श्री धर्मपुरी लक्ष्मी नरसिंहगीतिकाः
ॐ गँ गणपतये नमः ॥
हरिनराकृतिं सैंहिकाननं
जलधिपुत्रिका सेविताङ्घ्रिकम् ।
भरणभूषितं भूषित प्रभम्
नरहरिं भजे धर्मपूर्विभुम् ॥ १॥
हरिवराननं घातुकान्तकं
श्रितजयप्रदं चक्रधारिणम् ।
भुजगशायिनं भूरिदायिनं
नरहरिं भजे धर्मपूर्विभुम् ॥ २॥
ऋषिवराश्रितं ऋग्भिरर्चितं
विदितवेद्यकं वेदगम्यकम् ।
श्रितवरार्थिने कल्पवृक्षकं
नरहरिं भजे धर्मपूर्विभुम् ॥ ३॥
दितिजबालकप्राणरक्षणे
दितिजमन्दिरे स्तम्भसम्भवम् ।
द्विजबुधैः सदा पूजितं स्तवैः
नरहरिं भजे धर्मपूर्विभुम् ॥ ४॥
सुजनभक्तकान् सक्तरक्षकं
कुजनशिक्षणे सक्तचित्तकम् ।
मकरमौखिकात् नागरक्षकं
नरहरिं भजे धर्मपूर्विभुम् ॥ ५॥
सुरपतेः सुखात्सञ्चयाघगां
मुनिसतीं वरां पादुकोद्धृतम् ।
निरतभाविनां पापनाशकं
नरहरिं भजे धर्मपूर्विभुम् ॥ ६॥
विहितपापधिं कालकालगं
हरिरितीरितं निर्मलङ्करम् ।
यदियमुच्यतेऽजामिळादिना
नरहरिं भजे धर्मपूर्विभुम् ॥ ७॥
निगमरक्षणे मत्स्यकायिनं
अमृतसाधने कूर्मवेषिनम् ।
अवनिपालने श्रीवराहकं
नरहरिं भजे धर्मपूर्विभुम् ॥ ८॥
दनुजमारणे सैंहिकाननं
बलिविमर्दने वामनाकृतिम् ।
कुपतिभञ्जने भार्गवद्विजं
नरहरिं भजे धर्मपूर्विभुम् ॥ ९॥
रघुकुलोद्भवं रावणान्तकं
द्रुपदजावने कृष्णरूपिणम् ।
शमनसाधने बुद्धरूपिणं
नरहरिं भजेधर्मपूर्विभुम् ॥ १०॥
कलिविमर्दने कल्किदेहिनं
अभयरूपिणं आश्रिताश्रयम् ।
नतमुखोऽस्म्यहं नैकधाकृतिं
नरहरिं भजेधर्मपूर्विभुम् ॥ ११॥
Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana
Proofread by Koride Vishwanatha Sharma.