ।
आलानं भ्रमतो मदेन बहुशः सङ्कल्पदुर्दन्तिनः
संसारज्वरनाशनं भगवतो वार्तामृतं पीयाताम् ॥ ६५॥
केशिक्लेशन कंससूदन कृपाम्भोधे कलानां निधे
क्रीडाकोल कलापचूड कमलाकान्त कमकीडन ।
कल्किन् केशव केशय क्रतुपते कञ्जाक्ष कम्बुनिय
क्रोधाधीश्वर कालकाल कलये कल्याणदां ते कथाम् ॥ ६८॥
विस्फोटप्रतिमे दृशौ भगवतो रूपावलोकं विना
हस्तौ तत्परिचर्यया विरहितौ दुर्दग्धदर्वीसमौ ।
तन्नामामृतपानरङ्गरहिता जिह्वा जलव्यालिका
पुच्छं वृश्चिकजं मनो हरिकथाहीनं नृणामान्तरम् ॥ ६९॥
नेत्रे प्रेरय मे तवाकृतिकृते कौँ कथाकर्णने
घ्राणं पूजितमाल्यगन्धकलने पादाम्बुशैत्ये त्वचम् ।
नैवेद्यान्नरसायनं रसयितुं जिह्वां मनः सन्ततं
लीलाकल्पितरूपचिन्तनविधौ भक्तप्रिय श्रीपते ॥ ७०॥
सख्यं श्रीपुरुषोत्तमेन कलयेत् को वा जनः प्राकृतः
तस्याभिन्नतया परप्रियतया किञ्जैतदुज्जृम्भते ।
प्रेमानन्दविशृङ्खलस्य मनसः किं किं न सम्भाव्यते
सत्यं तस्य परेशितुर्निरवधि प्रेमास्पदं तत्पदम् ॥ ७१॥
इष्टं दत्तमिदं हुतं निशमितं दत्तं च तप्तं च यत्
क्षेत्रापत्यकलत्रमित्रभवनोद्यानानि यद्यत् प्रियम् ।
तत्सर्वं विनिवेदये भगवते कृष्णाय हृष्टात्मना
प्रारब्धोपहृतं वपुः परमुपासार्थं परस्याश्रयन् ॥ ७२॥
श्रीकृष्णाच्युत देव राम नृहरे जिष्णो हरे श्रीपते
विष्णो माधव केशवेश्वर विभो विश्वेश वाणीपते ।
गोपालाव्यय गोप यादवपते गोविन्द गोपीपते
नामैकावलिका गले मिलतु मे मोक्षाय लक्ष्मीपतेः ॥ ७३॥
मल्लीकोरकमुग्धमाल्यमहिता मन्दारमूलश्रिताः
माकन्दाञ्चितमाधवीमधुझरीमेदस्विमन्दस्मिताः ।
मन्दान्दोलनमोदमानमुरलीमाधुर्यमाद्यज्जनाः
मोदन्तां मम मानसे मधुपतेर्मुक्तिप्रदा मूर्तयः ॥ ७४॥
मन्दोदश्चितहासमुन्नतमुखं माकन्दमूलस्थितं
मारोन्मादकरं मनोरमगुणं नायूरबर्हाञ्चितम् ।
मन्द्रापूरितवंशिकामुखरितं मालासमालालितं
मायामानववित्रहं मुररिपुं मोक्षाय मन्यामहे ॥ ७५॥
केकारावकरम्बिते कुतुकितां कुञ्जे कनरकेतके
क्रीडाक्लृप्तकदम्बकोरककुलालङ्कारकल्लोलिनीम् ।
काशत्कल्पितकाञ्चनारकुसुमां कार्तस्वराभास्वरां
कैवल्याक्रमकौतुकाय करुणाकादम्बिनीं कामये ॥ ७६॥
माकन्दस्य मनोरमस्य महिते मूले मिलन्तं मुदा
मारोदश्चितमन्दहासमुखरं मल्लीस्रजा मण्डितम् ।
मुग्धं मौरलिकं मरालगमनामुक्तावलीमध्यगं
मायामाणवकं महोदयमहो मान्यं महो मन्महे ॥ ७७॥
वेदान्तैर्बहुधोदितं बुधगणैवृन्दारकैर्वन्दितं
वृन्देन स्फुरितं गवां विदधतं बाल्योचितां विक्रियाम् ।
विश्वस्तं व्रजयौवतस्य विलसद्वक्रालकं बालकं
विद्मो वैणविकं विलासविवशं वृन्दावने वञ्चकम् ॥ ७८॥
चातुर्यागमदेवता परिचिता चर्यावती चामरैः
चाम्पेयस्तबकावतंससुभगा चर्यावती चम्पकैः ।
चन्द्राकारविशोभमानवदना चूडावती चन्द्रकैः
चर्चा काचन चेतसि स्फुरतु मे चर्चावती चन्दनैः ॥ ७९॥
चूडाचुम्बितचारुचन्द्रकचयं चामीकराभास्वरं
चञ्चच्चन्दनसौरभं चटुतरं चातुर्यचर्चाचणम् ।
चारीरञ्जितचाल्यमानचरणं चाम्पेयमालाधरं
चेतश्चिन्तय चञ्चलापरिवृतं चर्चासु चन्द्राननम् ॥ ८०॥
नित्योत्सारितभेदवेदशिरसां नीलोत्पलस्थासकं (स्थासकपदवासः)
गोपीनां मृगनाभिलेपरचनावक्षोजकुम्भान्तरे ।
भक्तानां परितापशान्तिविधये कल्याणकादम्बिनी
जन्मारम्भफलं दृशां च जयतात् काचित् कला कैशवी ॥ ८१॥
नानारङ्गवशो निरञ्जनरसो निःश्रेयसोद्भावनो
नेत्रानन्दकरो नवोदयवरो नीलोत्पलश्रीधरः ।
नादास्वादपरो नवीनमदनो नन्दात्मजो नायको
नित्यं नोऽस्तु निरन्तरं नयनयोर्नित्यप्रियो नीलिमा ॥ ८२॥
कालिन्दीकमनीयकूलमिलितं कस्तूरिकाकन्दलं
कन्दर्पोदयकार्मणैकवदनं कर्पूरकुन्दस्मितम् ।
कृष्णाचुम्बिकदम्बकुब्जकुहरे केलिक्रियाकोमलं (कुञ्जकुहरे)
कृष्णाख्यं कलये कदा नु कलये कौतूहलं केवलम् ॥ ८३॥
रासोल्लासरसायने च रसिकं रामाभिराराधितं
राकाचन्द्रसमाननं रतिकरं राजीवराजेक्षणम् ।
रक्तिमस्तुतरङ्गरागरचनं रक्तोल्लसत्कुण्डलं
रक्ताशोकतरोरधो रसमयं राधासखं राधये ॥ ८४॥
गत्वा श्रीहरिमन्दिरं भगवतो रूपं विलोक्याद्भुतं
प्रक्षाल्यास्य भवादिवन्धचरणं गङ्गादितीर्थाम्बुभिः ।
मालाभूषणगन्धपीतवसनैर्नोपहारक्रमैः
धन्या एव दिवानिशं भगवतः सेवासुखं तन्वते ॥ ८५॥
सर्वव्यापिकदम्बमूलमिलितं लोकत्रयीपालकं
गोपालं परिपूर्णसंविदमहो गोपीजनैर्वञ्जितम् ।
इन्द्रादीप्सितदायकं ब्रजवधूसन्तोषयाच्यापरं
कौमारोपचितं पुराणपुरुषं ब्रह्म प्रपद्ये परम् ॥ ८६॥
राधाकिङ्करमीश्वरं त्रिजगतां सर्वज्ञमज्ञं बजे
चिन्तारत्नविराजमानचरणं मुक्ताविभूषाञ्जितम् ।
पीयूषास्पदलालसं विरचितस्तेयं पुनर्गोरसे
संसेवे महिमानमद्भुतगुणं नानागुणं निर्गुणम् ॥ ८७॥
कर्पू रैः कुसुमैमनोज्ञसुषमैर्धूपैः प्रदीपोत्तमैः
सूपैः स्वादुरसैनर्वोदितघृतानूपैरपूपैः सदा ।
पूजा श्रीपुरुषोत्तमस्य विभवो यद्यस्ति विस्तार्यताम् ।
नो चेदस्ति जलं फलं वनभवं देव्यास्तुलस्या दलम् ॥ ८८॥
चञ्चच्चम्पकसारसारसदलं नीलोत्पलपोल्लस-
