श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम्
श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः ।
अयि दक्षिणशेषगिरीन्द्रशिर -
स्युररीकृतनित्यनिवास हरे ।
रमयोरसि भास्वरया सुहितः
सुचिरञ्जय रञ्जय सज्जनताम् ॥ १॥
भुवनत्रयभाग्यवशादुदितो
भुजगोत्तमभूमिधरोपरिगः ।
रमया सहितस्स्वमनोरमया
दयमानमना विहरेह हरे ॥ २॥
परिवर्धयितुं निजघर्मततिं
परिपालयितुं निजभक्तजनान् ।
अपि पेषयितुं द्विषतोऽवतर-
स्यहहेह हरे समये समये ॥ ३॥
अवतारभिदास्वखिलासु भवान्
अजहत्परमेश गुणाद्यखिलम् ।
विरहासहया रमया समया
प्रचकास्ति हरे भवतेऽस्तु नमः ॥ ४॥
नित्यसूरिनिषेवितं परमं पदं तदपि त्यजन्
दुस्सहाघविदूनदीन नमज्जनावन तत्परः ।
देवदेव भुजङ्गशैलशिरश्रितोऽसि सहश्रिया
त्वत्पदाम्बुजकिङ्करान्परिपालयाच्युत मादृशान् ॥ ५॥
मीनवपुरेत्य स भवानुदधिमध्ये
वेदगणचोरमधुकैटभनिहन्ता ।
वेध उपगीतमहिमा व्यभवदद्धा
सर्वगुणपूर्ण भगवन्मम नमस्ते ॥ ६॥
मन्दगिरिं पयसि मग्नमुपरुध्य
त्वय्यहह कच्छपपते वहति पृष्ठे ।
मन्थनकृतस्सुरवरा अमृतमाश्नन्
दैवगणपूजित हरे मम नमस्ते ॥ ७॥
भूमिमपहृत्य बहुधर्मजनिभूमिं
सिन्धुजलमध्यमधिगत्य च निलीनम् ।
दैत्यमभिहत्य किटिरूप उद्धारी-
स्तां त्रियुग भूदयित भो मम नमस्ते ॥ ८॥
त्रासितरिपुव्रज महाट्ट हसितैः स्वै-
र्नाथ नरसिंह नयनारुणिमयोगात् ।
क्रोधनमरौ प्रियजने प्रसदनं है
द्राक् कलयतेऽद्भुततनो मम नमस्ते ॥ ९॥
कृष्णमृगचर्मकृतसंवरणलक्ष्मीः
वामनवटो बलिमुपेत्य यदयाचीः ।
तेन फलिनोऽजनिषतेन्द्रबलिलोकाः
त्रिः कृतसुविक्रम हरे मम नमस्ते ॥ १०॥
साधितफले भृगुपते त्वदवतारे
मैथिलसुतारमणमेत्य पथि रामम् ।
वैष्णवशरासनमहोऽर्पणमकार्षी-
रास्थिततपस्य भगवन्मम नमस्ते ॥ ११॥
राम इति यस्य तव नाम निजजप्यं
वक्ति गिरिशो रहसि पर्वतकुमारीम् ।
सर्वजनभव्यद सकृत्प्रणतिमात्रात्
मैथिलसुतारमण राघव नमस्ते ॥ १२॥
राम भवदीयसहभावविरहाभ्यां
हृष्यति विशुष्यति भवन्तमनुजातः ।
तादृगनुचारकृतिमोदितमुरारे
श्रीधर बलाढ्य भवतान्मम नमस्ते ॥ १३॥
कृष्ण ! भवतो वदनपद्मत उदीता
पार्थमपदिश्य समराग्रभुवि गीता ।
भाति जनतावृजिनशोषणशुभार्था
सज्जनशरण्यचरणाम्बुज नमस्ते ॥ १४॥
विष्णुयशसस्सुततया कलियुगान्ते
कर्कमधिरुह्य करदीप्रकरवालः ।
दुष्टजनतामिह निहत्य च सरोषं
वैदिकपथं पुनरविष्यसि नमस्ते ॥ १५॥
ऋते श्रीनिवास गतिर्नो गतिर्नो
सदा श्रीनिवासं स्मराणि स्मराणि ।
मयि श्रीनिवास प्रसीदेः प्रसीदेः
शुभं श्रीनिवास प्रदद्याः प्रदद्याः ॥ १६॥
दयालो रमेश त्वदीयाङ्घ्रिपद्मौ
सुदूरादिहागत्य भक्त्या निषेवे ।
सदासेविनां यत्फलं स्यात्तदेतत्
सकृत्सेविने मे प्रदेहि प्रदेहि ॥ १७॥
अशेषानपि मेदोषान् श्रीनिवास प्रमादजान् ।
क्षमेथास्त्वं क्षमेथास्त्वं देवदेव दयानिधे ॥ १८॥
गोविन्दोपासनपर सीतारामो नाम त्वत्प्रियकारी ।
लक्ष्मीवास त्वज्जनहृद्यो जीयादस्यां भुवि शतमब्दान् ॥ १९॥
सुरगणकीर्तनगोचरपावनमङ्गलनामसहस्र विभो
फणिपतिशेषमहीधरशृङ्गविभूषणसुन्दरमन्दिर भोः ।
कमलगृहामृदुपाणिसरोरुहसंवहनासहपादयुग
त्वमिह हरे विहरस्व चिरं विनमज्जनताशुभदायितया ॥ २०॥
शेषभूमिधरशृङ्गविहारि श्रीनिवासभगवत्परितुष्ट्यै ।
स्तोत्रमेतदुदगीयत भक्त्या राघवेण कविना सरलेन ॥
इति सरलकविराघवसूरिगीतं दक्षिणशेषाचलेश
श्रीनिवासभगवत्स्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan