ब्रह्मणा कृतं विष्णुस्तोत्रम्
षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ।
दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ॥ १॥
ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ।
ब्रह्मोवाच ।
त्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः ॥ २॥
व्यापी सर्वामरवपुर्महायोगी सनातनः ।
त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ॥ ३॥
वैराग्यैश्वर्यनिरतो वागतीतो निरञ्जनः ।
त्वं कर्ता चैव भर्ता च विहन्ता सुरविद्विषाम् ॥ ४॥
त्रातुमर्हस्यनन्तेश त्रातासि परमेश्वरः ।
इत्थं स विष्णुर्भगवान् ब्रह्मणा सम्प्रबोधितः ॥ ५॥
इति कूर्मपुराणे पूर्वभागे षोडशाध्यायान्तर्गतं
ब्रह्मकृतं विष्णुस्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे १६/२७-३१
Proofread by PSA Easwaran