दशावतारस्तोत्रम् २
यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं
दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी ।
क्रोधे क्षत्रगणः शरेदशमुखः पाणौ प्रलम्बासुरो
ध्याने विश्वमसावधार्मिककुलं कस्मैचिदस्मै नमः ॥ १॥
पाठीनः कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो
रामः कंसनिषूदनो दशबलः कल्की च नारायणः ।
युष्माकं स विभूतयेऽस्तु भगवान्सेतुर्भवाम्भोनिधौ
उत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २॥
वेदा येन समुद्धता वसुमती पृष्ठे धृताप्युद्धृता
दैत्येशो नखरैर्हतः फणिपतेर्लौकम् वलिःप्रापितः ।
क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी
हिंसा दोषवती धराप्ययवना पायात्स नारायणः ॥ २॥
॥ इति दशावतारस्तोत्रम् ॥
Encoded by Dinesh Agarwal dinesh.garghouse at gmail.com
Proofread by Dinesh, NA