$1
श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः
$1

श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । सुधापूर्णकलशाढ्यकराय । हरये । जरामृतित्रस्तदेवप्रार्थनासाधकाय । प्रभवे । निर्विकल्पाय । निस्समानाय । मन्दस्मितमुखाम्बुजाय । आञ्जनेयप्रापिताद्रये । पार्श्वस्थविनतासुताय । निमग्नमन्दरधराय । कूर्मरूपिणे । बृहत्तनवे । नीलकुञ्चितकेशान्ताय । परमाद्भुतरूपधृते । कटाक्षवीक्षणाश्वस्तवासुकये । सिंहविक्रमाय । स्मर्तृहृद्रोगहरणाय । महाविष्ण्वंशसम्भवाय । प्रेक्षणीयोत्पलश्यामाय नमः ॥ २० आयुर्वेदाधिदैवताय नमः । भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय । नवयौवनसम्पन्नाय । किरीटान्वितमस्तकाय । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये । दीर्घपीवरदोर्दण्डाय । कम्बुग्रीवाय । अम्बुजेक्षणाय । चतुर्भुजाय । शङ्खधराय । चक्रहस्ताय । वरप्रदाय । सुधापात्रे परिलसदाम्रपत्रलसत्कराय । शतपद्याढ्यहस्ताय । कस्तूरीतिलकाञ्चिताय । सुकपोलाय । सुनासाय । सुन्दरभ्रूलताञ्चिताय । स्वङ्गुलीतलशोभाढ्याय । गूढजत्रवे नमः ॥ ४० महाहनवे नमः । दिव्याङ्गदलसद्बाहवे । केयूरपरिशोभिताय । विचित्ररत्नखचितवलयद्वयशोभिताय । समोल्लसत्सुजातांसाय । अङ्गुलीयविभूषिताय । सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय । लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय । लक्ष्मीशोभितवक्षस्काय । वनमालाविराजिताय । नवरत्नमणीक्लृप्तहारशोभितकन्धराय । हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय । विरजोऽम्बरसंवीताय । विशालोरसे । पृथुश्रवसे । निम्ननाभये । सूक्ष्ममध्याय । स्थूलजङ्घाय । निरञ्जनाय । सुलक्षणपदाङ्गुष्ठाय नमः ॥ ६० सर्वसामुद्रिकान्विताय नमः । अलक्तकारक्तपादाय । मूर्तिमद्वार्धिपूजिताय । सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनाय । कोटिमन्मथसङ्काशाय । सर्वावयवसुन्दराय । अमृतास्वादनोद्युक्तदेवसङ्घापरिष्टुताय । पुष्पवर्षणसंयुक्तगन्धर्वकुलसेविताय । शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय । विष्वक्सेनादियुक्पार्श्वाय । सनकादिमुनिस्तुताय । साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय । साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय । नमनोन्मुखदेवादिमौलिरत्नलसत्पदाय । दिव्यतेजःपुञ्जरूपाय । सर्वदेवहितोत्सुकाय । स्वनिर्गमक्षुब्धदुग्धवाराशये । दुन्दुभिस्वनाय । गन्धर्वगीतापदानश्रवणोत्कमहामनसे । निष्किञ्चनजनप्रीताय नमः ॥ ८० भवसम्प्राप्तरोगहृते नमः । अन्तर्हितसुधापात्राय । महात्मने । मायिकाग्रण्यै । क्षणार्धमोहिनीरूपाय । सर्वस्त्रीशुभलक्षणाय । मदमत्तेभगमनाय । सर्वलोकविमोहनाय । स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलये । रत्नदर्वीलसद्धस्ताय । देवदैत्यविभागकृते । सङ्ख्यातदेवतान्यासाय । दैत्यदानववञ्चकाय । देवामृतप्रदात्रे । परिवेषणहृष्टधिये । उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय । पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय । राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय । अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय । गरुत्मद्वाहनारूढाय नमः ॥ १०० सर्वेशस्तोत्रसंयुताय नमः । स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय । मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय । शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय । वेदान्तवेद्यमहिम्ने । सर्वलोकैकरक्षकाय । राजराजप्रपूज्याङ्घ्रये । चिन्तितार्थप्रदायकाय ॥ १०८ इति श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : dhanvantaryaShTottarashatanAmAvaliH
% File name             : dhanvantaryaShTottarashatanAmAvaliH.itx
% itxtitle              : dhanvantaryaShTottarashatanAmAvaliH
% engtitle              : dhanvantaryaShTottarashatanAmAvaliH
% Category              : vishhnu, aShTottarashatanAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org