श्रीदेवनायकसुप्रभातस्तोत्रम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमद् वरवर मुनये नमः ।
श्रीमद् वानमहाचल गुरुभ्यो नमः ।
श्रीवल्लिमङ्गया नित्यं श्रियालिङ्गितवक्षसः ।
श्री देवनायकस्याङ्ग्री शिरोभूषणमस्तु मे ॥ १॥
श्रीभट्टनाथवानाद्रि रामानुजमुनेः पदौ ।
शिरसानम्य देवेश सुप्रभातं वितन्यते ॥ २॥
श्रीदेवनायक विभो जगदेकनाथ
श्रीकर्णयोः कुरु गिरं तव किङ्करस्य ।
एता मवद्यभरितामपि मे दयाब्धे
मातेव वत्सलतमा निजबालकस्य ॥ ३॥
सन्तः शृतिप्रणयिवाग्विभवा अपीह
सङ्कीर्तने गुणनिधे स्तव सङ्कुचन्ति ।
सत्येव मीडितुमना निरपत्रपस्त्वां
सजजीभवामि वशगो ननु चापलस्य ॥ ४॥
तत्रापि विश्वजननस्थिति सम्हृतीनां
कर्तारमेकमपि सन्ततजागरूकम् ।
सङ्कल्पयननु विभोधयितुं भवन्तं
सत्यं प्रमत्त इव यत्किमपीह कुर्वे ॥ ५॥
श्री भूमिपाणिकमलैः परिमृष्टगात्र
श्री गोदया धृपदाम्बुज शेषतल्पे ।
देव्याङ्कचायित मुदा वरमङ्गया श्री
देवेश जागृहि तवाध्य हि सुप्रभातम् ॥ ६॥
लक्ष्मीमहीदिननिशाकरदेवकन्या
युग्मैः समं भृगुमृगण्डुतनूभवाभ्याम् ।
वेदात्मपत्रिपतिना च वलाधिपेन
तोदाद्रिनाथ भगवम्स्तव सुप्रभातम् ॥ ७॥
भास्वानिदेष्यति समृद्धकरः पुरस्तात्
पस्चाद्विधुर्विगतभा विलयं प्रयाति ।
एवं जगन्निजकृतानुगुणं नियोक्तुः
देवाधिनाथ तव सम्प्रति सुप्रभातम् ॥ ८॥
हेयद्विषं शुभगुणैकनिकेतनं त्वां
ध्येयं दिदृक्षव इमे सनकादिसिद्धाः ।
स्वायम्भुवाः सुरपते स्वयमागता स्तत्
स्वीयं विमुञ्च शयनं तव सुप्रभातम् ॥ ९॥
श्रीवास तावकतपोवनगा मुनीन्द्राः
सेवारता भुजगतल्पत उद्यतस्ते ।
श्रीवासगेहमुपयान्ति हि सेमशाद्याः
देवादिराज तव सम्प्रति सुप्रभातम् ॥ १०॥
रामानुजो यतिपतिः सह शिष्यवृन्दैः
रामानुजस्य तव देव यथा यशोदा ।
प्राभोधकीं समुगायति सूक्तिमालां
स्वापात्प्रबुद्धय सुरनायक सुप्रभातम् ॥ ११॥
वानाद्रिलक्ष्मणमुनि स्तव वल्लिमङ्गा
दानात्प्रहृष्टहृदयः स्वसुतां प्रबुद्धाम् ।
एनां पिपृच्छिषति सुस्वपनं रजन्यां
मानाथ मानय गुरुं तव सुप्रभातम् ॥ १२॥
आम्नायशीर्षयुगपारगता द्विजास्त्वन्
नाम्नां सहस्रमनघं परिकीर्तयन्तः ।
धाम्नोज्वलं तव निकेतमुपागतास्तान्
भूम्ना श्रियां धिनु सुराधिप सुप्रभातम् ॥ १३॥
दिव्यावरोधत उपाम्शु विनिर्यतस्ते
सिम्हक्रमोपमगते रवलोकनाय ।
श्रीवैष्णवाः समधिकं स्पृहयन्त्यमीषां
सेवां सुरेश विसराद्य हि सुप्रभातम् ॥ १४॥
नानानुभाव नरदेवगणा श्चिरेण
सेनाधिपानुमतिलब्धसभाप्रवेशाः ।
धर्मासनं दृतकराः परिवृणवते
तान् शर्मापितान् कुरु दृशा तव सुप्रभातम् ॥ १५॥
क्लिष्टस्य धूः सुरपते ननु बिष्टपस्य
शिष्टेष्टसम्घटनदुष्टनिबर्हणाख्या ।
त्वययेव नाथ विततायतते यतस्स्वां
शय्यां जहाहि भगवं स्तव सुप्रभातम् ॥ १६॥
पद्मासखल्य भवतः परिचर्ययालं
विस्मापितो निशि पराङ्कुशसूरिरद्य ।
सेवारसं वदितुमिच्छति नैजगोष्ट्यां
देवास्य देह्यनुमतिं तव सुप्रभातम् ॥ १७॥
भावत्कदिव्यनगरीविशिखासु विप्राः
श्राव्यस्वनाक्षरमुखाः स्तुवते भवन्तम् ।
प्रत्नैः शुकोक्तिहरिवम्श पुराणरत्नैः
यत्नेन दैवतपते तव सुप्रभातम् ॥ १८॥
वैकुण्ठनामकविमानगजालरन्ध्रैः
वैभातिकाः शयनधाम विशन्ति वाताः ।
देवीसुगन्धिमुखवातजिगीषयेव
देवाधिनायक तवाद्य हि सुप्रभातम् ॥ १९॥
त्वन्नामकीर्तनविधौ महिषीविनीतैः
स्वर्णाभपञ्चरगतैः शुकशारिकाद्यैः ।
स्वर्णाथ ते समुदितान् गुणनामवर्णान्
कर्णागतान् कलय सम्प्रति सुप्रभातम् ॥ २०॥
शृत्वा त्वदीयसहकारवनोपकण्ठे
सोत्कण्ठविस्तृतशिखण्डकनीलकण्ठाः ।
नृत्यन्ति नीरदरवां हि विभातभेरीं
निद्रां जहीहि सुरनायक सुप्रभातम् ॥ २१॥
आम्रदृमोपवननीडनिकेतभाजः
कम्रस्वनाः परभृताः कलकूजिनेन ।
धिन्वन्ति नित्यविबुधा इव दिव्यसाम्ना
श्रीमन् भवन्त ममराधिप सुप्रभातम् ॥ २२॥
श्रीपङ्कपङ्कजसरोवरराजहम्साः
देवीसहस्रमणिनूपुरशिञ्जितानि ।
तल्बोग्दगमावसरजान्यनुकर्तुकामाः
शय्यां त्यजन्ति परितस्तव सुप्रभातम् ॥ २३॥
कामाभिधानसुमनोवनिताभिरामाः
रामा रमेश सुमनोवरदामहस्ताः ।
त्वामादरेण नचिरेण बुभूषिषन्ति
जामातरं निजगुरो स्तव सुप्रभातम् ॥ २४॥
धाटीषु ते रथगजाश्वषदातियोधान्
आटीकयत्यतुलवेत्रलतेङ्गितैर्यः ।
सेनापतिर्वितनुते जयघोषमद्य
वानाद्रिकन्दरहरे तव सुप्रभातम् ॥ २५॥
प्रातः परिक्रमकृते सुकृतां प्रतोळीं
यातः परिष्कृतगृहा नगरीपुरन्ध्र्यः ।
नीराजनाय भवतो नितरां त्वरन्ते
स्वाराध देवरमणाद्य हि सुप्रभातम् ॥ २६॥
शौर्यप्रशस्तिरिह ते स्नपनप्रक्लुप्तिः
तौर्यत्रिकप्रसृतिरत्र च सौरभेयी ।
शङ्खान् धमन्त इह मङ्गलवादिसङ्गः
सर्वं समर्थय विभो तव सुप्रभातम् ॥ २७॥
वर्णस्वरार्थपदभावविशुद्धिवर्जं
कर्णान्तरङ्गकटुकं कविताभिमानात् ।
सञ्जल्पितं त्रिदशनाथ तव प्रसादात्
अञ्जत्विदं सगुणता मिति सुप्रभातम् ॥ २८॥
गोपालार्यकविप्रोक्तं देवाधिपविबोधनम् ।
सुप्रभातमधीयानः क्षिप्रमिष्टमवाप्नुयात् ॥
श्रीदेवनायकसुप्रभातस्तोत्रं समाप्तम् ॥