न्मल्लीकेसरनागकेसरलसत्पुन्नागभाजा स्रजा ।
मूर्तिः श्रीमधुसूदनस्य महिता सुस्थैर्गृहस्थैर्यथा
वन्यैः काशकुशै रसादपचितैर्दुःस्थैर्दनस्थैस्तथा ॥ ८९॥
उत्तालैः कलकाहलीकलकलैर्मूर्च्छन्मृदङ्गारवैः
घण्टागोङ्कृति घोषणैर्बहुतरैर्भेरीरवाडम्बरैः । (घण्टौघैः कृत)
गानैरुत्तमधातुमातुरचनैः संशुद्धगानैर्धनैः
साटोपैर्नटनैर्दनैर्मनोज्ञघटनैः पद्मापतिं प्रीणये ॥ ९०॥
गानैर्वैणिकमाधुरीसममिलत्तानैः समानैः शुभैः
वाद्यैः श्रोत्ररसायनीयमहसामाद्यैः सतोद्यैस्ततैः (ततातोद्यकैः) ।
नृत्ये रम्यरसानुरूपघटनाकृत्यैः स्वभृत्यैः कृतैः
नव्यैः स्तोत्रपदैर्वचोमय गवीगव्यैः सुभव्यैर्यजेत् ॥ ९१॥ (गवीगव्यं - गोक्षीरम्)
कस्तूरीसुरभीकृतैर्जलकणासिक्तैसस्तुलस्या दलैः
पन्नीरागुरुसारचन्द्रकणिकासम्मेलितैश्चन्दनैः ।
क्लृप्तोपाहृति पूजयन् यदुपतिं देवासुरैः पूजिते
तस्मिन्नेव महोदये स्वसमये तेजोमये युज्यते ॥ ९२॥
उत्फुल्लैः कुसुमैमनोज्ञसुषमै रत्नोपमैः सद्रुमैः
कर्पूरारचनैरशेषमनसामानन्दनैश्चन्दनैः ।
नानाकारनिवेदनै रसघनैः पीयूषकल्पैर्नवैः
येऽत्रार्चन्ति रमापतिं सविभवास्तेषां भवोऽसम्भवः ॥ ९३॥
एषा षोडशिभिस्तथैव दशभिस्तद्वत् पुनः पञ्चभिः
पूजा श्रीपुरुषोत्तमस्य रचिता येनोपचारैः क्रमात् ।
तस्मिन्नेव तनोति मुक्ति महिला कामेन रागोदयं
तस्यायुः कृतकृत्यभावमयते तस्यैव जन्मोज्ज्वलम् ॥ ९४॥
पारावारशयं परावरमयं पारायणं पापिनां
पुण्यप्रच्युतिपूरकं प्रभुवरं पार्थप्रियं पूर्वजम् ।
पुष्पामोदपरिष्कृतं पुलकितं पारिप्लवं पावनं
प्रत्युप्तं प्रमदाशतैः प्रमुदितं प्राणाधिकं पूजये ॥ ९५॥
रोमाञ्जैः समुदञ्चितैश्चुलुकितं बिभ्रद्वपुः सुन्दरं
नेत्रे हर्षजलोज्ज्वले विकसितस्मेरारविन्दश्रिणी ।
चेतः प्रेमपरिप्लुतं भगवतो लीलाप्रवीणैर्गुणैः
यः स्तौति प्रतिवासरं मुरहरं मुक्त्यै स शक्तः परम् ॥ ९६॥
संसारज्वरचन्दनैः सुमनसामानन्दनैर्वन्दनैः
आनन्दादति नन्दनन्दनममुं वन्देतयस्सुन्दरैः ।
तद् वृन्दारकवन्दितं पदमिदं धिक्कृत्य पौरन्दरं
विन्दत्यव्ययसंविदं स परमानन्दाद्वितीयं महः ॥ ९७॥
योगी तं तनुते पुरो मुररिपोर्नामामृतैरायतैः
योगीन्द्रः श्रुतिशासने सुषमतो मोहोल्लसन्मानसः ।
भोगीशस्फुटतल्पकल्पनममुं सेवेत यः केशवं
भोगीशः स पुमान् स एव चतुरो भुक्तेश्च मुक्तेः क्षमः ॥ ९८॥
कालोल्लासिकदम्बकोरककुले कार्पूरिते केतकैः
केलीकुञ्जकुटीरके कलकलैः कल्लोलिते केकिनाम् ।
क्लिष्टानां कमनीयकान्तिसुषमः कस्तूरिकाकोमलः
कल्याणानि करोतु कौतुकमयः क्लृतोदयः कालिमा ॥ ९९॥
मौलौ नीलमणिच्छटा मृगदृशां नीलोत्पलं कर्णयोः
चक्षुष्यञ्जनरञ्जनं कुचयुगे कस्तूरिकालेपनम् ।
नीलं नेत्रदलं नितम्बफलके पादाम्बुजे षट्पदं (नेत्रम्-जटा वस्त्राञ्चलं च)
सर्वस्वं श्रुतिशेखरस्य कलये वृन्दावने व्याकृतम् ॥ १००॥
मुग्धेन्दीवरमालिकाविरचनं वृन्दावनक्ष्मारुहा-
मामोदाय गवां नवाम्बुदसमं सारं तमालाङ्कुरम् ।
माद्यन्मन्मथमानयौवनमदाघूर्णभ्रुवां सुभ्रुवा-
मास्वाद्यं महये महो महदहो माधुर्यमूलायनम् ॥ १०१॥
दिक्पालावलिमौलिरञ्जितपदाम्भोजं त्रिलोकेश्वरं
गोपस्त्रीजनवस्त्रमोषणकलापरीणपाटच्चरम् ।
लक्ष्मीकल्पितदिव्यतल्पविलसत्पर्यङ्कपर्याकुलं
कालिन्दीतटसैकतीयशयने स्वेच्छासुषुप्तं श्रये ॥ १०२॥
यद्दण्डग्रहणं कषायवसनादानं शिरोमुण्डनं
भक्तिं भागवतीं विना हतमतेः तत्केवलं दण्डनम् ।
कृष्णाने यदि दण्डवन्निपतनं तद्यातनां दण्डयेत्
यातायातकृतां भवेत् (भवे) परिभवे तत्सम्भवेन्मण्डनम् ॥ १०३॥
दण्डेनैकतरेण किं गुरुतरैर्दण्डैस्त्रिभिः किं कृतं
दीर्घश्मश्रुभवैर्जटायतजटाभारैरपारैरलम् ।
केशक्लेशनवेष एष भगवद्भक्तिं विना सज्जनाः
श्रीनारायणमाश्रयध्वमिह वो मुक्तौ यदा कामना ॥ १०४॥
नैवेद्यौदनभोजनं भगवतो निर्माल्यमाल्योत्तमैः
भूषा तच्चरणाब्जकुङ्कुमकणैर्फालस्थलोद्धृलनम् ।
तन्युक्ताम्बरडम्बरैरनुपमैरुष्णीषसंवेष्टनं
भूयासुर्मम मुक्तये मुनिमताः सेवाभिषेकोत्सवाः ॥ १०५॥
नैवेद्यं पुरुपोत्तमस्य सुरसं पीयूषसारोपमं
सामोदैस्तुलसीदलैः परिचितं सर्वाधगर्वापहम् ।
कर्परोत्करसौरभं शुभतरं चक्षुर्मनोरञ्जनं
भुञ्जानो भवरञ्जनं कलयते विष्णोः पदं केवलम् ॥ १०६॥
दास्याय क्षणिकायुषां प्रभवते देवावलीसम्पदां
नैराश्याय फलेषु दर्शितमहालोभेषु भोगेच्छया ।
लास्याय प्रियसम्पदां विदधते विख्यातमाचार्यकं
दास्याय स्पृहयामहे भगवतो मोक्षैकदीक्षागुरोः ॥ १०७॥
नित्यं कर्मकरौ करौ शुचितरौ सेवाकथातत्परौ
पादौ सुन्दरमन्दिरागमसुसंवादौ सदार्द्रै कृतौ ।
घ्राणं मौलिविमुक्तमुग्धतुलसीघ्राणे कृतप्रीणने
विद्वत्ता कविता विचित्रचरिते कृष्णस्य मे नन्दताम् ॥ १०८॥
जारत्वं गुरुतल्पदोषशमनं गोपीषु यस्य प्रभोः
सद्यो ब्रह्मवधं धुनोति बहुधा यद्ब्रह्मरक्षोवधः ।
स्त्रीभिः शीधुनिषेवणं गुरुसुधापानं क्षिणोति क्षणात् (गुरुसुरापानं)
स्तेयं गोरसमोषणं शतमहो तत्सङ्गमः सङ्गमः ॥ १०९॥
