चाटुपुष्पाञ्जलिः
श्रीराधिकायै नमः ।
नवगोरोचनागौरी प्रवरेन्द्रीवराम्बराम् ।
मणिस्तवकविद्योतिवेणीव्यालाङ्गणाफणाम् ॥ १॥
उपमानघटमानप्रहारिमुखमण्डलाम् ।
नवेन्दुनिन्दिभालोद्यत्कस्तुरीतिलकश्रियम् ॥ २॥
भ्रूजितानङ्गकोदण्डां लोलनीलालकावलिम् ।
कज्जलोज्ज्वलताराजच्चकोरीचारुलोचनाम् ॥ ३॥
तिलपुष्पाभनासाग्रविराजद्वरमौलिकाम् ।
अधरोद्भूतबन्धूकां कुन्दालीबन्धुरद्विजाम् ॥ ४॥
सरत्नस्वर्णराजीवकर्णिकाकृतकर्णिकाम् ।
कस्तूरीबिन्दुचिबुकां रत्नग्रैवेयकोज्ज्वलाम् ॥ ५॥
दिव्याङ्गदपरिष्वङ्गलसद्भुजमृणालिकाम् ।
बलारिरत्नवलयकलालम्बिकलाविकाम् ॥ ६॥
रत्नाङ्गुरीयकोल्लासिवराङ्गुलिकराम्बुजाम् ।
मनोहरमहाहारविहारिकुचकुट्मलाम् ॥ ७॥
रोमालिभुजगीमूर्धरत्नाभतरलाञ्चिताम् ।
वलित्रयीलताबद्धक्षीणभङ्गुरमध्यमाम् ॥ ८॥
मणिसारसनाधारविस्फारश्रोणिरोधसम् ।
हेमरम्भामदारम्भस्तम्भनोरुयुगाकृतिम् ॥ ९॥
जानुद्युतिजितक्षुल्लपीतरत्नसमुद्रकाम् ।
शरन्नीरजनीराज्यमञ्जीरविरणत्पदाम् ॥ १०॥
राकेन्दुकोटिसौन्दर्यजैत्रपादनखद्युतिम् ।
अष्टाभिः सात्त्विकैर्भावैराकुलीकृतविग्रहाम् ॥ ११॥
मुकुन्दाङ्गकृपापाङ्गामनङ्गोर्मितरङ्गिताम् ।
त्वामारब्धश्रियानन्दां वन्दे वृन्दावनेश्वरि ॥ १२॥
अयि प्रोद्यन्महाभावमाधुरीविह्वलान्तरे ।
अशेषनायिकावस्थाप्राकट्याद्भुतचेष्टिते ॥ १३॥
सर्वमाधुर्यविञ्जोलीनिर्माञ्छितपदाम्बुजे ।
इन्दिरामृग्यसौन्दर्यस्फुरदङ्घ्रिनखाञ्चले ॥ १४॥
गोकुलेन्दुमुखीवृन्दसीमन्तोत्तंसमञ्जरि ।
ललितादिसखीयूथजीवातुस्मितकोरके ॥ १५॥
चटुलापाङ्गमाधुर्यबिन्दून्मादितमाधवे ।
तातपादयशःस्तोमकैरवानन्दचन्द्रिके ॥ १६॥
अपारकरुणापूरपूरितान्तर्मनोह्रदे ।
प्रसीदास्मिन् जने देवि निजदास्यस्पृहाजुषि ॥ १७॥
कच्चित् त्वं चाटुपटुना तेन गोष्ठेन्द्रसूनुना ।
प्रार्थ्यमानचपालाङ्गप्रसादा द्रक्ष्यसे मया ॥ १८॥
त्वां साधु माधवीपुष्पैर्माधवेन कलाविदा ।
प्रसाध्यमानां स्विद्यन्तीं बीजयिष्याम्यहं कदा ॥ १९॥
केलिविस्रंसिनो बककेशवृन्दस्य सुन्दरि ।
संस्काराय कदा देवि जनमेतं निदेक्ष्यसि ॥ २०॥
कदा बिम्बोष्ठि ताम्बूलं मया तव मुखाम्बुजे ।
अर्प्यमाणं व्रजाधीशसूनुराच्छिद्य भोक्ष्यते ॥ २१॥
व्रजराजकुमारवल्लभाकुलसीमन्तमणि प्रसीद मे ।
परिवारगणस्य ते यथा पदवी मे न दवीयसी भवेत् ॥ २२॥
करुणां मुहुरर्थये परं तव वृन्दावनचक्रवर्तिनि ।
अपि केशरिपोर्यथा भवेत् स चटुप्रार्थनभाजनं जनः ॥ २३॥
इमं वृन्दावनेश्वर्या जनो यः पठति स्तवम् ।
चाटुपुष्पाञ्जलिं नाम स स्यादस्याः कृपास्पदम् ॥ २४॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीचाटुपुष्पाञ्जलिः समाप्ता ।