श्रीदशावतारस्तोत्रम्

श्रीदशावतारस्तोत्रम्

यो नाम पूर्वमवतीर्थ ररक्ष विश्वं फेनावगाढचलदूर्मिभरेऽम्बुराशौ । केनाहमस्मि परवानरविन्दनेत्रं मीनाकृतिं मधुनिषूदनमन्तरेण ॥ १॥ लोकं बिभर्ति शकलं कमठो भवन् यो नाकं परेण परमे गगने विदीप्तः । साकं रमादिमहिषीगतवन्धनित्यैः शोकं स मे हरतु संसृतिजं मुकुन्दः ॥ २॥ उर्वीतलोद्धरणकृत्यपटिष्ठभावा दर्वीकराशनरथस्य धनाञ्जनाभा । गुर्वी तृतीयजनिरद्भुतकोलरूपा कुर्वीत नः कुशलमिन्दुसमानदंष्ट्रा ॥ ३॥ कायाधवे परमया कृपया प्रकोपो माया मये कनकनामनि दानवेन्द्रे । सायाह्नकाल उदितः सरसीरुहाक्षः पायान्नृसिंहतनुरच्युत एष भक्तान् ॥ ४॥ गर्वाकरेण बलिनापहृतां त्रिलोकीं खार्वाकृतिस्तमपहृत्य तु वञ्चयित्वा । स्वर्वासवैरिगुरुणा प्रभवेऽमराणां दुर्वारमस्तु भविकाय ददद्धरिर्वः ॥ ५॥ यो भार्गवः स्वपितृसंहरणोत्थकोपः शोभास्पदद्विशतपञ्चशकबाहु पङ्क्तिम् । स्वाभाविकार्घ्यपरशुर्नृपमर्जुनाख्यम् । धीभादिसद्गुणनिधिर्हतवान् स पातु ॥ ६॥ भूमावभूत् सुरगणैर्दिनराजवंशे योऽमाननन्तगुणराशिभिरर्थ्यमानः । धीमान् हि गाधिजमखावनकृत् समूढ- हेमाभमैथिलसुतः स रघूद्वहोऽव्यात् ॥ ७॥ जित्वाभियातमपि यो हृतराजलोकं गत्वा मुनिं भृगुसुतं नगरीमयोध्याम् । भुक्त्वा विदेहसुतया विविधांश्च भोगन् सत्त्वाश्रयो जनमनांसि गुणैर्ममन्थ ॥ ८॥ पुत्रार्जवासहितमध्यममातृवाक्यात् वृत्रारिमुख्यदिविषद्गणसेव्यमानः । छत्रावृतानननृपत्वदशां विधूय पित्राटवीमभिययावपि यो नियुक्तः ॥ ९॥ हत्वा विराधमृषिपर्णकुटीः क्रमेण गत्वा फलानि विविधानि च तत्र तत्र । भुक्त्वा घटोद्भवकृतानुमतिस्ततो यः कृत्वा च पश्चवटिकामवसनिवासम् ॥ १०॥ वालप्रियैश्च चमरैर्हरिणैस्तरक्षु- कोलैः प्रचारवति वानरवारणाढ्ये । सालद्रुतालसुतमालतरुप्रकाण्ड- नीलप्रभाजुषि समावसदाश्रमे यः ॥ ११॥ कामावलिप्तहृदया कमनीयगात्रा रामा भवेयमिति निश्चितधीः कनिष्ठा । वामालिका निशिचराधिपतेर्नवाब्द- धामानमाप किल यं अहमैथिलीक (??) ॥ १२॥ येनानुजाथ विकृता दशकन्धरस्य हीना गुणेन वदनावयवेषु लूना । श्येनामिषत्वमगमन्निहताः खराद्याः को नाम तादृगनघेषु सुखी कृतागाः ॥ १३॥ यस्ताटकेय (यो हाटकेय) हरिणग्रहणे धृताशा- विस्तारमैथिलसुतापरिचोदितोऽगात् । अस्तारिरायततरुप्रकरं वनान्तं शस्तासिबाणकवचोत्तमचापयुक्तः ॥ १४॥ वातावधूतकदलीमिव वेपमानाम् । स्फीतामुरोजयुगलेद्धयदीयपत्नीं सीतां जहार दशकन्धरनामधेयः ॥ १५॥ युक्तोऽथ गृध्रनृपतिर्गुरुणा बलेन शक्तोऽपि संयति निशाचरनाथबाणैः । कृत्तो निहत्य रथवाजिकुलं तदीयं मुक्तोऽभवत्परमया कृपया च यस्य ॥ १६॥ सम्पातिपूर्वजवपुर्विधिनैव दग्ध्वा शम्पावियुक्तजलदप्रतिमो वने यः । कुं पावनीं चरणसञ्चरणैर्वित (न्वन्) पम्पातटे शबरिकाश्रममाससाद ॥ १७॥ तत्रार्चितो विधिवदेव तया समीर- पुत्रान्वितः स्वपददस्तनयस्य भानोः । वित्रासितस्य सुरलोकपतेः सुतेन मित्रायते स्म किल यः सहुताशसाक्षिः ॥ १८॥ सालद्रसप्तकमहो विनिहत्य सौम्य- शीलः प्रधूततरदुन्दुभियातुकायः । खेलत्प्रमत्तगजसिंहगतिर्निनाय कालक्षयं प्रबलवालिनमाहवे यः ॥ १९॥ राज्येऽभिषिच्य सुहृदं कपिभूमिपालं पूज्येऽथ वर्षसमयं गमयाम्बभूव । प्राज्ये च माल्यवति योगिगणैर्मृगाणां राज्ये भमुख्यवति सन्ततकन्दरे यः ॥ २०॥ विद्योतमानमचिरप्रभयाभ्रवृन्दं प्रद्योतनांशुपटलस्य तिरोधिहेतुः । सद्यो मनोविकृतिमावहति स्म दारैः नद्योऽपि वारिनिधिमा रहितस्य यस्य ॥ २१॥ केकारवाश्च शिखिनां गिरिनिर्झराम्भ- स्सेकामलायतशिलातलनृत्तभाजाम् । मूकासितेतरपतत्तविवासनार्थाः शोकाग्निदीपनकराः स्म भवन्ति यस्य ॥ २२॥ काले पयोधरकदम्बवति त्रियामा- नीले तिरोहिततुषारघृणिप्रचारे । शैले मनोजनिरुजा वसतो जजृम्भे वेलेव यस्य हृदये जलधेर्हिमांशोः ॥ २३॥ तापेन मैथिलसुताविरहोद्भवेन स्वापेति (ऽपि) येन सहजः प्रहितो यु (ऽमि) तेन । कोपेन वानरपतेर्नगरीं सगन्धां धूपेन सागरुपटीरभवेन भेजे ॥ २४॥ धीराभियातरजनीचरभीतिकारि- वीरायितस्य वरचापगुणारवेण । वाराकरध्वनिजितावरजस्य यस्य तारापतिर्भृशमभूदुपजातकम्पः ॥ २५॥ आगादधीरमनसा प्रहिता धवेन वेगादकोपजननादनुजस्य यस्य । सा गाढविह्वलदृशा सविधं मदेन नागाभिरामगमना कपिराजपत्नी ॥ २६॥ नानाकृतीः कपिमुखाः स्ववचोनियाम्याः सेना अशेषगिरिकानननित्यवासाः । आनाययत् प्रशमयन्नतिवेलकोपं दीनावने कपिपतिर्निरतस्य यस्य ॥ २७॥ पाशायुधाहिरिपुकालधनाधिपाना- माशासु वानरवरानहिनोत् कपीन्द्रः । साशाभरस्य पृथिवीदुहितर्यशेष- देशावलोकनपटून् प्रमुदे च यस्य ॥ २८॥ कान्तारभूमिषु विचित्य सुतोऽञ्जनायाः शान्ताकृतिः सह च वालिसुतेन यस्य । कान्तामचिन्त्यमहिमामुपलभ्यदुःख- ध्वान्ताभिभूतहृदवाप समुद्रतीरम् ॥ २९॥ वाराकरावृतमहीध्रगतान् यदीय- दारानवेत्य हनुमानथ गृध्रवाचा । वीरायितेन तुलया रहितो बभूव धीराग्रणीस्तदवलोकनजातवाञ्छः ॥ ३०॥ शैले यदङ्गुलिविभूषणभृन्महेन्द्रे शैलेयगन्धभरितेऽभिललाष तिष्ठन् । शैलेशतुल्यविभवे तरणं पयोधेः शैलेशसन्निभतनुर्मरुतः कुमारः ॥ ३१॥ स्थित्वा समीरतनयः पृथिवीधरेऽस्मिन् नत्वा सलक्ष्मणकपिप्रवराय यस्मै (कपीशमहीसुतं यम्) । कृत्वा पयोधितरणेऽभिहरि प्रतिज्ञां हित्वा जवेन तमसौ गिरिमुत्पपात ॥ ३२॥ मीनादिसत्त्वनिबिडोदधिजृम्भमाणं मैनाकमश्रमतया समतीत्य दूतः । वीनामधीशमपि यस्य जयञ्जवेन नानामहीध्रगणमाशु तमुत्ततार ॥ ३३॥ सन्ताडनेन रजनीचरनाथपुर्याः सन्तापमुग्रमुपपाद्य सुतोऽञ्जनायाः । हन्तास्य वेश्मनि दिचित्य यदीयपत्नीं दन्तालिनिर्जितविधुं तददर्शनार्तः ॥ ३४॥ हृद्ये निशाचरकुलाधिपतेरपास्ता- वद्ये त्वशोकविपिने महिषी यदीया । यद्येन भङ्गमुपयास्यति तेन नुन्ना- विद्येन वायुजनुषा ददृशे स्वभाग्यात् ॥ ३५॥ भर्तारमेव सततं हृदि चिन्तयन्ती हर्तारमुग्रखरमुख्यनिशाचराणाम् । कर्तारमार्यमुनिमुख्यकुलाभिवृद्धेः स्मर्तारमप्यनुकलं निजविग्रहस्य ॥ ३६॥ प्रज्ञाधनेन हरिणा मरुदुद्भवेन विज्ञापिता दशरथोदयमुख्यवृत्तम् । अज्ञानसञ्चयहरेण यदीयपत्नी विज्ञानिवर्गमहितेन पटुत्वभाजा ॥ ३७॥ वातात्मजस्य वचनेन सुधासमेन जाता सविश्वसनहृत् कमला हि यस्य । सीता प्रवृत्तिमुपलभ्य च सप्रकारां याता प्रमोदमतुलं प्रमदोत्तमाभूत् ॥ ३८॥ मोदावहं जनकभूमिपतेः सुतायै खेदापहं च मणिशोभि यदङ्गुलीयम् । प्रादादमेयमहिमा मरुदात्मजोऽस्यै पादारविन्दयुगलं प्रणनाम यस्याः ॥ ३९॥ तेनातिशायिमुदमावहता पुमर्थ- दानानुरागिणि यदीयकरे स्थितेन । लीनाखिलासुखचया मिथिलेशपुत्री येनाभवद्गुणवता सहितव हृष्टा ॥ ४०॥ कृत्वा बलप्रकटनं यदि मां नयेत्तं हृत्वा निशाचरपतिं सदृशं तदस्य । उक्त्वा मरुज्जमहिनोदिति यं प्रकृत्य नत्वा पदाब्जयुगलं शिरसा च यस्य ॥ ४१॥ भूषा निशाचरमहीशपुरस्य रम्य- वेषाभिरस्य निबिडा सततं प्रियाभिः । शेषावनीजनिनिवासतरूर्यदीय- शेषादशोकवनिकाप हरेर्विभङ्गम् ॥ ४२॥ त्रस्ता वनस्थितनिशाचरनाथदास्यः शस्तात्मविक्रमममुं किल यस्य दूतम् । मस्तार्पिताञ्जलय ऊचुरमुष्य शीघ्र- मस्तालया अवनिजावनजागरूकाः ॥ ४३॥ कोपेन यातुनृपतिर्हि यदीयदूतं भूपेडिताङ्घ्रिरहिनोत् स्वभटाननेकान् । कापेयचञ्चलमिहानयतेति रम्य- धूपे जनाश्रयवरे महिते निषण्णः ॥ ४४॥ एतेन किङ्करवरा निहता यदीय- दूतेन तोरणगतेन चमूमहीशाः । वातेन पञ्च जवतोऽपि च मन्त्रिपुत्राः जातेन यातुनृपतेः सहसाक्षनाम्ना ॥ ४५॥ शक्रारिणा कमलजास्त्रवरेण बद्धो विक्रान्तिमान्निशिचरेशगृहं यदीयः । आक्रामदेतदवलोकनवाञ्छया यं वक्राशरारचितलीलमनेककक्ष्यम् ॥ ४६॥ तत्रावनीश्वरमशेषनिशाचराणां वृत्रारिमुख्यदिविषद्गणभीतिहेतुम् । अत्रासमद्भुतशिरोभुजमास दृष्ट्वा पुत्रादिजुष्टमपि विस्मितहृद्यदीयः ॥ ४७॥ गर्वाकरं विधिवरोर्जितमिद्धदीप्तिं शर्वाचलोद्धरणसम्भवग्र्यकीर्तिम् । सर्वामरद्विषमनेकनरेन्द्रयज्ञ- निर्वापणैकनिरतं परदारसक्तम् ॥ ४८॥ स्वर्वारिसुन्दरिकरैरभिवीज्यमानं पर्वाखरांशुघृणिजित्वरचामराल्या । निर्वाहकं निखिलनैरॄतसन्ततीनां दुर्वार (सम्प)दुदधिं सुरहं समेघम् ॥ ४९॥ यस्याभियातुपति दूतवरो निषण्णः स्वस्यागमस्य परिबोध्य निदानमत्र । अस्यानुकूलमभिधाय च दुष्टवृत्तेः तस्या (शरस्य)विषयोऽप्यपगोरणस्य ॥ ५०॥ अस्यानुजः परयो नु विभीषणोऽपि यस्यानुचारिणमिमं न वधार्हमाह । तस्याभवद्धितमदो वचनं (तदानीं) (रीतिर्हि) दूत इति शास्त्रगिरामवध्यः ॥ ५१॥ दूतस्य यस्य वसनावृतवालवह्नि- र्नीतस्य कर्षणमितस्तत आशरैस्तैः । ख्यातस्य राक्षरापुरीमपि निर्ददाह शीतत्वमाप मिथिलेशसुताप्रसादात् ॥ ५२॥ भूयोऽपि मैथिलसुतां विनमन्महीध्र- कायो जलाकरममेयकमुत्ततार । प्रायोपवेश (गत) वानरतुष्टिकारी वायोरयं प्रियसुतोऽनुचरो यदीयः ॥ ५३॥ अध्यासितं दृढबलैः कपिभिर्मरन्द- वृद्ध्यास्पदं यदनुचार्यनुमत्युपेतैः । यावत्स्वतृप्ति मकरन्दवनं प्रभग्नं वध्या भवन्ति हि यतस्त्वितरे प्रविष्टाः ॥ ५४॥ पुत्रोऽनुजेन मरुतः सहितस्य यस्य शत्रोरशोकगहने सह राक्षसीभिः । तत्रो (पवासनिरता) मवदत् स्वदृष्टां मित्रोस्त्रचारविधुरे मधुरद्रुमाढये ॥ ५५॥ श्रुत्वा वचो हनुमतोऽनवधिप्रमोदः कृत्वातमात्मतनुसङ्गतिधन्यमेनम् । गत्वाथ सागरतटं सह वानरेन्द्रैः उक्त्वाप्रमेय इति तं व्यथितो भृशं यः ॥ ५६॥ यद्भामिनीपरिसमर्पणयुक्तिजालं सद्भाववान् प्रतिवदन् स विभीषणोऽर्थ्यम् । उद्भानुभूषरुचिरं रजनीचरेशं तद्भावुकेतरवचोविमना बभूव ॥ ५७॥ दारान् विहाय धनमित्रसुतांश्च लङ्कां धीराग्रणीर (घविमोच) नमाश्रितानाम् । कारागृहात् सनिगलादिव मुक्त एष वाराकरोत्तरतटे शरणं गतोऽस्मि ॥ ५८॥ अङ्गीकृतिं प्रति कपीन् स विशङ्कमानां- स्तुङ्गीभवद्यदरु (णाम्बुज) पादभक्तीन् । भृङ्गीतनुं यमिति यत्पदपद्मयुग्म- सङ्गी निवेदयत मामुपयातमूचे (?) ॥ ५९॥ नानाविधाः कथयतः कपिराजमुख्यान् सेनापतीन् निशिचरा (भयवर्ज) नोक्तीः । येनाभयं विदधता विदितस्वशक्तीन दीनावनैकनिरतेन तदा ह्यदायि ॥ ६०॥ वाराकरं शरणमाश्रितवान् प्रमत्ते घोरान् शरानपि धनुः प्रगृ ( परिगृह्य पाणौ) । धाराधरप्रतिम एष ववर्ष तस्मिन् नीराजितो मणिगणैरमुना प्रदिष्टैः ॥ ६१॥ चापेऽर्पितस्य किल यस्य विधेः शरस्य कोपेन कम्पिततनुर्जडराशिरेषः । तापेन च स्वतटवासवतः शरव्यं पापेष्वपश्चिमतरानसुरानकार्षीत् ॥ ६२॥ सेतुं कपीश्वरहृतैर्गिरिभिः समुद्रे हेतुं वि (देहतनया) वदनोत्सवस्य । पातुं जनानघवतोऽपि च यो बबन्ध यातुं निशाचरमहीश्वरराजधानीम् ॥ ६३॥ लीलापरैर्निशिचराधिपराजधानी- सालावलोकनकुतूहलिभिः कपीन्द्रैः । कोलाहलं च विदधद्भिरमाकरोत् सु- वेलाधिरोहणमुदारयशोधनो यः ॥ ६४॥ तुङ्गं निशाचरवरोऽप्यधिरुह्य सौध- श‍ृङ्गं व्यलोकयदसौ कपिवर्यसेनाः । रङ्गं श्रियः पलभुजां कपिराट् किरीट- भङ्गं चकार किल तस्य यदङ्घ्रिभक्त्या ॥ ६५॥ सेना सरा (क्षसमहीभृ) दियं कपीनां येनात्तचापशरपाणितलेन गुप्ता । नानानिशाचरवृतां नगरीं दशास्य- सेनां समावृणुत देवगणैरधृष्या ॥ ६६॥ रुद्धे निशाचरपुरे क्वचन प्रदेशे दग्धे यदीयपृतनाभिरथान्यतोऽपि । मुग्धे पलाशनजने क्वचिदप्यभीक्ष्णं क्रुद्धे च पङ्क्तिवदने परपीडनेन ॥ ६७॥ युद्धाय रात्रिचरबानरधूर्वहाः सं।- नद्धा बभूवुरथ शस्त्रमहीध्रहस्ताः । जग्धाश्च केचिदपरे त्विह बाणवह्नि- दग्धाः परस्परमतीव जयोद्यतास्ते ॥ ६८॥ सन्त्रासयन् हरिकुलं भुजगास्त्रजालैः सुत्रामजिद्यदनुज यमपि प्रपीड्य । पित्रा प्रहृष्टमनसा बहुमानपूर्वं कुत्रारिरित्यभिहिते निहतं शाशंस ॥ ६९॥ पातेन वेगत उदञ्चितचण्डपक्ष- पातेन पक्षिकुलभूमिभृता व्यभेदि । मा ते भयं त्विति तदा वदता स वैरि- घातेन यत्तनुगतो भुजगास्त्रबन्धः ॥ ७०॥ ताम्राननेन मरुतः कपिना सुतेन साम्रादिपादपकरेण विधाय जन्यम् । धूम्राक्ष आशर उपेत्य यदङ्घ्रिदास्य- साम्राज्यतुष्टहृदयेन विनाशमापत् ॥ ७१॥ पित्रा समेन बलतः कनकोङ्गदेन वित्रासितारिनिवहेन सहाङ्गदेन । तत्रास युद्धमवलोकयतां सुभीमं तत्राप नाशमरिजय्यपि वज्रदंष्ट्रः ॥ ७२॥ नीलेन सैन्यपतिराशरभूभृतः स- सालेन तालमुखदारुभृता कृताजिः । कालेयरञ्जिततनुर्यदनीकजाल- पालेन कालसदनं निहतः प्रपेदे ॥ ७३॥ सेनाभिरायुधवतीभिरतीव रक्तो येनापि योद्धुमुपयाति दशाननः स्म । दानाभिवर्षिगजवाहरथैः समेतो नानाविधैर्नगरतो गिरिमूर्ध्नि भातः ॥ ७४॥ कृत्वा रणं हनुमता समतीत्य किञ्चित् गत्वा कपीश्वरमुखैरपि यत्कनिष्ठम् । हत्वायुधेन तमसौ न शशाक हर्तुं हृत्वा गतोऽनिलसुतः प्रहरद्दशास्यम् ॥ ७५॥ येनानिलात्मजगतेन रथी चिराय नानायुधैर्विहितसंयदसौ चचाल । लीनात्मशक्तिरथ बाणहतो भृशार्तो दीनायतेऽपि (स्म) करतोऽपि विस्तृष्टचापः ॥ ७६॥ त्वं गच्छ संयति मदीयशरैर्विभिन्न- स्त्वङ्ग प्रविश्य विगतश्रम एष (व) लङ्काम् । त्वङ्गद्रथादिसहितः पुनरोहि जन्य- रङ्गस्थलीमिति यतोऽभिहितो दशास्यः ॥ ७७॥ रक्षोऽधिपोऽनुजमथो निजमात्तनिद्रं सङ्क्षोभचित्त उदबोधयदुत्थितोऽसौ । विक्षोभयन्नुरुबलेन कपीशसेनां शिक्षोद्यतः कलशकर्ण उपाद्रवद्यम् ॥ ७८॥ गोत्रप्रमाणतनुरेष कपीन्द्रवाहि- गात्रः प्रहृष्टहृदयः प्रविवेश लङ्काम् । नेत्रप्रियः पलभुजां तदुदीरितात्म- स्तोत्रस्ततः कपिवरः क्रमशः प्रबुद्धः ॥ ७९॥ तेनानुजासमदशो रचितः सुरादि- पानातिमत्त उररीकृतशूल एषः । नानास्त्रविज्जनवरेण विखण्डिताङ्गो येनामरप्रियकरीं मृतिमाशु नीतः ॥ ८०॥ जम्मारिजित्तदनु कोपवता स्वपित्रा सम्भावितोऽपि यममोहयदब्जजास्त्रम् । स्तम्भावहं यदनुजप्रमुखान् प्रसह्य (युज्य) डम्भाञ्चितः स्वपितृमानसमोदकारी ॥ ८१॥ वातात्मजाहृतमहौषधिपर्वतेन वीतात्मचेतनयदीयकनिष्ठमुख्याः । याताश्च योऽपि गतपीडनतामसृक्प- जेता विधिर्हि निखिलैर्दुरतिक्रमः स्यात् ॥ ८२॥ इन्द्रात्मजस्य तनयेन यदङ्घ्रिभाजा तन्द्रालुभावरहितेन किलाङ्गदेन । चन्द्राननेन विलयं नरकान्तकोऽगात् सन्द्राविताखिलकपिः समितौ बलेन ॥ ८३॥ वातात्मजेन समरे त्रिशिरा हतोऽभू- न्नेता निशाचरकुलस्य सुरान्तकोऽपि । स्थाताग्रतो यदनुजेन सुरेन्द्रसैन्ये जेतातिकाय इति राक्षसराजसूनुः ॥ ८४॥ सूरात्मजेन कपिभूमिभृता च कुम्भो वीराग्रणीर्विरचिताजिरवाप नाशम् । घोरात्मकर्मकृतभीतिकरिबल (र्बलैक-) (वा) राकरेण मरुदुद्भवतो निकुम्भः ॥ ८५॥ जम्भारिसैन्यपरिमर्दनकृत् स्वपित्रा सम्भावितो यदनुजेन समेत्य युद्धम् । डम्भाकरो मघवजित् किल कूटयोधी स्तम्भाञ्चितो विनिहतोऽतिबलेन यत्नात् ॥ ८६॥ सन्नाहवान् दशमुखः स्वयमेव योद्धुं नुन्नात्मजादिमृतिसम्भवशोकभारः । खिन्नानापि स्वकजनानथ सान्त्वयित्वा भिन्नान् कपीनिति करोमि वदन् प्रतस्थे ॥ ८७॥ आसीदतोः समरमृद्धकपीन्द्ररक्षो- नासीरमुज्ज्वलधनुर्धरयोद्धयोश्च । आसीद्धि यस्य रजनीचरभूपतेः क्व यासीति तिष्ठ वदतोर्मिथ एहि शीघ्रम् ॥ ८८॥ दन्तावलादिचतुरङ्गसमेतजन्ये यन्ताजहार दिविषन्नृपतेः शताङ्गम् । तं तापसैरपि सुरैरभिपूज्यमानो हन्तारुरोह रजनीचरभूपतेर्यः ॥ ८९॥ लोकेशदैवतशरेण निशाचरेन्द्रो नाकेशसारथिवचःप्रहितेन येन । काकेन चागसि समो गगने सुरेशा- नीके प्रहृष्यति हतो हृदये ममार ॥ ९०॥ योऽपेतकोप इह पूर्वजनाशतो वि- लापेन तद्गुणवता स विभीषणोऽपि । तापेन शल्यसहितस्तु यदीयदार- पापेन युक्त इति तद्दहनं न चक्रे ॥ ९१॥ यच्छालनेन दहनं पुनरस्य चक्रे स्वच्छाध्वरोक्तविधिना सहसामभिः सः । पुच्छाभिघातविहतिं कपयोऽषि जग्मु- र्विच्छायतां निशिचरसश्च तदावशिष्टाः ॥ ९२॥ नेता समस्तजगतां रजनीचरेश- जेताधिलङ्कमभिषिच्य कनिष्ठमस्य । सीतामवाप विधिरुद्रमुखैश्च योऽसौ पूतां शुचौ स्वजनकेन च नन्द्यमानः ॥ ९३॥ यानेन विस्तृततरेण तु पुष्पकेण सेनेन वानरजनेन सदारकेण । मानेन मेरुतुलितेन विभीषणेन योऽनेन यातुमहितेन सह प्रतस्थे ॥ ९४॥ वीतासुखं निजसमागमतो विमाने सीतामिति ह्यकथयत् परितुष्टहृद्यः । याता पुरीं प्रति निशाचरसन्ततीनां नेतात्र जानकि मया निहतस्तवार्थे ॥ ९५॥ अन्भोनिधौ जनकनन्दिनि पश्य सेतुं कुम्भोपमोरुकुचशालिनि कोमलाङ्गि । रम्भोरु वानरसमाहृतशैलवृक्ष- स्तम्भोच्चयेन रचितं भवतीमवाप्तुम् ॥ ९६॥ मामाप जानकि तदात्र विभीषणोऽयं सामानि राक्षसवरं कथयंस्त्वदर्थे । कामातुरं तदनु तेन विनिन्द्यमानो धीमान् विसृज्य सहजं सहितश्चतुर्भिः ॥ ९७॥ अत्राभजं शरणमम्बुनिधिं ततः स वित्रासितस्तदनु पङ्कजसम्भवास्त्रात् । मित्रायमाण उपहार्यवदन्नलं स्व- पित्रा समोऽयमिति सेतुकृतौ समर्थः ॥ ९८॥ यानं प्रयाति लधु जानकि पश्य शैल- मेनं च यत्र सहजेन हृतात्मदारः । जानन् सदृक्षमपि मामभवत् सखा मे दीनं कपीश इतसम्पदपास्तशत्रुः ॥ ९९॥ गोदावरीं जनकनन्दिनि पश्य पश्य- त्खेदापहां त्वमनु पञ्चवटीं प्रसन्नाम् । वेदाङ्गविन्मुनिजनैर्विहिताभिषेकां मोदावहां मम तवापि विहारकाले ॥ १००॥ अत्रानुजेन रचितां मम पर्णशालां वृत्रारिचापदमुनेरपि सन्मुनीनाम् । तत्रापि तत्र विविधाश्रमभूमिभागां- श्चित्रान् विलोकय तलोदरि चित्रकूटम् ॥ १०१॥ उक्त्वा विदेहतनयामिति यस्तु पूर्णे नत्वाधिपञ्चमि मुनिं च चतुर्दशाब्दे । गत्वा समागममथो भरतेन पौरैः कृत्वा समन्त्रिभिरसौ नगरीप्रवेशम् ॥ १०२॥ तत्राभिषेकमभजत् सहमैथिलीकः सुत्रामनीलमुखरत्नविचित्रपीठे । छत्रादिभृद्भिरनुजैरपि सेव्यमानो मित्रान्ववायतिलको विरराज दीप्त्या ॥ १०३॥ हित्वा विमानमपि वोढुमथैकपिङ्गं कृत्वा कपीशपृतनागमनाभ्यनुज्ञाम् । दत्त्वा विभीषणकृते नु धनं कुलस्य मत्वा निजावतरणं सफलं तुतोष ॥ १०४॥ कुम्भोद्भवादिकथितात्मरिपुप्रशस्त- डम्भोच्चयोद्भववराप्तिहरिर्जयाढ्यः । अम्भोधरारवविचित्रकथाश्च श‍ृण्वन् जम्भोपमर्दनजयप्रमुखाः प्रहृष्टः ॥ १०५॥ यो राजमौलिविनतः कुरुते स्म राज्यं चोरादिबाधरहितं बहुधेष्टयज्ञः । चारा भिदृष्टजनवृत्तमुदारशीलः श्रीराम एष सततं हृदि सन्निधत्ताम् ॥ १०६॥ यो रेवतीमुखविकासकरस्वकीय- बेरेण नीलवसनस्तुलितोऽद्रिणासौ । गौरेण शोभितशयो निहतप्रलम्बः सीरेण हन्तु दुरितं निखिलं बलो वः ॥ १०७॥ यो देवकीजठरतो वसुदेवसूनु- र्भूदेवतागुरुभरं परिहर्तुकामः । वेदेषु गीतविभवोऽवततार सम्प्र- पेदे व्रजं तदनु नन्दगृहेऽपि वृद्धः ॥ १०८॥ नानाविधानवनिपीडनकारकोग्र- सेनात्मसम्भवमुखान् विनिहत्य भूमिम् । दीनामनुग्रहभरेण चकार हृष्टां यो नायको व्रजकुलस्य स पातु कृष्णः ॥ १८९॥ वाहाधिरूढ उररीकृतखड्गपाणि - र्मोहाविलान् कलिविजृम्भितकल्मषाढ्यान् । यो हा हनिष्यति हि विष्णुयशस्तनूजो नीहारभानुवदनोऽवतु नः स कल्की ॥ ११०॥ श्रीवादिभीतिकरनामगुरोः कुदृष्टि- नीवारजालशमनस्य तनूभवेन । सेवाकृतास्य रचितेयमहो स्तुतिर्भू । देवाभिनन्दनकरेण वृषाचलेशा ॥ १११॥ इति श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं दशारवतारस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Dashavatara Stotram 12 03 03
% File name             : dashAvatArastotram.itx
% itxtitle              : dashAvatArastotram 12 (yo nAma pUrvamavatIrtha)
% engtitle              : dashAvatArastotram 12
% Category              : vishhnu, stotra, dashAvatAra, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : shrIprativAdibhayaNkaraveNkaTeshavirachitaM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-03
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org