ब्रह्मपारस्तोत्रम्
मुनय ऊचुः -
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं शुभम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥ १॥
व्यास उवाच -
पारं परं विष्णुरपारपारः
परः परेभ्यः परमात्मरूपः ।
स ब्रह्मपारः परपारभूतः
परः पराणामपि पारपारः ॥ २॥
स कारणं कारणसंश्रितोऽपि
तस्यापि हेतुः परहेतुहेतुः ।
कार्योऽपि चैष सह कर्मकर्तृ-
रूपैरनेकैरवतीह सर्वम् ॥ ३॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो
ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णु-
रपक्षयाद्यैरखिलैरसङ्गः ॥ ४॥
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥ ५॥
व्यास उवाच -
श्रुत्वा तस्य मुनेर्जाप्यं ब्रह्मपारं द्विजोत्तमाः ।
भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः ॥ ६॥
इति ब्रह्मपुराणान्तर्गतं ब्रह्मपारस्तोत्रं सम्पूर्णम् ।
ब्रह्मपुराण अध्याय १७८