वेदान्तैर्बहुधावृतं श्रुतिशतैः सङ्घाकृतं श्रीकृतं
सिद्धान्तैरुररीकृतं मुनिवरैः सर्वैः पुराणैर्वृतम् ।
चित्त स्वास्थ्यहृतं हरेण विवृतं मोक्षार्थमत्यादृतं (चित्ता)
श्रीकृष्णस्य निपीयतां रसभृतं श्रोत्रेण नामामृतम् ॥ ११०॥
लीलासंश्रवणे हरोऽतिरसिकः श्रीनारदः कीर्तने
ब्रह्मा संस्मरणे पदाम्बुरुहयोः संसेवने पद्मजा ।
पूजायां सुरनायकः स्तुतिविधौ व्यासो गरुत्मान् पुनः
दास्ये सख्यकृते नरोऽप्यतिरतः स्वात्मार्पणे श्रीपतेः ॥ १११॥
एकोऽपि त्रिगुणानुबिम्बकलया त्रैविध्यमाभासयन्
मायाकल्पलताश्रयः शुकमुखैः संसेवितो यो द्विजैः ।
आयासैरफलैरलं कृतधियः सोऽयं परं सेव्यतां
नीलक्ष्माधरमौलिमण्डनमणिः कैवल्यकल्पद्रुमः ॥ ११२॥
देवश्रेणिकिरीटपङ्कजविसंवादेन पादेन त-
द्वेदोदीरितचित्प्रकाशपरमाह्लादेन नादेन तत् ।
सिद्धं चेदखिलं मनोज्ञमुरलीनादेन मादेन नो
वागाडम्बरजृम्ममाणकलहोन्मादेन वादेन किम् ॥ ११३॥
इत्येषा पुरुषोत्तमस्य कथिता भक्तिर्विमुक्तिप्रदा
नास्यां वादकथा तथा मतिमतां कल्याणिनी शोभते ।
साकारस्य हरेरुपासनमिदं नाकारसम्मेलनं
पुंसः सन्तनुते तनोति परमब्रह्मामृतं केवलम् ॥ ११४॥
को मूढः सुपथे स्थितेऽपि चतुरैर्विद्वज्जनैःसंश्रिते
नानोपद्रववर्जिते स्वसुकृतैरावर्तितैरर्जिते ।
यैः कैश्चित् कृपणैः कृतं परिहतं विज्ञैः कदर्थीकृतं
कर्तुं दुष्करमुग्रदुःखविकटं दुष्टं दुरध्वं श्रयेत् ॥ ११५॥
हे सौमत्य जितं त्वया भगवता पाण्डित्यकृत्यं कृतं
वादित्वप्रतिपादितं तदशुभं तत्त्वे कवित्वस्थितम (?) ।
मार्गान् दुर्गमकण्टकातिविकटान भूयः कृताधोगतीन्
यन्मुक्त्वा हरिराश्रितः सुमनसां स्वर्गापवर्गप्रदः ॥ ११६॥
श्रीजीवः कविडिण्डिमो नृपगुरुः षड्दर्शिनीपण्डितो
भक्तिप्रस्थितदेशिकोऽखिलकलालङ्काररत्नाकरः ।
विंशत्यूर्ध्वप्रशतीमितैर्व्यरचयत् पद्यैः क्रमाद्गुम्भितैः
श्रीकृष्णस्य समर्चनाविधिकृते श्रीवैजयन्ती शुभाम् ॥ ११७॥
श्रीनीलाचलवासिनो भगवतो मोकचिन्तामणेः
लीलाविग्रहशालिनः श्रुतिशिरोराजिष्णुचूडामणेः ।
श्रीमजीवकवीश्वरेण चरणाम्भोजातयोरर्पिता
सम्मृष्टा गुणशालिनी विजयतां श्रीवैजयन्ती चिरम् ॥ ११८॥
इति श्रीमत्कविराजराजगुरुत्रिलोचनाचार्यतनय श्रीमद्भक्तिप्रस्थानप्रणयनाभिनव
बादरायण श्रीनारायणचरणपरायणकविडिण्डिमवाहिनीपति गजराजराजगुरु
श्रीजीवदेवाचार्यविरचितं भक्तिवैजयन्तीस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan